क्अ इइइ,४०८।११-४०९।२ रो व्,४००-४०१ अञ्चेः नत्वे व्यक्तप्रतिषेधः । अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः । व्यक्तम् अनृतम् कथयति इति । अञ्जिविज्ञानात् सिद्धम् । न एतत् अञ्चेः रूपम् । अञ्जेः एतत् रूपम् । अञ्चत्यर्थः वै गम्यते । कः पुनः अञ्चत्यर्थः । अञ्चतिः प्रकाशने वर्तते । अञ्चितम् गच्छति । प्रकाशयति आत्मानम् इति गम्यते । न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते । किम् तर्हि । समाधानम् गम्यते । समाहितः भूत्वा गच्छति इति । एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् । अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते । अञ्चत्यर्थः इति चेत् अञ्जेः तदर्थत्वात् सिद्धम् । अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथम् अञ्जिः अञ्चत्यर्थे वर्तते । अनेकार्थाः अपि धातवः भवन्ति । अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते । अस्ति इति आह । अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् । अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति । तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् । यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् । अन्वर्थम् खलु अपि निर्वचनम् । व्यज्यते अनेन इति व्यञ्जनम् इति ।
KA III,408.11-409.2 Ro V,400-401 añceḥ natve vyaktapratiṣedhaḥ . añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ . vyaktam anṛtam kathayati iti . añjivijñānāt siddham . na etat añceḥ rūpam . añjeḥ etat rūpam . añcatyarthaḥ vai gamyate . kaḥ punaḥ añcatyarthaḥ . añcatiḥ prakāśane vartate . añcitam gacchati . prakāśayati ātmānam iti gamyate . na vai loke añcitam gacchati iti prakāśanam gamyate . kim tarhi . samādhānam gamyate . samāhitaḥ bhūtvā gacchati iti . evam tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam . aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante . añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham . añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . katham añjiḥ añcatyarthe vartate . anekārthāḥ api dhātavaḥ bhavanti . asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate . asti iti āha . añjeḥ añjanam añjanam ca prakāśanam . aṅkteṣiṇī iti ucyate yat tat sitam ca asitam ca etat prakāśayati . tathā añjeḥ vyañjanam vyañjanam ca prakāśanam . yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin ātmani vyavasthāpanam saḥ rāgaḥ tat vyañjanam . anvartham khalu api nirvacanam . vyajyate anena iti vyañjanam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.