क्अ इइइ,४२५।९-२३ रो व्,४३४-४३५ ढलोपे अपदान्तग्रहणम् । ढलोपे अपदान्तग्रहणम् कर्तव्यम् । इह मा भूत् । श्वलिट् ढौकते । गुडलिट् ढौकते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । जश्त्वम् अत्र बाधकम् भविष्यति । जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः । जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते । कस्य । जश्त्वस्य । तस्मात् सिद्धवचनम् । तस्मात् सिद्धत्वम् वक्तव्यम् । कस्य । ष्टुत्वस्य । सङ्ग्रहणम् वा । सङ्ग्रहणम् वा कर्तव्यम् । सङि ढः इति वक्तव्यम् । तत्तर्हि वक्तव्यम् । न वक्तव्यम् । आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति । क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।
KA III,425.9-23 Ro V,434-435 ḍhalope apadāntagrahaṇam . ḍhalope apadāntagrahaṇam kartavyam . iha mā bhūt . śvaliṭ ḍhaukate . guḍaliṭ ḍhaukate . tat tarhi vaktavyam . na vaktavyam . jaśtvam atra bādhakam bhaviṣyati . jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt apavādaprasaṅgaḥ . jaśbhāvāt iti cet uttaratra ḍhakārasya abhāvāt asiddhatvāt apavādaḥ ayam vijñāyate . kasya . jaśtvasya . tasmāt siddhavacanam . tasmāt siddhatvam vaktavyam . kasya . ṣṭutvasya . saṅgrahaṇam vā . saṅgrahaṇam vā kartavyam . saṅi ḍhaḥ iti vaktavyam . tattarhi vaktavyam . na vaktavyam . ānantaryam iha āśrīyate ḍhakārasya ḍhakāre iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit ca na eva sannipātakṛtam na api śāstrakṛtam . ṣṭutve sannipātakṛtam ānantaryam jaśtve na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.