क्अ इइइ,४३८।२०-४३९।९ रो व्,४६५-४६६ नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः । नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः । निंस्से निंस्स्व इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति । तत् यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । एवम् तर्हि । योगविभागात् सिद्धम् । योगविभागः करिष्यते । नुम्व्यवाये । ततः विसर्जनीयव्यवाये । ततः शर्व्यवाये । सः तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । प्रत्येकम् व्यवायशब्दः परिसमाप्यते ।
KA III,438.20-439.9 Ro V,465-466 numvisarjanīyaśarvyavāye niṃseḥ pratiṣedhaḥ . numvisarjanīyaśarvyavāye niṃseḥ pratiṣedaḥ vaktavyaḥ . niṃsse niṃssva iti . tat tarhi vaktavyam . na vaktavyam . numā eva vyavāye visarjanīyena eva vyavāye śarā eva vyavāye iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ . tat yathā . gargāḥ śatam daṇḍyantām . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . evam tarhi . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . numvyavāye . tataḥ visarjanīyavyavāye . tataḥ śarvyavāye . saḥ tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . pratyekam vyavāyaśabdaḥ parisamāpyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.