क्अ इइइ,४४२।९-२१ रो व्,४७३-४७४ उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् । उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् । निःषुणोति निःषिञ्चति । किम् पुनः कारणम् न सिध्यति । अनिणन्तत्वात् । इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः । न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च । न वा वक्तव्यम् । किम् कारणम् । वर्णाश्रयत्वात् षत्वस्य । वर्णाश्रयम् षत्वम् । तद्विशेषकः उपसर्गः धातुः च । न एवम् विज्ञायते इणन्तात् उपसर्गात् इति । कथम् तर्हि । इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति । तत्र शर्व्यवाये इति एव सिद्धम् । यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति । तत्र कः दोषः । इह अपि प्राप्नोति । विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः । धातूपसर्गयोः च अभिसम्बन्धः कृतः । कथम् । सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति ।
KA III,442.9-21 Ro V,473-474 upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt . upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam . niḥṣuṇoti niḥṣiñcati . kim punaḥ kāraṇam na sidhyati . aniṇantatvāt . iṇantāt upasargāt ṣatvam ucyate na ca nis* iṇantaḥ . na vā varṇāśrayatvāt ṣatvasya tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na vā vaktavyam . kim kāraṇam . varṇāśrayatvāt ṣatvasya . varṇāśrayam ṣatvam . tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na evam vijñāyate iṇantāt upasargāt iti . katham tarhi . iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya saḥ cet sakāraḥ sunotyādīnām iti . tatra śarvyavāye iti eva siddham . yadi evam dhātūpasargayoḥ abhisambandhaḥ akṛtaḥ bhavati . tatra kaḥ doṣaḥ . iha api prāpnoti . vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ . dhātūpasargayoḥ ca abhisambandhaḥ kṛtaḥ . katham . sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ tasya yaḥ iṇ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.