क्अ इइइ,४५२।२१-४५३।८ रो व्,४९०-४९१ अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः । अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः । आदर्शेन अक्षदर्शेन । न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः । किम् कारणम् । अन्येन व्यपेतत्वात् । अन्येन अत्र व्यवायः । यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति । अटा एव व्यवाये भवति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अड्ग्रहणसामर्थ्यात् । यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् । व्यवाये नः णः भवति इति एव ब्रूयात् । अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् । किम् । यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् । कृत्स्नम् मृत्स्ना इति । यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात् ।
KA III,452.21-453.8 Ro V,490-491 aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ . aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ . ādarśena akṣadarśena . na vā anyena vyapetatvāt . na vā vaktavyaḥ . kim kāraṇam . anyena vyapetatvāt . anyena atra vyavāyaḥ . yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti . aṭā eva vyavāye bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . aḍgrahaṇasāmarthyāt . yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt . vyavāye naḥ ṇaḥ bhavati iti eva brūyāt . asti anyat aḍgrahaṇasya prayojanam . kim . yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt . kṛtsnam mṛtsnā iti . yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.