क्अ इइइ,४५३।९-१७ रो व्,४९१ तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र । तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः । अर्केण अर्घेण । यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । क्व अन्यत्र । नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति । किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति । तत् यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । यदि एवम् एकेन व्यवाये न प्राप्नोति । किरिणा रिरिणा इति । उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते । तत् यथा । गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च ।
KA III,453.9-17 Ro V,491 tatsamudāye ṇatvāprasiddhiḥ yathā anyatra . tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ . arkeṇa argheṇa . yathā anyatra api vyavāyasamudāye kāryam na bhavati . kva anyatra . numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti . kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . yadi evam ekena vyavāye na prāpnoti . kiriṇā ririṇā iti . ubhayathā api vākyaparisamāptiḥ dṛśyate . tat yathā . gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.