Library·Visnusarma: Pancatantra·1

Visnusarma: Pancatantra 1

फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः । दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव

phalārthī nṛpatir lokān pālayed yatnam āsthitaḥ | dāna-mānādi-toyena mālākāro 'ṅkurān iva

Sanskrit only: no published translation is held for this verse.

नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्न् अपि । आन्तर-स्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित्

nṛpa-dīpo dhana-snehaṃ prajābhyaḥ saṃharann api | āntara-sthair guṇaiḥ śubhrair lakṣyate naiva kenacit

Sanskrit only: no published translation is held for this verse.

यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्प-फल-प्रदा

yathā gaur duhyate kāle pālyate ca tathā prajāḥ | sicyate cīyate caiva latā puṣpa-phala-pradā

Sanskrit only: no published translation is held for this verse.

यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः

yathā bījāṅkuraḥ sūkṣmaḥ prayatnenābhirakṣitaḥ | phala-prado bhavet kāle tadval lokaḥ surakṣitaḥ

Sanskrit only: no published translation is held for this verse.

हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः

hiraṇya-dhānya-ratnāni yānāni vividhāni ca | tathānyad api yat kiñcit prajābhyaḥ syān mahīpateḥ

Sanskrit only: no published translation is held for this verse.

लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्क्षयाच् चैव क्षयं यान्ति न संशयः

lokānugraha-kartāraḥ pravardhante nareśvarāḥ | lokānāṃ saṅkṣayāc caiva kṣayaṃ yānti na saṃśayaḥ

Sanskrit only: no published translation is held for this verse.

अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह-अहो सत्यम् अभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वान् अपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटन्ति । एकश् च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते । अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितो ऽनिच्छन्न् अपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद् भाव्य उपायो ऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि । अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहो ऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिन्तयत्-अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस् तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह-रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तो ऽपरतो वेलातिक्रमेण । तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलान्य् अपि मृग-कुलान्य् उच्छेदयिष्यामि । अथ शशकः स-विनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच् छ्य्रूतां कारणम् । सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति । शशक आह-स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततो ऽहं पञ्च-शशकैः समं प्रेषितः । ततश् चाहम् आगच्छेन्न् अन्तराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत । ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः । ततस् तेनाभिहितम्-यद्य् एवं तर्हि मदीयम् एतद्-वनम् । मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सो ऽत्र राजा । विश्वास-स्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति । ततो ऽहं तेनादिष्टः स्वामि-सकाशम् अभ्यागतः । एतद् वेला व्यतिक्रम-कारणम् । तद् अत्र स्वामी प्रमाणम् । तच् छ्रुत्वा भासुरक आह-भद्र, यद्य् एवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् । नास्त्य् एकम् अपि यद्य् एषां न तं कुर्यात् कथञ्चन

atha teṣāṃ tad-vacanam ākarṇya bhāsuraka āha-aho satyam abhihitaṃ bhavadbhiḥ | paraṃ yadi mamopaviṣṭasyātra nityam eva naikaḥ śvāpadaḥ samāgamiṣyati | tan nūnaṃ sarvān api bhakṣayiṣyāmi | atha te tathaiva pratijñāya nirvṛti-bhājas tatraiva vane nirbhayāḥ paryaṭanti | ekaś ca pratidinaṃ krameṇa yāti | vṛddho vā, vairāgya-yukto vā, śoka-grasto vā, putra-kalatra-nāśa-bhīto vā, teṣāṃ madhyāt tasya bhojanārthaṃ madhyāhna-samaya upatiṣṭhate | atha kadācij jāti-kramāc chaśakasyāvasaraḥ samāyātaḥ | sa samasta-mṛgaiḥ prerito 'nicchann api mandaṃ mandaṃ gatvā tasya vadhopāyaṃ cintayan velātikramaṃ kṛtvāvyākulita-hṛdayo yāvad gacchati tāvan-mārge gacchatā kūpaḥ sandṛṣṭaḥ | yāvat kūpopari pāti tāvat kūpa-madhya ātmanaḥ pratibimbaṃ dadarśa | dṛṣṭvā ca tena hṛdaye cintitam-yad bhāvya upāyo 'sti | ahaṃ bhāsurakaṃ prakopya sva-buddhyāsmin kūpe pātayiṣyāmi | athāsau dina-śeṣe bhāsuraka-samīpaṃ prāptaḥ | siṃho 'pi velātikrameṇa kṣutkṣāma-kaṇṭhaḥ kopāviṣṭaḥ sṛkkaṇī parilelihad vyacintayat-aho ! pratār-āhārāya niḥsattvaṃ vanaṃ mayā kartavyam | evaṃ cintayatas tasya śaśako mandaṃ mandaṃ gatvā praṇamya tasyāgre sthitaḥ | atha taṃ prajvalitātmā bhāsurako bhartsayann āha-re śaśakādhama ekas tāvat tvaṃ laghuḥ prāpto 'parato velātikrameṇa | tad asmād aparādhāt tvāṃ nipātya prātaḥ sakalāny api mṛga-kulāny ucchedayiṣyāmi | atha śaśakaḥ sa-vinayaṃ provāca-svāmin ! nāparādho mama | na ca sattvānām | tac chyrūtāṃ kāraṇam | siṃha āha-satvaraṃ nivedaya yāvan mama daṃṣṭrāntargato na bhavān bhaviṣyati iti | śaśaka āha-svāmin, samasta-mṛgair adya jāti-krameṇa mama laghutarasya prastāvaṃ vijñāya tato 'haṃ pañca-śaśakaiḥ samaṃ preṣitaḥ | tataś cāham āgacchenn antarāle mahatā kenacid apareṇa siṃhena vivarān nirgatyābhihitaḥ-abhīṣṭa-devatāṃ smarata | tato mayābhihitam-vayaṃ svāminon bhāsuraka-siṃhasya sakāśam āhārārthaṃ samaya-dharmeṇa gacchāmaḥ | tatas tenābhihitam-yady evaṃ tarhi madīyam etad-vanam | mayā saha samaya-dharmeṇa samastair api śvāpadair vartitavyam | cora-rūpī sa bhāsurakaḥ | atha yadi so 'tra rājā | viśvāsa-sthāne caturaḥ śaśakān atra dhṛtvā tam āhūya drutataram āgaccha | yena yaḥ kaścid āvayor madhyāt parākrameṇa rājā bhaviṣyati sa sarvān etān bhakṣayiṣyati iti | tato 'haṃ tenādiṣṭaḥ svāmi-sakāśam abhyāgataḥ | etad velā vyatikrama-kāraṇam | tad atra svāmī pramāṇam | tac chrutvā bhāsuraka āha-bhadra, yady evaṃ tat satvaraṃ darśaya me taṃ caura-siṃhaḥ yenāhaṃ mṛga-kopaṃ tasyopari kṣiptvā svastho bhavāmi | uktaṃ ca- bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phala-trayam | nāsty ekam api yady eṣāṃ na taṃ kuryāt kathañcana

Sanskrit only: no published translation is held for this verse.

यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः । न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत्

yatra na syāt phalaṃ bhūri yatra casyāt parābhavaḥ | na tatra matimān yuddhaṃ samutpādya samācaret

Sanskrit only: no published translation is held for this verse.

शशाक आह-स्वामिन् ! सत्यम् इदम् । स्व-भूमि-हेतोः परिभवाच् च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥पन्च् १।२५१॥ शतम् एको ऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद् दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥पन्च् १।२५२॥ पुरा गुरोः समादेशाद्द् हिरण्यकशिपोर् भयात् । शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः ॥पन्च् १।२५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥पन्च् १।२५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः

śaśāka āha-svāmin ! satyam idam | sva-bhūmi-hetoḥ paribhavāc ca yudhyante kṣatriyāḥ | paraṃ sa durgāśrayaḥ durgān niṣkramya vayaṃ tena viṣkambhitāḥ | tato durgastho duḥsadhyo bhavati ripuḥ | uktaṃ ca- na gajānāṃ sahasreṇa na ca lakṣeṇa vājinām | yat kṛtyaṃ sidhyati rājñāṃ durgeṇaikena vigrahe ||Panc 1.251|| śatam eko 'pi saṃdhatte prākārastho dhanurdharaḥ | tasmād durgaṃ praśaṃsanti nītiśāstravicakṣaṇāḥ ||Panc 1.252|| purā guroḥ samādeśādd hiraṇyakaśipor bhayāt | śakreṇa vihitaṃ durgaṃ prabhāvād viśvakarmaṇaḥ ||Panc 1.253|| tenāpi ca varo datto yasya durgaṃ sa bhūpatiḥ | vijayī syāt tato bhūmau durgāṇi syuḥ sahasraśaḥ ||Panc 1.254|| daṃṣṭrāvirahito nāgo madahīno yathā gajaḥ | sarveṣāṃ jāyate vaśyo durgahīnas tathā nṛpaḥ

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा भासुरक आह । भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च- जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते

tac chrutvā bhāsuraka āha | bhadra durgastham api darśaya taṃ caura-siṃhaṃ yena vyāpādayāmi | uktaṃ ca- jāta-mātraṃ na yaḥ śatruṃ rogaṃ ca praśamaṃ nayet | mahābalo 'pi tenaiva vṛddhiṃ prāpya sa hanyate

Sanskrit only: no published translation is held for this verse.

तथा च- उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यम् इच्छता । समौ हि शिष्टैर् आम्नातौ वर्त्स्यन्ताव् आमयः स च

tathā ca- uttiṣṭhamānas tu paro nopekṣyaḥ pathyam icchatā | samau hi śiṣṭair āmnātau vartsyantāv āmayaḥ sa ca

Sanskrit only: no published translation is held for this verse.

अपि च- उपेक्षितः क्षीण-बलो ऽपि शत्रुः प्रमाद-दोषात् पुरुषैर् मदान्धैः । साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव् असाध्यतां व्याधिर् इव प्रयाति

api ca- upekṣitaḥ kṣīṇa-balo 'pi śatruḥ pramāda-doṣāt puruṣair madāndhaiḥ | sādhyo 'pi bhūtvā prathamaṃ tato 'sāv asādhyatāṃ vyādhir iva prayāti

Sanskrit only: no published translation is held for this verse.

तथा च- आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एको ऽपि क्षत्रियान् भार्गवो यथा

tathā ca- ātmanaḥ śaktim udvīkṣya manotsāhaṃ ca yo vrajet | bahūn hanti sa eko 'pi kṣatriyān bhārgavo yathā

Sanskrit only: no published translation is held for this verse.

शशक आह-अस्त्य् एतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गन्तुम् । उक्तं च- अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥पन्च् १।२६०॥ यो बलात् प्रोन्नतं याति निहन्तुं सबलो ऽप्य् अरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा

śaśaka āha-asty etat | tathāpi balavān sa mayā dṛṣṭaḥ | tan na yujyate svāminas tasya tasya sāmarthyam aviditvā gantum | uktaṃ ca- aviditvātmanaḥ śaktiṃ parasya ca samutsukaḥ | gacchann abhimukho vahnau nāśaṃ yāti pataṅgavat ||Panc 1.260|| yo balāt pronnataṃ yāti nihantuṃ sabalo 'py arim | vimadaḥ sa nivarteta śīrṇa-danto gajo yathā

Sanskrit only: no published translation is held for this verse.

भासुरक आह-भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम् अपि । अथ शशक आह-यद्य् एवं तर्ह्य् आगच्छतु स्वामी । एवम् उक्त्वाग्रे व्यवस्थितः । ततश् च तेनागच्छता यः कूपो दृष्टो ऽभूत् तम् एव कूपम् आसाद्य भासुरकम् आह-स्वामिन् कस् ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतो ऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तद् आगच्छ यथा दर्शयामीति । भासुरक आह-दर्शय मे दुर्गम् । तद् अनु दर्शितस् तेन कूपः । ततः सो ऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः । अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशको ऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतो ऽहं ब्रवीमि-यस्य बुद्धिर् बलं तस्य इति । तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि । करटक आह-भद्र ! यद्य् एवं तर्हि गच्छ । शिवास् ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम् । अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकम् अवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलको ऽपि तम् आह-भद्र, किं चिराद् दृष्टः ? दमनक आह-न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशम् अवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम् । उक्तं च- प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् । अपृष्टो ऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम्

bhāsuraka āha-bhoḥ kiṃ tavānena vyāpāreṇa | darśaya me taṃ durgastham api | atha śaśaka āha-yady evaṃ tarhy āgacchatu svāmī | evam uktvāgre vyavasthitaḥ | tataś ca tenāgacchatā yaḥ kūpo dṛṣṭo 'bhūt tam eva kūpam āsādya bhāsurakam āha-svāmin kas te pratāpaṃ soḍhuṃ samarthaḥ ? tvāṃ dṛṣṭvā dūrato 'pi caura-siṃhaḥ praviṣṭaḥ svaṃ durgam | tad āgaccha yathā darśayāmīti | bhāsuraka āha-darśaya me durgam | tad anu darśitas tena kūpaḥ | tataḥ so 'pi mūrkhaḥ siṃhaḥ kūpa-madhya ātma-pratibimbaṃ jala-madhya-gataṃ dṛṣṭvā siṃha-nādaṃ mumoca | tataḥ pratiśabdena kūpa-madhyād dvi-guṇataro nādaḥ samutthitaḥ | atha tena taṃ śatruṃ matvātmānaṃ tasyopari prakṣipya prāṇāḥ parityaktāḥ | śaśako 'pi hṛṣṭa-manāḥ sarva-mṛgān ānandya taiḥ saha praśasyamāno yathā-sukhaṃ tatra vane nivasati sma | ato 'haṃ bravīmi-yasya buddhir balaṃ tasya iti | tad yadi bhavān kathayati tat tatraiva gatvā tayoḥ sva-buddhi-prabhāveṇa maitrī-bhedaṃ karomi | karaṭaka āha-bhadra ! yady evaṃ tarhi gaccha | śivās te panthānaḥ santu | yathābhipretam anuṣṭhīyatām | atha damanakaḥ sañjīvaka-viyuktaṃ piṅgalakam avalokya tatrāntare praṇamyāgre samupaviṣṭaḥ | piṅgalako 'pi tam āha-bhadra, kiṃ cirād dṛṣṭaḥ ? damanaka āha-na kañcid deva-pādānām asmābhiḥ prayojanam | tenāhaṃ nāgacchāmi | tathāpi rāja-prayojana-vināśam avalokya sandahyamāna-hṛdayo vyākulatayā svayam evābhyāgato vaktum | uktaṃ ca- priyaṃ vā yadi vā dveṣyaṃ śubhaṃ vā yadi vāśubham | apṛṣṭo 'pi hitaṃ vakṣyed yasya necchet parābhavam

Sanskrit only: no published translation is held for this verse.

अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिङ्गलक आह-किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयम् अस्ति । स प्राह-देव सञ्जीवको युष्मत्-पादानाम् उपरि द्रोह-बुद्धिर् इति । विश्वास-गतस्य मम विजने इदम् आह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलको ऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान् । दमनको ऽपि तस्य तम् आकारम् आलोक्य चिन्तितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनम् अनेन मन्त्रिणा राजा विनाशम् अवाप्स्यति इति । उक्तं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति

atha tasya sābhiprāyaṃ vacanam ākarṇya piṅgalaka āha-kiṃ vaktu-manā bhavān ? tat kathyatāṃ yat kathanīyam asti | sa prāha-deva sañjīvako yuṣmat-pādānām upari droha-buddhir iti | viśvāsa-gatasya mama vijane idam āha-bho damanaka ! dṛṣṭā mayāsya piṅgalakasya sārāsāratā | tad aham enaṃ hatvā sakala-mṛgādhipatyaṃ tvat-sācivya-padavī-samanvitaṃ kariṣyāmi | piṅgalako 'pi tad-vajra-sāra-prahāra-sadṛśaṃ dāruṇaṃ vacaḥ samākarṇya moham upagato na kiñcid apy uktavān | damanako 'pi tasya tam ākāram ālokya cintitavān-ayaṃ tāvat sañjīvaka-nibaddha-rāgaḥ | tan nūnam anena mantriṇā rājā vināśam avāpsyati iti | uktaṃ ca- ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc chrayate madaḥ sa ca madād dāsyena nirvidyate | nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati

Sanskrit only: no published translation is held for this verse.

तत् किम् अत्र युक्तम् इति । पिङ्गलको ऽपि चेतनां समासाद्य कथम् अपि तम् आह-सञ्जीवकस् तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति । दमनक आह-देव, भृत्यो ऽभृत्य इत्य् अनेकान्तिकम् एतत् । उक्तं च- न सो ऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते

tat kim atra yuktam iti | piṅgalako 'pi cetanāṃ samāsādya katham api tam āha-sañjīvakas tāvat prāṇa-samo bhṛtyaḥ | sa kathaṃ mamopari droha-buddhiṃ karoti | damanaka āha-deva, bhṛtyo 'bhṛtya ity anekāntikam etat | uktaṃ ca- na so 'sti puruṣo rājñāṃ yo na kāmayate śriyam | aśaktā eva sarvatra narendraṃ paryupāsate

Sanskrit only: no published translation is held for this verse.

पिङ्गलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति । अथवा साध्व् इदम् उच्यते- अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः । कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः

piṅgalaka āha-bhadra, tathāpi mama tasyopari citta-vṛttir na vikṛtiṃ yāti | athavā sādhv idam ucyate- aneka-doṣa-duṣṭasya kāyaḥ kasya na vallabhaḥ | kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ

Sanskrit only: no published translation is held for this verse.

दमनक आह-अत एवायं दोषः । उक्तं च- यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः

damanaka āha-ata evāyaṃ doṣaḥ | uktaṃ ca- yasminn evādhikaṃ cakṣur āropayati pārthivaḥ | akulīnaḥ kulīno vā sa śriyā bhājanaṃ naraḥ

Sanskrit only: no published translation is held for this verse.

अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति । अथ देव, यद्य् एवं चिन्तयसि महा-कायो ऽयम् । अनेन रिपून् व्यापादयिष्यामि । तद् अस्मान् न सिध्यति, यतो ऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनम् अस्य साहाय्येन न भवति । तस्माद् एनं दूषयित्वा हन्यताम् इति । पिङ्गलक आह- उक्तो भवति यः पूर्वं गुणवान् इति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा

aparaṃ kena gaṇa-viśeṣeṇa svāmī sañjīvakaṃ nirguṇakam api nikaṭe dhārayati | atha deva, yady evaṃ cintayasi mahā-kāyo 'yam | anena ripūn vyāpādayiṣyāmi | tad asmān na sidhyati, yato 'yaṃ śaṣpa-bhojī | deva-pādānāṃ punaḥ śatravo māṃsāśinaḥ | tad-ripu-sādhanam asya sāhāyyena na bhavati | tasmād enaṃ dūṣayitvā hanyatām iti | piṅgalaka āha- ukto bhavati yaḥ pūrvaṃ guṇavān iti saṃsadi | tasya doṣo na vaktavyaḥ pratijñā-bhaṅga-bhīruṇā

Sanskrit only: no published translation is held for this verse.

अन्यच् च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयम् एव व्यापादयामि । सर्वथा सञ्जीवको ऽयं सुहृद् अस्माकम् । न तं प्रति कश्चिन् मन्युर् इति । उक्तं च- इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् । विष-वृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम्

anyac ca | mayāsya tava vacanenābhaya-pradānaṃ dattam | tat kathaṃ svayam eva vyāpādayāmi | sarvathā sañjīvako 'yaṃ suhṛd asmākam | na taṃ prati kaścin manyur iti | uktaṃ ca- itaḥ sa daityaḥ prāpta-śrīr neta evārhati kṣayam | viṣa-vṛkṣo 'pi saṃvardhya svayaṃ chettum asāmpratam

Sanskrit only: no published translation is held for this verse.

आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तो ऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां भूमौ स्थितस्य पतनाद् भयम् एव नास्ति

ādau na vā praṇayināṃ praṇayo vidheyo datto 'thavā pratidinaṃ paripoṣaṇīyaḥ | utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayam eva nāsti

Sanskrit only: no published translation is held for this verse.

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ | apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate

Sanskrit only: no published translation is held for this verse.

तद्-द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम् । दमनक आह-स्वामिन् ! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते । उक्तं च- तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते

tad-droha-buddher api mayāsya na viruddham ācaraṇīyam | damanaka āha-svāmin ! naiṣa rāja-dharmo yad droha-buddhir api kṣamyate | uktaṃ ca- tulyārthaṃ tulya-sāmarthyaṃ marmajñaṃ vyavasāyinam | ardha-rājya-haraṃ bhṛtyaṃ yo na hanyāt sa hanyate

Sanskrit only: no published translation is held for this verse.

अपरं त्वयास्य सखित्वात् सर्वो ऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वो ऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम् । यद्-रहितास् त्वां त्यक्त्वा यास्यन्ति । ततो ऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति । उक्तं च- यादृशैः सेव्यते भृत्यैर् यादृशांश् चोपसेवते । कदाचिन् नात्र सन्देहस् तादृग् भवति पूरुषः

aparaṃ tvayāsya sakhitvāt sarvo 'pi rāja-dharmaḥ parityaktaḥ rāja-dharmābhāvāt sarvo 'pi parijano viraktiṃ gataḥ | yaḥ sañjīvakaḥ śaṣpa-bhojī | bhavān māṃsādaḥ | tava prakṛtayaś ca yat tavāvadhyavyasāya-bāhyaṃ kutas tāsāṃ māṃsāśanam | yad-rahitās tvāṃ tyaktvā yāsyanti | tato 'pi tvaṃ vinaṣṭa eva | asya saṅgatyā punas te na kadācid ākheṭake matir bhaviṣyati | uktaṃ ca- yādṛśaiḥ sevyate bhṛtyair yādṛśāṃś copasevate | kadācin nātra sandehas tādṛg bhavati pūruṣaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते । स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते

tathā ca- santaptāyasi saṃsthitasya payaso nāmāpi na jñāyate mukta-kāratayā tad eva nalinī-patra-sthitaṃ rājate | svātau sāgara-śukti-kukṣi-patitaṃ taj jāyate mauktikaṃ prāyeṇādhama-madhyamottama-guṇaḥ saṃvāsato jāyate

Sanskrit only: no published translation is held for this verse.

तथा च- असतां सङ्ग-दोषेण सती याति मतिर् भ्रमम् । एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम्

tathā ca- asatāṃ saṅga-doṣeṇa satī yāti matir bhramam | eka-rātri-pravāsena kāṣṭhaṃ muñje pralambitam

Sanskrit only: no published translation is held for this verse.

अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च- न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः । मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी

ata eva santo nīca-saṅgaṃ varjayanti | uktaṃ ca- na hy avijñāta-śīlasya pradātavyaḥ pratiśrayaḥ | mat-kuṇasya ca doṣeṇa hatā manda-visarpiṇī

Sanskrit only: no published translation is held for this verse.

पिङ्गलक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा ९ मन्द-विसर्पिणी-नाम-यूका-कथा अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भो ऽग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः । तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति । स आह-भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम् । उक्तं च- एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा

piṅgalaka āha--katham etat ? so 'bravīt- kathā 9 manda-visarpiṇī-nāma-yūkā-kathā asti kasyacin mahīpater manoramaṃ śayana-sthānam | tatra śvetatara-paṭa-yugala-madhya-saṃsthitā manda-visarpiṇī yūkā prativasati sma | sā ca tasya mahīpate raktam āsvādayantī sukhena kālaṃ nayamānā tiṣṭhati | anye-dyuś ca tatra śayane kvacid bhrāmyann agnimukho nāma matkuṇaḥ samāyātaḥ | atha taṃ dṛṣṭvā sā viṣaṇṇa-vadanā provāca | bho 'gnimukha kutas tvam atrānucita-sthāne samāyātaḥ | tad yāvan na kaścid vetti tāvac chīghraṃ gamyatām iti | sa āha-bhagavati gṛhāgatasyāsādhor api naitad yujyate vaktum | uktaṃ ca- ehy āgaccha samāviśāsanam idaṃ kasmāc cirād dṛśyase kā vārteti sudurbalo 'si kuśalaṃ prīto 'smi te darśanāt | evaṃ ye samupāgatān praṇayinaḥ pratyālapanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā

Sanskrit only: no published translation is held for this verse.

अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च- रङ्कस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः

aparaṃ mayāneka-mānuṣāṇām aneka-vidhāni rudhirāṇy āsvāditāny āhāra-doṣāt kaṭu-tikta-kaṣāyāmla-rasāsvādāni na ca kadācin madhura-raktaṃ samāsvāditam | tad yadi tvaṃ prasādaṃ karoṣi tad asya nṛpater vividha-vyañjanānna-pāna-coṣya-lehya-svādv-āhāra-vaśād asya śarīre yan miṣṭaṃ raktaṃ saṃjātaṃ tad-āsvādanena saukhyaṃ sampādayāmi jihvāyā iti | uktaṃ ca- raṅkasya nṛpater vāpi jihvā-saukhyaṃ samaṃ smṛtam | tan-mātraṃ ca smṛtaṃ sāraṃ tad-arthaṃ yatate janaḥ

Sanskrit only: no published translation is held for this verse.

यद्य् एव न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगो ऽथ वा ॥पन्च् १।२७८॥ यद् असत्यं वदेन् मर्त्यो यद् वासेव्यं च सेवते । यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः

yady eva na bhavel loke karma jihvā-pratuṣṭidam | tan na bhṛtyo bhavet kaścit kasyacid vaśago 'tha vā ||Panc 1.278|| yad asatyaṃ vaden martyo yad vāsevyaṃ ca sevate | yad gacchati videśaṃ ca tat sarvam udarārthataḥ

Sanskrit only: no published translation is held for this verse.

तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद् भोजनम् अर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते । तच् छ्रुत्वा मन्दविसर्पिण्य् आह-भो मत्कुण ! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि । पुनस् त्वम् अग्निमुखश् चपलश् च-तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तम् आस्वादय । सो ऽब्रवीत्-भगवत्य् एवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत् । अथ वा साध्व् इदम् उच्यते । स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा । सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम् ॥पन्च् १।२८०॥ यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः । न स्वभावो ऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा

tan mayā gṛhāgatena bubhukṣayā pīḍyamānenāpi tvat-sakāśād bhojanam arthanīyam | tan na tvayaikākinyāsya bhūpate rakta-bhojanaṃ kartuṃ yujyate | tac chrutvā mandavisarpiṇy āha-bho matkuṇa ! asya nṛpater nidrā-vaśaṃ gatasya raktam āsvādayāmi | punas tvam agnimukhaś capalaś ca-tad yadi mayā saha rakta-pānaṃ karoṣi tat tiṣṭha | abhīṣṭatara-raktam āsvādaya | so 'bravīt-bhagavaty evaṃ kariṣyāmi | yāvat tvaṃ nāsvādayasi prathamaṃ nṛpa-raktaṃ tāvan mama deva-guru-kṛtaḥ śapathaḥ syād yadi tad āsvādayāmi | evaṃ tayoḥ parasparaṃ vadatoḥ sa rājā tac-chayanam āsādya prasuptaḥ | athāsau matkuṇo jihvā-laulyotkṛṣṭautsukyāj jāgratam api taṃ mahī-patim adaśat | atha vā sādhv idam ucyate | svabhāvo nopadeśena śakyate kartum anyathā | sutaptam api pānīyaṃ punar gacchati śītatām ||Panc 1.280|| yadi syāc chītalo vahniḥ śītāṃśur dahanātmakaḥ | na svabhāvo 'tra martyānāṃ śakyate kartum anyathā

Sanskrit only: no published translation is held for this verse.

अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः । अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश् चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्य् अपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर् दृष्टा व्यापादिता च । अतो ऽहं ब्रवीमि-न ह्य् अविज्ञात-शीलस्य इति । एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च- त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः । स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः

athāsau mahīpatiḥ sūcy-agra-viddha iva tac-chayanaṃ tyaktvā tat-kṣaṇād evotthitaḥ | aho jñāyatām atra pracchādana-paṭe matkuṇo yūkā vā nūnaṃ tiṣṭhati yenāhaṃ daṣṭa iti | atha ye kañcukinas tatra sthitās te satvaraṃ pracchādana-paṭaṃ gṛhītvā sūkṣma-dṛṣṭyā vīkṣāṃ cakruḥ | atrāntare sa matkuṇaś cāpalyāt khaṭvāntaṃ praviṣṭaḥ sā mandavisarpiṇy api vastra-sandhy-antar-gatā tair dṛṣṭā vyāpāditā ca | ato 'haṃ bravīmi-na hy avijñāta-śīlasya iti | evaṃ jñātvā tvayiṣa vadhyaḥ | no cet tvāṃ vyāpādayiṣyatīti | uktaṃ ca- tyaktāś cābhyantarā yena bāhyāś cābhyantarīkṛtāḥ | sa eva mṛtyum āpnoti yathā rājā kakud-drumaḥ

Sanskrit only: no published translation is held for this verse.

पिङ्गलक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा १० चण्डरव-नाम-शृगाल-कथा अस्ति कस्मिंश्चिद् वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर् भक्षितुम् आरब्धाः । सो ऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम् सज्जीकृतम् आसीत् । तत्र सारमेयैर् आक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस् तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास् तं शृगालम् अजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवो ऽपि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस् त्यज्यते । उक्तं च- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा

piṅgalaka āha--katham etat ? so 'bravīt- kathā 10 caṇḍarava-nāma-śṛgāla-kathā asti kasmiṃścid vanoddeśe caṇḍaravo nāma śṛgālaḥ prativasati sma | sa kadācit kṣudhāviṣṭo jihvā-laulyān nagara-madhye praviṣṭaḥ | atha taṃ nagara-vāsinaḥ sārameyā avalokya sarvataḥ śabdāyamānāḥ paridhāvya tīkṣṇa-daṃṣṭṛāgrair bhakṣitum ārabdhāḥ | so 'pi tair bhakṣyamāṇaḥ prāṇa-bhayāt pratyāsanna-rajaka-gṛhaṃ praviṣṭaḥ | tatra nīlī-rasa-paripūrṇaṃ mahā-bhāṇḍam sajjīkṛtam āsīt | tatra sārameyair ākrānto bhāṇḍa-madhye patitaḥ | atha yāvan niṣkrāntas tāvan nīlī-varṇaḥ sañjātaḥ | tatrāpare sārameyās taṃ śṛgālam ajānanto yathābhīṣṭa-diśaṃ jagmuḥ | caṇḍaravo 'pi dūrataraṃ pradeśam āsādya kānanābhimukhaṃ pratasthe | na ca nīla-varṇena kadācin nija-raṅgas tyajyate | uktaṃ ca- vajra-lepasya mūrkhasya nārīṇāṃ karkaṭasya ca | eko grahas tu mīnānāṃ nīlīmadyapayor yathā

Sanskrit only: no published translation is held for this verse.

अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयो ऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग् विचेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च- न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् । न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः

atha taṃ hara-gala-garala-tamāla-sama-prabham apūrvaṃ sattvam avalokya sarve siṃha-vyāghra-dvīpi-vṛka-prabhṛtayo 'raṇya-nivāsino bhaya-vyākulita-cittāḥ samantāt palāyana-kriyāṃ kurvanti | kathayanti ca-na jñāyate'sya kīdṛg viceṣṭitaṃ pauruṣaṃ ca | tad dūrataraṃ gacchāmaḥ | uktaṃ ca- na yasya ceṣṭitaṃ vidyān na kulaṃ na parākramam | na tasya viśvaset prājño yadīcchec chriyam ātmanaḥ

Sanskrit only: no published translation is held for this verse.

चण्डरवो ऽपि भय-व्याकुलितान् विज्ञायेदम् आह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयम् एव सृष्ट्वाभिहितः-यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततो ऽहम् अत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः । तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस् तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस् ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति । शृगालाः सर्वेऽप्य् अधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सो ऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलो ऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुर् आनन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान् । अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालो ऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयम् अनेन क्षुद्र-शृगालेन । तद् वध्यताम् इति । सो ऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश् च । अतो ऽहं ब्रवीमि-त्यक्ताश् चाभ्यन्तरा येन इति । तद् आकर्ण्य पिङ्गलक आह-भो दमनक ! कः प्रत्ययो ऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः । स आह-यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तद् अत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशो ऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः । सञ्जीवको ऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तम् उद्वीक्ष्य सादरतरम् उवाच-भो मित्र ! स्वागतम् । चिराद् दृष्टो ऽसि । अपि शिवं भवतः । तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च- ते धन्यास् ते विवेक-ज्ञास् ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः

caṇḍaravo 'pi bhaya-vyākulitān vijñāyedam āha-bho bhoḥ śvāpadāḥ ! kiṃ yūyaṃ māṃ dṛṣṭvaiva saṃtrastā vrajatha | tan na bhetavyam | ahaṃ brahmaṇādya svayam eva sṛṣṭvābhihitaḥ-yac chvāpadānāṃ kaścid rājā nāsti, tat tvaṃ mayādya sarva-śvāpada-prabhutve'bhiṣiktaḥ kakud-drumābhidhaḥ | tato gatvā kṣiti-tale tān sarvān paripālayeti | tato 'ham atrāgataḥ | tan mama cchatra-cchāyāyāṃ sarvair api śvāpadair vartitavyam | ahaṃ kakuddrumo nāma rājā trailokye'pi sañjātaḥ | tac chrutvā siṃha-vyāghra-puraḥ-sarāḥ śvāpadāḥ svāmin prabho samādiśeti vadantas taṃ parivavruḥ | atha tena siṃhasyāmātya-padavī pradattā | vyāghrasya śayyā-pālakatvam | dvīpinas tāmbūlādhikāraḥ | vṛkasya dvāra-pālakatvam | ye cātmīyāḥ śṛgālās taiḥ sahālāpa-mātram api na karoti | śṛgālāḥ sarve'py adharma-candraṃ dattvā niḥsāritāḥ | evaṃ tasya rājya-kriyayāṃ vartamānasya te siṃhādayo mṛgān vyāpādya tat-purataḥ prakṣipanti | so 'pi prabhu-dharmeṇa sarveṣāṃ tān pravibhajya prayacchati | evaṃ gacchati kāle kadācit tena samāgatena dūra-deśe śabdāyamānasya śṛgāla-vṛndasya kolāhalo 'śrāvi | taṃ śabdaṃ śrutvā pulakita-tanur ānandāśru-pūrṇa-nayana utthāya tāra-svareṇa virotum ārabdhavān | atha te siṃhādayas taṃ tāra-svaram ākarṇya śṛgālo 'yam iti matvā lajjāyādho-mukhāḥ kṣaṇaṃ sthitvā procuḥ-bhoḥ ! vāhitā vayam anena kṣudra-śṛgālena | tad vadhyatām iti | so 'pi tad ākarṇya palāyitum icchaṃs tatra sthāna eva siṃhādibhiḥ khaṇḍaśaḥ kṛto mṛtaś ca | ato 'haṃ bravīmi-tyaktāś cābhyantarā yena iti | tad ākarṇya piṅgalaka āha-bho damanaka ! kaḥ pratyayo 'tra viṣaye yat sa mamopari duṣṭa-buddhiḥ | sa āha-yad adya mamāgre tena niścayaḥ kṛto yat prabhāte piṅgalakaṃ vadhiṣyāmi | tad atraiva pratyayaḥ | prabhāte'vasara-velāyām ārakta-mukha-nayanaḥ sphuritādharo diśo 'valokayann anucita-sthānopaviṣṭas tvāṃ krūra-dṛṣṭyā vilokayiṣyati | evaṃ jñātvā yad ucitaṃ tat kartavyam | iti kathayitvā sañjīvaka-sakāśaṃ gatas taṃ praṇamyopaviṣṭaḥ | sañjīvako 'pi sodvegākāraṃ manda-gatyā samāyāntaṃ tam udvīkṣya sādarataram uvāca-bho mitra ! svāgatam | cirād dṛṣṭo 'si | api śivaṃ bhavataḥ | tat kathaya yenādeyam api tubhyaṃ gṛhāgatāya prayacchāmi | uktaṃ ca- te dhanyās te viveka-jñās te sabhyā iha bhūtale | āgacchanti gṛhe yeṣāṃ kāryārthaṃ suhṛdo janāḥ

Sanskrit only: no published translation is held for this verse.

दमनक आह-भोः ! कथं शिवं सेवक-जनस्य । सम्पत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम् । स्व-जीवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः

damanaka āha-bhoḥ ! kathaṃ śivaṃ sevaka-janasya | sampattayaḥ parāyattāḥ sadā cittam anirvṛtam | sva-jīvite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ

Sanskrit only: no published translation is held for this verse.

तथा च- सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम्

tathā ca- sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam | svātantryaṃ yac charīrasya mūḍhais tad api hāritam

Sanskrit only: no published translation is held for this verse.

तावज् जन्माति-दुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिर् अहो दुःख-परम्परा

tāvaj janmāti-duḥkhāya tato durgatatā sadā | tatrāpi sevayā vṛttir aho duḥkha-paramparā

Sanskrit only: no published translation is held for this verse.

जीवन्तो ऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः

jīvanto 'pi mṛtāḥ pañca śrūyante kila bhārate | daridro vyādhito mūrkhaḥ pravāsī nitya-sevakaḥ

Sanskrit only: no published translation is held for this verse.

नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवको ऽप्य् अत्र जीवति

nāśnāti svacchayotsukyād vinidro na prabudhyate | na niḥśaṅkaṃ vaco brūte sevako 'py atra jīvati

Sanskrit only: no published translation is held for this verse.

सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात्

sevā śva-vṛttir ākhyātā yais tair mithyā prajalpitam | svacchandaṃ carati svātra sevakaḥ para-śāsanāt

Sanskrit only: no published translation is held for this verse.

भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् । सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः

bhū-śayyā brahmacaryaṃ ca kṛśatvaṃ laghu-bhojanam | sevakasya yater yadvad viśeṣaḥ pāpa-dharmajaḥ

Sanskrit only: no published translation is held for this verse.

शीतातपादि-कष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते

śītātapādi-kaṣṭāni sahate yāni sevakaḥ | dhanāya tāni cālpāni yadi dharmān na mucyate

Sanskrit only: no published translation is held for this verse.

मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया

mṛdunāpi suvṛttena suśliṣṭenāpi hāriṇā | modakenāpi kiṃ tena niṣpattir yasya sevayā

Sanskrit only: no published translation is held for this verse.

सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः ? सो ऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च- यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः । स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत्

sañjīvaka āha-atha bhavān kiṃ vaktu-manāḥ ? so 'bravīt-mitra, sacivānāṃ mantra-bhedaṃ na yujyate | uktaṃ ca- yo mantraṃ svāmino bhidyāt sācivye san-niyojitaḥ | sa hatvā nṛpa-kāryaṃ tat svayaṃ ca narakaṃ vrajet

Sanskrit only: no published translation is held for this verse.

येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्र-वधस् तस्य कृत इत्य् आह नारदः

yena yasya kṛto bhedaḥ sacivena mahīpateḥ | tenāśastra-vadhas tasya kṛta ity āha nāradaḥ

Sanskrit only: no published translation is held for this verse.

तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च । उक्तं च- विश्रम्भाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन । तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः

tathāpi mayā tava sneha-pāśa-baddhena mantra-bhedaḥ kṛtaḥ | yatas tvaṃ mama vacanenātra rāja-kule viśvastaḥ praviṣṭaś ca | uktaṃ ca- viśrambhād yasya yo mṛtyum avāpnoti kathañcana | tasya hatyā tad-utthā sā prāhedaṃ vacanaṃ manuḥ

Sanskrit only: no published translation is held for this verse.

तत् तवोपरि पिङ्गलको ऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि । ततः स मयोक्तः-स्वामिन् ! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च- अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति । तद्-अर्थेन विचीर्णेन न कथञ्चित् सुहृद्-द्रुहः

tat tavopari piṅgalako 'yaṃ duṣṭa-buddhiḥ kathitaṃ cādyānena mat-purataś catuṣkarṇatayā-yat prabhāte sañjīvakaṃ hatvā samasta-mṛga-parivāraṃ cirāt tṛptiṃ neṣyāmi | tataḥ sa mayoktaḥ-svāmin ! na yuktam idaṃ yan mitra-droheṇa jīvanaṃ kriyate | uktaṃ ca- api brahma-vadhaṃ kṛtvā prāyaścittena śudhyati | tad-arthena vicīrṇena na kathañcit suhṛd-druhaḥ

Sanskrit only: no published translation is held for this verse.

ततस् तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः । तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते ? तस्मात् सामादिभिर् उपायैर् हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च- दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैर् अशक्यो यो हते दोषो न विद्यते

tatas tenāhaṃ samarṣeṇoktaḥ-bho duṣṭa-buddhe, sañjīvakas tāvac chaṣpa-bhojī, vayaṃ māṃsāśinaḥ | tad asmākaṃ svābhāvikaṃ vairam iti kathaṃ ripur upekṣyate ? tasmāt sāmādibhir upāyair hanyate | na ca hate tasmin doṣaḥ syāt | uktaṃ ca- dattvāpi kanyakāṃ vairī nihantavyo vipaścitā | anyopāyair aśakyo yo hate doṣo na vidyate

Sanskrit only: no published translation is held for this verse.

कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः

kṛtyākṛtyaṃ na manyeta kṣatriyo yudhi saṅgataḥ | prasupto droṇa-putreṇa dhṛṣṭadyumnaḥ purā hataḥ

Sanskrit only: no published translation is held for this verse.

तद् अहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशम् इहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस् तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहम् उपगतः । अथ चेतनां लब्ध्वा स-वैराग्यम् इदम् आह-भो साध्व् इदम् उच्यते- दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा । कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च

tad ahaṃ tasya niścayaṃ jñātvā tvat-sakāśam ihāgataḥ | sāmprataṃ me nāsti viśvāsa-ghātaka-doṣaḥ | mayā sugupta-mantras tava niveditaḥ | atha yat te pratibhāti tat kuruṣva iti | atha sañjīvakas tasya tadvajra-pāta-dāruṇaṃ vacanaṃ śrutvā moham upagataḥ | atha cetanāṃ labdhvā sa-vairāgyam idam āha-bho sādhv idam ucyate- durjana-gamyā nāryaḥ prāyeṇāsnehavān bhavati rājā | kṛpaṇānusāri ca dhanaṃ megho giri-durga-varṣī ca

Sanskrit only: no published translation is held for this verse.

अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः

ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ | balīvardaḥ sa vijñeyo viṣāṇa-parivarjitaḥ

Sanskrit only: no published translation is held for this verse.

वरं वनं वरं भैक्षं वरं भारोपजीवनम् । वरं व्याधिर् मनुष्याणां नाधिकारेण सम्पदः

varaṃ vanaṃ varaṃ bhaikṣaṃ varaṃ bhāropajīvanam | varaṃ vyādhir manuṣyāṇāṃ nādhikāreṇa sampadaḥ

Sanskrit only: no published translation is held for this verse.

तद् युक्तं मया कृतं तद् अनेन सह मैत्री विहिता । उक्तं च- ययोर् एव समं वित्तं ययोर् एव समं कुलम् । तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः

tad yuktaṃ mayā kṛtaṃ tad anena saha maitrī vihitā | uktaṃ ca- yayor eva samaṃ vittaṃ yayor eva samaṃ kulam | tayor maitrī vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ

Sanskrit only: no published translation is held for this verse.

तथा च- मृगा मृगैः सङ्गम् अनुव्रजन्ति गावश् च गोभिस् तुरगास् तुरगैः । मूर्खाश् च मूर्खैः सुधियः सुधीभिः समान-शील-व्यसनेन सख्यम्

tathā ca- mṛgā mṛgaiḥ saṅgam anuvrajanti gāvaś ca gobhis turagās turagaiḥ | mūrkhāś ca mūrkhaiḥ sudhiyaḥ sudhībhiḥ samāna-śīla-vyasanena sakhyam

Sanskrit only: no published translation is held for this verse.

तद् यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च- निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रशाम्यति । अकारण-द्वेष-परो हि यो भवेत् कथं नरस् तं परितोषयति

tad yadi gatvā taṃ prasādayāmi, tathāpi na prasādaṃ yāsyati | uktaṃ ca- nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame praśāmyati | akāraṇa-dveṣa-paro hi yo bhavet kathaṃ naras taṃ paritoṣayati

Sanskrit only: no published translation is held for this verse.

अहो साधु चेदम् उच्यते- भक्तानाम् उपकारिणां पर-हित-व्यापार-युक्तात्मनां सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानाम् अपि । व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर् भवेद् वा न वा तस्माद् अम्बुपतेर् इवावनि-पतेः सेवा सदा शङ्किनी

aho sādhu cedam ucyate- bhaktānām upakāriṇāṃ para-hita-vyāpāra-yuktātmanāṃ sevā-saṃvyavahāra-tattva-viduṣāṃ droha-cyutānām api | vyāpattiḥ skhalitāntareṣu niyatā siddhir bhaved vā na vā tasmād ambupater ivāvani-pateḥ sevā sadā śaṅkinī

Sanskrit only: no published translation is held for this verse.

तथा च- भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यतां याति लोके साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः

tathā ca- bhāva-snigdhair upakṛtam api dveṣyatāṃ yāti loke sākṣād anyair apakṛtam api prītaye copayāti | durgrāhyatvān nṛpati-manasāṃ naika-bhāvāśrayāṇāṃ sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ

Sanskrit only: no published translation is held for this verse.

तत् परिज्ञातं मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्य् एवं वदति । उक्तं च- प्रभोः प्रसादम् अन्यस्य न सहन्तीह सेवकाः । सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैर् अपि

tat parijñātaṃ mayā mat-prasādam asahamānaiḥ samīpavartibhir eṣa piṅgalakaḥ prakopitaḥ | tenāyaṃ mamādoṣasyāpy evaṃ vadati | uktaṃ ca- prabhoḥ prasādam anyasya na sahantīha sevakāḥ | sapatnya iva saṅkruddhāḥ sapatnyāḥ sukṛtair api

Sanskrit only: no published translation is held for this verse.

भवति चैवं यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च- गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः । रात्रौ दीप-शिखा-कान्तिर् न भानाव् उदिते सति

bhavati caivaṃ yad guṇavatsu samīpa-vartiṣu guṇa-hīnānāṃ na prasādo bhavati | uktaṃ ca- guṇavattara-pātreṇa chādyante guṇināṃ guṇāḥ | rātrau dīpa-śikhā-kāntir na bhānāv udite sati

Sanskrit only: no published translation is held for this verse.

दमनक आह-भो मित्र ! यद्य् एवं तन् नास्ति ते भयम् । प्रकोपितो ऽपि स दुर्जनैस् तव वचन-रचनया प्रसादं यास्यति । स आह-भोः ! न युक्तम् उक्तं भवता । लघूनाम् अपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च- बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा

damanaka āha-bho mitra ! yady evaṃ tan nāsti te bhayam | prakopito 'pi sa durjanais tava vacana-racanayā prasādaṃ yāsyati | sa āha-bhoḥ ! na yuktam uktaṃ bhavatā | laghūnām api durjanānāṃ madhye vastuṃ na śakyate | upāyāntaraṃ vidhāya te nūnaṃ ghnanti | uktaṃ ca- bahavaḥ paṇḍitāḥ kṣudrāḥ sarve māyopajīvinaḥ | kuryuḥ kṛtyam akṛtyaṃ vā uṣṭre kākādayo yathā

Sanskrit only: no published translation is held for this verse.

दमक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा ११ मदोत्कट-सिंह-कथा अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह-अहो अपूर्वम् इदं सत्त्वम् । तज् ज्ञायतां किम् एतद् आरण्यकं ग्राम्यं वेति । तच् छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्यो ऽयम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः । तद् व्यापाद्यताम् । सिंह आह-नाहं गृहम् आगतं हन्मि । उक्तं च- गृहं शत्रुम् अपि प्राप्तं विश्वस्तम् अकुतोभयम् । यो हन्यात् तस्य पापं स्याच् छतब्राह्मणघातजम्

damaka āha--katham etat ? so 'bravīt- kathā 11 madotkaṭa-siṃha-kathā asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasa ti sma | tasya cānucarā anye dvīpi-vāyasa-gomāyavaḥ santi | atha kadācit tair itas tato bhramadbhiḥ sārthād bhraṣṭaḥ krathanako nāmoṣtro dṛṣṭaḥ | atha siṃha āha-aho apūrvam idaṃ sattvam | taj jñāyatāṃ kim etad āraṇyakaṃ grāmyaṃ veti | tac chrutvā vāyasa āha-bhoḥ svāmin ! grāmyo 'yam uṣṭra-nāmā jīva-viśeṣas tava bhojyaḥ | tad vyāpādyatām | siṃha āha-nāhaṃ gṛham āgataṃ hanmi | uktaṃ ca- gṛhaṃ śatrum api prāptaṃ viśvastam akutobhayam | yo hanyāt tasya pāpaṃ syāc chatabrāhmaṇaghātajam

Sanskrit only: no published translation is held for this verse.

तद् अभय-प्रदानं दत्त्वा मत्-सकाशम् आनीयतां येनास्यागम-कारणं पृच्छामि । अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च । ततस् तस्य पृच्छतस् तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयो ऽपि भारोद्वहन-कष्ट-भागी भूयाः । तद् अत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सो ऽपि तथेत्य् उक्त्वा तेषां मध्ये विचरन् न कुतो ऽपि भयम् इति सुखेनास्ते । तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत् । ततस् तस्य दन्त-मुसल-प्रहारैर् व्यथा सञ्जाता । व्यथितः कथम् अपि प्राणैर् न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुं शक्नोति । ते सर्वे काकादयो ऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राह-भोः ! अन्विष्यतां कुत्रचित् किंचित् सत्त्वं येनाहम् एताम् अपि दशां प्राप्तस् तद् धत्वा युष्मद्-भोजनं सम्पादयामि । अथ ते चत्वारो ऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वं पश्यन्ति तावद् वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह-भो वायस ! किं प्रभूत-भ्रान्तेन । अयम् अस्माकं प्रभोः क्रथनको विश्वस्तस् तिष्ठति । तद् एनं हत्वा प्राण-यात्रां कुर्मः । वायस आह-युक्तम् उक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तम् आस्ते न वध्यो ऽयम् इति । शृगाल आह-भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तो ऽत्रैव, यावद् अहं गृहं गत्वा प्रभोर् आज्ञां गृहीत्वा चागच्छामि । एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः । अथ सिंहम् आसाद्येदम् आह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः । न किंचित् सत्त्वम् आसादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवो ऽपि पथ्याशी वर्तते । तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते । अथ सिंहस् तस्य तद् दारुणं वचनम् आकर्ण्य स-कोपम् इदम् आह-धिक् पापाधम ! यद्य् एवं भूयो ऽपि वदसि । ततस् त्वां तत्-क्षणम् एव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च- न गो-प्रदानं न मही-प्रदानं न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्व-प्रदानेष्व् अभय-प्रदानम्

tad abhaya-pradānaṃ dattvā mat-sakāśam ānīyatāṃ yenāsyāgama-kāraṇaṃ pṛcchāmi | athāsau sarvair api viśvāsyābhaya-pradānaṃ dattvā madotkaṭa-sakāśam ānītaḥ praṇamyopaviṣṭaś ca | tatas tasya pṛcchatas tenātma-vṛttāntaḥ sārtha-bhraṃśa-samudbhavo niveditaḥ | tataḥ siṃhenoktam-bhoḥ krathanaka ! mā tvaṃ grāmaṃ gatvā bhūyo 'pi bhārodvahana-kaṣṭa-bhāgī bhūyāḥ | tad atraivāraṇye nirviśaṅko marakata-sadṛśāni śaṣpāgrāṇi bhakṣayan mayā saha sadaiva vasa | so 'pi tathety uktvā teṣāṃ madhye vicaran na kuto 'pi bhayam iti sukhenāste | tathānyedyur madotkaṭasya mahā-gajenāraṇya-cāriṇā saha yuddham abhavat | tatas tasya danta-musala-prahārair vyathā sañjātā | vyathitaḥ katham api prāṇair na viyuktaḥ | atha śarīrāsāmarthyān na kutracit padam api calituṃ śaknoti | te sarve kākādayo 'py aprabhutvena kṣudhāviṣṭāḥ paraṃ duḥkhaṃ bhejuḥ | atha tān siṃhaḥ prāha-bhoḥ ! anviṣyatāṃ kutracit kiṃcit sattvaṃ yenāham etām api daśāṃ prāptas tad dhatvā yuṣmad-bhojanaṃ sampādayāmi | atha te catvāro 'pi bhramitum ārabdhā yāvan na kiṃcit sattvaṃ paśyanti tāvad vāyasa-śṛgālau parasparaṃ mantrayataḥ | śṛgāla āha-bho vāyasa ! kiṃ prabhūta-bhrāntena | ayam asmākaṃ prabhoḥ krathanako viśvastas tiṣṭhati | tad enaṃ hatvā prāṇa-yātrāṃ kurmaḥ | vāyasa āha-yuktam uktaṃ bhavatā | paraṃ svāminā tasyābhaya-pradānaṃ dattam āste na vadhyo 'yam iti | śṛgāla āha-bho vāyasa ! ahaṃ svāminaṃ vijñāpya tathā kariṣye yathā svāmī vadhaṃ kariṣyati | tat tiṣṭhantu bhavanto 'traiva, yāvad ahaṃ gṛhaṃ gatvā prabhor ājñāṃ gṛhītvā cāgacchāmi | evam abhidhāya satvaraṃ siṃham uddiśya prasthitaḥ | atha siṃham āsādyedam āha-svāmin ! samastaṃ vanaṃ bhrāntvā vayam āgatāḥ | na kiṃcit sattvam āsāditam | tat kiṃ kurmo vayam | samprati vayaṃ bubhukṣayā padam ekam api pracalituṃ na śaknumaḥ | devo 'pi pathyāśī vartate | tad yadi devādeśo bhavati tat krathanaka-piśitenādya pathya-kriyā kriyate | atha siṃhas tasya tad dāruṇaṃ vacanam ākarṇya sa-kopam idam āha-dhik pāpādhama ! yady evaṃ bhūyo 'pi vadasi | tatas tvāṃ tat-kṣaṇam eva vadhiṣyāmi | tato mayā tasyābhayaṃ pradattam | tat kathaṃ vyāpādayāmi | uktaṃ ca- na go-pradānaṃ na mahī-pradānaṃ na cānna-dānaṃ hi tathā pradhānam | yathā vadantīha budhāḥ pradhānaṃ sarva-pradāneṣv abhaya-pradānam

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा शृगाल आह-स्वामिन् यद्य् अभयप्रदानं दत्त्वा वधः क्रियते तद् एष दोषो भवति । पुनर् यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः । ततो यदि स स्वयम् एवात्मानं वधाय नियोजयति तद् वध्यो ऽन्यथास्माकं मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्यां दशां यास्यन्ति । तत् किम् एतैः प्राणैर् अस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिद् अनिष्टं भविष्यति । उक्तं च- यस्मिन् कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे ह्य् अरका वहन्ति

tac chrutvā śṛgāla āha-svāmin yady abhayapradānaṃ dattvā vadhaḥ kriyate tad eṣa doṣo bhavati | punar yadi devapādānāṃ bhaktyā sātmano jīvitavyaṃ prayacchati tan na doṣaḥ | tato yadi sa svayam evātmānaṃ vadhāya niyojayati tad vadhyo 'nyathāsmākaṃ madhyād ekatamo vadhya iti yato devapādāḥ pathyāśinaḥ kṣunnirodhād antyāṃ daśāṃ yāsyanti | tat kim etaiḥ prāṇair asmākaṃ ye svāmyarthe na yāsyanti | aparaṃ paścād apy asmābhir vahni-praveśaḥ kāryo yadi svāmi-pādānāṃ kiṃcid aniṣṭaṃ bhaviṣyati | uktaṃ ca- yasmin kule yaḥ puruṣaḥ pradhānaḥ sa sarva-yatnaiḥ parirakṣaṇīyaḥ | tasmin vinaṣṭe sva-kulaṃ vinaṣṭaṃ na nābhi-bhaṅge hy arakā vahanti

Sanskrit only: no published translation is held for this verse.

तद् आकर्ण्य मदोत्कट आह-यद्य् एवं तत् कुरुष्व यद् रोचते । तच् छ्रुत्वा स सत्वरं गत्वा तान् आह-भोः ! स्वामिनो महत्य् अवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना को ऽत्रास्मान् रक्षयिष्यति ? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च- आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत्

tad ākarṇya madotkaṭa āha-yady evaṃ tat kuruṣva yad rocate | tac chrutvā sa satvaraṃ gatvā tān āha-bhoḥ ! svāmino mahaty avasthā vartate | tat kiṃ paryaṭitena ? tena vinā ko 'trāsmān rakṣayiṣyati ? tad gatvā tasya kṣud-rogāt para-lokaṃ prasthitasyātma-śarīra-dānaṃ kurmo yena svāmi-prasādasya anṛṇatāṃ gacchāmaḥ | uktaṃ ca- āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ | prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet

Sanskrit only: no published translation is held for this verse.

तद्-अनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह-भोः ! प्राप्तं दृष्टं वा किंचित् सत्त्वम् । अथ तेषां मध्यात् काकः प्रोवाच-स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किंचित् सत्त्वम् आसादितं दृष्टं वा । तद् अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिर् इति । उक्तं च- स्वाम्य्-अर्थे यस् त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदम् आप्नोति जरा-मरण-वर्जितम्

tad-anantaraṃ te sarve bāṣpa-pūrita-dṛśo madotkaṭaṃ praṇamyopaviṣṭāḥ | tān dṛṣṭvā madotkaṭa āha-bhoḥ ! prāptaṃ dṛṣṭaṃ vā kiṃcit sattvam | atha teṣāṃ madhyāt kākaḥ provāca-svāmin ! vayaṃ tāvat sarvatra paryaṭitāḥ paraṃ na kiṃcit sattvam āsāditaṃ dṛṣṭaṃ vā | tad adya māṃ bhakṣayitvā prāṇān dhārayatu svāmī, yena devasyāśvāsanaṃ bhavati mama punaḥ svarga-prāptir iti | uktaṃ ca- svāmy-arthe yas tyajet prāṇān bhṛtyo bhakti-samanvitaḥ | sa paraṃ padam āpnoti jarā-maraṇa-varjitam

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा शृगाल आह-भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति । अपरो दोषश् च तावत् समुत्पद्यते । उक्तं च- काक-मांसं तथोच्छिष्टं स्तोकं तद् अपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर् न जायते

tac chrutvā śṛgāla āha-bhoḥ ! svalpa-kāyo bhavān | tava bhakṣaṇāt svāminas tāvat prāṇa-yātrā na bhavati | aparo doṣaś ca tāvat samutpadyate | uktaṃ ca- kāka-māṃsaṃ tathocchiṣṭaṃ stokaṃ tad api durbalam | bhakṣitenāpi kiṃ tena yena tṛptir na jāyate

Sanskrit only: no published translation is held for this verse.

तद् दर्षिता स्वामि-भक्तिर् भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश् चोभय-लोके साधु-वादः । तद् अपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च- स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः । यतस् ततो न दोषो ऽस्ति तेषां ग्रहण-सम्भवः

tad darṣitā svāmi-bhaktir bhavatā gataṃ ca ānṛṇyaṃ bhartṛ-piṇḍasya prāptaś cobhaya-loke sādhu-vādaḥ | tad apasarāgrataḥ | ahaṃ svāminaṃ vijñāpayāmi | tathānuṣṭhite śṛgālaḥ sādaraṃ praṇamyopaviṣṭaḥ prāha-svāmin ! māṃ bhakṣayitvādya prāṇa-yātrāṃ vidhāya mamobhaya-loka-prāptiṃ kuru | uktaṃ ca- svāmy-āyattāḥ sadā prāṇā bhṛtyānām arjitā dhanaiḥ | yatas tato na doṣo 'sti teṣāṃ grahaṇa-sambhavaḥ

Sanskrit only: no published translation is held for this verse.

अथ तच् छ्रुत्वा द्वीप्य् आह-भोः साधूक्तं भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव । उक्तं च- नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैर् अपि । विशेषात् तद् अपि स्तोकं लोक-द्वय-विनाशकम्

atha tac chrutvā dvīpy āha-bhoḥ sādhūktaṃ bhavatā punar bhavān api svalpa-kāyaḥ sva-jātiś ca nakhāyudhatvād abhakṣya eva | uktaṃ ca- nābhakṣyaṃ bhakṣayet prājñaḥ prāṇaiḥ kaṇṭha-gatair api | viśeṣāt tad api stokaṃ loka-dvaya-vināśakam

Sanskrit only: no published translation is held for this verse.

तद् दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदम् उच्यते- एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम्

tad darśitaṃ tvayātmanaḥ kaulīnyam | atha vā sādhu cedam ucyate- etad-arthaṃ kulīnānāṃ nṛpāḥ kurvanti saṅgraham | ādi-madhyāvasāneṣu na te gacchanti vikriyām

Sanskrit only: no published translation is held for this verse.

तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह-स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा । दीयताम् अक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च- मृतानां स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले

tad apasarāgrataḥ, yenāhaṃ svāminaṃ vijñāpayāmi | tathānuṣṭhite dvīpī praṇamya madotkaṭam āha-svāmin ! kriyatām adya mama prāṇaiḥ prāṇa-yātrā | dīyatām akṣayo vāsaḥ svarge | mama vistāryatāṃ kṣiti-tale prabhūtaṃ yaśaḥ | tan nātra vismayaḥ kāryaḥ | uktaṃ ca- mṛtānāṃ svāminaḥ kārye bhṛtyānām anuvartinām | bhavet svarge akṣayo vāsaḥ kīrtiś ca dharaṇī-tale

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा क्रथनकश् चिन्तयामास-एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैको ऽपि स्वामिना विनाशितः । तद् अहम् अपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनम् एते त्रयो ऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यम् उक्तं भवता परं भवान् अपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च- मनसापि स्वजात्यानां यो ऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्य् एव इह लोके परत्र च

tac chrutvā krathanakaś cintayāmāsa-etais tāvat sarvair api śobhā-vākyāny uktāni na caiko 'pi svāminā vināśitaḥ | tad aham api prāpta-kālaṃ vakṣyāmi citrakaṃ yena mad-vacanam ete trayo 'pi samarthayanti | iti niścitya provāca-bhoḥ satyam uktaṃ bhavatā paraṃ bhavān api nakhāyudhaḥ | tat kathaṃ bhavantaṃ svāmī bhakṣayati | uktaṃ ca- manasāpi svajātyānāṃ yo 'niṣṭāni pracintayet | bhavanti tasya tāny eva iha loke paratra ca

Sanskrit only: no published translation is held for this verse.

तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनको ऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् ! एतेऽभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर् भवति । उक्तं च- न यज्वानो ऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः

tad apasarāgrataḥ, yenāhaṃ svāminaṃ vijñāpayāmi | tathānuṣṭhite krathanako 'gre sthitvā praṇamyovāca-svāmin ! ete'bhakṣyās tava tan mama prāṇaiḥ prāṇa-yātrā vidhīyatāṃ yena mamobhaya-loka-prāptir bhavati | uktaṃ ca- na yajvāno 'pi gacchanti tāṃ gatiṃ naiva yoginaḥ | yāṃ yānti projjhita-prāṇāḥ svāmy-arthe sevakottamāḥ

Sanskrit only: no published translation is held for this verse.

एवम् अभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत् । ततश् च तैः क्षुद्र-पण्डितैः सर्वैर् भक्षितः । अतो ऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति । तद् भद्र, क्षुद्र-परिवारो ऽयं ते राजा मया सम्यग् जातः । सताम् असेव्यं च । उक्तं च- अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते । यथा गृध्र-समासन्नः कलहंसः समाचरेत्

evam abhihite tābhyāṃ śṛgāla-citrakābhyāṃ vidāritobhaya-kukṣiḥ krathanakaḥ prāṇān atyākṣīt | tataś ca taiḥ kṣudra-paṇḍitaiḥ sarvair bhakṣitaḥ | ato 'haṃ bravīmi-bahavaḥ paṇḍitāḥ kṣudrāḥ iti | tad bhadra, kṣudra-parivāro 'yaṃ te rājā mayā samyag jātaḥ | satām asevyaṃ ca | uktaṃ ca- aśuddha-prakṛtau rājñi janatā nānurajyate | yathā gṛdhra-samāsannaḥ kalahaṃsaḥ samācaret

Sanskrit only: no published translation is held for this verse.

तथा च- गृध्राकारो ऽपि सेव्यः स्याद् धंसाकारैः सभासदैः । हंसाकारो ऽपि सन्त्याज्यो गृध्राकारैः स तैर् नृपः

tathā ca- gṛdhrākāro 'pi sevyaḥ syād dhaṃsākāraiḥ sabhāsadaiḥ | haṃsākāro 'pi santyājyo gṛdhrākāraiḥ sa tair nṛpaḥ

Sanskrit only: no published translation is held for this verse.

तन् नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्य् एतत् । उक्तं च- मृदुना सलिलेन खन्यमा नान्यवद् धृष्यन्ति गिरेर् अपि स्थलानि । उपजापविदां च कर्ण-जापैः किम् उ चेतांसि मृदूनि मानवानाम्

tan nūnaṃ mamopari kenacid durjanenāyaṃ prakopitaḥ, tenaivaṃ vadati | athavā bhavaty etat | uktaṃ ca- mṛdunā salilena khanyamā nānyavad dhṛṣyanti girer api sthalāni | upajāpavidāṃ ca karṇa-jāpaiḥ kim u cetāṃsi mṛdūni mānavānām

Sanskrit only: no published translation is held for this verse.

कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकताम् अपि धत्ते पिबति सुरां नरक-पालेन

karṇa-viṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ | kṣapaṇakatām api dhatte pibati surāṃ naraka-pālena

Sanskrit only: no published translation is held for this verse.

अथवा साध्व् इदम् उच्यते- पादाहतो ऽपि दृढ-दण्ड-समाहतो ऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । को ऽप्य् एष एव पिशुनोग्र-मनुष्य-धर्मः कर्णे परं स्पृशति हन्ति परं समूलम्

athavā sādhv idam ucyate- pādāhato 'pi dṛḍha-daṇḍa-samāhato 'pi yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ | ko 'py eṣa eva piśunogra-manuṣya-dharmaḥ karṇe paraṃ spṛśati hanti paraṃ samūlam

Sanskrit only: no published translation is held for this verse.

तथा च- अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः । कर्णे लगति चान्यस्य प्राणैर् अन्यो वियुज्यते

tathā ca- aho khala-bhujaṅgasya viparīto vadha-kramaḥ | karṇe lagati cānyasya prāṇair anyo viyujyate

Sanskrit only: no published translation is held for this verse.

तद् एवं गतेऽपि किं कर्तव्यम् इत्य् अहं त्वां सुहृद्-भावात् पृच्छामि । दमनक आह-तद्-देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च- गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते

tad evaṃ gate'pi kiṃ kartavyam ity ahaṃ tvāṃ suhṛd-bhāvāt pṛcchāmi | damanaka āha-tad-deśāntara-gamanaṃ yujyate | naivaṃ-vidhasya kusvāminaḥ sevāṃ vidhātum | uktaṃ ca- guror apy avaliptasya kāryākāryam ajānataḥ | utpatha-pratipannasya parityāgo vidhīyate

Sanskrit only: no published translation is held for this verse.

सञ्जीवक आह-अस्माकम् उपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति । उक्तं च- महतां यो ऽपराध्येन दूरस्थो ऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम्

sañjīvaka āha-asmākam upari svāmini kupite gantuṃ na śakyate, na cānyatra gatānām api nirvṛtir bhavati | uktaṃ ca- mahatāṃ yo 'parādhyena dūrastho 'smīti nāśvaset | dīrghau buddhimato bāhū tābhyāṃ hiṃsati hiṃsakam

Sanskrit only: no published translation is held for this verse.

तद् युद्धं मुक्त्वा मे नान्यद् असित् श्रेयस्करम् । उक्तं च- न तान् हि तीर्थैस् तपसा च लोकान् स्वर्गैषिणो दान-शतैः सुवृत्तैः । क्षणेन यान् यान्ति रणेषु धीराः प्राणान् समुज्झन्ति हि ये सुशीलाः

tad yuddhaṃ muktvā me nānyad asit śreyaskaram | uktaṃ ca- na tān hi tīrthais tapasā ca lokān svargaiṣiṇo dāna-śataiḥ suvṛttaiḥ | kṣaṇena yān yānti raṇeṣu dhīrāḥ prāṇān samujjhanti hi ye suśīlāḥ

Sanskrit only: no published translation is held for this verse.

मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा । तद् उभाव् अपि शूराणां गुणाव् एतौ सुदुर्लभौ

mṛtaiḥ samprāpyate svargo jīvadbhiḥ kīrtir uttamā | tad ubhāv api śūrāṇāṃ guṇāv etau sudurlabhau

Sanskrit only: no published translation is held for this verse.

ललाट-देशे रुधिरं स्रवत् तु शूरस्य यस्य प्रविशेच् च वक्त्रे । तत् सोमपानेन समं भवेच् च सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम्

lalāṭa-deśe rudhiraṃ sravat tu śūrasya yasya praviśec ca vaktre | tat somapānena samaṃ bhavec ca saṅgrāma-yajñe vidhivat pradiṣṭam

Sanskrit only: no published translation is held for this verse.

तथा च- होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृन्दार्चनैर् यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् । सत्-तीर्थाश्रम-वास-होम-नियमैश् चान्द्रायणाद्यैः कृतैः पुम्भिस् तत्-फलम् आहवे विनिहितैः सम्प्राप्यते तत्-क्षणात्

tathā ca- homārthair vidhivat pradāna-vidhinā sad-vipra-vṛndārcanair yajñair bhūri-sudakṣiṇaiḥ suvihitaiḥ samprāpyate yat phalam | sat-tīrthāśrama-vāsa-homa-niyamaiś cāndrāyaṇādyaiḥ kṛtaiḥ pumbhis tat-phalam āhave vinihitaiḥ samprāpyate tat-kṣaṇāt

Sanskrit only: no published translation is held for this verse.

तद् आकर्ण्य दमनकश् चिन्तयामास-युद्धाय कृत-निश्चयो ऽयं दृश्यते दुरात्मा । तद् यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महान् अनर्थः सम्पत्स्यते । तद् एनं भूयो ऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च-भो मित्र ! सम्यग् अभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् । बलवद्भिश् च कर्तव्या शरच्-चन्द्र-प्रकाशता

tad ākarṇya damanakaś cintayāmāsa-yuddhāya kṛta-niścayo 'yaṃ dṛśyate durātmā | tad yadi kadācit tīkṣṇa-śṛgālābhyāṃ svāminaṃ prahariṣyati tan mahān anarthaḥ sampatsyate | tad enaṃ bhūyo 'pi sva-buddhyā prabodhya tathā karomi, yathā deśāntara-gamanaṃ karoti | āha ca-bho mitra ! samyag abhihitaṃ bhavatā | paraṃ kaḥ svāmi-bhṛtyayoḥ saṅgrāmaḥ | uktaṃ ca- balavantaṃ ripuṃ dṛṣṭvā kilātmānaṃ pragopayet | balavadbhiś ca kartavyā śarac-candra-prakāśatā

Sanskrit only: no published translation is held for this verse.

अन्यच् च- शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः । स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा

anyac ca- śatror vikramam ajñātvā vairam ārabhate hi yaḥ | sa parābhavam āpnoti samudraṣ ṭiṭṭibhād yathā

Sanskrit only: no published translation is held for this verse.

सञ्जीवक आह--कथम् एतत् ? सो ऽब्रवीत्- कथा १२ टिट्टिभ-दम्पती-कथा कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त । आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे-भोः कान्त ! मम प्रसव-समयो वर्तते । तद् विचिन्त्यतां किम् अपि निरुपद्रवं स्थानं येन तत्राहम् अण्डक-मोक्षणं करोमि । टिट्टिभः प्राह-भद्रे रम्यो ऽयं समुद्र-प्रदेशः । तद् अत्रैव प्रसवः कार्यः । सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रान् अपि समाकर्षति । तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम् । तच् छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तम् उक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या- बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद् भयदम् । मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः

sañjīvaka āha--katham etat ? so 'bravīt- kathā 12 ṭiṭṭibha-dampatī-kathā kasmiṃścit samudraika-deśe ṭiṭṭibha-dampatī vasataḥ | tato gacchati kāla ṛtu-samayam āsādya ṭiṭṭibhī garbham ādhatta | āsanna-prasavā satī sā ṭiṭṭibham ūce-bhoḥ kānta ! mama prasava-samayo vartate | tad vicintyatāṃ kim api nirupadravaṃ sthānaṃ yena tatrāham aṇḍaka-mokṣaṇaṃ karomi | ṭiṭṭibhaḥ prāha-bhadre ramyo 'yaṃ samudra-pradeśaḥ | tad atraiva prasavaḥ kāryaḥ | sā prāha-atra pūrṇimā-dine samudra-velā carati | sā matta-gajendrān api samākarṣati | tad dūram anyatra kiṃcit sthānam anviṣyatām | tac chrutvā vihasya ṭiṭṭibha āha-bhadre na yuktam uktaṃ bhavatyā | kā mātrā samudrasya yā mama dūṣayiṣyati prasūtim | kiṃ na śrutaṃ bhavatyā- baddhvāmbara-cara-mārgaṃ vyapagata-dhūmaṃ sadā mahad bhayadam | manda-matiḥ kaḥ praviśati hutāśanaṃ svecchayā manujaḥ

Sanskrit only: no published translation is held for this verse.

मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तम् अन्तक-प्रतिमम् । यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम

mattebha-kumbha-vidalana-kṛta-śramaṃ suptam antaka-pratimam | yama-loka-darśanecchuḥ siṃhaḥ bodhayati ko nāma

Sanskrit only: no published translation is held for this verse.

को गत्वा यम-सदनं स्वयम् अन्तकम् आदिशत्य् अजात-भयः । प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव

ko gatvā yama-sadanaṃ svayam antakam ādiśaty ajāta-bhayaḥ | prāṇān apahara matto yadi śaktiḥ kācid asti tava

Sanskrit only: no published translation is held for this verse.

प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे । गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति

prāleya-leśa-miśre maruti prābhātike ca vāti jaḍe | guṇa-doṣa-jñaḥ puruṣo jalena kaḥ śītam apanayati

Sanskrit only: no published translation is held for this verse.

तस्माद् विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च- यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः । तेन चेत् पुत्रिणी माता तद् वन्ध्या केन कथ्यते

tasmād viśrabdhātraiva garbhaṃ muñca | uktaṃ ca- yaḥ parābhava-santrastaḥ sva-sthānaṃ santyajen naraḥ | tena cet putriṇī mātā tad vandhyā kena kathyate

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा समुद्रश् चिन्तयाम् आस-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्व् इदम् उच्यते- उत्क्षिप्य टिट्टिभः पादाव् आस्ते भ गभयाद् दिवः । स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते

tac chrutvā samudraś cintayām āsa-aho garvaḥ pakṣi-kīṭasyāsya | atha vā sādhv idam ucyate- utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ | sva-citta-kalpito garvaḥ kasya nātrāpi vidyate

Sanskrit only: no published translation is held for this verse.

तन् मयास्य प्रमाणं कुतूहलाद् अपि द्रष्टव्यम् । किं ममैषो ऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्य् अपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यम् अवलोक्य प्रलपन्ती टिट्टिभम् ऊचे-भो मूर्ख ! कथितम् आसीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद् दूरतरं व्रजावः परं मूढतयाहंकारम् आश्रित्य मम वचनं न करोषि । अथवा साध्व् इदम् उच्यते । सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति

tan mayāsya pramāṇaṃ kutūhalād api draṣṭavyam | kiṃ mamaiṣo 'ṇḍāpahāre kṛte kariṣyati | iti cintayitvā sthitaḥ | atha prasavānantaraṃ prāṇayātrārthaṃ gatāyāṣ ṭiṭṭibhyāḥ samudro velāvyājenāṇḍāny apajahāra | athāyātā sā ṭiṭṭibhī prasavasthānaṃ śūnyam avalokya pralapantī ṭiṭṭibham ūce-bho mūrkha ! kathitam āsīn mayā te yat samudravelayā aṇḍānāṃ vināśo bhaviṣyati tad dūrataraṃ vrajāvaḥ paraṃ mūḍhatayāhaṃkāram āśritya mama vacanaṃ na karoṣi | athavā sādhv idam ucyate | suhṛdāṃ hitakāmānāṃ na karotīha yo vacaḥ | sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati

Sanskrit only: no published translation is held for this verse.

टिट्टिभ आह-कथम् एतत् ? साब्रवीत्- कथा १३ कम्बुग्रीवाख्य-कूर्म-कथा अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत् । ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः-भो मित्र ! जम्बाल-शेषम् एतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच् छ्रुत्वा कम्बुग्रीव आह-भोः, साम्प्रतं नास्त्य् अस्माकं जीवितव्यं जलाभावात् । तथाप्य् उपायश् चिन्त्यताम् इति । उक्तं च- त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात् कदाचिद् गतिम् आप्नुयात् सः । यथा समुद्रेऽपि च पोत-भङ्गे सांयात्रिको वाञ्छति तर्तुम् एव

ṭiṭṭibha āha-katham etat ? sābravīt- kathā 13 kambugrīvākhya-kūrma-kathā asti kasmiṃścij jalāśaye kambu-grīvo nāma kacchapaḥ | tasya ca saṅkaṭa-vikaṭa-nāmnī mitre haṃsa-jātīye parama-sneha-koṭim āśrite nityam eva saras-tīram āsādya tena sahāneka-devarṣi-maharṣīṇāṃ kathāḥ kṛtvāsta-maya-velāyāṃ sva-nīḍā-saṃśrayaṃ kurutaḥ | atha gacchatā kālenāvṛṣṭi-vaśāt saraḥ śanaiḥ śanaiḥ śoṣam agamat | tatas tad-duḥkha-duḥkhitau tāv ūcatuḥ-bho mitra ! jambāla-śeṣam etat-saraḥ sañjātam | tat kathaṃ bhavān bhaviṣyatīti vyākulatvaṃ no hṛdi vartate | tac chrutvā kambugrīva āha-bhoḥ, sāmprataṃ nāsty asmākaṃ jīvitavyaṃ jalābhāvāt | tathāpy upāyaś cintyatām iti | uktaṃ ca- tyājyaṃ na dhairyaṃ vidhure'pi kāle dhairyāt kadācid gatim āpnuyāt saḥ | yathā samudre'pi ca pota-bhaṅge sāṃyātriko vāñchati tartum eva

Sanskrit only: no published translation is held for this verse.

अपरं च- मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः

aparaṃ ca- mitrārthe bāndhavārthe ca buddhimān yatate sadā | jātāsv āpatsu yatnena jagādedaṃ vaco manuḥ

Sanskrit only: no published translation is held for this verse.

तद् आनीयतां काचिद् दृढ-रज्जुर् लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर् गृहीते सति युवां कोटि-भागयोस् तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः । ताव् ऊचतुः-भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति । तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किंचित् पुरम् आलोकितम् । तत्र ये पौरास् ते तथा नीयमानं विलोक्य सविस्मयम् इदम् ऊचुः-अहो चक्राकारं किम् अपि पक्षिभ्यां नीयते । पश्यत पश्यत । अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीव आह-भोः ! किम् एष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश् च । अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इति । तथा च- अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एतौ सुखम् एधेते यद्-भविष्यो विनश्यति

tad ānīyatāṃ kācid dṛḍha-rajjur laghu-kāṣṭhaṃ vā | anviṣyatāṃ ca prabhūta-jala-sanāthaṃ saraḥ, yena mayā madhya-pradeśe dantair gṛhīte sati yuvāṃ koṭi-bhāgayos tat-kāṣṭhaṃ mayā sahitaṃ saṅgṛhya tat-saro nayathaḥ | tāv ūcatuḥ-bho mitra ! evaṃ kariṣyāvaḥ | paraṃ bhavatā mauna-vratena sthātavyam | no cet tava kāṣṭhāt pāto bhaviṣyati | tathānuṣṭhite gacchatā kambugrīveṇādhobhāga-vyavasthitaṃ kiṃcit puram ālokitam | tatra ye paurās te tathā nīyamānaṃ vilokya savismayam idam ūcuḥ-aho cakrākāraṃ kim api pakṣibhyāṃ nīyate | paśyata paśyata | atha teṣāṃ kolāhalam ākarṇya kambugrīva āha-bhoḥ ! kim eṣa kolāhalaḥ ? iti vaktu-manā ardhokte patitaḥ pauraiḥ khaṇḍaśaḥ kṛtaś ca | ato 'haṃ bravīmi-suhṛdāṃ hita-kāmānām iti | tathā ca- anāgata-vidhātā ca pratyutpanna-matis tathā | dvāv etau sukham edhete yad-bhaviṣyo vinaśyati

Sanskrit only: no published translation is held for this verse.

टिट्टिभ आह-कथम् एतत् ? साब्रवीत्- कथा १४ अनागत-विधातादि-मत्स्य-त्रय-कथा कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्-यद् अहो बहु-मत्स्यो ऽयं ह्रदः । कदाचिद् अपि नास्माभिर् अन्वेषितः । तद् अद्य तावद् आहार-वृत्तिः सञ्जाता । सन्ध्या-समयश् च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः । अतस् तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे-अहो, श्रुतं भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम् । तद् रात्राव् अपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च- अशक्तैर् बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्यो ऽथवा दुर्गो नान्या तेषां गतिर् भवेत्

ṭiṭṭibha āha-katham etat ? sābravīt- kathā 14 anāgata-vidhātādi-matsya-traya-kathā kasmiṃścij jalāśaye'nāgata-vidhātā pratyutpanna-matir yad-bhaviṣyaś ceti trayo matsyāḥ santi | atha kadācit taṃ jalāśayaṃ dṛṣṭvā gacchadbhir matsya-jīvibhir uktam-yad aho bahu-matsyo 'yaṃ hradaḥ | kadācid api nāsmābhir anveṣitaḥ | tad adya tāvad āhāra-vṛttiḥ sañjātā | sandhyā-samayaś ca saṃvṛttaḥ | tataḥ prabhāte'trāgantavyam iti niścayaḥ | atas teṣāṃ tat-kuliśa-pātopamaṃ vacaḥ samākarṇyānāgata-vidhātā sarvān matsyān āhūyedam ūce-aho, śrutaṃ bhavadbhir yan matsya-jīvibhir abhihitam | tad rātrāv api gamyatāṃ kiñcin nikaṭaṃ saraḥ | uktaṃ ca- aśaktair balinaḥ śatroḥ kartavyaṃ prapalāyanam | saṃśritavyo 'thavā durgo nānyā teṣāṃ gatir bhavet

Sanskrit only: no published translation is held for this verse.

तन् नूनं प्रभात-समये मत्स्य-जीविनो ऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणम् अप्य् अत्रावस्थातुम् । उक्तं च- विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम्

tan nūnaṃ prabhāta-samaye matsya-jīvino 'tra samāgamya matsya-saṅkṣayaṃ kariṣyanti | etan mama manasi vartate | tan na yuktaṃ sāmprataṃ kṣaṇam apy atrāvasthātum | uktaṃ ca- vidyamānā gatir yeṣām anyatrāpi sukhāvahā | te na paśyanti vidvāṃso deha-bhaṅgaṃ kula-kṣayam

Sanskrit only: no published translation is held for this verse.

तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यम् अभिहितं भवता । ममाप्य् अभीष्टम् एतत् । तद् अन्यत्र गम्यताम् इति । उक्तं च- पर-देश-भयात् भीता बहु-माया नपुंसकाः । स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः

tad ākarṇya pratyutpanna-matiḥ prāha-aho satyam abhihitaṃ bhavatā | mamāpy abhīṣṭam etat | tad anyatra gamyatām iti | uktaṃ ca- para-deśa-bhayāt bhītā bahu-māyā napuṃsakāḥ | sva-deśe nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ

Sanskrit only: no published translation is held for this verse.

यस्यास्ति सर्वत्र गतिः स कस्मात् स्व-देश-रागेण हि याति नाशम् । तातस्य कूपो ऽयम् इति ब्रुवाणाः क्षार-जलं कापुरुषाः पिबन्ति

yasyāsti sarvatra gatiḥ sa kasmāt sva-deśa-rāgeṇa hi yāti nāśam | tātasya kūpo 'yam iti bruvāṇāḥ kṣāra-jalaṃ kāpuruṣāḥ pibanti

Sanskrit only: no published translation is held for this verse.

अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते । यद्य् आयुः-क्षयो ऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्य् एव । उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति

atha tat samākarṇya proccair vihasya yad-bhaviṣyaḥ provāca-aho, na bhavadbhyāṃ mantritaṃ samyag etad iti, yataḥ kiṃ vāṅ-mātreṇāpi teṣāṃ pitṛ-paitāmahikam etat saras tyaktuṃ yujyate | yady āyuḥ-kṣayo 'sti tad anyatra gatānām api mṛtyur bhaviṣyaty eva | uktaṃ ca- arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati | jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati

Sanskrit only: no published translation is held for this verse.

तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् । अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतो ऽहं ब्रवीमि-अनागत-विधाता चेति । तच् छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि । टिट्टिभ्य् आह-अहो कस् ते समुद्रेण सह विग्रहः । तन् न युक्तम् अस्योपरि कोपं कर्तुम् । उक्तं च- पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः । पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम्

tad ahaṃ na yāsyāmi bhavadbhyāṃ ca yat pratibhāti tat kartavyam | atha tasya taṃ niścayaṃ jñātvānāgata-vidhātā pratyutpanna-matiś ca niṣkrānau saha parijanena | atha prabhāte tair matsya-jīvibhir jālais taj jalāśayam āloḍya yad-bhaviṣyeṇa saha tat-saro nirmatsyatāṃ nītam | ato 'haṃ bravīmi-anāgata-vidhātā ceti | tac chrutvā ṭiṭṭibha āha-bhadre, kiṃ māṃ yadbhaviṣya-sadṛśaṃ sambhāvayasi | tat paśya me buddhi-prabhāvaṃ yāvad enaṃ duṣṭa-samudraṃ sva-cañcvā śoṣayāmi | ṭiṭṭibhy āha-aho kas te samudreṇa saha vigrahaḥ | tan na yuktam asyopari kopaṃ kartum | uktaṃ ca- puṃsām asamarthānām upadravāyātmano bhavet kopaḥ | piṭharaṃ jvalad-atimātraṃ nija-pārśvān eva dahatitarām

Sanskrit only: no published translation is held for this verse.

तथा च- अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत्

tathā ca- aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ | gacchann abhimukho vahnau nāśaṃ yāti pataṅgavat

Sanskrit only: no published translation is held for this verse.

टिट्टिभ आह-प्रिये, मा मैवं वद । येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च- विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः

ṭiṭṭibha āha-priye, mā maivaṃ vada | yeṣām utsāha-śaktir bhavati te svalpā api gurūn vikramante | uktaṃ ca- viśeṣāt paripūrṇasya yāti śatror amarṣaṇaḥ | ābhimukhyaṃ śaśāṅkasya yathādyāpi vidhuntudaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- प्रमाणाद् अधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः

tathā ca- pramāṇād adhikasyāpi gaṇḍa-śyāma-mada-cyuteḥ | padaṃ mūrdhni samādhatte kesarī matta-dantinaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- बालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते

tathā ca- bālasyāpi raveḥ pādāḥ patanty upari bhūbhṛtām | tejasā saha jātānāṃ vayaḥ kutropayujyate

Sanskrit only: no published translation is held for this verse.

हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रो ऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस् तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः

hastau sthūlataraḥ sa cāṅkuśa-vaśaḥ kiṃ hasti-mātro 'ṅkuśo dīpe prajvalite praṇaśyati tamaḥ kiṃ dīpa-mātraṃ tamaḥ | vajreṇāpi hatāḥ patanti girayaḥ kiṃ vajra-mātro giris tejo yasya virājate sa balavān sthūleṣu kaḥ pratyayaḥ

Sanskrit only: no published translation is held for this verse.

तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि । टिट्टिभ्य् आह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिन्धुश् च । तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किम् अश्रद्धो येनोक्तेन । टिट्टिभ आह-प्रिये ! अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-सन्निभा । अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति

tad anayā cañcvāsya sakalaṃ toyaṃ śuṣka-sthalatāṃ nayāmi | ṭiṭṭibhy āha-bhoḥ kānta ! yatra jāhnavī nava-nadī-śatāni gṛhītvā nityam eva praviśati, tathā sindhuś ca | tat kathaṃ tvam aṣṭādaśa-nadī-śataiḥ pūryamāṇaṃ taṃ vipruṣa-vāhinyā cañcvā śoṣayiṣyasi ? tat kim aśraddho yenoktena | ṭiṭṭibha āha-priye ! anirvedaḥ śriyo mūlaṃ cañcur me loha-sannibhā | aho-rātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati

Sanskrit only: no published translation is held for this verse.

दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् । जयति तुलाम् अधिरूढो भास्वान् अपि जलद-पटलानि

duradhigamaḥ para-bhāgo yāvat puruṣeṇa pauruṣaṃ na kṛtam | jayati tulām adhirūḍho bhāsvān api jalada-paṭalāni

Sanskrit only: no published translation is held for this verse.

टिट्टिभ्य् आह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तद् अन्यान् अपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च- बहूनाम् अप्य् असाराणां सम्वायो हि दुर्जयः । तृणैर् आवेष्ट्यते रज्जुर् यथा नागो ऽपि बद्ध्यते

ṭiṭṭibhy āha-yadi tvayāvaśyaṃ samudreṇa saha vigrahānuṣṭhānaṃ kāryam | tad anyān api vihaṅgamān āhūya suhṛj-jana-sahita evaṃ samācara | uktaṃ ca- bahūnām apy asārāṇāṃ samvāyo hi durjayaḥ | tṛṇair āveṣṭyate rajjur yathā nāgo 'pi baddhyate

Sanskrit only: no published translation is held for this verse.

तथा च- चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा । महाजन-विरोधेन कुञ्जरः प्रलयं गतः

tathā ca- caṭakākāṣṭha-kūṭena makṣikā-dardurais tathā | mahājana-virodhena kuñjaraḥ pralayaṃ gataḥ

Sanskrit only: no published translation is held for this verse.

टिट्टिभ आह-कथम् एतत् ? सा प्राह- कथा १५ कुञ्जर-चटक-दम्पती-कथा कस्मिंश्चिद् वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर् गच्छता कालेन सन्ततिर् अभवत् । अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ । अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद । अत्रान्तरे तस्यास् तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितो ऽभ्येत्य ताम् उवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च- नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषो ऽयं यतः स्मृतः

ṭiṭṭibha āha-katham etat ? sā prāha- kathā 15 kuñjara-caṭaka-dampatī-kathā kasmiṃścid vanoddeśe caṭaka-dampatī tamāla-taru-kṛta-nilayau prativasataḥ sma | atha tayor gacchatā kālena santatir abhavat | anyasminn ahani pramatto vana-gajaḥ kaścit taṃ tamāla-vṛkṣaṃ gharmārtaś chāyārthī samāśritaḥ | tato madotkaṛṣāt tāṃ tasya śākhāṃ caṭakāśritāṃ puṣkarāgreṇākṛṣya babhañja | tasyā bhaṅgena caṭakāṇḍāni sarvāṇi viśīrṇāni | āyuḥ-śeṣatayā ca caṭakau katham api prāṇair na viyuktau | atha caṭakā sāṇḍa-bhaṅgābhibhūtā pralāpān kurvāṇā na kiñcit sukham āsasāda | atrāntare tasyās tān pralāpān śrutvā kāṣṭha-kūṭo nāma pakṣī tasyāḥ parama-suhṛt-tad-duḥkha-duḥkhito 'bhyetya tām uvāca-bhagavati ! kiṃ vṛthā pralāpena | uktaṃ ca- naṣṭaṃ mṛtam atikrāntaṃ nānuśocanti paṇḍitāḥ | paṇḍitānāṃ ca mūrkhāṇāṃ viśeṣo 'yaṃ yataḥ smṛtaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- अशोच्यानीह भूतानि यो मूढस् तानि शोचति । तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते

tathā ca- aśocyānīha bhūtāni yo mūḍhas tāni śocati | tad-duḥkhāl labhate duḥkhaṃ dvāv anarthau niṣevate

Sanskrit only: no published translation is held for this verse.

अन्यच् च- श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः

anyac ca- śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ | tasmān na roditavyaṃ hi kriyāḥ kāryāś ca śaktitaḥ

Sanskrit only: no published translation is held for this verse.

चटका प्राह-अस्त्व् एतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य को ऽपि वधोपायश् चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखम् अपसरति । उक्तं च- आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये

caṭakā prāha-astv etat | paraṃ duṣṭa-gajena madān mama santāna-kṣayaḥ kṛtaḥ | tad yadi mama tvaṃ suhṛt-satyas tad asya gajāpasadasya ko 'pi vadhopāyaś cintyatām | yasyānuṣṭhānena me santati-nāśa-duḥkham apasarati | uktaṃ ca- āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu | upakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye

Sanskrit only: no published translation is held for this verse.

काष्ठ-कूट आह-भगवति, सत्यम् अभिहितं भवत्या । उक्तं च- स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवो ऽपि सन् । वृद्धौ सर्वो ऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम्

kāṣṭha-kūṭa āha-bhagavati, satyam abhihitaṃ bhavatyā | uktaṃ ca- sa suhṛd-vyasane yaḥ syād anya-jāty-udbhavo 'pi san | vṛddhau sarvo 'pi mitraṃ syāt sarveṣām eva dehinām

Sanskrit only: no published translation is held for this verse.

स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः

sa suhṛd-vyasane yaḥ syāt sa putro yas tu bhaktimān | sa bhṛtyo yo vidheyajñaḥ sā bhāryā yatra nirvṛtiḥ

Sanskrit only: no published translation is held for this verse.

तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते । अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि । मक्षिकाप्य् आह-भद्र ! किम् उच्यतेऽत्र विषये । उक्तं च- पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम्

tat paśya me buddhi-prabhāvam | paraṃ mamāpi suhṛd-bhūtā vīṇāravā nāma makṣikāsti | tat tām āhūyāgacchāmi, yena sa durātmā duṣṭa-gajo badhyate | athāsau caṭakayā saha makṣikām āsādya provāca-bhadre, mameṣṭeyaṃ caṭakā kenacid duṣṭa-gajena parābhūtāṇḍa-sphoṭanena | tat tasya vadhopāyam anutiṣṭhato me sāhāyyaṃ kartum arhasi | makṣikāpy āha-bhadra ! kim ucyate'tra viṣaye | uktaṃ ca- punaḥ pratyupakārāya mitrāṇāṃ kriyate priyam | yat punar mitra-mitrasya kāryaṃ mitrair na kiṃ kṛtam

Sanskrit only: no published translation is held for this verse.