Library·Taittirīya Āraṇyaka (Kṛṣṇa Yajurveda; unaccented text)·3

Taittirīya Āraṇyaka (Kṛṣṇa Yajurveda; unaccented text) 3

ॐ चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः, इति । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोमं पिबतु । आऽस्मासु नृम्णं धात्स्वाहा ( १), इति ।। अध्वर्युः पञ्च च ।।

oṃ cittiḥ sruk | cittamājyam | vāgvediḥ | ādhītaṃ barhiḥ | keto agniḥ | vijñātamagniḥ | vākpatirhotā | mana upavaktā | prāṇo haviḥ | sāmādhvaryuḥ, iti | vācaspate vidhe nāman | vidhema te nāma | vidhestvamasmākaṃ nāma | vācaspatiḥ somaṃ pibatu | ā'smāsu nṛmṇaṃ dhātsvāhā ( 1), iti || adhvaryuḥ pañca ca ||

Sanskrit only: no published translation is held for this verse.

पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता, इति । वाचस्पते वाचो वीर्येण । संभृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आ सुवस्करस्मै । वाचस्पतिः सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ( १), इति ।। पृथिवी होता दश ।।

pṛthivī hotā | dyauradhvaryuḥ | rudro'gnīt | bṛhaspatirupavaktā, iti | vācaspate vāco vīryeṇa | saṃbhṛtatamenā''yakṣyase | yajamānāya vāryam | ā suvaskarasmai | vācaspatiḥ somaṃ pibati | jajanadindramindriyāya svāhā ( 1), iti || pṛthivī hotā daśa ||

Sanskrit only: no published translation is held for this verse.

अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता , इति । सोमः सोमस्य पुरोगाः । शुक्रः शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतः स्वाहा ( १), इति ।। अग्निर्होताऽष्टौ ।।

agnirhotā | aśvinā'dhvaryū | tvaṣṭā'gnīt | mitra upavaktā , iti | somaḥ somasya purogāḥ | śukraḥ śukrasya purogāḥ | śrātāsta indra somāḥ | vātāperhavanaśrutaḥ svāhā ( 1), iti || agnirhotā'ṣṭau ||

Sanskrit only: no published translation is held for this verse.

सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः, इति । वाचस्पतेऽच्छिद्रया वाचा । अच्छिद्रया जुह्वा । दिवि देवावृधꣳ होत्रामेरयस्व स्वाहा ( १), इति ।। सूर्यं ते नव ।।

sūryaṃ te cakṣuḥ | vātaṃ prāṇaḥ | dyāṃ pṛṣṭham | antarikṣamātmā | aṅgairyajñam | pṛthivīm̐ śarīraiḥ, iti | vācaspate'cchidrayā vācā | acchidrayā juhvā | divi devāvṛdham̐ hotrāmerayasva svāhā ( 1), iti || sūryaṃ te nava ||

Sanskrit only: no published translation is held for this verse.

महाहविर्होता । सत्यहविरध्वर्युः, अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता, इति । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा (१), इति । अपात्रीणि च ।।

mahāhavirhotā | satyahaviradhvaryuḥ, acyutapājā agnīt | acyutamanā upavaktā | anādhṛṣyaścāpratidhṛṣyaśca yajñasyābhigarau | ayāsya udgātā, iti | vācaspate hṛdvidhe nāman | vidhema te nāma | vidhestvamasmākaṃ nāma | vācaspatiḥ somamapāt | mā daivyastantuśchedi mā manuṣyaḥ | namo dive | namaḥ pṛthivyai svāhā (1), iti | apātrīṇi ca ||

Sanskrit only: no published translation is held for this verse.

वाग्घोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि, इति । भूर्भुवः सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयंभुवे स्वाहा (१), इति । वाग्घोता नव ।।

vāgghotā | dīkṣā patnī | vāto'dhvaryuḥ | āpo'bhigaraḥ | mano haviḥ | tapasi juhomi, iti | bhūrbhuvaḥ suvaḥ | brahma svayaṃbhu | brahmaṇe svayaṃbhuve svāhā (1), iti | vāgghotā nava ||

Sanskrit only: no published translation is held for this verse.

ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून्पुष्टिं यशः । यज्ञश्च मे भूयात् इति । अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून्पुष्टिं यशः । भर्ता च मे भूयात्, इति । पृथिवी त्रिहोता । स प्रतिष्ठा ( १) । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्रतिष्ठा च मे भूयात्, इति । अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून्पुष्टिं यशः । विष्ठाश्च मे भूयात्, इति । वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशू न्पुष्टिं यशः । प्राणश्च मे भूयात् ( २), इति । चन्द्रमाः षड्ढोता । स ऋतून्कल्पयाति । स मे ददातु प्रजां पशून्पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम्, इति । अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून्पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात्, इति । द्यौरष्टहोता । सोऽनाधृष्यः ( ३) । स मे ददातु प्रजां पशून्पुष्टिं यशः । अनाधृष्यश्च भूयासम्, इति । आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून्पुष्टिं यशः । तेजस्वी च भूयासम्, इति । प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून्पुष्टिं यशः । सर्वं च मे भूयात् ( ४), इति । प्रतिष्ठा प्राणश्च मे भूयादनाधृश्यः सर्वं च मे भूयात् ।। ब्राह्मणो यज्ञोऽग्निर्भर्ता पृथिवी प्रतिष्ठाऽन्तरिक्षं विष्ठा वायुः प्राणश्चन्द्रमा स ऋतूनन्नꣳ स प्राणस्य प्राणो द्यौरनाधृष्य आदित्यः स तेजस्वी प्रजापतिः स इदꣳ सर्वं च मे भूयात् ।।

brāhmaṇa ekahotā | sa yajñaḥ | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | yajñaśca me bhūyāt iti | agnirdvihotā | sa bhartā | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | bhartā ca me bhūyāt, iti | pṛthivī trihotā | sa pratiṣṭhā ( 1) | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | pratiṣṭhā ca me bhūyāt, iti | antarikṣaṃ caturhotā | sa viṣṭhāḥ | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | viṣṭhāśca me bhūyāt, iti | vāyuḥ pañcahotā | sa prāṇaḥ | sa me dadātu prajāṃ paśū npuṣṭiṃ yaśaḥ | prāṇaśca me bhūyāt ( 2), iti | candramāḥ ṣaḍḍhotā | sa ṛtūnkalpayāti | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | ṛtavaśca me kalpantām, iti | annam̐ saptahotā | sa prāṇasya prāṇaḥ | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | prāṇasya ca me prāṇo bhūyāt, iti | dyauraṣṭahotā | so'nādhṛṣyaḥ ( 3) | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | anādhṛṣyaśca bhūyāsam, iti | ādityo navahotā | sa tejasvī | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | tejasvī ca bhūyāsam, iti | prajāpatirdaśahotā | sa idam̐ sarvam | sa me dadātu prajāṃ paśūnpuṣṭiṃ yaśaḥ | sarvaṃ ca me bhūyāt ( 4), iti | pratiṣṭhā prāṇaśca me bhūyādanādhṛśyaḥ sarvaṃ ca me bhūyāt || brāhmaṇo yajño'gnirbhartā pṛthivī pratiṣṭhā'ntarikṣaṃ viṣṭhā vāyuḥ prāṇaścandramā sa ṛtūnannam̐ sa prāṇasya prāṇo dyauranādhṛṣya ādityaḥ sa tejasvī prajāpatiḥ sa idam̐ sarvaṃ ca me bhūyāt ||

Sanskrit only: no published translation is held for this verse.

अग्निर्यजुर्भिः । सविता स्तोमैः । इन्द्र उक्थामदैः । मित्रावरुणावाशिषा । अङ्गिरसो धिष्णियैरग्निभिः । मरुतः सदोहविर्धानाभ्याम् । आपः प्रोक्षणीभिः । ओषधयो बर्हिषा । अदितिर्वेद्या । सोमो दीक्षया ( १) । त्वष्टेध्मेन । विष्णुर्यज्ञेन । वसव आज्येन । आदित्या दक्षिणाभिः । विश्वे देवा ऊर्जा । पूषा स्वगाकारेण । बृहस्पतिः पुरोधया । प्रजापतिरुद्गीथेन । अन्तरिक्षं पवित्रेण । वायुः पात्रैः । अहꣳ श्रद्धया (२), इति ।। दीक्षया पात्रैरेकं च ।।

agniryajurbhiḥ | savitā stomaiḥ | indra ukthāmadaiḥ | mitrāvaruṇāvāśiṣā | aṅgiraso dhiṣṇiyairagnibhiḥ | marutaḥ sadohavirdhānābhyām | āpaḥ prokṣaṇībhiḥ | oṣadhayo barhiṣā | aditirvedyā | somo dīkṣayā ( 1) | tvaṣṭedhmena | viṣṇuryajñena | vasava ājyena | ādityā dakṣiṇābhiḥ | viśve devā ūrjā | pūṣā svagākāreṇa | bṛhaspatiḥ purodhayā | prajāpatirudgīthena | antarikṣaṃ pavitreṇa | vāyuḥ pātraiḥ | aham̐ śraddhayā (2), iti || dīkṣayā pātrairekaṃ ca ||

Sanskrit only: no published translation is held for this verse.

सेनेन्द्रस्य । धेना बृहस्पतेः । पथ्या पूष्णः । वाग्वायोः । दीक्षा सोमस्य । पृथिव्यग्नेः । वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् (१) । वरुणस्य विराट् । यज्ञस्य पङ्क्तिः । प्रजापतेरनुमतिः । मित्रस्य श्रद्धा । सवितुः प्रसूतिः । सूर्यस्य मरीचिः । चन्द्रमसो रोहिणी । ऋषीणामरुन्धती । पर्जन्यस्य विद्युत् । चतस्रो दिशः । चतस्रोऽवान्तरदिशाः । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क् च सूनृता च देवानां पत्नयः ( २), इति । अनुष्टुग् दिशः षट् च ।।

senendrasya | dhenā bṛhaspateḥ | pathyā pūṣṇaḥ | vāgvāyoḥ | dīkṣā somasya | pṛthivyagneḥ | vasūnāṃ gāyatrī | rudrāṇāṃ triṣṭuk | ādityānāṃ jagatī | viṣṇoranuṣṭuk (1) | varuṇasya virāṭ | yajñasya paṅktiḥ | prajāpateranumatiḥ | mitrasya śraddhā | savituḥ prasūtiḥ | sūryasya marīciḥ | candramaso rohiṇī | ṛṣīṇāmarundhatī | parjanyasya vidyut | catasro diśaḥ | catasro'vāntaradiśāḥ | ahaśca rātriśca | kṛṣiśca vṛṣṭiśca | tviṣiścāpacitiśca | āpaścauṣadhayaśca | ūrk ca sūnṛtā ca devānāṃ patnayaḥ ( 2), iti | anuṣṭug diśaḥ ṣaṭ ca ||

Sanskrit only: no published translation is held for this verse.

देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु । देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता ( १) । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु, इति । सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् ( २) । मनवे तल्पम् । त्वष्ट्रेऽजाम् । पूष्णेऽ विम् । निर्ऋत्या अश्वतरगर्दभौ । हिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलंकरुणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ब्रह्मण ओदनम् । सुमुद्रायापः ( ३) । उत्तानायाऽऽङ्गीरसायानः । वैश्वानराय रथम्, इति । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवः पृष्ठं भन्दमानः समन्मभिः । स पूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परियाति जागृविः, इति । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे ( ४) । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु ( ५), इति ।। दाता पुरुषमापः प्रतिग्रहीत्रे नव च ।।

devasya tvā savituḥ prasave | aśvinorbāhubhyām | pūṣṇo hastābhyāṃ pratigṛhṇāmi | rājā tvā varuṇo nayatu | devi dakṣiṇe'gnaye hiraṇyam | tenāmṛtatvamaśyām | vayo dātre | mayo mahyamastu pratigrahītre | ka idaṃ kasmā adāt | kāmaḥ kāmāya | kāmo dātā ( 1) | kāmaḥ pratigrahītā | kāmam̐ samudramāviśa | kāmena tvā pratigṛhṇāmi | kāmaitatte | eṣā te kāma dakṣiṇā | uttānastvā''ṅgīrasaḥ pratigṛhṇātu, iti | somāya vāsaḥ | rudrāya gām | varuṇāyāśvam | prajāpataye puruṣam ( 2) | manave talpam | tvaṣṭre'jām | pūṣṇe' vim | nirṛtyā aśvataragardabhau | himavato hastinam | gandharvāpsarābhyaḥ sragalaṃkaruṇe | viśvebhyo devebhyo dhānyam | vāce'nnam | brahmaṇa odanam | sumudrāyāpaḥ ( 3) | uttānāyā''ṅgīrasāyānaḥ | vaiśvānarāya ratham, iti | vaiśvānaraḥ pratnathā nākamāruhat | divaḥ pṛṣṭhaṃ bhandamānaḥ samanmabhiḥ | sa pūrvavajjanayajjantave dhanam | samānamajmā pariyāti jāgṛviḥ, iti | rājā tvā varuṇo nayatu devi dakṣiṇe vaiśvānarāya ratham | tenāmṛtatvamaśyām | vayo dātre | mayo mahyamastu pratigrahītre ( 4) | ka idaṃ kasmā adāt | kāmaḥ kāmāya | kāmo dātā | kāmaḥ pratigrahītā | kāmam̐ samudramāviśa | kāmena tvā pratigṛhṇāmi | kāmaitatte | eṣā te kāma dakṣiṇā | uttānastvā''ṅgīrasaḥ pratigṛhṇātu ( 5), iti || dātā puruṣamāpaḥ pratigrahītre nava ca ||

Sanskrit only: no published translation is held for this verse.

सुवर्णं घर्मं परिवेद वेनम् । इन्द्रस्याऽऽत्मानं दशधा चरन्तम् । अन्तः समुद्रे मनसा चरन्तम् । ब्रह्माऽन्वविन्दद्दशहोतारमर्णे । अन्तः प्रविष्टः शास्ता जनानाम् । एकः सन्बहुधा विचारः । शतꣳ शुक्राणि यत्रैकं भवन्ति । सर्वे वेदा यत्रैकं भवन्ति । सर्वे होतारो यत्रैकं भवन्ति । स मानसीन आत्मा जनानाम् ( १) । अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा । सर्वाः प्रजा यत्रैकं भवन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैः । स मानसीन आत्मा जनानाम्, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानꣳ सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टारꣳ रूपाणि विकुर्वन्तं विपश्चिम् ( २) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानꣳ सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तम् । वाचो वीर्यं तपसाऽन्वविन्दत्, इति । अन्तः प्रविष्टं कर्तारमेतम् । त्वष्टारꣳ रूपाणि विकुर्वन्तं विपश्चिम् ( २) । अमृतस्य प्राणं यज्ञमेतम् । चतुहोंतृणामात्मानं कवयो निचिक्युः, इति । इन्द्रꣳ राजानꣳ सवितारमेतम् । वायोरात्मानं कवय्रो निचिक्युः । रश्मिꣳ रश्मीनां मध्ये तपन्तम् । ऋतस्य पदे कवयो निपान्ति, इति । य आण्डकोशे भुवनं बिभर्ति । अनिर्भिण्णः सन्नथ लोकान्विचष्टे । यस्याऽऽण्डकोशꣳ शुष्ममाहुः प्राणमुल्बम् । तेन क्लृप्तोऽमृतेनाहमस्मि, इति । सुवर्णं कोशꣳ रजसा परीवृतम् । देवानां वसुधानीं विराजम् ( ४) । अमृतस्य पूर्णां तामु कलां विचक्षते । पादꣳ षड्ढोतुर्न किलाऽऽविवित्से, इति । येनर्तवः पञ्चधोत क्लृप्ता । उत वा षड्धा मनसोत क्लृप्ताः । तत् षड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति, इति । अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः । इन्द्रस्याऽऽत्मानꣳ शतधा चरन्तम् ( ५), इति । इन्द्रो राजा जगतो य ईशे । सप्तहोता सप्तधा विक्लृप्तः, इति । परेण तन्तुं परिषिच्यमानम् । अन्तरादित्ये मनसा चरन्तम् । देवानाꣳ हृदयं ब्रह्माऽन्वविन्दत्, इति । ब्रह्मैतद्ब्रह्मण उज्जभार । अर्कꣳ श्चोतन्तꣳ सरिरस्य मध्ये, इति । आ यस्मिन्त्सप्त पेरवः । मेहन्ति बहुलाꣳ श्रियम् । बह्वश्वामिन्द्र गोमतीम् (६), इति । अच्युतां बहुलाꣳ श्रियम् । स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते, इति । बह्वश्वामिन्द्र गोमतीम् । अच्युतां बहुलाꣳ श्रियम् । मह्यमिन्द्रो नियच्छतु, इति । शतꣳ शता अस्य युक्ता हरीणाम् । अर्वाङायातु वसुभी रश्मिरिन्द्रः ।प्रमꣳहमाणो बहुलाꣳ श्रियम्। रश्मिरिन्द्रः सविता मे नियच्छतु ( ७), इति । घृतं तेजो मधुमदिन्द्रियम् । मय्ययमग्निर्दधातु, इति । हरिः पतङ्गः पटरी सुपर्णः । दिविक्षयो नभसा य एति । स न इन्द्रः कामवरं ददातु, इति। पञ्चारं चक्रं परिवर्तते पृथु । हिरण्यज्योतिः सरिरस्य मध्ये । अजस्रं ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु, इति । सप्त युञ्जन्ति रथमेकचक्रम् ( ८) । एको अश्वो बहति सप्तनामा । त्रिनाभिं चक्रमजरमनर्वम् । येनेमा विश्वा भुवनानि तस्थुः, इति । भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयः सुवर्विदः । ततः क्षत्त्रं बलमोजश्च जातम् । तदस्मै देवा अभिसंनमन्तु, इति । श्वेतꣳ रश्मिं बोभुज्यमानम् । अपां नेतारं भुवनस्य गोपाम् । इन्द्रं निचिक्युः परमे व्योमन् ( ९), इति । रोहिणीः पिङ्गला एकरूपाः । क्षरन्तीः पिङ्गला एकरूपाः । शतꣳ सहस्राणि प्रयुतानि नाव्यानाम्, इति । अयं यः श्वेतो रश्मिः । परि सर्वमिदं जगत् । प्रजां पशून्धनानि । अस्माकं ददातु, इति । श्वेतो रश्मिः परि सर्वं बभूव । सुवन्मह्यं पशून्विश्वरूपान्, इति। पतङ्गमक्तमसुरस्य मायया ( १०) । हृदा पश्यन्ति मनसा मनीषिणः । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधसः, इति । पतङ्गो वाचं मनसा बिभर्ति । तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानाꣳ स्वर्यं मनीषाम् । ऋतस्य पदे कवयो निपान्ति, इति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । अग्निस्ताꣳ अग्रे प्रमुमोक्तु देवः (११) । प्रजापतिः प्रजया संविदानः, इति । वीतꣳ स्तुके स्तुके । युवमस्मासु नियच्छतम् । प्र प्र यज्ञपतिं तिर, इति । ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । तेषाꣳ सप्तानाम्रिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय, इति । य आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः, इति । इडायै सृप्तं घृतवच्चराचरम् । देवा अन्वविन्दन्गुहाहितम्, इति । य आरण्याः पशवो विश्वरूपाः । विरूपा सन्तो बहुधैकरूपाः । तेषाꣳ सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रज्रास्त्वाय सुवीर्याय (१२), इति ।। आत्मा जनानां विकुर्वन्तं विपश्चिं प्रजानां वसुधानीं विराजं चरन्तं गोमतीं मे नियच्छत्वेकचक्रं व्योमन्मायया देव एकरूपा अष्टौ च ।।

suvarṇaṃ gharmaṃ pariveda venam | indrasyā''tmānaṃ daśadhā carantam | antaḥ samudre manasā carantam | brahmā'nvavindaddaśahotāramarṇe | antaḥ praviṣṭaḥ śāstā janānām | ekaḥ sanbahudhā vicāraḥ | śatam̐ śukrāṇi yatraikaṃ bhavanti | sarve vedā yatraikaṃ bhavanti | sarve hotāro yatraikaṃ bhavanti | sa mānasīna ātmā janānām ( 1) | antaḥ praviṣṭaḥ śāstā janānām̐ sarvātmā | sarvāḥ prajā yatraikaṃ bhavanti | caturhotāro yatra saṃpadaṃ gacchanti devaiḥ | sa mānasīna ātmā janānām, iti | brahmendramagniṃ jagataḥ pratiṣṭhām | diva ātmānam̐ savitāraṃ bṛhaspatim | caturhotāraṃ pradiśo'nuklṛptam | vāco vīryaṃ tapasā'nvavindat, iti | antaḥ praviṣṭaṃ kartārametam | tvaṣṭāram̐ rūpāṇi vikurvantaṃ vipaścim ( 2) | amṛtasya prāṇaṃ yajñametam | catuhoṃtṛṇāmātmānaṃ kavayo nicikyuḥ, iti | brahmendramagniṃ jagataḥ pratiṣṭhām | diva ātmānam̐ savitāraṃ bṛhaspatim | caturhotāraṃ pradiśo'nuklṛptam | vāco vīryaṃ tapasā'nvavindat, iti | antaḥ praviṣṭaṃ kartārametam | tvaṣṭāram̐ rūpāṇi vikurvantaṃ vipaścim ( 2) | amṛtasya prāṇaṃ yajñametam | catuhoṃtṛṇāmātmānaṃ kavayo nicikyuḥ, iti | indram̐ rājānam̐ savitārametam | vāyorātmānaṃ kavayro nicikyuḥ | raśmim̐ raśmīnāṃ madhye tapantam | ṛtasya pade kavayo nipānti, iti | ya āṇḍakośe bhuvanaṃ bibharti | anirbhiṇṇaḥ sannatha lokānvicaṣṭe | yasyā''ṇḍakośam̐ śuṣmamāhuḥ prāṇamulbam | tena klṛpto'mṛtenāhamasmi, iti | suvarṇaṃ kośam̐ rajasā parīvṛtam | devānāṃ vasudhānīṃ virājam ( 4) | amṛtasya pūrṇāṃ tāmu kalāṃ vicakṣate | pādam̐ ṣaḍḍhoturna kilā''vivitse, iti | yenartavaḥ pañcadhota klṛptā | uta vā ṣaḍdhā manasota klṛptāḥ | tat ṣaḍḍhotāramṛtubhiḥ kalpamānam | ṛtasya pade kavayo nipānti, iti | antaḥ praviṣṭaṃ kartārametam | antaścandramasi manasā carantam | sahaiva santaṃ na vijānanti devāḥ | indrasyā''tmānam̐ śatadhā carantam ( 5), iti | indro rājā jagato ya īśe | saptahotā saptadhā viklṛptaḥ, iti | pareṇa tantuṃ pariṣicyamānam | antarāditye manasā carantam | devānām̐ hṛdayaṃ brahmā'nvavindat, iti | brahmaitadbrahmaṇa ujjabhāra | arkam̐ ścotantam̐ sarirasya madhye, iti | ā yasmintsapta peravaḥ | mehanti bahulām̐ śriyam | bahvaśvāmindra gomatīm (6), iti | acyutāṃ bahulām̐ śriyam | sa harirvasuvittamaḥ | perurindrāya pinvate, iti | bahvaśvāmindra gomatīm | acyutāṃ bahulām̐ śriyam | mahyamindro niyacchatu, iti | śatam̐ śatā asya yuktā harīṇām | arvāṅāyātu vasubhī raśmirindraḥ |pramam̐hamāṇo bahulām̐ śriyam| raśmirindraḥ savitā me niyacchatu ( 7), iti | ghṛtaṃ tejo madhumadindriyam | mayyayamagnirdadhātu, iti | hariḥ pataṅgaḥ paṭarī suparṇaḥ | divikṣayo nabhasā ya eti | sa na indraḥ kāmavaraṃ dadātu, iti| pañcāraṃ cakraṃ parivartate pṛthu | hiraṇyajyotiḥ sarirasya madhye | ajasraṃ jyotirnabhasā sarpadeti | sa na indraḥ kāmavaraṃ dadātu, iti | sapta yuñjanti rathamekacakram ( 8) | eko aśvo bahati saptanāmā | trinābhiṃ cakramajaramanarvam | yenemā viśvā bhuvanāni tasthuḥ, iti | bhadraṃ paśyanta upaseduragre | tapo dīkṣāmṛṣayaḥ suvarvidaḥ | tataḥ kṣattraṃ balamojaśca jātam | tadasmai devā abhisaṃnamantu, iti | śvetam̐ raśmiṃ bobhujyamānam | apāṃ netāraṃ bhuvanasya gopām | indraṃ nicikyuḥ parame vyoman ( 9), iti | rohiṇīḥ piṅgalā ekarūpāḥ | kṣarantīḥ piṅgalā ekarūpāḥ | śatam̐ sahasrāṇi prayutāni nāvyānām, iti | ayaṃ yaḥ śveto raśmiḥ | pari sarvamidaṃ jagat | prajāṃ paśūndhanāni | asmākaṃ dadātu, iti | śveto raśmiḥ pari sarvaṃ babhūva | suvanmahyaṃ paśūnviśvarūpān, iti| pataṅgamaktamasurasya māyayā ( 10) | hṛdā paśyanti manasā manīṣiṇaḥ | samudre antaḥ kavayo vicakṣate | marīcīnāṃ padamicchanti vedhasaḥ, iti | pataṅgo vācaṃ manasā bibharti | tāṃ gandharvo'vadadgarbhe antaḥ | tāṃ dyotamānām̐ svaryaṃ manīṣām | ṛtasya pade kavayo nipānti, iti | ye grāmyāḥ paśavo viśvarūpāḥ | virūpāḥ santo bahudhaikarūpāḥ | agnistām̐ agre pramumoktu devaḥ (11) | prajāpatiḥ prajayā saṃvidānaḥ, iti | vītam̐ stuke stuke | yuvamasmāsu niyacchatam | pra pra yajñapatiṃ tira, iti | ye grāmyāḥ paśavo viśvarūpāḥ | virūpāḥ santo bahudhaikarūpāḥ | teṣām̐ saptānāmriha rantirastu | rāyaspoṣāya suprajāstvāya suvīryāya, iti | ya āraṇyāḥ paśavo viśvarūpāḥ | virūpāḥ santo bahudhaikarūpāḥ | vāyustām̐ agre pramumoktu devaḥ | prajāpatiḥ prajayā saṃvidānaḥ, iti | iḍāyai sṛptaṃ ghṛtavaccarācaram | devā anvavindanguhāhitam, iti | ya āraṇyāḥ paśavo viśvarūpāḥ | virūpā santo bahudhaikarūpāḥ | teṣām̐ saptānāmiha rantirastu | rāyaspoṣāya suprajrāstvāya suvīryāya (12), iti || ātmā janānāṃ vikurvantaṃ vipaściṃ prajānāṃ vasudhānīṃ virājaṃ carantaṃ gomatīṃ me niyacchatvekacakraṃ vyomanmāyayā deva ekarūpā aṣṭau ca ||

Sanskrit only: no published translation is held for this verse.

सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम्, इति । पुरुष एवेदꣳ सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः । यदन्नेनातिरोहति, इति । एतावानस्य महिमा । अतो ज्यायाꣳश्च पूरुषः ( १) । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि, इति । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽभवात्पुनः । ततो विष्वङ्व्यक्रामत् । साशनानशने अभि, इति । तस्माद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः (२), इति । यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम् । ग्रीष्म इध्मः शरद्धविः, इति । सप्तास्याऽऽसन्परिधयः । त्रिःसप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम्, इति । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः (३) । तेन देवा अयजन्त । साध्या ऋषयश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । संभृतं पृषदाज्यम् । पशूꣳस्ताꣳश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये, इति । तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत (४), इति । तस्मादश्वा अजायन्त । ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः, इति । यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते, इति । ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ( ५) । ऊरू तदस्य यद्वैश्यः । पद्भ्याम् शूद्रो अजायत, इति । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत, इति । नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकाꣳ अकल्पयन् ( ६), इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते, इति । धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृतं इह भवति । नान्यः पन्था अयनाय विद्यते, इति । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः ( ७), इति । पूरुषः पुरोऽग्रतोऽजायत कृतोऽकल्पयन्नासन्द्वे च ।।

sahasraśīrṣā puruṣaḥ | sahasrākṣaḥ sahasrapāt | sa bhūmiṃ viśvato vṛtvā | atyatiṣṭhaddaśāṅgulam, iti | puruṣa evedam̐ sarvam | yadbhūtaṃ yacca bhavyam | utāmṛtatvasyeśānaḥ | yadannenātirohati, iti | etāvānasya mahimā | ato jyāyām̐śca pūruṣaḥ ( 1) | pādo'sya viśvā bhūtāni | tripādasyāmṛtaṃ divi, iti | tripādūrdhva udaitpuruṣaḥ | pādo'syehā'bhavātpunaḥ | tato viṣvaṅvyakrāmat | sāśanānaśane abhi, iti | tasmādvirāḍajāyata | virājo adhi pūruṣaḥ | sa jāto atyaricyata | paścādbhūmimatho puraḥ (2), iti | yatpuruṣeṇa haviṣā | devā yajñamatanvata | vasanto asyā''sīdājyam | grīṣma idhmaḥ śaraddhaviḥ, iti | saptāsyā''sanparidhayaḥ | triḥsapta samidhaḥ kṛtāḥ | devā yadyajñaṃ tanvānāḥ | abadhnanpuruṣaṃ paśum, iti | taṃ yajñaṃ barhiṣi praukṣan | puruṣaṃ jātamagrataḥ (3) | tena devā ayajanta | sādhyā ṛṣayaśca ye, iti | tasmādyajñātsarvahutaḥ | saṃbhṛtaṃ pṛṣadājyam | paśūm̐stām̐ścakre vāyavyān | āraṇyāngrāmyāśca ye, iti | tasmādyajñātsarvahutaḥ | ṛcaḥ sāmāni jajñire | chandām̐si jajñire tasmāt | yajustasmādajāyata (4), iti | tasmādaśvā ajāyanta | ye ke cobhayādataḥ | gāvo ha jajñire tasmāt | tasmājjātā ajāvayaḥ, iti | yatpuruṣaṃ vyadadhuḥ | katidhā vyakalpayan | mukhaṃ kimasya kau bāhū | kāvūrū pādāvucyete, iti | brāhmaṇo'sya mukhamāsīt | bāhū rājanyaḥ kṛtaḥ ( 5) | ūrū tadasya yadvaiśyaḥ | padbhyām śūdro ajāyata, iti | candramā manaso jātaḥ | cakṣoḥ sūryo ajāyata | mukhādindraścāgniśca | prāṇādvāyurajāyata, iti | nābhyā āsīdantarikṣam | śīrṣṇo dyauḥ samavartata | padbhyāṃ bhūmirdiśaḥ śrotrāt | tathā lokām̐ akalpayan ( 6), iti | vedāhametaṃ puruṣaṃ mahāntam | ādityavarṇaṃ tamasastu pāre | sarvāṇi rūpāṇi vicitya dhīraḥ | nāmāni kṛtvā'bhivadanyadāste, iti | dhātā purastādyamudājahāra | śakraḥ pravidvānpradiśaścatasraḥ | tamevaṃ vidvānamṛtaṃ iha bhavati | nānyaḥ panthā ayanāya vidyate, iti | yajñena yajñamayajanta devāḥ | tāni dharmāṇi prathamānyāsan | te ha nākaṃ mahimānaḥ sacante | yatra pūrve sādhyāḥ santi devāḥ ( 7), iti | pūruṣaḥ puro'grato'jāyata kṛto'kalpayannāsandve ca ||

Sanskrit only: no published translation is held for this verse.

अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे, इति । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय,इति । प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ( १) । तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः, इति । यो देवेभ्य आतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये, इति । रुचं ब्राह्मं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे, इति । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम्। इष्टं मनिषाण । अमुं मनिषाण । सर्वं मनिषाण ( २), इति ।। जायते वशे सप्त च ।।

adbhyaḥ saṃbhūtaḥ pṛthivyai rasācca | viśvakarmaṇaḥ samavartatādhi | tasya tvaṣṭā vidadhadrūpameti | tatpuruṣasya viśvamājānamagre, iti | vedāhametaṃ puruṣaṃ mahāntam | ādityavarṇaṃ tamasaḥ parastāt | tamevaṃ vidvānamṛta iha bhavati | nānyaḥ panthā vidyate'yanāya,iti | prajāpatiścarati garbhe antaḥ | ajāyamāno bahudhā vijāyate ( 1) | tasya dhīrāḥ parijānanti yonim | marīcīnāṃ padamicchanti vedhasaḥ, iti | yo devebhya ātapati | yo devānāṃ purohitaḥ | pūrvo yo devebhyo jātaḥ | namo rucāya brāhmaye, iti | rucaṃ brāhmaṃ janayantaḥ | devā agre tadabruvan | yastvaivaṃ brāhmaṇo vidyāt | tasya devā asanvaśe, iti | hrīśca te lakṣmīśca patnyau | ahorātre pārśve | nakṣatrāṇi rūpam | aśvinau vyāttam| iṣṭaṃ maniṣāṇa | amuṃ maniṣāṇa | sarvaṃ maniṣāṇa ( 2), iti || jāyate vaśe sapta ca ||

Sanskrit only: no published translation is held for this verse.

भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । निधाय भारं पुनरस्तमेति, इति । तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु गोप्तारमाहुः । स भृतो भ्रियमाणो बिभर्ति । य एनं वेद सत्येन भर्तुम्, इति । सद्योजातमुत जहात्येषः । उतो जरन्तं न जहात्येकम् ( १) । उतो बहूनेकमहर्जहार । अतन्द्रो देवः सदमेव प्रार्थः, इति । यस्तद्वेद यत आबभूव । संधां च याꣳ संदधे ब्रह्मणैषः । रमते तस्मिन्नुत जीर्णे शयाने । नैनं जहात्यहस्सु पूर्व्येषु, इति । त्वामापो अनु सर्वाश्चरन्ति जानतीः । वत्सं पयसा पुनानाः । त्वमग्निꣳ हव्यवाहꣳ समिन्त्से त्वं भर्ता मातरिश्वा प्रजानाम् ( २), इति । त्वं यज्ञस्त्वमु वेवासि सोमः । तव देवा हवमायन्ति सर्वे । त्वमेकोऽसि बहूननुप्रविष्टः । नमस्ते अस्तु सुहवो म एधि, इति । नमो वामस्तु शृणुतꣳ हवं मे । प्राणापानावजिरꣳ संचरन्तौ । ह्वयामि वां ब्रह्मणा तूर्तमेतम् । यो मां द्वेष्टि तं जहितं युवाना, इति प्राणापानौ संविदानौ जहितम् । अमुप्यासुना मा संगसाथाम् ( ३) । तं मे देवा ब्रह्मणा संविदानौ । वधाय दत्तं तमहꣳ हनामि, इति । असज्जजान सत आबभूव । यं यं जजान स उ गोपो अस्य । यदा भारं तन्द्रयते स भर्तुम् । परास्य भारं पुनरस्तमेति, इति । तद्वै त्वं प्राणो अभवः । महान्भोगः प्रजापतेः । भुजः करिष्यमाणः । यद्देवान्प्राणयो नव (४ ), इति ।। एकं प्रजानां गसाथां नव ।।

bhartā sanbhriyamāṇo bibharti | eko devo bahudhā niviṣṭaḥ | yadā bhāraṃ tandrayate sa bhartum | nidhāya bhāraṃ punarastameti, iti | tameva mṛtyumamṛtaṃ tamāhuḥ | taṃ bhartāraṃ tamu goptāramāhuḥ | sa bhṛto bhriyamāṇo bibharti | ya enaṃ veda satyena bhartum, iti | sadyojātamuta jahātyeṣaḥ | uto jarantaṃ na jahātyekam ( 1) | uto bahūnekamaharjahāra | atandro devaḥ sadameva prārthaḥ, iti | yastadveda yata ābabhūva | saṃdhāṃ ca yām̐ saṃdadhe brahmaṇaiṣaḥ | ramate tasminnuta jīrṇe śayāne | nainaṃ jahātyahassu pūrvyeṣu, iti | tvāmāpo anu sarvāścaranti jānatīḥ | vatsaṃ payasā punānāḥ | tvamagnim̐ havyavāham̐ samintse tvaṃ bhartā mātariśvā prajānām ( 2), iti | tvaṃ yajñastvamu vevāsi somaḥ | tava devā havamāyanti sarve | tvameko'si bahūnanupraviṣṭaḥ | namaste astu suhavo ma edhi, iti | namo vāmastu śṛṇutam̐ havaṃ me | prāṇāpānāvajiram̐ saṃcarantau | hvayāmi vāṃ brahmaṇā tūrtametam | yo māṃ dveṣṭi taṃ jahitaṃ yuvānā, iti prāṇāpānau saṃvidānau jahitam | amupyāsunā mā saṃgasāthām ( 3) | taṃ me devā brahmaṇā saṃvidānau | vadhāya dattaṃ tamaham̐ hanāmi, iti | asajjajāna sata ābabhūva | yaṃ yaṃ jajāna sa u gopo asya | yadā bhāraṃ tandrayate sa bhartum | parāsya bhāraṃ punarastameti, iti | tadvai tvaṃ prāṇo abhavaḥ | mahānbhogaḥ prajāpateḥ | bhujaḥ kariṣyamāṇaḥ | yaddevānprāṇayo nava (4 ), iti || ekaṃ prajānāṃ gasāthāṃ nava ||

Sanskrit only: no published translation is held for this verse.

हरिꣳ हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्-मागात् । अयनं मा विवधीर्विक्रमस्व, इति । मा छिदो मृत्यो मा वधीः । मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा हविषा विधेम, इति । सद्यश्चकमानाय । प्रवेपानाय मृत्यवे (१) । प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः, इति । कामेन मे काम आगात् । हृदयाद्धृदयं मृत्योः । यदमीषामदः प्रियम् । तदैतूप मामभि, इति । परं मृत्यो अनुपेरहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते व्रवीमि । मा न प्रजाꣳ रीरिषो मोत वीरान्, इति । प्र पूर्व्यं मनसा वन्दमानः । नाधमानो वृषभं चर्षणीनाम् । यः प्रजानामेकराण्मानुषीणाम् । मृत्युं यजे प्रथमजामृतस्य (२) इति ।। मृत्यवे वीराँश्चत्वारि च ।।

harim̐ harantamanuyanti devāḥ | viśvasyeśānaṃ vṛṣabhaṃ matīnām | brahma sarūpamanu med-māgāt | ayanaṃ mā vivadhīrvikramasva, iti | mā chido mṛtyo mā vadhīḥ | mā me balaṃ vivṛho mā pramoṣīḥ | prajāṃ mā me rīriṣa āyurugra | nṛcakṣasaṃ tvā haviṣā vidhema, iti | sadyaścakamānāya | pravepānāya mṛtyave (1) | prāsmā āśā aśṛṇvan | kāmenājanayanpunaḥ, iti | kāmena me kāma āgāt | hṛdayāddhṛdayaṃ mṛtyoḥ | yadamīṣāmadaḥ priyam | tadaitūpa māmabhi, iti | paraṃ mṛtyo anuperahi panthām | yaste sva itaro devayānāt | cakṣuṣmate śṛṇvate te vravīmi | mā na prajām̐ rīriṣo mota vīrān, iti | pra pūrvyaṃ manasā vandamānaḥ | nādhamāno vṛṣabhaṃ carṣaṇīnām | yaḥ prajānāmekarāṇmānuṣīṇām | mṛtyuṃ yaje prathamajāmṛtasya (2) iti || mṛtyave vīrā~ścatvāri ca ||

Sanskrit only: no published translation is held for this verse.

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते, इति ।।

taraṇirviśvadarśato jyotiṣkṛdasi sūrya | viśvamābhāsi rocanam | upayāmagṛhīto'si sūryāya tvā bhrājasvata eṣa te yoniḥ sūryāya tvā bhrājasvate, iti ||

Sanskrit only: no published translation is held for this verse.

आप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तमः, इति ।।

āpyāyasva madintama soma viśvābhirūtibhiḥ | bhavā naḥ saprathastamaḥ, iti ||

Sanskrit only: no published translation is held for this verse.

ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पश्यान्, इति ।।

īyuṣṭe ye pūrvatarāmapaśyanvyucchantīmuṣasaṃ martyāsaḥ | asmābhirū nu praticakṣyā'bhūdo te yanti ye aparīṣu paśyān, iti ||

Sanskrit only: no published translation is held for this verse.

ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मला भवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि, इति ।।

jyotiṣmatīṃ tvā sādayāmi jyotiṣkṛtaṃ tvā sādayāmi jyotirvidaṃ tvā sādayāmi bhāsvatīṃ tvā sādayāmi jvalantīṃ tvā sādayāmi malmalā bhavantīṃ tvā sādayāmi dīpyamānāṃ tvā sādayāmi rocamānāṃ tvā sādayāmyajasrāṃ tvā sādayāmi bṛhajjyotiṣaṃ tvā sādayāmi bodhayantīṃ tvā sādayāmi jāgratīṃ tvā sādayāmi, iti ||

Sanskrit only: no published translation is held for this verse.

प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा, इति ।।

prayāsāya svāhā''yāsāya svāhā viyāsāya svāhā saṃyāsāya svāhodyāsāya svāhā'vayāsāya svāhā śuce svāhā śokāya svāhā tapyatvai svāhā tapate svāhā brahmahatyāyai svāhā sarvasmai svāhā, iti ||

Sanskrit only: no published translation is held for this verse.

चित्तꣳ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिꣳꣳ स्थूलहृदयेनाग्निꣳ हृदयेन रुद्रं लोहितेन शर्वं मतस्नाभ्यां महादेवमन्तःपार्श्वेनौषिष्ठहनꣳ शिङ्गीनिकोश्याभ्याम् (१), इति ।। चित्तमेकम् ।। चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता वाग्घोता ब्राह्मण एकहोताऽग्निर्यजुर्भिः सेनेन्द्रस्य देवस्य सुवर्णं घर्मꣳ सहस्रशीर्षाऽद्भ्यो भर्ता हरिं तरणिराप्यायस्वेयुष्टे ये ज्योतिष्मतीं प्रयासाय चित्तमेकविꣳशतिः ।। २१ ।। चित्तिरग्निर्यजुर्भिरन्तःप्रविष्टः प्रजापतिः प्रजया संविदा नस्तस्य धीरा ज्योतिष्मतीं त्रिपञ्चाशत् ।। ५३ ।। तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।। ॐ शान्तिः शान्तिः शान्तिः ।।

cittam̐ saṃtānena bhavaṃ yaknā rudraṃ tanimnā paśupatim̐m̐ sthūlahṛdayenāgnim̐ hṛdayena rudraṃ lohitena śarvaṃ matasnābhyāṃ mahādevamantaḥpārśvenauṣiṣṭhahanam̐ śiṅgīnikośyābhyām (1), iti || cittamekam || cittiḥ pṛthivyagniḥ sūryaṃ te cakṣurmahāhavirhotā vāgghotā brāhmaṇa ekahotā'gniryajurbhiḥ senendrasya devasya suvarṇaṃ gharmam̐ sahasraśīrṣā'dbhyo bhartā hariṃ taraṇirāpyāyasveyuṣṭe ye jyotiṣmatīṃ prayāsāya cittamekavim̐śatiḥ || 21 || cittiragniryajurbhirantaḥpraviṣṭaḥ prajāpatiḥ prajayā saṃvidā nastasya dhīrā jyotiṣmatīṃ tripañcāśat || 53 || tacchaṃ yorāvṛṇīmahe | gātuṃ yajñāya | gātuṃ yajñapataye | daivī svastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajam | śaṃ no astu dvipade | śaṃ catuṣpade || oṃ śāntiḥ śāntiḥ śāntiḥ ||

Sanskrit only: no published translation is held for this verse.