असन्नेव स भवति असद्ब्रह्मेति वेद चेत् । ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छी३ । आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ । सोऽकामयत । बहुभ्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदँ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च । सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥ असन्नेव असत्सम एव, यथा असन् अपुरुषार्थसंबन्धी, एवं सः भवति अपुरुषार्थसंबन्धी। कोऽसौ? यः असत् अविद्यमानं ब्राह्म इति वेद विजानाति चेत् यदि। तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमपि, अस्ति तत् ब्राह्म इति वेद चेत्, कुतः पुनराशङ्का तन्नास्तित्वे? व्यवहारातीतत्वं ब्राह्मण इति ब्राूमः। व्यवहारविषये हि वाचारम्भणमात्रे अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते। यथा ' घटादिव्र्यवहारविषयतयोपपन्नः सन्, तद्विपरीतः असन् ' इति प्रसिद्धम्, एवं तत्सामान्यादिहापि स्याद्ब्राह्मणो नास्तित्वं प्रत्याशङ्का। तस्मादुच्यते -- अस्ति ब्राह्मेति चेद्वेदेति। किं पुनः स्यात्तदस्तीति विजानतः? तदाह -- सन्तं विद्यमानं ब्राह्मस्वरूपेण परमार्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्राह्मविदः। ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्राह्मवद्विज्ञेयो भवतीत्यर्थः। अथवा यो नास्ति ब्राह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते; ब्राह्मप्रतिपत्त्यर्थत्वात्तस्य। अतः नास्तिकः सः असन् असाधुरुच्यते लोके। तद्विपरीतः सन् यः अस्ति ब्राह्मेति चेद्वेद, स तदब्राह्मप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्, ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः। तस्मादस्तीत्येव ब्राह्म प्रतिपत्तव्यमिति वाक्यार्थः। तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा। कोऽसौ? य एष आनन्दमयः। तं प्रति नास्त्याशङ्का नास्तित्वे। अपोढसर्वविशेषत्वात्तु ब्राह्मणो नास्तित्वं प्रत्याशङ्का युक्ता; सर्वसाम्याच्च ब्राह्मणः। यस्मादेवम्, अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनु एते प्रश्नाः। सामान्यं हि ब्राह्म आकाशादिकारणत्वात् विदुषः अविदुषश्च; अतः अविदुषोऽपि ब्राह्मप्राप्तिराशङ्कयते -- उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति? ' किं वा न गच्छति? ' इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात्। विद्वांसं प्रत्यन्यौ प्रश्नौ -- यद्यविद्वान्सामान्यं कारणमपि ब्राह्म न गच्छति, अतो विदुषोऽपि ब्राहृागमनमाशङ्कयते; अतस्तं प्रति प्रश्नः -- आहो विद्वानिति। उकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतशब्दाद्व्यासज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति -- उताहो विद्वानिति। विद्वान् ब्राह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति। समश्नुते उ इत्येवं स्थिते, अयादेशे यलोपे च कृते, अकारस्य प्लुतिः -- समश्नुता 3 उ इति। विद्वान्समश्नुते अमुं लोकम्; किं वा, यथा अविद्वान्, एवं विद्वानपि न समश्नुते इत्यपरः प्रश्नः। द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ; बहुवचनं तु सामथ्र्यप्राप्तप्रश्नान्तरापेक्षया घटते। ' असद्ब्राह्मेति वेद चेत् अस्ति ब्राह्मेति चेद्वेद ' इति श्रवणादस्ति नास्तीति संशयः। ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः। ब्राह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः। ब्राह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यगमनमाशङ्कय किं विद्वान्समश्नुते न समश्नुते इति तृतीयोऽनुप्रश्नः।। एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते। तत्र अस्तित्वमेव तावदुच्यते। यच्चोक्तम्, ' सत्यं ज्ञानमनन्तं ब्राह्म ' इति, तत्र च कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते। सत्त्वोक्त्यैव सत्यत्वमुच्यते। उक्तं हि सदेव सत्यमिति; तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते। कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य? शब्दानुगमात्। अनेनैव ह्रर्थेनान्वितानि उत्तरवाक्यानि -- 'तत्सत्यमित्याचक्षते यदेष आकाश आनन्दो न स्यात् ' इत्यादीनि। तत्र असदेव ब्राह्मेत्याशङ्कयते। कस्मात्? यदस्ति, तद्विशेषतो गृह्रते; यथा घटादि। यन्नास्ति, तन्नोपलभ्यते; यथा शशविषाणादि। तथा नोपलभ्यते ब्राह्म; तस्माद्विशेषतः अग्रहणान्नास्तीति। तन्न, आकाशादिकारणत्वाद्ब्राह्मणः। न नास्ति ब्राह्म। कस्मात्? आकाशादि हि सर्वं कार्यं ब्राह्मणो जातं गृह्रते; यस्माच्च जायते किंचित्, तदस्तीति दृष्टं लोके, यथा घटाङ्कुरादिकारणं मृद्बीजादि; तस्मादाकाशादिकारणत्वादस्ति ब्राह्म। न चासतो जातं किंचिद्गृह्रते लोके कार्यम्। असतश्चेन्नामरूपादि कार्यम्, निरात्मकत्वान्नोपलभ्येत; उपलभ्यते तु; तस्मादस्ति ब्राह्म। असतश्चेत्कार्यं गृह्रमाणमपि असदन्वितमेव स्यात्; न चैवम्; तस्मादस्ति ब्राह्म। तत्र 'कथमसतः सज्जायेत ' इति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्वाचष्टे न्यायतः। तस्मात्सदेव ब्राह्मेति युक्तम्। तद्यदि मृद्बीजादिवत् कारणं स्यात्, अचेतनं तर्हि। न; कामयितृत्वात्। न हि कामयित्रचेतनमस्ति लोके। सर्वज्ञं हि ब्राह्मेत्यवोचाम्; अतः कामयितृत्वोपपत्तिः। कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्, न; स्वातन्त्र्यात्। यथा अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्राह्मणः प्रवर्तकाः कामाः। कथं तर्हि? सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धाः। न तैब्र्राह्म प्रवत्र्यते; तेषां तु तत्प्रवर्तकं ब्राह्म प्राणिकर्मापेक्षया। तस्मात्स्वातन्त्र्यं कामेषु ब्राह्मणः; अतो न अनाप्तकामं ब्राह्म। साधनान्तरानपेक्षत्वाच्च। यथा अन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च, न तथा ब्राह्मणः। किं तर्हि? स्वात्मनोऽनन्याः। तदेतदाह -- सोऽकामयत। सः आत्मा यस्मादाकाशः संभूतः, अकामयत कामितवान्। कथम्? बहु प्रभूतं स्यां भवेयम्। कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति, उच्यते -- प्रजायेय उत्पद्येय। न हि पुत्रोत्पत्तेरिवार्थान्तरविषयं बहुभवनम्। कथं तर्हि? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या। यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्राह्मणः अप्रविभक्त्देशकाले सर्वावस्थासु व्याक्रियेते। तदेतन्नामरूपव्याकरणं ब्राह्मणो बहुभवनम्। नान्यथा निरवयवस्य ब्राह्मणो बहुत्वापत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव। अतः तद्द्वारेणैवात्मा बहु भवति। न ह्रात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते। अतः नामरूपे सर्वावस्थे ब्राह्मणैवात्मवती। न ब्राह्म तदात्मकम्। ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्येते। ताभ्यां च उपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्राह्म। सः आत्मा एवंकामः सन् तपः अतप्यत। तप इति ज्ञानमुच्यते, 'यस्य ज्ञानमयं तपः ' इति श्रुत्यन्तरात्। आप्तकामत्वाच्च इतरस्य असंभव एव तपसः। तत्तपः अतप्यत तप्तवान्, सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः। सः एवमालोच्य तपः तप्त्वा प्राणिकर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानम् असृजत सृष्टवान्। यदिदं किंच यÏत्कचेदमविशिष्टम्, तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते -- तदेव सृष्टं जगत् अनुप्राविशदिति।। तत्रैतच्चिन्त्यम् -- कथमनुप्राविशदिति। किम्, यः रुाष्टा, स तेनैवात्मनानुप्राविशत् उत अन्येनेति? किं तावद्युक्तम्? क्त्वाप्रत्ययश्रवणात्, यः रुाष्टा स एवानुप्राविशदिति। ननु न युक्तं मृद्वच्चेत्कारणं ब्राह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणमते; अतः अप्रविष्टस्यैव कार्योत्पत्तेरूध्र्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः। न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति। यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत्, श्रुत्यन्तराच्च ' अनेन जीवेनात्मनानुप्रविश्य ' इति; नैवं युक्तम्, एकत्वाद्ब्राह्मणः। मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्णस्य अप्रविष्टदेशत्वाच्च। न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते; कथं तर्हि प्रवेशः स्यात्? युक्तश्च प्रवेशः, श्रुतत्वात् -- 'तदेवानुप्राविशत् ' इति। सावयवमेवास्तु; तर्हि सावयवत्वात् मुखे हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत्, न; अशून्यदेशत्वात्। न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशेज्जीवात्मना। कारणमेव चेत्प्रविशेत्, जीवात्मत्वं जह्रात्, यथा घटो मृत्प्रवेशे घटत्वं जहाति। 'तदेवानुप्राविशत् ' इति च श्रुतेर्न कारणानुप्रवेशो युक्तः। कार्यान्तरमेव स्यादिति चेत् -- तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत्, न; विरोधात्। न हि घटो घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च। जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन्; तदापत्तौ मोक्षासंभवाच्च। न हि यतो मुच्यमानः, तदेव आपद्यते। न हि शृङ्खलापत्तिः बद्धस्य तस्करादेः। बाह्रान्तर्भेदेन परिणतमिति चेत् -- तदेव कारणं ब्राह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत्, न; बहिष्ठस्य प्रवेशोपपत्तेः। न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते। बहिष्ठस्यानुप्रवेशः स्यात्, प्रवेशशब्दार्थस्यैवं दृष्टत्वात् -- यथा गृहं कृत्वा प्राविशदिति। जलसूर्यकादिप्रतिबिम्बवत् प्रवेशः स्यादिति चेत्, न; अपरिच्छिन्नत्वादमूर्तत्वाच्च। परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात्, न त्वात्मनः; अमूर्तत्वात्, आकाशादिकारणस्य आत्मनः व्यापकत्वात्। तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्तः। एवं तर्हि नैवास्ति प्रवेशः; न च गत्यन्तरमुपलभामहे, ' तदेवानुप्राविशत् ' इति श्रुतेः। श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम्। न चास्माद्वाक्यात् यत्नवतामपि विज्ञानमुत्पद्यते। हन्त तह्र्रनर्थकत्वादपोह्रमेतद्वाक्यम् ' तत्सृष्ट्वा तदेवानुप्राविशत् ' इति; न, अन्यार्थत्वात्। किमर्थमस्थाने चर्चा? प्रकृतो ह्रन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति; स स्मर्तव्यः -- ' ब्राह्मविदाप्नोति परम् सत्यं ज्ञानमनन्तं ब्राह्म यो वेद निहितं गुहायाम् ' इति। तद्विज्ञानं च विवक्षितम्; प्रकृतं च तत्। ब्राह्मस्वरूपावगमाय च आकाशाद्यन्नमयान्तं कार्यं प्रदर्शितम्; ब्राहृावगमश्च आरब्धः। तत्र अन्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयः, तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः; तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः। अतः परमानन्दमयलिङ्गाधिगमद्वारेण आनन्दविवृद्धयवसान आत्मा। ब्राह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते। न ह्रन्यत्रोपलभ्यते ब्राह्म, निर्विशेषत्वात्; विशेषसंबन्धो ह्रुपलब्धिहेतुर्दृष्टः -- यथा राहोश्चन्द्रार्कविशेषसंबन्धः। एवमन्तःकरणगुहात्मसंबन्धो ब्राह्मण उपलब्धिहेतुः, संनिकर्षात्, अवभासात्मकत्वाच्च अन्तःकरणस्य। यथा च आलोकविशिष्टघटाद्युपलब्धिः, एवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्; तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव। तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते।। तदेवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते। स एव तस्य प्रवेशः; तस्मादस्ति तत्कारणं ब्राह्म। अतः अस्तित्वादस्तीत्येवोपलब्धव्यं तत्। तत् कार्यमनुप्रविश्य; किम्? सच्च मूर्तं त्यच्च अमूर्तम् अभवत्। मूर्तामूर्ते ह्रव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्तामूर्तशब्दवाच्ये। ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते। किं च, निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम्; अनिरुक्तं तद्विपरीतम्; निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे। यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च। निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः। त्यदनिरुक्तानिलनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्गोत्तरकालबावश्रवणात्। त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च। अतो विशेषणानि अमूर्तस्य व्याकृतविषयाण्येवैतानि। विज्ञानं चेतनम्; अविज्ञानं तद्रहितमचेतनं पाषाणादि। सत्यं च व्यवहारविषयम्, अधिकारात्; न परमार्थसत्यम्; एकमेव हि परमार्थसत्यं ब्राह्म। इह पुनः व्यवहारविषयमापेक्षिकं सत्यम्, मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते। अनृतं च तद्विपरीतम्। किं पुनः? एतत्सर्वमभवत्, सत्यं परमार्थसत्यम्; किं पुनस्तत्? ब्राह्म, 'सत्यं ज्ञानमनन्तं ब्राह्म ' इति प्रकृतत्वात्। यस्मात् सत्त्यदादिकं मूर्तामूर्तधर्मजातं यÏत्कचेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्राहृाभवत्, तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात् तत् ब्राह्म सत्यमित्याचक्षते ब्राह्मविदः। अस्ति नास्तीत्यनुप्रश्नः प्रकृतः; तस्य प्रतिवचनविषये एतदुक्तम् -- 'आत्माकामयत बहु स्याम् ' इति। स यथाकामं च आकाशादिकार्यं सत्त्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्श्रृण्वन्मन्वानो विजानन् बह्वभवत्; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् ह्मदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति। तत् एतस्मिन्नर्थे ब्रााह्मणोक्ते एषः श्लोकः मन्त्रः भवति। यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वपि, एवं सर्वान्तरमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति।। इति षष्ठानुवाकभाष्यम्।।
asanneva sa bhavati asadbrahmeti veda cet | brahmeti cedveda | santamenaṃ tato viduriti | tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya athāto'nupraśnāḥ | utāvidvānamuṃ lokaṃ pretya | kaścana gacchī3 | āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā 3 u | so'kāmayata | bahubhyāṃ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā | ida~ sarvamasṛjata | yadidaṃ kiñca | tatsṛṣṭvā | tadevānuprāviśat | tadanupraviśya | sacca tyaccābhavat | niruktaṃ cāniruktaṃ ca | nilayanaṃ cānilayanaṃ ca | vijñānaṃ cāvijñānaṃ ca | satyaṃ cānṛtaṃ ca | satyamabhavat | yadidaṃ kiñca | tatsatyamityācakṣate | tadapyeṣa śloko bhavati || 1 || asanneva asatsama eva, yathā asan apuruṣārthasaṃbandhī, evaṃ saḥ bhavati apuruṣārthasaṃbandhī| ko'sau? yaḥ asat avidyamānaṃ brāhma iti veda vijānāti cet yadi| tadviparyayeṇa yatsarvavikalpāspadaṃ sarvapravṛttibījaṃ sarvaviśeṣapratyastamitamapi, asti tat brāhma iti veda cet, kutaḥ punarāśaṅkā tannāstitve? vyavahārātītatvaṃ brāhmaṇa iti brāūmaḥ| vyavahāraviṣaye hi vācārambhaṇamātre astitvabhāvitabuddhiḥ tadviparīte vyavahārātīte nāstitvamapi astitvabhāvitabuddhiḥ tadviparīte vyavahārātīte nāstitvamapi pratipadyate| yathā ' ghaṭādivryavahāraviṣayatayopapannaḥ san, tadviparītaḥ asan ' iti prasiddham, evaṃ tatsāmānyādihāpi syādbrāhmaṇo nāstitvaṃ pratyāśaṅkā| tasmāducyate -- asti brāhmeti cedvedeti| kiṃ punaḥ syāttadastīti vijānataḥ? tadāha -- santaṃ vidyamānaṃ brāhmasvarūpeṇa paramārthasadātmāpannam enam evaṃvidaṃ viduḥ brāhmavidaḥ| tataḥ tasmāt astitvavedanāt saḥ anyeṣāṃ brāhmavadvijñeyo bhavatītyarthaḥ| athavā yo nāsti brāhmeti manyate, sa sarvasyaiva sanmārgasya varṇāśramādivyavasthālakṣaṇasya nāstitvaṃ pratipadyate; brāhmapratipattyarthatvāttasya| ataḥ nāstikaḥ saḥ asan asādhurucyate loke| tadviparītaḥ san yaḥ asti brāhmeti cedveda, sa tadabrāhmapratipattihetuṃ sanmārgaṃ varṇāśramādivyavasthālakṣaṇaṃ śraddadhānatayā yathāvatpratipadyate yasmāt, tataḥ tasmāt santaṃ sādhumārgastham enaṃ viduḥ sādhavaḥ| tasmādastītyeva brāhma pratipattavyamiti vākyārthaḥ| tasya pūrvasya vijñānamayasya eṣa eva śarīre vijñānamaye bhavaḥ śārīraḥ ātmā| ko'sau? ya eṣa ānandamayaḥ| taṃ prati nāstyāśaṅkā nāstitve| apoḍhasarvaviśeṣatvāttu brāhmaṇo nāstitvaṃ pratyāśaṅkā yuktā; sarvasāmyācca brāhmaṇaḥ| yasmādevam, ataḥ tasmāt atha anantaraṃ śrotuḥ śiṣyasya anupraśnāḥ ācāryoktimanu ete praśnāḥ| sāmānyaṃ hi brāhma ākāśādikāraṇatvāt viduṣaḥ aviduṣaśca; ataḥ aviduṣo'pi brāhmaprāptirāśaṅkayate -- uta api avidvān amuṃ lokaṃ paramātmānam itaḥ pretya kaścana, canaśabdaḥ apyarthe, avidvānapi gacchati prāpnoti? ' kiṃ vā na gacchati? ' iti dvitīyo'pi praśno draṣṭavyaḥ, anupraśnā iti bahuvacanāt| vidvāṃsaṃ pratyanyau praśnau -- yadyavidvānsāmānyaṃ kāraṇamapi brāhma na gacchati, ato viduṣo'pi brāhṛāgamanamāśaṅkayate; atastaṃ prati praśnaḥ -- āho vidvāniti| ukāraṃ ca vakṣyamāṇamadhastādapakṛṣya takāraṃ ca pūrvasmādutaśabdādvyāsajya āho ityetasmātpūrvamutaśabdaṃ saṃyojya pṛcchati -- utāho vidvāniti| vidvān brāhmavidapi kaścit itaḥ pretya amuṃ lokaṃ samaśnute prāpnoti| samaśnute u ityevaṃ sthite, ayādeśe yalope ca kṛte, akārasya plutiḥ -- samaśnutā 3 u iti| vidvānsamaśnute amuṃ lokam; kiṃ vā, yathā avidvān, evaṃ vidvānapi na samaśnute ityaparaḥ praśnaḥ| dvāveva vā praśnau vidvadavidvadviṣayau; bahuvacanaṃ tu sāmathryaprāptapraśnāntarāpekṣayā ghaṭate| ' asadbrāhmeti veda cet asti brāhmeti cedveda ' iti śravaṇādasti nāstīti saṃśayaḥ| tataḥ arthaprāptaḥ kimasti nāstīti prathamo'nupraśnaḥ| brāhmaṇaḥ apakṣapātitvāt avidvāngacchati na gacchatīti dvitīyaḥ| brāhmaṇaḥ samatve'pi aviduṣa iva viduṣo'pyagamanamāśaṅkaya kiṃ vidvānsamaśnute na samaśnute iti tṛtīyo'nupraśnaḥ|| eteṣāṃ prativacanārtha uttaro grantha ārabhyate| tatra astitvameva tāvaducyate| yaccoktam, ' satyaṃ jñānamanantaṃ brāhma ' iti, tatra ca kathaṃ satyatvamityetadvaktavyamiti idamucyate| sattvoktyaiva satyatvamucyate| uktaṃ hi sadeva satyamiti; tasmātsattvoktyaiva satyatvamucyate| kathamevamarthatā avagamyate asya granthasya? śabdānugamāt| anenaiva hrarthenānvitāni uttaravākyāni -- 'tatsatyamityācakṣate yadeṣa ākāśa ānando na syāt ' ityādīni| tatra asadeva brāhmetyāśaṅkayate| kasmāt? yadasti, tadviśeṣato gṛhrate; yathā ghaṭādi| yannāsti, tannopalabhyate; yathā śaśaviṣāṇādi| tathā nopalabhyate brāhma; tasmādviśeṣataḥ agrahaṇānnāstīti| tanna, ākāśādikāraṇatvādbrāhmaṇaḥ| na nāsti brāhma| kasmāt? ākāśādi hi sarvaṃ kāryaṃ brāhmaṇo jātaṃ gṛhrate; yasmācca jāyate kiṃcit, tadastīti dṛṣṭaṃ loke, yathā ghaṭāṅkurādikāraṇaṃ mṛdbījādi; tasmādākāśādikāraṇatvādasti brāhma| na cāsato jātaṃ kiṃcidgṛhrate loke kāryam| asataścennāmarūpādi kāryam, nirātmakatvānnopalabhyeta; upalabhyate tu; tasmādasti brāhma| asataścetkāryaṃ gṛhramāṇamapi asadanvitameva syāt; na caivam; tasmādasti brāhma| tatra 'kathamasataḥ sajjāyeta ' iti śrutyantaramasataḥ sajjanmāsaṃbhavamanvācaṣṭe nyāyataḥ| tasmātsadeva brāhmeti yuktam| tadyadi mṛdbījādivat kāraṇaṃ syāt, acetanaṃ tarhi| na; kāmayitṛtvāt| na hi kāmayitracetanamasti loke| sarvajñaṃ hi brāhmetyavocām; ataḥ kāmayitṛtvopapattiḥ| kāmayitṛtvādasmadādivadanāptakāmamiti cet, na; svātantryāt| yathā anyānparavaśīkṛtya kāmādidoṣāḥ pravartayanti, na tathā brāhmaṇaḥ pravartakāḥ kāmāḥ| kathaṃ tarhi? satyajñānalakṣaṇāḥ svātmabhūtatvādviśuddhāḥ| na taibrrāhma pravatryate; teṣāṃ tu tatpravartakaṃ brāhma prāṇikarmāpekṣayā| tasmātsvātantryaṃ kāmeṣu brāhmaṇaḥ; ato na anāptakāmaṃ brāhma| sādhanāntarānapekṣatvācca| yathā anyeṣāmanātmabhūtā dharmādinimittāpekṣāḥ kāmāḥ svātmavyatiriktakāryakaraṇasādhanāntarāpekṣāśca, na tathā brāhmaṇaḥ| kiṃ tarhi? svātmano'nanyāḥ| tadetadāha -- so'kāmayata| saḥ ātmā yasmādākāśaḥ saṃbhūtaḥ, akāmayata kāmitavān| katham? bahu prabhūtaṃ syāṃ bhaveyam| kathamekasyārthāntarānanupraveśe bahutvaṃ syāditi, ucyate -- prajāyeya utpadyeya| na hi putrotpatterivārthāntaraviṣayaṃ bahubhavanam| kathaṃ tarhi? ātmasthānabhivyaktanāmarūpābhivyaktyā| yadā ātmasthe anabhivyakte nāmarūpe vyākriyete, tadā ātmasvarūpāparityāgenaiva brāhmaṇaḥ apravibhaktdeśakāle sarvāvasthāsu vyākriyete| tadetannāmarūpavyākaraṇaṃ brāhmaṇo bahubhavanam| nānyathā niravayavasya brāhmaṇo bahutvāpattirupapadyate alpatvaṃ vā, yathā ākāśasyālpatvaṃ bahutvaṃ ca vastvantarakṛtameva| ataḥ taddvāreṇaivātmā bahu bhavati| na hrātmano'nyadanātmabhūtaṃ tatpravibhaktadeśakālaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ bhūtaṃ bhavadbhaviṣyadvā vastu vidyate| ataḥ nāmarūpe sarvāvasthe brāhmaṇaivātmavatī| na brāhma tadātmakam| te tatpratyākhyāne na sta eveti tadātmake ucyete| tābhyāṃ ca upādhibhyāṃ jñātṛjñeyajñānaśabdārthādisarvasaṃvyavahārabhāgbrāhma| saḥ ātmā evaṃkāmaḥ san tapaḥ atapyata| tapa iti jñānamucyate, 'yasya jñānamayaṃ tapaḥ ' iti śrutyantarāt| āptakāmatvācca itarasya asaṃbhava eva tapasaḥ| tattapaḥ atapyata taptavān, sṛjyamānajagadracanādiviṣayāmālocanāmakarodātmetyarthaḥ| saḥ evamālocya tapaḥ taptvā prāṇikarmādinimittānurūpam idaṃ sarvaṃ jagat deśataḥ kālataḥ nāmnā rūpeṇa ca yathānubhavaṃ sarvaiḥ prāṇibhiḥ sarvāvasthairanubhūyamānam asṛjata sṛṣṭavān| yadidaṃ kiṃca yaÏtkacedamaviśiṣṭam, tat idaṃ jagat sṛṣṭvā, kimakaroditi, ucyate -- tadeva sṛṣṭaṃ jagat anuprāviśaditi|| tatraitaccintyam -- kathamanuprāviśaditi| kim, yaḥ ruāṣṭā, sa tenaivātmanānuprāviśat uta anyeneti? kiṃ tāvadyuktam? ktvāpratyayaśravaṇāt, yaḥ ruāṣṭā sa evānuprāviśaditi| nanu na yuktaṃ mṛdvaccetkāraṇaṃ brāhma, tadātmakatvātkāryasya, kāraṇameva hi kāryātmanā pariṇamate; ataḥ apraviṣṭasyaiva kāryotpatterūdhrvaṃ pṛthakkāraṇasya punaḥ praveśo'nupapannaḥ| na hi ghaṭapariṇāmavyatirekeṇa mṛdo ghaṭe praveśo'sti| yathā ghaṭe cūrṇātmanā mṛdo'nupraveśaḥ, evamanena ātmanā nāmarūpakārye anupraveśa ātmanaḥ iti cet, śrutyantarācca ' anena jīvenātmanānupraviśya ' iti; naivaṃ yuktam, ekatvādbrāhmaṇaḥ| mṛdātmanastvanekatvāt sāvayavatvācca yukto ghaṭe mṛdaścūrṇātmanānupraveśaḥ, mṛdaścūrṇasya apraviṣṭadeśatvācca| na tvātmana ekatve sati niravayavatvādapraviṣṭadeśābhāvācca praveśa upapadyate; kathaṃ tarhi praveśaḥ syāt? yuktaśca praveśaḥ, śrutatvāt -- 'tadevānuprāviśat ' iti| sāvayavamevāstu; tarhi sāvayavatvāt mukhe hastapraveśavat nāmarūpakārye jīvātmanānupraveśo yukta eveti cet, na; aśūnyadeśatvāt| na hi kāryātmanā pariṇatasya nāmarūpakāryadeśavyatirekeṇa ātmaśūnyaḥ pradeśo'sti, yaṃ praviśejjīvātmanā| kāraṇameva cetpraviśet, jīvātmatvaṃ jahrāt, yathā ghaṭo mṛtpraveśe ghaṭatvaṃ jahāti| 'tadevānuprāviśat ' iti ca śruterna kāraṇānupraveśo yuktaḥ| kāryāntarameva syāditi cet -- tadevānuprāviśaditi jīvātmarūpaṃ kāryaṃ nāmarūpapariṇataṃ kāryāntarameva āpadyata iti cet, na; virodhāt| na hi ghaṭo ghaṭāntaramāpadyate, vyatirekaśrutivirodhācca| jīvasya nāmarūpakāryavyatirekānuvādinyaḥ śrutayo virudhyeran; tadāpattau mokṣāsaṃbhavācca| na hi yato mucyamānaḥ, tadeva āpadyate| na hi śṛṅkhalāpattiḥ baddhasya taskarādeḥ| bāhrāntarbhedena pariṇatamiti cet -- tadeva kāraṇaṃ brāhma śarīrādyādhāratvena tadantarjīvātmanā ādheyatvena ca pariṇatamiti cet, na; bahiṣṭhasya praveśopapatteḥ| na hi yo yasyāntaḥsthaḥ sa eva tatpraviṣṭa ucyate| bahiṣṭhasyānupraveśaḥ syāt, praveśaśabdārthasyaivaṃ dṛṣṭatvāt -- yathā gṛhaṃ kṛtvā prāviśaditi| jalasūryakādipratibimbavat praveśaḥ syāditi cet, na; aparicchinnatvādamūrtatvācca| paricchinnasya mūrtasyānyasya anyatra prasādasvabhāvake jalādau sūryakādipratibimbodayaḥ syāt, na tvātmanaḥ; amūrtatvāt, ākāśādikāraṇasya ātmanaḥ vyāpakatvāt| tadviprakṛṣṭadeśapratibimbādhāravastvantarābhāvācca pratibimbavatpraveśo na yuktaḥ| evaṃ tarhi naivāsti praveśaḥ; na ca gatyantaramupalabhāmahe, ' tadevānuprāviśat ' iti śruteḥ| śrutiśca no'tīndriyaviṣaye vijñānotpattau nimittam| na cāsmādvākyāt yatnavatāmapi vijñānamutpadyate| hanta tahrranarthakatvādapohrametadvākyam ' tatsṛṣṭvā tadevānuprāviśat ' iti; na, anyārthatvāt| kimarthamasthāne carcā? prakṛto hranyo vivakṣito'sya vākyārthaḥ asti; sa smartavyaḥ -- ' brāhmavidāpnoti param satyaṃ jñānamanantaṃ brāhma yo veda nihitaṃ guhāyām ' iti| tadvijñānaṃ ca vivakṣitam; prakṛtaṃ ca tat| brāhmasvarūpāvagamāya ca ākāśādyannamayāntaṃ kāryaṃ pradarśitam; brāhṛāvagamaśca ārabdhaḥ| tatra annamayādātmano'nyo'ntara ātmā prāṇamayaḥ, tadantarmanomayo vijñānamaya iti vijñānaguhāyāṃ praveśitaḥ; tatra ca ānandamayo viśiṣṭa ātmā pradarśitaḥ| ataḥ paramānandamayaliṅgādhigamadvāreṇa ānandavivṛddhayavasāna ātmā| brāhma pucchaṃ pratiṣṭhā sarvavikalpāspado nirvikalpo'syāmeva guhāyāmadhigantavya iti tatpraveśaḥ prakalpyate| na hranyatropalabhyate brāhma, nirviśeṣatvāt; viśeṣasaṃbandho hrupalabdhiheturdṛṣṭaḥ -- yathā rāhoścandrārkaviśeṣasaṃbandhaḥ| evamantaḥkaraṇaguhātmasaṃbandho brāhmaṇa upalabdhihetuḥ, saṃnikarṣāt, avabhāsātmakatvācca antaḥkaraṇasya| yathā ca ālokaviśiṣṭaghaṭādyupalabdhiḥ, evaṃ buddhipratyayālokaviśiṣṭātmopalabdhiḥ syāt; tasmāt upalabdhihetau guhāyāṃ nihitamiti prakṛtameva| tadvṛttisthānīye tviha punastatsṛṣṭvā tadevānuprāviśadityucyate|| tadevedamākāśādikāraṇaṃ kāryaṃ sṛṣṭvā tadanupraviṣṭamivāntarguhāyāṃ buddhau draṣṭṛ śrotṛ mantṛ vijñātrityevaṃ viśeṣavadupalabhyate| sa eva tasya praveśaḥ; tasmādasti tatkāraṇaṃ brāhma| ataḥ astitvādastītyevopalabdhavyaṃ tat| tat kāryamanupraviśya; kim? sacca mūrtaṃ tyacca amūrtam abhavat| mūrtāmūrte hravyākṛtanāmarūpe ātmasthe antargatena ātmanā vyākriyete mūrtāmūrtaśabdavācye| te ātmanā tvapravibhaktadeśakāle iti kṛtvā ātmā te abhavadityucyate| kiṃ ca, niruktaṃ cāniruktaṃ ca, niruktaṃ nāma niṣkṛṣya samānāsamānajātīyebhyaḥ deśakālaviśiṣṭatayā idaṃ tadityuktam; aniruktaṃ tadviparītam; niruktānirukte api mūrtāmūrtayoreva viśeṣaṇe| yathā sacca tyacca pratyakṣaparokṣe, tathā nilayanaṃ cānilayanaṃ ca| nilayanaṃ nīḍam āśrayaḥ mūrtasyaiva dharmaḥ; anilayanaṃ tadviparītam amūrtasyaiva dharmaḥ| tyadaniruktānilanāni amūrtadharmatve'pi vyākṛtaviṣayāṇyeva, sargottarakālabāvaśravaṇāt| tyaditi prāṇādyaniruktaṃ tadevānilayanaṃ ca| ato viśeṣaṇāni amūrtasya vyākṛtaviṣayāṇyevaitāni| vijñānaṃ cetanam; avijñānaṃ tadrahitamacetanaṃ pāṣāṇādi| satyaṃ ca vyavahāraviṣayam, adhikārāt; na paramārthasatyam; ekameva hi paramārthasatyaṃ brāhma| iha punaḥ vyavahāraviṣayamāpekṣikaṃ satyam, mṛgatṛṣṇikādyanṛtāpekṣayā udakādi satyamucyate| anṛtaṃ ca tadviparītam| kiṃ punaḥ? etatsarvamabhavat, satyaṃ paramārthasatyam; kiṃ punastat? brāhma, 'satyaṃ jñānamanantaṃ brāhma ' iti prakṛtatvāt| yasmāt sattyadādikaṃ mūrtāmūrtadharmajātaṃ yaÏtkacedaṃ sarvamaviśiṣṭaṃ vikārajātamekameva sacchabdavācyaṃ brāhṛābhavat, tadvyatirekeṇābhāvānnāmarūpavikārasya, tasmāt tat brāhma satyamityācakṣate brāhmavidaḥ| asti nāstītyanupraśnaḥ prakṛtaḥ; tasya prativacanaviṣaye etaduktam -- 'ātmākāmayata bahu syām ' iti| sa yathākāmaṃ ca ākāśādikāryaṃ sattyadādilakṣaṇaṃ sṛṣṭvā tadanupraviśya paśyañśrṛṇvanmanvāno vijānan bahvabhavat; tasmāt tadevedamākāśādikāraṇaṃ kāryasthaṃ parame vyoman hmadayaguhāyāṃ nihitaṃ tatpratyayāvabhāsaviśeṣeṇopalabhyamānamastītyevaṃ vijānīyādityuktaṃ bhavati| tat etasminnarthe brāāhmaṇokte eṣaḥ ślokaḥ mantraḥ bhavati| yathā pūrveṣvannamayādyātmaprakāśakāḥ pañcasvapi, evaṃ sarvāntaramātmāstitvaprakāśako'pi mantraḥ kāryadvāreṇa bhavati|| iti ṣaṣṭhānuvākabhāṣyam||
Roman (IAST) transliteration rendered by HREEM from the edition's Devanagari; the Devanagari is the edition's own.
Sanskrit only: no published translation is held for this verse.