ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ॥ तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नाद्रेतः । रेतसः पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥ संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि। अनन्तरं च अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याह्मतिद्वारेण स्वाराज्यफलम्। न चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति। अतः अशेषोपद्रवबीजस्य अज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते -- ब्राह्मविदाप्नोति परमित्यादि। प्रयोजनं चास्या ब्राह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः। वक्ष्यति च -- ' विद्वान्न बिभेति कुतश्चन ' इति। संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम्, कृताकृते पुण्यपापे न तपत इति च। अतोऽवगम्यते -- अस्माद्विज्ञानात्सर्वात्मब्राह्मविषयादात्यन्तिकः संसाराभाव इति। स्वयमेवाह प्रयोजनम् ' ब्राह्मविदाप्नोति परम् ' इत्यादावेव संबन्धप्रयोजनप्रज्ञापनार्थम्। निज्र्ञातयोर्हि संबन्धप्रयोजनयोः विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते। श्रवणादिपूर्वकं हि विद्याफलम्, ' श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' इत्यादिश्रुत्यन्तरेभ्यः। ब्राह्मवित् ब्राह्मेति वक्ष्यमाणलक्षणम्, बृहत्तमत्वात् ब्राह्म, तद्वेत्ति विजानातीति ब्राह्मवित्, आप्नोति प्राप्नोति परं निरतिशयम्; तदेव ब्राह्म परम्; न ह्रन्यस्य विज्ञानादन्यस्य प्राप्तिः। स्पष्टं च श्रुत्यन्तरं ब्राह्मप्राप्तिमेव ब्राह्मविदो दर्शयति -- ' स यो ह वै तत्परमं ब्राह्म वेद ब्राह्मैव भवति ' इत्यादि।। ननु, सर्वगतं सर्वस्य चात्मभूतं ब्राह्म वक्ष्यति। अतो नाप्यम्। आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा। अपरिच्छिन्नं सर्वात्मकं च ब्राह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना। नायं दोषः। कथम्? दर्शनादर्शनापेक्षत्वाद्ब्राह्मण आप्त्यनाप्त्योः, परमार्थतो ब्राह्मस्वरूपस्यापि सतः अस्य जीवस्य भूतमात्राकृतबाह्रपरिच्छिन्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः। प्रकृतसंख्यापूरणस्यात्मनः अव्यवहितस्यापि बाह्रसंख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्राह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्बाह्राननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यनात्मभयो नान्योऽहमस्मीत्यभिमन्यते। एवमविद्यया आत्मभूतमपि ब्राह्म अनाप्तं स्यात्। तस्यैवमविद्यया अनाप्तब्राह्मस्वरूपस्य प्रकृतसंख्यापूरणस्यात्मनः अविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्राह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव। ब्राह्मविदाप्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य। ब्राह्मविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्राह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमपर्णसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अविशेषेण च उक्तवेदनस्य ब्राह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्राह्मविद्याफलं च ब्राह्मविदो यत्परप्राप्तिलक्षणमुक्तम्, स सर्वात्मभावः सर्वसंसारधर्मातीतब्राह्मस्वरूपत्वमेव, नान्यदित्येतत्प्रदर्शनाय च एषा ऋगुदाह्यियते -- तदेषाभ्युक्तेति। तत् तस्मिन्नेव ब्रााह्मणवाक्योक्तार्थे एषा ऋक् अभ्युक्ता आम्नाता। सत्यं ज्ञानमनन्तं ब्राह्म इति ब्राह्मणो लक्षणार्थं वाक्यम्। सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्राह्मणः। विशेष्यं ब्राह्म, विवक्षितत्वाद्वेद्यतया। वेद्यत्वेन यतो ब्राह्म प्राधान्येन विवक्षितम्, तस्माद्विशेष्यं विज्ञेयम्। अतः अस्माद्विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि। सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्राह्म विशेष्यान्तरेभ्यो निर्धार्यते। एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम्; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति। ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति; यदा ह्रनेकानि द्रव्याणि एकजातीयान्येकविशेषणयोगीनि च, तदा विशेषणस्यार्थवत्त्वम्; न ह्रेकस्मिन्नेव वस्तुनि, विशेषणान्तरायोगात्; यथा असावेक आदित्य इति, तथा एकमेव ब्राह्म, न ब्राहृान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत्। न; लक्षणार्थत्वाद्विशेषणानाम्। नायं दोषः। कस्मात्? लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव। कः पुनर्लक्षणलक्ष्योर्विशेषणविशेष्ययोर्वा विशेषः? उच्यते। सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य; लक्षणं तु सर्वत एव, यथा अवकाशप्रदात्राकाशमिति। लक्षणार्थं च वाक्यमित्यवोचाम।। सत्यादिशब्दा न परस्परं संबध्यन्ते, परार्थत्वात्; विशेष्यार्था हि ते। अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्राह्मशब्देन संबध्यते -- सत्यं ब्राह्म ज्ञानं ब्राह्म अनन्तं ब्राह्मेति। सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम्। यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते। अतो विकारोऽनृतम्, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ', एवं सदेव सत्यमित्यवधारणात्। अतः 'सत्यं ब्राह्म ' इति ब्राह्म विकारान्निवर्तयति। अतः कारणत्वं प्राप्तं ब्राह्मणः। कारणस्य च कारकत्वम्, वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता; अत इदमुच्यते -- ज्ञानं ब्राह्मेति। ज्ञानं ज्ञप्तिः अवबोधः, -- भावसाधनो ज्ञानशब्दः -- न तु ज्ञानकर्तृ, ब्राह्मविशेषणत्वात्सत्यानन्ताभ्यां सह। न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते। ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत्, अनन्तं च? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम्। ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्, ' यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम् ' इति श्रुत्यन्तरात्। ' नान्यद्विजानाति ' इति विशेषणप्रतिषेधात् आत्मानं विजानातीति चेत्, न; भूमलक्षणविधिपरत्वाद्वाक्यस्य। ' यत्र नान्यत्पश्यति ' इत्यादि भूम्नो लक्षणविधिपरं वाक्यम्। यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते। अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्वपरं वाक्यम्। स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः। आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात्।। एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत्, न; युगपदनंशत्वात्। न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः। आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम्। न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशः अर्थवान्। तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः। सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति; सन्मात्रत्वं च सत्यम्, ' तत्सत्यम् ' इति श्रुत्यन्तरात्। तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः। 'ज्ञानं ब्राह्म ' इति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते। 'ज्ञानं ब्राह्म ' इति वचनात्प्राप्तमन्तवत्त्वम्, लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात्। अतः तन्निवृत्त्यर्थमाह -- अनन्तमिति। सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्राह्मणः उत्पलादिवदप्रसिद्धत्वात् ' मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशश्रृङ्गधनुर्धरः ' इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्, न; लक्षणार्थत्वात्। विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम। शून्यो हि लक्ष्ये अनर्थकं लक्षणवचनम्। अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति। विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव। शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः। सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भयो विशेष्येभ्यो ब्राह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते। ब्राह्मशब्दोऽपि स्वार्थेनार्थवानेव। तत्र अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम्। सत्यज्ञानशब्दौ तु स्वार्थसमप्रणेनैव विशेषणे भवतः।। 'तस्माद्वा एतस्मादात्मनः ' इति ब्राह्मण्येव आत्मशब्दप्रयोगात् वेदितुरात्मैव ब्राह्म। 'एतमानन्दमयमात्मानमुपसंक्रामति ' इति च आत्मतां दर्शयति। तत्प्रवेशाच्च; 'तत्सृष्ट्वा तदेवानुप्राविशत् ' इति च तस्यैव जीवरूपेण शरीरप्रेवशं दर्शयति। अतो वेदितुः स्वरूपं ब्राह्म। एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम्; 'आत्मा ज्ञाता ' इति हि प्रसिद्धम्, 'सोऽकामयत ' इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः; अतो ज्ञानकर्तृत्वात् ज्ञप्तिब्राह्मेत्ययुक्तम्; अनित्यत्वप्रसङ्गाच्च; यदि नाम ज्ञप्तिज्र्ञानमिति भावरूपता ब्राह्मणः, तदाप्यनित्यत्वं प्रसज्येत; पारतन्त्र्यं च, धात्वर्थानां कारकापेक्षत्वात्, ज्ञानं च धात्वर्थः; अतोऽस्य अनित्यत्वं परतन्त्रता च। न; स्वरूपाव्यतिरेकेण कार्यत्वोपचारात्। आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते। अतो नित्यैव। तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते। तस्मादात्मविज्ञानावभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते। यत्तु ब्राह्मणो विज्ञानम्, तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्राह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव तत्। न तत्कारणान्तरसव्यपेक्षम्, नित्यस्वरूपत्वात्, सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च। न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति। तस्मात्सर्वज्ञं तद्ब्राह्म। मन्त्रवर्णाच्च 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुग्र्यं पुरुषं महान्तम् ' इति। 'न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ' इत्यादिश्रुतेश्च। विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्राह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः। अतो नैव धात्वर्थस्तत्, अक्रियारूपत्वात्। अत एव च न ज्ञानकर्तृ; तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्राह्म। तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते; न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात्। तथा सत्यशब्देनापि। सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्राह्मणः बाह्रसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते 'सत्यं ब्राह्म ' इति; न तु सत्यशब्दवाच्यं ब्राह्म। एवं सत्यादिशब्दा इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्राह्मणः, लक्षणार्थाश्च भवन्तीति। अतः सिद्धम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह अनिरुक्तेऽनिलयने ' इति च अवाच्यत्वम्, नीलोत्पलवदवाक्यार्थत्वं च ब्राह्मणः।। तद्यथाव्याख्यातं ब्राह्म यः वेद विजानाति निहितं स्थितं गुहायाम्, गूहतेः संवरणार्थस्य निगूढा ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये; तद्धि परमं व्योम, 'एतस्मिन्खल्वक्षरे गाग्र्याकाशः ' इत्यक्षरसंनिकर्षात्; 'गुहायां व्योमन् ' इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कारणत्वात्सूक्ष्मतरत्वाच्च; तस्मिन्नन्तर्निहितं ब्राह्म। हार्दमेव तु परमं व्योमेति न्याय्यम्, विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात्। 'यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तह्र्मदय आकाशः ' इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम्। तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्राह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति। न ह्रन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्राहृः, सर्वगतत्वान्निर्विशेषत्वाच्च। सः एवं ब्राह्म विजानन्; किमित्याह -- अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगानित्यर्थः। किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण? नेत्याह -- सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्राह्मस्वरूपाव्यतिरिक्तया, यामवोचाम 'सत्यं ज्ञानम् ' इति। एतत्तदुच्यते -- ब्राह्मणा सहेति। ब्राह्मभूतो विद्वान् ब्राह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते। न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणोपेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः। कथं तर्हि? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्राहृात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः। विपश्चिता मेधाविना सर्वज्ञेन। तद्धि वैपश्चित्यम्, यत्सर्वज्ञत्वम्। तेन सर्वज्ञस्वरूपेण ब्राह्मणा अश्नुत इति। इतिशब्दो मन्त्रपरिसमाप्त्यर्थः।। सर्व एव वल्ल्यर्थः 'ब्राह्मविदाप्नोति परम् ' इति ब्रााह्मणवाक्येन सूत्रितः। स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः। पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते -- तस्माद्वा एतस्मादित्यादिः। तत्र च 'सत्यं ज्ञानमनन्तं ब्राह्म ' इत्युक्तं मन्त्रादौ; तत्कथं सत्यमनन्तं चेत्यत आह। त्रिविधं ह्रानन्त्यम् -- देशतः कालतो वस्तुतश्चेति। तद्यथा -- देशतोऽनन्त आकाशः; न हि देशतस्तस्य परिच्छेदोऽस्ति। न तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य। कस्मात्? कार्यत्वात्। नैवं ब्राह्मण आकाशवत्कालतोऽप्यन्तवत्त्वम्, अकार्यत्वात्। कार्यं हि वस्तु कालेन परिच्छिद्यते। अकार्यं च ब्राह्म। तस्मात्कालतोऽस्यानन्त्यम्। तथा वस्तुनः। कथं पुनर्वस्तुत आनन्त्यम्? सर्वानन्यत्वात्। भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति; वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते। यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः। तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति। स चान्तो भिन्नेषु वस्तुषु दृष्टः। नैवं ब्राह्मणो भेदः। अतो वस्तुतोऽप्यानन्त्यम्। कथं पुनः सर्वानन्यत्वं ब्राह्मण इति, उच्यते -- सर्ववस्तुकारणत्वात्। सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्राह्म। कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत्, न; अनृतत्वात्कार्यस्य वस्तुनः। न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत; ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' एवं सदेव सत्यमिति श्रुत्यन्तरात्। तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्राह्म। आकाशो ह्रनन्त इति प्रसिद्धं देशतः; तस्येदं कारणम्; तस्मात्सिद्धं देशत आत्मन आनन्त्यम्। न ह्रसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिद्दृश्यते। अतो निरतिशयमात्मन आनन्त्यं देशतः। तथा अकार्यत्वात्कालतः; तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः। अत एव निरतिशयसत्यत्वम्।। तस्मात् इति मूलवाक्यसूत्रितं ब्राह्म परामृश्यते; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम्। यद्ब्राह्म आदौ ब्रााह्मणवाक्येन सूत्रितम् , यच्च 'सत्यं ज्ञानमनन्तं ब्राह्म ' इत्यनन्तरमेव लक्षितम्, तस्मादेतस्माद्ब्राह्मण आत्मनः आत्मशब्दवाच्यात्; आत्मा हि तत् सर्वस्य, 'तत्सत्यं स आत्मा ' इति श्रुत्यन्तरात्; अतो ब्राह्म आत्मा; तस्मादेतस्माद्ब्राह्मण आत्मस्वरूपात् आकाशः संभूतः समुत्पन्नः। आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम्। तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, संभूत इत्यनुवर्तते। वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः संभूतः। अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः संभूताः। अद्भयः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी संभूता। पृथिव्याः ओषधयः। ओषधीभ्यः अन्नम्। अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरःपाण्याद्याकृतिमान्। स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसंभूतं रेतो बीजम्। तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात्; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात्। सर्वेषामप्यन्नरसविकारत्वे ब्राहृंवश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गुह्रते? प्राधान्यात्। किं पुनः प्राधान्यम्? कर्मज्ञानाधिकारः। पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, 'पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदिति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्र्येनामृतमीक्षतीत्येवं संपन्नः; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम् ' इत्यादि श्रुत्यन्तरदर्शनात्।। स हि पुरुषः इह विद्यया आन्तरतमं ब्राह्म संक्रामयितुमिष्टः। तस्य च बाह्रकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः विना आलम्बविशेषं कंचित् सहसा आन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह -- तस्येदमेव शिरः। तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम्। प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते। एवं पक्षादिषु योजना। अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः। अयं सव्यो बाहुः उत्तरः पक्षः। अयं मध्यमो देहभागः आत्मा अङ्गानाम्, 'मध्यं ह्रेषामङ्गानामात्मा ' इति श्रुतेः। इदमिति नाभेरधस्ताद्यदङ्गम्, तत पुच्छं प्रतिष्ठा। प्रतितिष्ठत्यनयेति प्रतिष्ठा। पुच्छमिव पुच्छम्, अधोलम्बनसामान्यात्, यथा गोः पुच्छम्। एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत्। तदप्येष श्लोको भवति। तत् तस्मिन्नेवार्थे ब्रााह्मणोक्ते अन्नमयात्मप्रकाशके एष श्लोकः मन्त्रः भवति।। इति प्रथमानुवाकभाष्यम्।।
oṃ brahmavidāpnoti param | tadeṣā'bhyuktā | satyaṃ jñānamanantaṃ brahma | yo veda nihitaṃ guhāyāṃ parame vyoman | so'śnute sarvān kāmān saha brahmaṇā vipaściteti || tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ | ākāśādvāyuḥ | vāyoragniḥ | agnerāpaḥ | adbhyaḥ pṛthivī | pṛthivyā oṣadhayaḥ | oṣadhībhyo'nnam | annādretaḥ | retasaḥ puruṣaḥ | sa vā eṣa puruṣo'nnarasamayaḥ | tasyedameva śiraḥ | ayaṃ dakṣiṇaḥ pakṣaḥ | ayamuttaraḥ pakṣaḥ | ayamātmā | idaṃ pucchaṃ pratiṣṭhā | tadapyeṣa śloko bhavati || 1 || saṃhitādiviṣayāṇi karmabhiraviruddhānyupāsanānyuktāni| anantaraṃ ca antaḥsopādhikamātmadarśanamuktaṃ vyāhmatidvāreṇa svārājyaphalam| na caitāvatā aśeṣataḥ saṃsārabījasya upamardanamasti| ataḥ aśeṣopadravabījasya ajñānasya nivṛttyarthaṃ vidhūtasarvopādhiviśeṣātmadarśanārthamidamārabhyate -- brāhmavidāpnoti paramityādi| prayojanaṃ cāsyā brāhmavidyāyā avidyānivṛttiḥ, tataśca ātyantikaḥ saṃsārābhāvaḥ| vakṣyati ca -- ' vidvānna bibheti kutaścana ' iti| saṃsāranimitte ca sati abhayaṃ pratiṣṭhāṃ vindata ityanupapannam, kṛtākṛte puṇyapāpe na tapata iti ca| ato'vagamyate -- asmādvijñānātsarvātmabrāhmaviṣayādātyantikaḥ saṃsārābhāva iti| svayamevāha prayojanam ' brāhmavidāpnoti param ' ityādāveva saṃbandhaprayojanaprajñāpanārtham| nijrñātayorhi saṃbandhaprayojanayoḥ vidyāśravaṇagrahaṇadhāraṇābhyāsārthaṃ pravartate| śravaṇādipūrvakaṃ hi vidyāphalam, ' śrotavyo mantavyo nididhyāsitavyaḥ ' ityādiśrutyantarebhyaḥ| brāhmavit brāhmeti vakṣyamāṇalakṣaṇam, bṛhattamatvāt brāhma, tadvetti vijānātīti brāhmavit, āpnoti prāpnoti paraṃ niratiśayam; tadeva brāhma param; na hranyasya vijñānādanyasya prāptiḥ| spaṣṭaṃ ca śrutyantaraṃ brāhmaprāptimeva brāhmavido darśayati -- ' sa yo ha vai tatparamaṃ brāhma veda brāhmaiva bhavati ' ityādi|| nanu, sarvagataṃ sarvasya cātmabhūtaṃ brāhma vakṣyati| ato nāpyam| āptiśca anyasyānyena paricchinnasya ca paricchinnena dṛṣṭā| aparicchinnaṃ sarvātmakaṃ ca brāhmetyataḥ paricchinnavat anātmavacca tasyāptiranupapannā| nāyaṃ doṣaḥ| katham? darśanādarśanāpekṣatvādbrāhmaṇa āptyanāptyoḥ, paramārthato brāhmasvarūpasyāpi sataḥ asya jīvasya bhūtamātrākṛtabāhraparicchinnānnamayādyātmadarśinaḥ tadāsaktacetasaḥ| prakṛtasaṃkhyāpūraṇasyātmanaḥ avyavahitasyāpi bāhrasaṃkhyeyaviṣayāsaktacittatayā svarūpābhāvadarśanavat paramārthabrāhmasvarūpābhāvadarśanalakṣaṇayā avidyayā annamayādīnbāhrānanātmana ātmatvena pratipannatvāt annamayādyanātmabhayo nānyo'hamasmītyabhimanyate| evamavidyayā ātmabhūtamapi brāhma anāptaṃ syāt| tasyaivamavidyayā anāptabrāhmasvarūpasya prakṛtasaṃkhyāpūraṇasyātmanaḥ avidyayānāptasya sataḥ kenacitsmāritasya punastasyaiva vidyayā āptiryathā, tathā śrutyupadiṣṭasya sarvātmabrāhmaṇa ātmatvadarśanena vidyayā tadāptirupapadyata eva| brāhmavidāpnoti paramiti vākyaṃ sūtrabhūtaṃ sarvasya vallyarthasya| brāhmavidāpnoti paramityanena vākyena vedyatayā sūtritasya brāhmaṇo'nirdhāritasvarūpaviśeṣasya sarvato vyāvṛttasvarūpaviśeṣasamaparṇasamarthasya lakṣaṇasyābhidhānena svarūpanirdhāraṇāya aviśeṣeṇa ca uktavedanasya brāhmaṇo vakṣyamāṇalakṣaṇasya viśeṣeṇa pratyagātmatayā ananyarūpeṇa vijñeyatvāya, brāhmavidyāphalaṃ ca brāhmavido yatparaprāptilakṣaṇamuktam, sa sarvātmabhāvaḥ sarvasaṃsāradharmātītabrāhmasvarūpatvameva, nānyadityetatpradarśanāya ca eṣā ṛgudāhyiyate -- tadeṣābhyukteti| tat tasminneva brāāhmaṇavākyoktārthe eṣā ṛk abhyuktā āmnātā| satyaṃ jñānamanantaṃ brāhma iti brāhmaṇo lakṣaṇārthaṃ vākyam| satyādīni hi trīṇi viśeṣaṇārthāni padāni viśeṣyasya brāhmaṇaḥ| viśeṣyaṃ brāhma, vivakṣitatvādvedyatayā| vedyatvena yato brāhma prādhānyena vivakṣitam, tasmādviśeṣyaṃ vijñeyam| ataḥ asmādviśeṣaṇaviśeṣyatvādeva satyādīni ekavibhaktyantāni padāni samānādhikaraṇāni| satyādibhistribhirviśeṣaṇairviśeṣyamāṇaṃ brāhma viśeṣyāntarebhyo nirdhāryate| evaṃ hi tajjñātaṃ bhavati, yadanyebhyo nirdhāritam; yathā loke nīlaṃ mahatsugandhyutpalamiti| nanu, viśeṣyaṃ viśeṣaṇāntaraṃ vyabhicaradviśeṣyate, yathā nīlaṃ raktaṃ cotpalamiti; yadā hranekāni dravyāṇi ekajātīyānyekaviśeṣaṇayogīni ca, tadā viśeṣaṇasyārthavattvam; na hrekasminneva vastuni, viśeṣaṇāntarāyogāt; yathā asāveka āditya iti, tathā ekameva brāhma, na brāhṛāntarāṇi, yebhyo viśeṣyeta nīlotpalavat| na; lakṣaṇārthatvādviśeṣaṇānām| nāyaṃ doṣaḥ| kasmāt? lakṣaṇārthapradhānāni viśeṣaṇāni, na viśeṣaṇapradhānānyeva| kaḥ punarlakṣaṇalakṣyorviśeṣaṇaviśeṣyayorvā viśeṣaḥ? ucyate| sajātīyebhya eva nivartakāni viśeṣaṇāni viśeṣyasya; lakṣaṇaṃ tu sarvata eva, yathā avakāśapradātrākāśamiti| lakṣaṇārthaṃ ca vākyamityavocāma|| satyādiśabdā na parasparaṃ saṃbadhyante, parārthatvāt; viśeṣyārthā hi te| ata eva ekaiko viśeṣaṇaśabdaḥ parasparaṃ nirapekṣo brāhmaśabdena saṃbadhyate -- satyaṃ brāhma jñānaṃ brāhma anantaṃ brāhmeti| satyamiti yadrūpeṇa yanniścitaṃ tadrūpaṃ na vyabhicarati, tatsatyam| yadrūpeṇa yanniścitaṃ tadrūpaṃ vyabhicarati, tadanṛtamityucyate| ato vikāro'nṛtam, 'vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ', evaṃ sadeva satyamityavadhāraṇāt| ataḥ 'satyaṃ brāhma ' iti brāhma vikārānnivartayati| ataḥ kāraṇatvaṃ prāptaṃ brāhmaṇaḥ| kāraṇasya ca kārakatvam, vastutvāt mṛdvat acidrūpatā ca prāptā; ata idamucyate -- jñānaṃ brāhmeti| jñānaṃ jñaptiḥ avabodhaḥ, -- bhāvasādhano jñānaśabdaḥ -- na tu jñānakartṛ, brāhmaviśeṣaṇatvātsatyānantābhyāṃ saha| na hi satyatā anantatā ca jñānakartṛtve satyupapadyete| jñānakartṛtvena hi vikriyamāṇaṃ kathaṃ satyaṃ bhavet, anantaṃ ca? yaddhi na kutaścitpravibhajyate, tadanantam| jñānakartṛtve ca jñeyajñānābhyāṃ pravibhaktamityanantatā na syāt, ' yatra nānyadvijānāti sa bhūmā, atha yatrānyadvijānāti tadalpam ' iti śrutyantarāt| ' nānyadvijānāti ' iti viśeṣaṇapratiṣedhāt ātmānaṃ vijānātīti cet, na; bhūmalakṣaṇavidhiparatvādvākyasya| ' yatra nānyatpaśyati ' ityādi bhūmno lakṣaṇavidhiparaṃ vākyam| yathāprasiddhameva anyo'nyatpaśyatītyetadupādāya yatra tannāsti, sa bhūmā iti bhūmasvarūpaṃ tatra jñāpyate| anyagrahaṇasya prāptapratiṣedhārthatvāt na svātmani kriyāstitvaparaṃ vākyam| svātmani ca bhedābhāvādvijñānānupapattiḥ| ātmanaśca vijñeyatve jñātrabhāvaprasaṅgaḥ, jñeyatvenaiva viniyuktatvāt|| eka evātmā jñeyatvena jñātṛtvena ca ubhayathā bhavatīti cet, na; yugapadanaṃśatvāt| na hi niravayavasya yugapajjñeyajñātṛtvopapattiḥ| ātmanaśca ghaṭādivadvijñeyatve jñānopadeśānarthakyam| na hi ghaṭādivatprasiddhasya jñānopadeśaḥ arthavān| tasmāt jñātṛtve sati ānantyānupapattiḥ| sanmātratvaṃ cānupapannaṃ jñānakartṛtvādiviśeṣavattve sati; sanmātratvaṃ ca satyam, ' tatsatyam ' iti śrutyantarāt| tasmātsatyānantaśabdābhyāṃ saha viśeṣaṇatvena jñānaśabdasya prayogādbhāvasādhano jñānaśabdaḥ| 'jñānaṃ brāhma ' iti kartṛtvādikārakanivṛttyarthaṃ mṛdādivadacidrūpatānivṛttyarthaṃ ca prayujyate| 'jñānaṃ brāhma ' iti vacanātprāptamantavattvam, laukikasya jñānasya antavattvadarśanāt| ataḥ tannivṛttyarthamāha -- anantamiti| satyādīnāmanṛtādidharmanivṛttiparatvādviśeṣyasya ca brāhmaṇaḥ utpalādivadaprasiddhatvāt ' mṛgatṛṣṇāmbhasi snātaḥ khapuṣpakṛtaśekharaḥ| eṣa vandhyāsuto yāti śaśaśrṛṅgadhanurdharaḥ ' itivat śūnyārthataiva prāptā satyādivākyasyeti cet, na; lakṣaṇārthatvāt| viśeṣaṇatve'pi satyādīnāṃ lakṣaṇārthaprādhānyamityavocāma| śūnyo hi lakṣye anarthakaṃ lakṣaṇavacanam| ataḥ lakṣaṇārthatvānmanyāmahe na śūnyārthateti| viśeṣaṇārthatve'pi ca satyādīnāṃ svārthāparityāga eva| śūnyārthatve hi satyādiśabdānāṃ viśeṣyaniyantṛtvānupapattiḥ| satyādyarthairarthavattve tu tadviparītadharmavadbhayo viśeṣyebhyo brāhmaṇo viśeṣyasya niyantṛtvamupapadyate| brāhmaśabdo'pi svārthenārthavāneva| tatra anantaśabdaḥ antavattvapratiṣedhadvāreṇa viśeṣaṇam| satyajñānaśabdau tu svārthasamapraṇenaiva viśeṣaṇe bhavataḥ|| 'tasmādvā etasmādātmanaḥ ' iti brāhmaṇyeva ātmaśabdaprayogāt vediturātmaiva brāhma| 'etamānandamayamātmānamupasaṃkrāmati ' iti ca ātmatāṃ darśayati| tatpraveśācca; 'tatsṛṣṭvā tadevānuprāviśat ' iti ca tasyaiva jīvarūpeṇa śarīraprevaśaṃ darśayati| ato vedituḥ svarūpaṃ brāhma| evaṃ tarhi, ātmatvājjñānakartṛtvam; 'ātmā jñātā ' iti hi prasiddham, 'so'kāmayata ' iti ca kāmino jñānakartṛtvaprasiddhiḥ; ato jñānakartṛtvāt jñaptibrāhmetyayuktam; anityatvaprasaṅgācca; yadi nāma jñaptijrñānamiti bhāvarūpatā brāhmaṇaḥ, tadāpyanityatvaṃ prasajyeta; pāratantryaṃ ca, dhātvarthānāṃ kārakāpekṣatvāt, jñānaṃ ca dhātvarthaḥ; ato'sya anityatvaṃ paratantratā ca| na; svarūpāvyatirekeṇa kāryatvopacārāt| ātmanaḥ svarūpaṃ jñaptiḥ na tato vyatiricyate| ato nityaiva| tathāpi buddherupādhilakṣaṇāyāścakṣurādidvārairviṣayākārapariṇāminyāḥ ye śabdādyākārāvabhāsāḥ, te ātmavijñānasya viṣayabhūtā utpadyamānā eva ātmavijñānena vyāptā utpadyante| tasmādātmavijñānāvabhāsyāśca te vijñānaśabdavācyāśca dhātvarthabhūtā ātmana eva dharmā vikriyārūpā ityavivekibhiḥ parikalpyante| yattu brāhmaṇo vijñānam, tat savitṛprakāśavat agnyuṣṇatvavacca brāhmasvarūpāvyatiriktaṃ svarūpameva tat| na tatkāraṇāntarasavyapekṣam, nityasvarūpatvāt, sarvabhāvānāṃ ca tenāvibhaktadeśakālatvāt kālākāśādikāraṇatvāt niratiśayasūkṣmatvācca| na tasyānyadavijñeyaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ bhūtaṃ bhavadbhaviṣyadvā asti| tasmātsarvajñaṃ tadbrāhma| mantravarṇācca 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ| sa vetti vedyaṃ na ca tasyāsti vettā tamāhugryaṃ puruṣaṃ mahāntam ' iti| 'na hi vijñāturvijñāterviparilopo vidyate'vināśitvānna tu tadvitīyamasti ' ityādiśruteśca| vijñātṛsvarūpāvyatirekātkaraṇādinimittānapekṣatvācca brāhmaṇo jñānasvarūpatve'pi nityatvaprasiddhiḥ| ato naiva dhātvarthastat, akriyārūpatvāt| ata eva ca na jñānakartṛ; tasmādeva ca na jñānaśabdavācyamapi tadbrāhma| tathāpi tadābhāsavācakena buddhidharmaviśeṣeṇa jñānaśabdena tallakṣyate; na tu ucyate, śabdapravṛttihetujātyādidharmarahitatvāt| tathā satyaśabdenāpi| sarvaviśeṣapratyastamitasvarūpatvādbrāhmaṇaḥ bāhrasattāsāmānyaviṣayeṇa satyaśabdena lakṣyate 'satyaṃ brāhma ' iti; na tu satyaśabdavācyaṃ brāhma| evaṃ satyādiśabdā itaretarasaṃnidhānādanyonyaniyamyaniyāmakāḥ santaḥ satyādiśabdavācyāt nivartakā brāhmaṇaḥ, lakṣaṇārthāśca bhavantīti| ataḥ siddham 'yato vāco nivartante aprāpya manasā saha anirukte'nilayane ' iti ca avācyatvam, nīlotpalavadavākyārthatvaṃ ca brāhmaṇaḥ|| tadyathāvyākhyātaṃ brāhma yaḥ veda vijānāti nihitaṃ sthitaṃ guhāyām, gūhateḥ saṃvaraṇārthasya nigūḍhā jñānajñeyajñātṛpadārthā iti guhā buddhiḥ, gūḍhāvasyāṃ bhogāpavargau puruṣārthāviti vā, tasyāṃ parame prakṛṣṭe vyoman vyomni ākāśe avyākṛtākhye; taddhi paramaṃ vyoma, 'etasminkhalvakṣare gāgryākāśaḥ ' ityakṣarasaṃnikarṣāt; 'guhāyāṃ vyoman ' iti vā sāmānādhikaraṇyādavyākṛtākāśameva guhā; tatrāpi nigūḍhāḥ sarve padārthāstriṣu kāleṣu, kāraṇatvātsūkṣmataratvācca; tasminnantarnihitaṃ brāhma| hārdameva tu paramaṃ vyometi nyāyyam, vijñānāṅgatvena vyomno vivakṣitatvāt| 'yo vai sa bahirdhā puruṣādākāśo yo vai so'ntaḥ puruṣa ākāśo yo'yamantahrmadaya ākāśaḥ ' iti śrutyantarātprasiddhaṃ hārdasya vyomnaḥ paramatvam| tasminhārde vyomni yā buddhirguhā, tasyāṃ nihitaṃ brāhma tadvyāvṛttyā viviktatayopalabhyata iti| na hranyathā viśiṣṭadeśakālasaṃbandho'sti brāhṛḥ, sarvagatatvānnirviśeṣatvācca| saḥ evaṃ brāhma vijānan; kimityāha -- aśnute bhuṅkte sarvān niravaśeṣān kāmān kāmyabhogānityarthaḥ| kimasmadādivatputrasvargādīnparyāyeṇa? netyāha -- saha yugapat ekakṣaṇopārūḍhāneva ekayopalabdhyā savitṛprakāśavannityayā brāhmasvarūpāvyatiriktayā, yāmavocāma 'satyaṃ jñānam ' iti| etattaducyate -- brāhmaṇā saheti| brāhmabhūto vidvān brāhmasvarūpeṇaiva sarvānkāmān saha aśnute| na tathā yathopādhikṛtena svarūpeṇātmano jalasūryakādivatpratibimbabhūtena sāṃsārikeṇa dharmādinimittāpekṣāṃścakṣurādikaraṇopekṣāṃśca sarvānkāmānparyāyeṇāśnute lokaḥ| kathaṃ tarhi? yathoktena prakāreṇa sarvajñena sarvagatena sarvātmanā nityabrāhṛātmasvarūpeṇa dharmādinimittānapekṣān cakṣurādikaraṇānapekṣāṃśca sarvānkāmānsahāśnuta ityarthaḥ| vipaścitā medhāvinā sarvajñena| taddhi vaipaścityam, yatsarvajñatvam| tena sarvajñasvarūpeṇa brāhmaṇā aśnuta iti| itiśabdo mantraparisamāptyarthaḥ|| sarva eva vallyarthaḥ 'brāhmavidāpnoti param ' iti brāāhmaṇavākyena sūtritaḥ| sa ca sūtrito'rthaḥ saṃkṣepato mantreṇa vyākhyātaḥ| punastasyaiva vistareṇārthanirṇayaḥ kartavya ityuttarastadvṛttisthānīyo grantha ārabhyate -- tasmādvā etasmādityādiḥ| tatra ca 'satyaṃ jñānamanantaṃ brāhma ' ityuktaṃ mantrādau; tatkathaṃ satyamanantaṃ cetyata āha| trividhaṃ hrānantyam -- deśataḥ kālato vastutaśceti| tadyathā -- deśato'nanta ākāśaḥ; na hi deśatastasya paricchedo'sti| na tu kālataścānantyaṃ vastutaśca ākāśasya| kasmāt? kāryatvāt| naivaṃ brāhmaṇa ākāśavatkālato'pyantavattvam, akāryatvāt| kāryaṃ hi vastu kālena paricchidyate| akāryaṃ ca brāhma| tasmātkālato'syānantyam| tathā vastunaḥ| kathaṃ punarvastuta ānantyam? sarvānanyatvāt| bhinnaṃ hi vastu vastvantarasya anto bhavati; vastvantarabuddhirhi prasaktādvastvantarānnivartate| yato yasya buddhernivṛttiḥ, sa tasyāntaḥ| tadyathā gotvabuddhiraśvatvānnivartata ityaśvatvāntaṃ gotvamityantavadeva bhavati| sa cānto bhinneṣu vastuṣu dṛṣṭaḥ| naivaṃ brāhmaṇo bhedaḥ| ato vastuto'pyānantyam| kathaṃ punaḥ sarvānanyatvaṃ brāhmaṇa iti, ucyate -- sarvavastukāraṇatvāt| sarveṣāṃ hi vastūnāṃ kālākāśādīnāṃ kāraṇaṃ brāhma| kāryāpekṣayā vastuto'ntavattvamiti cet, na; anṛtatvātkāryasya vastunaḥ| na hi kāraṇavyatirekeṇa kāryaṃ nāma vastuto'sti, yataḥ kāraṇabuddhirvinivarteta; ' vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ' evaṃ sadeva satyamiti śrutyantarāt| tasmādākāśādikāraṇatvāddeśatastāvadanantaṃ brāhma| ākāśo hrananta iti prasiddhaṃ deśataḥ; tasyedaṃ kāraṇam; tasmātsiddhaṃ deśata ātmana ānantyam| na hrasarvagatātsarvagatamutpadyamānaṃ loke kiṃciddṛśyate| ato niratiśayamātmana ānantyaṃ deśataḥ| tathā akāryatvātkālataḥ; tadbhinnavastvantarābhāvācca vastutaḥ| ata eva niratiśayasatyatvam|| tasmāt iti mūlavākyasūtritaṃ brāhma parāmṛśyate; etasmāt iti mantravākyena anantaraṃ yathālakṣitam| yadbrāhma ādau brāāhmaṇavākyena sūtritam , yacca 'satyaṃ jñānamanantaṃ brāhma ' ityanantarameva lakṣitam, tasmādetasmādbrāhmaṇa ātmanaḥ ātmaśabdavācyāt; ātmā hi tat sarvasya, 'tatsatyaṃ sa ātmā ' iti śrutyantarāt; ato brāhma ātmā; tasmādetasmādbrāhmaṇa ātmasvarūpāt ākāśaḥ saṃbhūtaḥ samutpannaḥ| ākāśo nāma śabdaguṇaḥ avakāśakaro mūrtadravyāṇām| tasmāt ākāśāt svena sparśaguṇena pūrveṇa ca ākāśaguṇena śabdena dviguṇaḥ vāyuḥ, saṃbhūta ityanuvartate| vāyośca svena rūpaguṇena pūrvābhyāṃ ca triguṇaḥ agniḥ saṃbhūtaḥ| agneśca svena rasaguṇena pūrvaiśca tribhiḥ caturguṇā āpaḥ saṃbhūtāḥ| adbhayaḥ svena gandhaguṇena pūrvaiśca caturbhiḥ pañcaguṇā pṛthivī saṃbhūtā| pṛthivyāḥ oṣadhayaḥ| oṣadhībhyaḥ annam| annāt retorūpeṇa pariṇatāt puruṣaḥ śiraḥpāṇyādyākṛtimān| sa vai eṣa puruṣaḥ annarasamayaḥ annarasavikāraḥ puruṣākṛtibhāvitaṃ hi sarvebhyo'ṅgebhyastejaḥsaṃbhūtaṃ reto bījam| tasmādyo jāyate, so'pi tathā puruṣākṛtireva syāt; sarvajātiṣu jāyamānānāṃ janakākṛtiniyamadarśanāt| sarveṣāmapyannarasavikāratve brāhṛṃvaśyatve ca aviśiṣṭe, kasmātpuruṣa eva guhrate? prādhānyāt| kiṃ punaḥ prādhānyam? karmajñānādhikāraḥ| puruṣa eva hi śaktatvādarthitvādaparyudastatvācca karmajñānayoradhikriyate, 'puruṣe tvevāvistarāmātmā sa hi prajñānena saṃpannatamo vijñātaṃ vaditi vijñātaṃ paśyati veda śvastanaṃ veda lokālokau matryenāmṛtamīkṣatītyevaṃ saṃpannaḥ; athetareṣāṃ paśūnāmaśanāyāpipāse evābhivijñānam ' ityādi śrutyantaradarśanāt|| sa hi puruṣaḥ iha vidyayā āntaratamaṃ brāhma saṃkrāmayitumiṣṭaḥ| tasya ca bāhrakāraviśeṣeṣvanātmasu ātmabhāvitābuddhiḥ vinā ālambaviśeṣaṃ kaṃcit sahasā āntaratamapratyagātmaviṣayā nirālambanā ca kartumaśakyeti dṛṣṭaśarīrātmasāmānyakalpanayā śākhācandranidarśanavadantaḥ praveśayannāha -- tasyedameva śiraḥ| tasya asya puruṣasyānnarasamayasya idameva śiraḥ prasiddham| prāṇamayādiṣvaśirasāṃ śirastvadarśanādihāpi tatprasaṅgo mā bhūditi idameva śira ityucyate| evaṃ pakṣādiṣu yojanā| ayaṃ dakṣiṇo bāhuḥ pūrvābhimukhasya dakṣiṇaḥ pakṣaḥ| ayaṃ savyo bāhuḥ uttaraḥ pakṣaḥ| ayaṃ madhyamo dehabhāgaḥ ātmā aṅgānām, 'madhyaṃ hreṣāmaṅgānāmātmā ' iti śruteḥ| idamiti nābheradhastādyadaṅgam, tata pucchaṃ pratiṣṭhā| pratitiṣṭhatyanayeti pratiṣṭhā| pucchamiva puccham, adholambanasāmānyāt, yathā goḥ puccham| etatprakṛtya uttareṣāṃ prāṇamayādīnāṃ rūpakatvasiddhiḥ, mūṣāniṣiktadrutatāmrapratimāvat| tadapyeṣa śloko bhavati| tat tasminnevārthe brāāhmaṇokte annamayātmaprakāśake eṣa ślokaḥ mantraḥ bhavati|| iti prathamānuvākabhāṣyam||
Sanskrit only: no published translation is held for this verse.