अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिःस्वरूपेति च विप्रतिषिद्धम् । इत्य् उक्तवन्तम् आह -- न विप्रतिषिद्धम् । कथं तर्हि । कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते, तादर्थ्यात् । प्रत्यक्षादिप्रत्ययस्यानित्यत्वे ऽनित्येव भवति । तेन प्रमाणानां फलम् इत्य् उपचर्यते
atrāha codakaḥ -- avagatiḥ pramāṇānāṃ phalaṃ kūṭasthanityātmajyotiḥsvarūpeti ca vipratiṣiddham / ity uktavantam āha -- na vipratiṣiddham / kathaṃ tarhi / kūṭasthanityāpi satī pratyakṣādipratyayānte lakṣyate, tādarthyāt / pratyakṣādipratyayasyānityatve 'nityeva bhavati / tena pramāṇānāṃ phalam ity upacaryate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.