नैवम्, अग्नेर् उष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् । दर्शितश् च दृष्टान्तः प्रकाशयोर् इवेति । तत्रैवं सति स्वबुद्ध्यारूढम् एव सर्वम् उपलभसे ऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचैतन्यस्वरूपेण । यदि चैवम् आत्मनः सर्वदा निर्विशेषत्वम् अभ्युपगच्छसि । किम् इत्य् ऊचिवान्, सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर् दुःखम् अनुभवामि । किम् अयम् एव मम स्वभावः, किं वा नैमित्तिक इति च । किम् असौ व्यामोहो ऽपगतः, किं वा न
naivam, agner uṣṇaprakāśavat tava citimattvasya vivakṣitatvāt / darśitaś ca dṛṣṭāntaḥ prakāśayor iveti / tatraivaṃ sati svabuddhyārūḍham eva sarvam upalabhase 'gnyuṣṇaprakāśatulyena kūṭasthanityacaitanyasvarūpeṇa / yadi caivam ātmanaḥ sarvadā nirviśeṣatvam abhyupagacchasi / kim ity ūcivān, suṣupte viśramya viśramya jāgratsvapnayor duḥkham anubhavāmi / kim ayam eva mama svabhāvaḥ, kiṃ vā naimittika iti ca / kim asau vyāmoho 'pagataḥ, kiṃ vā na
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.