किं च य एव बाह्यः शब्दादयस् ते शरीराकारेण संस्थिताः, तद्ग्राहकैश् च श्रोत्राद्याकारैर् अन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात् संहतत्वाच् च सर्वक्रियासु । तत्रैवं सति विदुषो मम न कश्चिच् छत्रुर् मित्रम् उदासीनो वास्ति । तत्र यदि [कश्चिन्]मिथ्याज्ञानाभिमानेन प्रियम् अप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव प्रयुयुङ्क्षति सः । तस्याविषयत्वान् मम -- "अव्यक्तो ऽयम् अचिन्त्यो ऽयम्" इति स्मृतेः । तथा [सर्वेषां] पञ्चानाम् अपि भूतानाम् अविकार्यः, अविषयत्वात् । "अच्छेद्यो ऽयम् अदाह्यो ऽयम्" इति स्मृतेः । यापि शरीरेन्द्रियसंस्थानमात्रम् उपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुङ्क्षा, तज्जा च धर्माधर्मादिप्राप्तिः, सा तेषाम् एव, न तु मय्य् अजरे ऽमृते ऽभये, "नैनं कृताकृते तपतः", "न कर्मणा वर्धते नो कनीयान्", "सबाह्याभ्यन्तरो ह्य् अजः", "न लिप्यते लोकदुःखेन बाह्यह्" इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश् चासत्त्वाद् इति परमो हेतुः । आत्मनश् चाद्वयत्वविषयाणि, द्वयस्यासत्त्वात्, यानि सर्वाण्य् उपनिषद्वाक्यानि, विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति
kiṃ ca ya eva bāhyaḥ śabdādayas te śarīrākāreṇa saṃsthitāḥ, tadgrāhakaiś ca śrotrādyākārair antaḥkaraṇadvayatadviṣayākāreṇa ca, anyonyasaṃsargitvāt saṃhatatvāc ca sarvakriyāsu / tatraivaṃ sati viduṣo mama na kaścic chatrur mitram udāsīno vāsti / tatra yadi [kaścin]mithyājñānābhimānena priyam apriyaṃ vā prayuyuṅkṣeta kriyāphalalakṣaṇam, tan mṛṣaiva prayuyuṅkṣati saḥ / tasyāviṣayatvān mama -- "avyakto 'yam acintyo 'yam" iti smṛteḥ / tathā [sarveṣāṃ] pañcānām api bhūtānām avikāryaḥ, aviṣayatvāt / "acchedyo 'yam adāhyo 'yam" iti smṛteḥ / yāpi śarīrendriyasaṃsthānamātram upalakṣya madbhaktānāṃ viparītānāṃ ca priyāpriyādiprayuyuṅkṣā, tajjā ca dharmādharmādiprāptiḥ, sā teṣām eva, na tu mayy ajare 'mṛte 'bhaye, "nainaṃ kṛtākṛte tapataḥ", "na karmaṇā vardhate no kanīyān", "sabāhyābhyantaro hy ajaḥ", "na lipyate lokaduḥkhena bāhyah" ityādiśrutismṛtibhyaḥ / anātmavastunaś cāsattvād iti paramo hetuḥ / ātmanaś cādvayatvaviṣayāṇi, dvayasyāsattvāt, yāni sarvāṇy upaniṣadvākyāni, vistaraśaḥ samīkṣitavyāni samīkṣitavyānīti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.