अथैनामाग्नेयेन स्थालीपाकेन याजयति
athaināmāgneyena sthālīpākena yājayati
Sanskrit only: no published translation is held for this verse.
Library·Apastamba-Grhyasutra, with 2 commentaries·7
अथैनामाग्नेयेन स्थालीपाकेन याजयति
athaināmāgneyena sthālīpākena yājayati
Sanskrit only: no published translation is held for this verse.
ननु-ऽअथ पत्न्यवहन्तिऽऽश्रपयित्वाऽइत्येतावदेव वक्तव्यम्;यतौत्तरत्र ऽअग्निर्देवताऽ(आपगृ।७-५) इति विधानादाग्नेयत्वं सिद्धम्ऽ; स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायामिति विधानात्;अतः किमर्थमिदमधिकमारभ्यते ऽअथैनामाग्नेयेन स्थालीपाकेन याजयतिऽइति ? उच्येते सूत्रं तावदृषिप्रणीतं नानर्थकं भवितुमर्हति । तेन लोके व्युत्पत्तिसिद्धाध्याहारादिभिरपि यस्सूत्रस्यार्थस्सम्पाद्यते सो ऽपि वेदार्थोनुष्ठेय उच्यते-ध्रुवमरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च । एवमतिदेशेषार्थतया सूत्रमर्थवदेव ॥ अन्ये-याजयतीति वचनात् वरादन्यो ऽप्यस्य स्थालीपाकयागस्य कर्तेति । तन्न;प्रकरणेनास्य विवाहाङ्गत्वात् ऽसह्ङ्गं प्रधानम्ऽ; (आपप।२-३९) इति साङ्गस्य प्रधानस्यैककर्तृकत्वात् ॥ केचित्- उत्तरत्र न केवलमग्निर्देवतेति विधिः, ऽअग्निस्स्विष्टकृत् द्वितीयः इत्यपि । तेन द्विदैवत्यो ऽयं स्थालीपाको मा भूत, किन्त्वेकदैवत्य एवेत्येवमर्थमाग्नेयेनेति विधानम् । तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः । ऽएनां याजयतिऽइति तु नास्मिन् कर्मण्युभयोरधिकारः, किन्तु वध्वा एव । वरस्तु ऋत्विक्स्थानीयः । तेन होमादौ द्रव्यत्यागस्स्त्रीधनादेवेति । तन्न;वध्वेकाधिकारे हि प्रकरणावगतविवाहाङ्गत्वबाधः,अधिकारसाध्यभेधेन शास्त्रतदर्थयोर्भेदात् । आचारसिद्धवरकर्तृकत्वबाधापत्तिश्च;अन्यार्त्विज्ये ऽप्यविरोधात् ॥ १ ॥ पत्न्यवहन्ति
nanu-'atha patnyavahanti''śrapayitvā'ityetāvadeva vaktavyam;yatauttaratra 'agnirdevatā'(āpa.gṛ.7-5) iti vidhānādāgneyatvaṃ siddham'; sthālīpākeneti tu śrapayitveti vidhānāt, enāṃ yājayatīti cānvārabdhāyāmiti vidhānāt;ataḥ kimarthamidamadhikamārabhyate 'athaināmāgneyena sthālīpākena yājayati'iti ? ucyete sūtraṃ tāvadṛṣipraṇītaṃ nānarthakaṃ bhavitumarhati / tena loke vyutpattisiddhādhyāhārādibhirapi yassūtrasyārthassampādyate so 'pi vedārthonuṣṭheya ucyate-dhruvamarundhatīṃ ca darśayitvā, anantaraṃ yatrāgneyena sthālīpākena yāgaṃ karoti tatraivaināṃ patnīṃ yājayati patnyāmanvārabdhāyāṃ juhoti, na parvasu pārvaṇavikāreṣu ca / evamatideśeṣārthatayā sūtramarthavadeva // anye-yājayatīti vacanāt varādanyo 'pyasya sthālīpākayāgasya karteti / tanna;prakaraṇenāsya vivāhāṅgatvāt 'sahṅgaṃ pradhānam'; (āpa.pa.2-39) iti sāṅgasya pradhānasyaikakartṛkatvāt // kecit- uttaratra na kevalamagnirdevateti vidhiḥ, 'agnissviṣṭakṛt dvitīyaḥ ityapi / tena dvidaivatyo 'yaṃ sthālīpāko mā bhūta, kintvekadaivatya evetyevamarthamāgneyeneti vidhānam / tenāgneya eva saṅkalpitasya vrīhyāderarthākṣipto laukiko nirvāpaḥ kāryaḥ / 'enāṃ yājayati'iti tu nāsmin karmaṇyubhayoradhikāraḥ, kintu vadhvā eva / varastu ṛtviksthānīyaḥ / tena homādau dravyatyāgasstrīdhanādeveti / tanna;vadhvekādhikāre hi prakaraṇāvagatavivāhāṅgatvabādhaḥ,adhikārasādhyabhedhena śāstratadarthayorbhedāt / ācārasiddhavarakartṛkatvabādhāpattiśca;anyārtvijye 'pyavirodhāt // 1 // patnyavahanti
Sanskrit only: no published translation is held for this verse.
श्रपयित्वामिघार्य प्रचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज्जहोति
śrapayitvāmighārya pracīnamudīcīnaṃ vodvāsya pratiṣṭhitamabhighāryāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākājjahoti
Sanskrit only: no published translation is held for this verse.
उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य । प्रतिष्ठितमभिघारयति । ओषधिहविष्को ऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव । ऽआज्यभागान्ते ऽन्वारब्धायाम्ऽ; । उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम् ॥३॥ सकृदुपस्तरणाभिघारणे द्विरवदानम्
udvāsya saukaryādapareṇāgniṃ pratiṣṭhāpya / pratiṣṭhitamabhighārayati / oṣadhihaviṣko 'pyatra tantravidhānaṃ kramārthamityuktameva / 'ājyabhāgānte 'nvārabdhāyām'; / upastaraṇaprabhṛtyanvārambhaḥ pradhānahomāntam //3// sakṛdupastaraṇābhighāraṇe dviravadānam
Sanskrit only: no published translation is held for this verse.
अग्निर्देवता स्वाहाकारप्रदानः
agnirdevatā svāhākārapradānaḥ
Sanskrit only: no published translation is held for this verse.
अपि वा सकृदुपहत्य जुहुयात्
api vā sakṛdupahatya juhuyāt
Sanskrit only: no published translation is held for this verse.
अथवा दर्व्या सकृत् स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम् ॥६॥ अग्निस्स्विष्टकृत् द्वितीयः
athavā darvyā sakṛt sthālīpākādgṛhītvā juhuyāt, na tu pūrvavaccaturavattaṃ pañcāvattaṃ vā apūrvatvāddarvihomānām //6// agnissviṣṭakṛt dvitīyaḥ
Sanskrit only: no published translation is held for this verse.
सकृदुपस्तरणावदाने द्विरभिघारणम्
sakṛdupastaraṇāvadāne dvirabhighāraṇam
Sanskrit only: no published translation is held for this verse.
सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् । जमदग्नीनां तु द्विरवदानम् । अवदानं दैवताज्ज्यायः । नापि हविः प्रत्यभिघारणम्;ऐष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च ॥८॥ मध्यात् पूर्वस्यावदानम्
sakṛdupastaraṇamavadānaṃ ca dvirabhighāraṇaṃ ca kāryam / jamadagnīnāṃ tu dviravadānam / avadānaṃ daivatājjyāyaḥ / nāpi haviḥ pratyabhighāraṇam;aiṣṭikasauviṣṭakṛtāvadānavidhipradarśanārthatvāt, ācārācca //8// madhyāt pūrvasyāvadānam
Sanskrit only: no published translation is held for this verse.
हविषो मध्यात् पूर्वस्य दैवतस्यावदानं कार्यम् । उपघातपक्षार्थ एवायमारम्भ- । चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान्मध्यादङिगुष्ठपर्वमात्रावदानम् । ऽतिरछ्टीनमवद्यति पूर्वार्धाद्द्वितीयमनूचीनं चतिरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनःऽ; (आपश्रौ।२-१८-९) इत्यवदानस्थानसिद्धेः एतेनोपघातपक्षे चतिरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति ॥९॥ मध्ये होमः
haviṣo madhyāt pūrvasya daivatasyāvadānaṃ kāryam / upaghātapakṣārtha evāyamārambha- / caturavattapakṣe tvaiṣṭikavidhipradarśanabalānmadhyādaṅiguṣṭhaparvamātrāvadānam / 'tirachṭīnamavadyati pūrvārdhāddvitīyamanūcīnaṃ catiravattinaḥ paścārdhāttṛtīyaṃ pañcāvattinaḥ'; (āpa.śrau.2-18-9) ityavadānasthānasiddheḥ etenopaghātapakṣe catiravattadharma upastaraṇādirna pravartate iti darśayati //9// madhye homaḥ
Sanskrit only: no published translation is held for this verse.
होमः प्रक्षेपः । दैवतस्य अग्ने र्मध्येआघारसम्फेदे । प्रधानाहुतिबहुत्वे ऽपूर्वा पूर्वा सांहिताम्ऽ(आपश्रौ।२-१९-९) इति च भवति । अयं तूभयपक्षार्थः ॥१०॥ उत्तरार्धादुत्तरस्य
homaḥ prakṣepaḥ / daivatasya agne rmadhyeāghārasamphede / pradhānāhutibahutve 'pūrvā pūrvā sāṃhitām'(āpa.śrau.2-19-9) iti ca bhavati / ayaṃ tūbhayapakṣārthaḥ //10// uttarārdhāduttarasya
Sanskrit only: no published translation is held for this verse.
उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् । अयमपि पूर्ववदुपघातपक्षार्थ एव ॥११॥ उत्तरार्धपूर्वार्धे होमः
uttarārdhāddhaviṣa uttarasya sviṣṭakṛta avadānaṃ kāryam / ayamapi pūrvavadupaghātapakṣārtha eva //11// uttarārdhapūrvārdhe homaḥ
Sanskrit only: no published translation is held for this verse.
तस्य स्विष्टकृतो होमो ऽग्नेरुत्तरार्धपूर्वार्धे । अस्यापि प्रदर्शनार्थत्वात् ऽअसंसक्तामितराभिराहुतिभिःऽ(आपश्रौ।२-२१)-६) इत्यपि भवति ॥१२॥ होमोपस्तरणाद्यर्थदर्वीद्वपलेपयोः पात्रप्रयोगार्थ संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह-- लेपयोः प्रस्तरवत् तूष्णीं बर्हि रङ्त्वा (क्त्वा) ग्नौ प्रहरति
tasya sviṣṭakṛto homo 'gneruttarārdhapūrvārdhe / asyāpi pradarśanārthatvāt 'asaṃsaktāmitarābhirāhutibhiḥ'(āpa.śrau.2-21)-6) ityapi bhavati //12// homopastaraṇādyarthadarvīdvapalepayoḥ pātraprayogārtha saṃstīrṇasya ca varhiṣaḥ pratipattimāha-- lepayoḥ prastaravat tūṣṇīṃ barhi raṅtvā (ktvā) gnau praharati
Sanskrit only: no published translation is held for this verse.
लेपयोःदर्वीद्वयलग्नयोः पात्रासादनार्थ संस्तीर्णबर्हिःप्रस्तरवत्तूष्णी मङ्क्त्वा तद्वदेवाग्नौ प्रहरति । इदमपि प्रदर्शनार्थम् । तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति । ननु-प्रस्तरवदितीहानुपपन्नम् । बर्हिषो ऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् । उच्यते-होमदर्व्यामग्रमनक्तिः, इतरस्यां मध्यमूलेः ऽअन्याल्लोपौ विवृद्धिर्वाऽ(आपप।४।१३) इति वचनाम् । एव त्रिर्द्विवी । ऽअशापरम्ऽइति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे । अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रये ऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात् ऽइडान्तं वाऽहवनीये शंय्वन्तं गार्हपत्येऽ; (आपश्रौ।३-१४-६) इति पक्षे ऽआज्यस्थाल्यां मूलम्ऽ(आपश्रौ।३-१४-७) इति दर्शनाच्च । इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् ॥ केचित्-कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति । तन्न; कल्पान्तरोक्तबर्हिः प्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यद्वद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह-- सिद्धमुत्तरं परिषेचनम्
lepayoḥdarvīdvayalagnayoḥ pātrāsādanārtha saṃstīrṇabarhiḥprastaravattūṣṇī maṅktvā tadvadevāgnau praharati / idamapi pradarśanārtham / tenāñjanādisaṃsrāvāntaṃ śrautavattūṣṇīṃ karoti / nanu-prastaravaditīhānupapannam / barhiṣo 'gramadhyamūlānāṃ dvayordarvyoḥ prastaravadañjanāsambhavāt / ucyate-homadarvyāmagramanaktiḥ, itarasyāṃ madhyamūleḥ 'anyāllopau vivṛddhirvā'(āpa.pa.4.13) iti vacanām / eva trirdvivī / 'aśāparam'iti pakṣe sakṛdevopastaraṇādyarthāyāṃ mūlaṃ, homārthāyāṃ madhyāgre / anye tu ājyasthālīṃ dhruvāsthāne pakṣatraye 'pi kurvanti, añjanasyopayuktapātralepapratipattyarthatvāt 'iḍāntaṃ vā'havanīye śaṃyvantaṃ gārhapatye'; (āpa.śrau.3-14-6) iti pakṣe 'ājyasthālyāṃ mūlam'(āpa.śrau.3-14-7) iti darśanācca / iha tu pakṣe lepayoriti dvivacanamājyauṣadhalepābhiprāyam, na tu pūrvavadāghāradvitvābhiprāyam // kecit-kalpāntarādapareṇāgniṃ yasmin barhiṣi havirājyaṃ ca pratiṣṭhitaṃ tasmādvā, paristaraṇādvā kiñcidupādāyāñjanamiti / tanna; kalpāntaroktabarhiḥ pratiṣṭhāpanopasaṃhārasya pākṣikatvena nityadvaddhakramamapi pariṣecanaṃ na nivartate, agnayaṅgatvādityāha-- siddhamuttaraṃ pariṣecanam
Sanskrit only: no published translation is held for this verse.
तेन सर्पिष्मता ब्राह्मणं भोजयेत्
tena sarpiṣmatā brāhmaṇaṃ bhojayet
Sanskrit only: no published translation is held for this verse.
यो ऽस्यापचितस्तस्मा ऋषभं ददाति
yo 'syāpacitastasmā ṛṣabhaṃ dadāti
Sanskrit only: no published translation is held for this verse.
एवमत ऊर्ध्व दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः
evamata ūrdhva dakṣiṇāvarjamupoṣitābhyāṃ parvasu kāryaḥ
Sanskrit only: no published translation is held for this verse.
अतःस्थालीपाकादूर्ध्व उपोषिताभ्यांऽपर्वसु चोभयोरुपवासःऽ(आपध।२-१-४) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां पर्वसु पौर्णमासीष्वमावास्यासु च द्वितीयासुदक्षिणावर्ज ऋषभदानवर्जएवमेवंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः । धर्मशास्त्रे तु ऽश्वोभूते स्थालीपाकऽ(आपध।२-१-१०) इत्युपवासादिधर्मसम्बन्धार्थो ऽनुवादः । सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् । यथा ऽएतस्यैव रेवतीषुऽ(ताण्ड्यब्रा।१७-८-१) इति, यथा वा ऽमासमग्निहोत्रं जुहोतिऽइति । तत्र तु ऽएतस्यऽऽअग्निहोत्रम्ऽइति पदाभ्यां, इह तु एवंपदेनेति भेदः । ननु-दर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् । सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ? केचित्-नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दऐवतस्यानुपदेशात् । अतः कल्पातिदेश एव;ऽश्वोभूते ऽन्वष्टकां, तस्या मासिश्राद्धेन कल्पो व्याख्यातः ऽइतिवदिति । नैतत् । हविर्दऐवतस्यानुपदेशे ऽपि मासमग्निहोत्रं जुहोतिऽइत्यादिषु धर्मातिदेशस्य दृष्टत्वात् ॥ अपरे तु-एकस्य तूभयत्वे संयोगपृथक्त्वम् (जैसू।४-३-५) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्य ऽएवं पर्वसु कार्यःऽ; इत्याधिकारान्तसम्बन्धविधिरिति । एतदपि न;एवं सति ऽएष कार्यऽइति सूत्रं स्यात्, ऽनत्वेवं कार्य इति । किञ्चि पर्वस्वन्वारम्भो ऽपि स्यात्; यतस्समस्तधर्मकस्यैव प्रकृतकर्मणो ऽधिकारान्तरविध्युपगमः । धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेव ऽअथैनामाग्नेयेमऽइति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण । अत्र च ऽअत ऊर्ध्वम्ऽइति वचनं विवाहमध्ये ऽपि पर्वारम्भार्थम् । यद्यष्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः । कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या च स्यामेवारम्भदर्शनात् । व्यक्तं चैतच्छन्दोगानाम् । ऽअमावास्या चेत् पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येकऽइति । तस्मात्साथालीपाकानन्तरं पौर्णमासी चेत् पूर्वमागच्छेत्,तदा विवाहमध्ये ऽपि पर्वारम्भः । मासिश्राद्धस्य त्वारम्भश्चतुर्थाहोमान्ते अपरपक्षे;सिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च । तथा वैश्वदेवस्यापि, ऽतेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्याऽ(आपध।२-३-१३) इत्यादिव्रतं सपत्नीकश्चारित्वा प्रशस्ते ऽहन्यारभ्भः ॥१७॥ पूर्णपात्रस्तु दक्षिणेत्येके
ataḥsthālīpākādūrdhva upoṣitābhyāṃ'parvasu cobhayorupavāsaḥ'(āpa.dha.2-1-4) ityādividhinā kṛtopavāsābhyāṃ jāyāpatibhyāṃ parvasu paurṇamāsīṣvamāvāsyāsu ca dvitīyāsudakṣiṇāvarja ṛṣabhadānavarjaevamevaṃprakāra etatsthālīpākasadṛśo homaḥ kartavya iti vidhiḥ / dharmaśāstre tu 'śvobhūte sthālīpāka'(āpa.dha.2-1-10) ityupavāsādidharmasambandhārtho 'nuvādaḥ / sādṛśyaṃ cātra dravyadevatādisamastadharmanibandhanam / yathā 'etasyaiva revatīṣu'(tāṇḍya.brā.17-8-1) iti, yathā vā 'māsamagnihotraṃ juhoti'iti / tatra tu 'etasya''agnihotram'iti padābhyāṃ, iha tu evaṃpadeneti bhedaḥ / nanu-darvīhomeṣvatideśo nāsti, apūrvatvātteṣām / satyam, nāsti codanāliṅgāt, vacanāttvatideśaḥ kena vāryate ? kecit-nāyaṃ dharmātideśaḥ, sauryādiṣviva havirdaaivatasyānupadeśāt / ataḥ kalpātideśa eva;'śvobhūte 'nvaṣṭakāṃ, tasyā māsiśrāddhena kalpo vyākhyātaḥ 'itivaditi / naitat / havirdaaivatasyānupadeśe 'pi māsamagnihotraṃ juhoti'ityādiṣu dharmātideśasya dṛṣṭatvāt // apare tu-ekasya tūbhayatve saṃyogapṛthaktvam (jai.sū.4-3-5) iti nyāyena prakṛtasyaiva sthālīpākasya 'evaṃ parvasu kāryaḥ'; ityādhikārāntasambandhavidhiriti / etadapi na;evaṃ sati 'eṣa kārya'iti sūtraṃ syāt, 'natvevaṃ kārya iti / kiñci parvasvanvārambho 'pi syāt; yatassamastadharmakasyaiva prakṛtakarmaṇo 'dhikārāntaravidhyupagamaḥ / dharmātideśe tu yathā nānvārambhastathoktameva 'athaināmāgneyema'iti sūtramatideśaviśeṣārthamiti vadatā bhāṣyakāreṇa / atra ca 'ata ūrdhvam'iti vacanaṃ vivāhamadhye 'pi parvārambhārtham / yadyaṣyata ūrdhvamityaviśeṣavacanaṃ, tathāpi paurṇamāsyāmevārambhaḥ / kālaikyena prayojanaikyāt, sthānāpattyā ca syāmevārambhadarśanāt / vyaktaṃ caitacchandogānām / 'amāvāsyā cet pūrvamāpadyeta paurṇamāseneṣṭvātha tatkuryāt, akurvan paurṇamāsīmākāṅkṣedityeka'iti / tasmātsāthālīpākānantaraṃ paurṇamāsī cet pūrvamāgacchet,tadā vivāhamadhye 'pi parvārambhaḥ / māsiśrāddhasya tvārambhaścaturthāhomānte aparapakṣe;siṣṭācārāt, bodhāyanavacanāt, karmamadhye karmāntarārambhasyāyuktatvācca / tathā vaiśvadevasyāpi, 'teṣāṃ mantrāṇāmupayoge dvādaśāhamadhaśśayyā'(āpa.dha.2-3-13) ityādivrataṃ sapatnīkaścāritvā praśaste 'hanyārabhbhaḥ //17// pūrṇapātrastu dakṣiṇetyeke
Sanskrit only: no published translation is held for this verse.
सायं प्रातरत ऊर्ध्व हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात्
sāyaṃ prātarata ūrdhva hastenaite āhutī taṇḍulairyavairvā juhuyāt
Sanskrit only: no published translation is held for this verse.
स्थालीपाकवद्दैवतम्
sthālīpākavaddaivatam
Sanskrit only: no published translation is held for this verse.
अयं ऽएते आहुतीऽइति प्रप्तस्यानुवादः पूर्वाहुतेर्विकल्पं वुधातुम् ;यथा-पात्नीवते ऽनानुवषट्कारोति । अपि वोपांश्वनुवषट् कुर्यात्ऽ(आपश्रौ।१३-१४-९,१०) इति ॥२०॥ सौरी पूर्वाहुतिः प्रातरित्येके
ayaṃ 'ete āhutī'iti praptasyānuvādaḥ pūrvāhutervikalpaṃ vudhātum ;yathā-pātnīvate 'nānuvaṣaṭkāroti / api vopāṃśvanuvaṣaṭ kuryāt'(āpa.śrau.13-14-9,10) iti //20// saurī pūrvāhutiḥ prātarityeke
Sanskrit only: no published translation is held for this verse.
सौरीसूर्यदेवत्या ऽसूर्याय स्वाहाऽइति पूर्वाहुतिः प्रातर्होमे इत्येके ॥२१॥ उभयतः परिषेचनं यथा पुरस्तात्
saurīsūryadevatyā 'sūryāya svāhā'iti pūrvāhutiḥ prātarhome ityeke //21// ubhayataḥ pariṣecanaṃ yathā purastāt
Sanskrit only: no published translation is held for this verse.
पार्वणेनातो ऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते
pārvaṇenāto 'nyāni karmāṇi vyākhyātānyācārādyāni gṛhyante
Sanskrit only: no published translation is held for this verse.
यथोपदेशं देवताः
yathopadeśaṃ devatāḥ
Sanskrit only: no published translation is held for this verse.
अग्निं स्विष्टकृतं चान्तरेण
agniṃ sviṣṭakṛtaṃ cāntareṇa
Sanskrit only: no published translation is held for this verse.
अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् । अध्याहारश्च, साकाङ्क्षत्वात् । यथोपदेशं सर्पवल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टां देवतास्ता एव भवन्ति, न पार्वणदेवताः न तेषु पार्वणं प्रधानं समुच्चेतव्या इत्यर्थः । ननु विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेश-, प्रधानं चोपकार्य, नोपकारजनकम् । पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् । अतस्तस्यातिदेश एव नास्ति । दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् । ऽषड्भिर्दीक्षयतिऽ(तैसं।५-१-९) इत्यत्र तुप्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव । सत्यमेवम्;किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयो ऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्य विशेषेणातिदेशप्रातिभासात् ऽषडिभिर्दीक्षयति, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते । तन्निरासायेदं सूत्रम् ॥२४॥ अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति-- ऽयथोपदेशं देवताःऽ(आपगृ।७-२४) इत्यनुवर्तते । यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते अग्निं स्विष्टकृतं चान्तरेण आग्नेय सौविष्टकृतयोर्होमयोर्मध्ये भवेयुः । अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागे- नाग्निमुद्दिश्य जुहुयादित्यन्यो ऽप्यर्थो विधीयते । विभक्तस्य सूत्रस्य चायं विवक्षितोर्ऽथः- सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चेपकरणसमापनयोश्च शिष्टाचारा ऽदग्नये स्वाहेऽत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्यो ऽपि प्रधानहोमेभ्यः पूर्व जुहुयादिति । नन्वत्र ऽस्विष्टकृतऽमिति व्यर्थम् ;सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात् स्वत एवासावन्ते एव भवतीति । नैवम्-विकृतिषु द्विविधाः प्रधानहोमाः-पार्वणविकारा अपूर्वाश्च;तेषामुभयोषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् । अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् । तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभियः पूर्वमेवाग्निमुखमित्येवमर्थ स्विष्टकृद्वन्नियम इति ॥ केचित्- ऽयथोपदेशं देवता अग्निं स्विष्टकृतं चऽइत्येवमन्तमेकं सूत्रम् । तस्यार्थः- ऽअग्निस्स्विष्टकृत् द्वितीयःऽ(आपगृ।७-७० इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात् विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेण ऽयथापदेशं देवताःऽइत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यात् इति तासु तस्य समुच्चयो विधीयते । तथा ऽअन्तरेणऽइति पदमेकं सूत्रं ऽअन्तरा त्वाष्ट्रेणऽ; इत्यादिवत् । प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः । इतरथा क्वचित्तस्य लेपः स्यात्, ऽस्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यतेऽ(आपगृ।९-४) इत्यादि परिसङ्ख्येति कृत्वेति । तन्न,-विभागे साकाङ्क्षयोर्द्वितीयान्तयोः ऽअग्निं स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्, ऽअग्निस्स्विष्टकृद्द्वितीयःऽइत्यस्य प्रयोजनान्तरपरत्वाच्च । तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपे ऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते । तथा ऽअन्तरेणऽइत्यस्य यथोक्तश्रुतसम्बन्धन्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः । व्यर्थ चैतत्;स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः ॥२५॥ अविकृतमातिथ्यम्
atrāsvapado vigrahaḥ, avyayībhāvasamāsatvāt / adhyāhāraśca, sākāṅkṣatvāt / yathopadeśaṃ sarpavalyādiṣu yāśca yāvatyaśca yena yena prakāreṇa mantravidhānādinopadṣṭāṃ devatāstā eva bhavanti, na pārvaṇadevatāḥ na teṣu pārvaṇaṃ pradhānaṃ samuccetavyā ityarthaḥ / nanu vikṛtāvupakāramukhena tajjanakānāṃ dharmāṇāmatideśa-, pradhānaṃ copakārya, nopakārajanakam / pārvaṇe ca sthālīpākahomayoḥ prathamo homaḥ pradhānam / atastasyātideśa eva nāsti / dūre tatsamuccayāśaṅkā, yannirāsāyedaṃ sūtraṃ syāt / 'ṣaḍbhirdīkṣayati'(tai.saṃ.5-1-9) ityatra tuprākṛtīnāṃ dīkṣāhutīnāṃ aṅgatvādatideśaḥ, adṛṣṭārthatvācca samuccayaḥ, yathopadiṣṭānāṃ prakṛtikḷptakramabādhabhayādante niveśaśca yukta eva / satyamevam;kintu gārhyakarmānuṣṭhātṝṇāṃ madhye ye mandabuddhayo 'ṅgapradhānayoratideśyānatideśyayośca anabhijñāste pārvaṇenetya viśeṣeṇātideśaprātibhāsāt 'ṣaḍibhirdīkṣayati, ityādau darśanamātrācca pradhānātideśatatsamuccayāvupadiṣṭapradhānānāmante niveśaṃ ca manyante / tannirāsāyedaṃ sūtram //24// atha vaikṛtapradhānahomānāṃ sthānamarthādagnimukhasauviṣṭakṛtayośca vidadhāti-- 'yathopadeśaṃ devatāḥ'(āpa.gṛ.7-24) ityanuvartate / yathopadeśaṃ devatāḥ ye vikṛtāvupadiṣṭāḥ te agniṃ sviṣṭakṛtaṃ cāntareṇa āgneya sauviṣṭakṛtayorhomayormadhye bhaveyuḥ / atra ca sviṣṭakṛtamitivadagnimityapi siddhānuvādāt, anyataśca prāptyabhāvāt, yogavibhāge- nāgnimuddiśya juhuyādityanyo 'pyartho vidhīyate / vibhaktasya sūtrasya cāyaṃ vivakṣitor'thaḥ- sarveṣu tantravatsvauṣadhahomeṣu dadhihomeṣu cepakaraṇasamāpanayośca śiṣṭācārā 'dagnaye svāhe'tyājyena agnimukhākhyamaṅgahomaṃ sarvebhyo 'pi pradhānahomebhyaḥ pūrva juhuyāditi / nanvatra 'sviṣṭakṛta'miti vyartham ;sarvatra sviṣṭakṛtaśśeṣapratipattyarthatvāt svata evāsāvante eva bhavatīti / naivam-vikṛtiṣu dvividhāḥ pradhānahomāḥ-pārvaṇavikārā apūrvāśca;teṣāmubhayoṣāmapyanta eva sviṣṭakṛdyathā syādityevamarthatvāt / anyathā yaddhomāṅgaṃ sviṣṭakṛttadanta eva syāt / tathāgnimiti cobhayebhyaḥ pradhānāhutibhiyaḥ pūrvamevāgnimukhamityevamartha sviṣṭakṛdvanniyama iti // kecit- 'yathopadeśaṃ devatā agniṃ sviṣṭakṛtaṃ ca'ityevamantamekaṃ sūtram / tasyārthaḥ- 'agnissviṣṭakṛt dvitīyaḥ'(āpa.gṛ.7-70 ityatra sviṣṭakṛtaḥ pradhānahomatulyadharmatvajñāpanāt vikṛtiṣu ca pārvaṇapradhānalope sati tasyāpi lopassyāt, sa mā bhūdityanena sūtreṇa 'yathāpadeśaṃ devatāḥ'ityanūdya, agniṃ sviṣṭakṛtaṃ ca kuryāt iti tāsu tasya samuccayo vidhīyate / tathā 'antareṇa'iti padamekaṃ sūtraṃ 'antarā tvāṣṭreṇa'; ityādivat / prakaraṇādvaikṛtapradhānahomānāṃ jayādīnāṃ ca madhye sarvāsvapi vikṛtiṣu sviṣṭakṛnnitya evetyarthaḥ / itarathā kvacittasya lepaḥ syāt, 'sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate'(āpa.gṛ.9-4) ityādi parisaṅkhyeti kṛtveti / tanna,-vibhāge sākāṅkṣayordvitīyāntayoḥ 'agniṃ sviṣṭakṛtaṃ, ityetayoḥ antareṇetyanena sambandhākāṅkṣeṇa ekavākyatve sambhavati vākyabhedasyāyuktatvāt, 'agnissviṣṭakṛddvitīyaḥ'ityasya prayojanāntaraparatvācca / tathāpi yadi sviṣṭakṛtaḥ pradhānatulyadharmakatvaṃ, tadā tallope 'pi pradhānalopaprāyaścittamevāpadyate / tathā 'antareṇa'ityasya yathoktaśrutasambandhanyanvayasambhave aprakṛtagamyamānānvayo na yuktaḥ / vyartha caitat;svamate sviṣṭakṛtassamuccayavidhānādeva tridoṣāyāḥ parisaṅkhyāyā api nirastatvāt, tasya sarvatra nityatvenālopasiddheḥ //25// avikṛtamātithyam
Sanskrit only: no published translation is held for this verse.
वैश्वदेवे विश्वे देवाः
vaiśvadeve viśve devāḥ
Sanskrit only: no published translation is held for this verse.
औपासने पचने वा कल्पितादन्नात्, तदभावे हविष्यमन्नं व्रीहियवादि, आकाष्ठात्, देवेभ्यस्स्वाहेति हस्तेन जुहुयाते;सन्निपातीतिकर्तव्यतयोरौपासनहोमवैश्वदेवयोर्हस्तेन होमस्य दृष्टत्वात् । मन्त्रवच्चोभयतः परिषेचनम्, तयोर्दृष्टत्वादेव । वृष्टिरसि । वषट्कारहोमेषु विद्युद्वृष्टी इत्युपदेशः । अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा विद्युदासि । शुचौभूमौ कल्पितादोदनात् हस्तेन अङ्गुष्ठप्रदेशिन्यावन्तरेण पितृभ्यः स्वधास्तु, इति दद्यात् आहुतिमात्रम् । वृष्टिरसि । पित्र्यं बलिहरणविधिनेत्युपदेशः । अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती भूतयज्ञेन यक्ष्य इत्युक्त्वा, वुद्युत् । शुचौ भूमावेव हस्तेन ऽइदं भूतेभ्यो ऽस्तुऽइति दद्यात् । वृष्टिः बलिहरणविधिनेत्युपदेशः । अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती मनुष्ययज्ञेन यक्ष्य इत्युक्त्वा, विध्युत । ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् । वृष्टिः दानमाज्ञमित्युपदेशः । ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा;ऽउतित आदित्येऽ(तैआ।२-११) इति वचननात् । तस्य कर्मोच्यते-ऽब्रह्मयज्ञेन यक्ष्यमाणःऽ(तैआ।२-११) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचामेत् । अस्मिंस्त्वाचमने विशेषः- ऽदक्षिणत उपवीयऽइत्यारभ्य ऽसकृदुपस्पृश्यऽ(तैआ।२-११) इत्येवमन्ते विगुणे कृते ऽयदि यजुष्टऽइति ऽभुवस्वाहाऽइति होमः प्रायश्चित्त्म् । ऽदाक्षिणेन पाणिना सव्यं प्रोक्ष्यऽइत्यारभ्य शेषे विगुणे कृते ऽयद्यविज्ञाताऽइति प्रायश्चित्तम् । अथ क्रम उच्यते- ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत । आचमनम् । आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः;ऽश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्यऽ(आपध।१-९-१) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणा धीर्यतेऽविना चाम्नानैः आदिप्रदिश्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत । परिधानीयां कृत्वा, वृष्टिरसि । एवमहरहः कृतान्तादारभ्य यावत्समाप्तो वेदः सहैकाग्नि विधिकाण्डेन । समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयधीयीत । एवं विनियोगदर्शनात्, ऽऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥ इति वचनाच्च । यद्यनेकशाखाध्यायी ततो ऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् । यदा ब्राह्मणस्य क्रमेण तदा ऽभूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीऽत्यभिव्याहरेत् । एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत । मनुष्ययज्ञान्ते ऽसर्वान् वैश्वदेवेभागिनः कुर्वीत, (आपध।२-९-५) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्पदानभूताय निनयेत्, ऽरुद्रायस्वाहाऽइति । नित्यवच्चनिनयनम्;प्रतिपत्तिकर्मत्वात् । ऽएवं वास्तु शिवं भवतिऽ(आपध।२-४-२३) इत्यर्थवादः । ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्ऽ; (पूमी।४-३-१) इति न्यायात् । फलं वा, सूत्रकारेणोपदिष्टत्वात् ऽयएतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्चऽ(आपध।२-४-९) इति । एवमृते महायत्रेभ्यः सायं रौद्रान्तं कृत्वा वैहायसमाकाशे भूतबलिं कुर्वीत ॥ अन्य आहुः-ऽनक्तमेवोत्तमेनऽ(आप।२-४-८) इत्येवकारस्य व्यवहितान्वयाद्वैहायसमेव सायमिति ॥ इदानीं प्रसङ्गात् सर्पवलेस्तदुत्सर्गस्य च देवतामुपदिशति- पौर्णमास्यां पौर्णमासी यस्यां क्रियते
aupāsane pacane vā kalpitādannāt, tadabhāve haviṣyamannaṃ vrīhiyavādi, ākāṣṭhāt, devebhyassvāheti hastena juhuyāte;sannipātītikartavyatayoraupāsanahomavaiśvadevayorhastena homasya dṛṣṭatvāt / mantravaccobhayataḥ pariṣecanam, tayordṛṣṭatvādeva / vṛṣṭirasi / vaṣaṭkārahomeṣu vidyudvṛṣṭī ityupadeśaḥ / atha prācīnāvītī pitṛyajñena yakṣye ityuktvā vidyudāsi / śucaubhūmau kalpitādodanāt hastena aṅguṣṭhapradeśinyāvantareṇa pitṛbhyaḥ svadhāstu, iti dadyāt āhutimātram / vṛṣṭirasi / pitryaṃ baliharaṇavidhinetyupadeśaḥ / atha baliharaṇasya homatulyatvāt yajñopavītī bhūtayajñena yakṣya ityuktvā, vudyut / śucau bhūmāveva hastena 'idaṃ bhūtebhyo 'stu'iti dadyāt / vṛṣṭiḥ baliharaṇavidhinetyupadeśaḥ / atha dānasya homatulyatvāt yajñopavītī manuṣyayajñena yakṣya ityuktvā, vidhyuta / brāhmaṇatarpaṇaṃ, saṅkalpitasya vā dānam / vṛṣṭiḥ dānamājñamityupadeśaḥ / brahmayajñaṃ tu pūrvameva kurvīta agnihotramaupāsanaṃ vā hutvā;'utita āditye'(tai.ā.2-11) iti vacananāt / tasya karmocyate-'brahmayajñena yakṣyamāṇaḥ'(tai.ā.2-11) ityādi brāhmaṇoktadeśe yathāvidhyācāmet / asmiṃstvācamane viśeṣaḥ- 'dakṣiṇata upavīya'ityārabhya 'sakṛdupaspṛśya'(tai.ā.2-11) ityevamante viguṇe kṛte 'yadi yajuṣṭa'iti 'bhuvasvāhā'iti homaḥ prāyaścittm / 'dākṣiṇena pāṇinā savyaṃ prokṣya'ityārabhya śeṣe viguṇe kṛte 'yadyavijñātā'iti prāyaścittam / atha krama ucyate- brahmayajñena yakṣye ityuktvā, vidyuta / ācamanam / āsanakalpanādi sāvitrījapāntaṃ kṛtvā vedasyādita ārabhya yathādhyāyamadhyayanamadhyāyaḥ kṛtsnasya vedasyāsamāpteḥ;'śrāvaṇyāṃ paurṇamāsyāmadhyāyamupākṛtya'(āpa.dha.1-9-1) iti vacanāt yena prakāreṇādhyāyo yena ca krameṇā dhīryate'vinā cāmnānaiḥ ādipradiśṭānuṣaṅgaprakhyādibhiḥ, utsṛjan utsṛjyotsṛjya, vācā manasā ca yāvattarasaṃ yāvacchakyamadhīyīta / paridhānīyāṃ kṛtvā, vṛṣṭirasi / evamaharahaḥ kṛtāntādārabhya yāvatsamāpto vedaḥ sahaikāgni vidhikāṇḍena / samastamadhītya vaiśvadeva mantrānadhītya tataḥ prasugmanteti praśnadvayadhīyīta / evaṃ viniyogadarśanāt, 'aikāgniko vidhiḥ kāṇḍaṃ vaiśvadevamiti sthitiḥ, // iti vacanācca / yadyanekaśākhādhyāyī tato 'nenaiva vidhinā dvitīyaṃ punaradhīyīta ṛgyajussāmnāṃ krameṇa adhyayane yadyanadhyāyassyāt, tadaikāṃ varcamekaṃ vā yajurekaṃ vā sāma kṛtāṃtādevārabhyābhivyāharet / yadā brāhmaṇasya krameṇa tadā 'bhūrbhuvassuvassatyaṃ tapaśśraddhāyāṃ juhomī'tyabhivyāharet / evaṃ yāvajjīvaṃ brahmayajñaṃ kurvīta / manuṣyayajñānte 'sarvān vaiśvadevebhāginaḥ kurvīta, (āpa.dha.2-9-5) ityādividhānena sarveṣu patnyanteṣu bhuktvatsu, pākapariveṣaṇapātrebhyo lepān saṅkṛṣyottarataḥ śucau deśe rudrāya sampadānabhūtāya ninayet, 'rudrāyasvāhā'iti / nityavaccaninayanam;pratipattikarmatvāt / 'evaṃ vāstu śivaṃ bhavati'(āpa.dha.2-4-23) ityarthavādaḥ / 'dravyasaṃskārakarmasu parārthatvāt'; (pū.mī.4-3-1) iti nyāyāt / phalaṃ vā, sūtrakāreṇopadiṣṭatvāt 'yaetānavyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiśca'(āpa.dha.2-4-9) iti / evamṛte mahāyatrebhyaḥ sāyaṃ raudrāntaṃ kṛtvā vaihāyasamākāśe bhūtabaliṃ kurvīta // anya āhuḥ-'naktamevottamena'(āpa.2-4-8) ityevakārasya vyavahitānvayādvaihāyasameva sāyamiti // idānīṃ prasaṅgāt sarpavalestadutsargasya ca devatāmupadiśati- paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate
Sanskrit only: no published translation is held for this verse.