गतमेतत् । एकादशः खण्डः। कपर्दिभाष्यम् क्रत्वर्थेनोपादीयमानामामेकविधादीनां पक्षपुच्छत्वं प्रतिपादितम् । तथा तेषामुपधानविधिः कथं भवतीत्युच्यते --- एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् करणानां द्वादशेन त्रयोदशेन कृतैःसमचतुरश्रैः इष्टकाः कारयेत् । सर्वतो द्वादशेनैकं करणं सर्वतस्त्रयोदशेन द्वितीयम् । पादेष्टकाश् च व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्
gatametat / ekādaśaḥ khaṇḍaḥ. kapardibhāṣyam kratvarthenopādīyamānāmāmekavidhādīnāṃ pakṣapucchatvaṃ pratipāditam / tathā teṣāmupadhānavidhiḥ kathaṃ bhavatītyucyate --- ekavidhaprabhṛtīnāṃ karaṇīnāṃ dvādaśena trayodaśenetīṣṭakāḥ kārayet karaṇānāṃ dvādaśena trayodaśena kṛtaiḥsamacaturaśraiḥ iṣṭakāḥ kārayet / sarvato dvādaśenaikaṃ karaṇaṃ sarvatastrayodaśena dvitīyam / pādeṣṭakāś ca vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet
Sanskrit only: no published translation is held for this verse.
पादेष्टकाश् च द्वादशीवधास्त्रयोदशविधाश्वार्धेष्टकाश् चेति शुल्बान्तरम् । अस्माकमपि प्रौगेर्ऽधेष्टकाः कार्याः । एकविधादिष्वपि यदि प्रथमप्रस्तारो द्वादशभिः द्वितीयस्त्रयोदशभिरित्यस्मिन्पाक्षेर्ऽधेष्टकाः कार्याः । इतरथा सङ्धया न पूर्यत एव । तत्र श्लोकाः - द्विविधे मानिका रज्जुःसप्तत्या च शतेन च । अङ्गुलीनां मिता सा स्यादूनाग्नेर्दशमिस्तिलैः ॥ त्रिविधे मानिका रज्जुरष्टोत्तरशतद्वयम् । षड्भिरेव तिलैरूना गणकैः परिकल्पिता ॥ विधस्पापि चतुर्थस्य मानिका रज्जुरुच्यते । मिता शतद्वयेनाथ चत्वारिंशाधिकेन च ॥ विधस्य पञ्चमस्येयमष्टषष्टिःशतद्वयी । एकादशतिलैर्युक्तां मानिकां गणका विदुः ॥ चतुर्भिश् च नवत्या च शताभ्यां च मिता भवेत् । त्रिभिरेव तिलैरूना षढ्विधस्य विधानिका ॥ उपधाने ऽभितः पादास्तिस्रो रीत्यो ऽथ द्वादश्यः । ततः पञ्च त्रयोदश्यः । तत एका त्रयोदशी । पादरीतिः तत एका त्रयोदशी ततस्तिस्रो ऽभितः पादा रीत्यां द्वादश्यः । द्वितीयस्यां एका चतुर्थी च तेभ्यो ऽन्यो ऽष्टमी । एष प्रस्तारः । अपरस्मिन् प्रस्तारे द्वे रीत्यौ त्रयोदश्येका त्रयोदशी पादा तत एकाभिहितपादा त्रयोदशी । ततश्चतस्रो द्वादश्यः । अथ मध्यमाःषडिष्टकाः चतुर्भेदाः, एष द्विशतः प्रत्तारः ॥ व्यत्यासमिति - गतमेतत् ॥ एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणम्
pādeṣṭakāś ca dvādaśīvadhāstrayodaśavidhāśvārdheṣṭakāś ceti śulbāntaram / asmākamapi prauger'dheṣṭakāḥ kāryāḥ / ekavidhādiṣvapi yadi prathamaprastāro dvādaśabhiḥ dvitīyastrayodaśabhirityasminpākṣer'dheṣṭakāḥ kāryāḥ / itarathā saṅdhayā na pūryata eva / tatra ślokāḥ - dvividhe mānikā rajjuḥsaptatyā ca śatena ca / aṅgulīnāṃ mitā sā syādūnāgnerdaśamistilaiḥ // trividhe mānikā rajjuraṣṭottaraśatadvayam / ṣaḍbhireva tilairūnā gaṇakaiḥ parikalpitā // vidhaspāpi caturthasya mānikā rajjurucyate / mitā śatadvayenātha catvāriṃśādhikena ca // vidhasya pañcamasyeyamaṣṭaṣaṣṭiḥśatadvayī / ekādaśatilairyuktāṃ mānikāṃ gaṇakā viduḥ // caturbhiś ca navatyā ca śatābhyāṃ ca mitā bhavet / tribhireva tilairūnā ṣaḍhvidhasya vidhānikā // upadhāne 'bhitaḥ pādāstisro rītyo 'tha dvādaśyaḥ / tataḥ pañca trayodaśyaḥ / tata ekā trayodaśī / pādarītiḥ tata ekā trayodaśī tatastisro 'bhitaḥ pādā rītyāṃ dvādaśyaḥ / dvitīyasyāṃ ekā caturthī ca tebhyo 'nyo 'ṣṭamī / eṣa prastāraḥ / aparasmin prastāre dve rītyau trayodaśyekā trayodaśī pādā tata ekābhihitapādā trayodaśī / tataścatasro dvādaśyaḥ / atha madhyamāḥṣaḍiṣṭakāḥ caturbhedāḥ, eṣa dviśataḥ prattāraḥ // vyatyāsamiti - gatametat // ekavidhaprabhṛtīnāṃ prathamāhāreṇa dvitīyena tṛtīyeneti yo yujyeta | sarveṣāṃ yathā śrutisaṅkhyā tathordhvapramāṇam
Sanskrit only: no published translation is held for this verse.
एकविधप्रभृतीनां षड्विधपर्यन्तानां सर्वेषां प्रथमाहारे द्वितीयाहारे च यथा सङ्ख्याः श्रूयन्ते । किमुक्तं भवति? यदि प्रथमाहारःसहस्रसङ्ख्या जानुदघ्नता च । अथ द्वितीय एते युक्ता एव । ते धर्माः सप्तार्धस्वरूपयुक्ता एवेति । तच्च वचनं सप्तार्धप्रकृतित्वज्ञापनार्थम् ॥ करविन्दीया व्याख्या व्यत्या र्षेत् गतं । विकृतिषु पुनर्व्यत्यासे वचनं किमर्थम्? उच्यते - प्रकृतौ चितीनां प्रस्ताराणां च वैषम्यात् किमयं व्यत्यासः प्रस्तारधर्मः चितिधर्म इति कस्यचित्सन्देहःस्यात् । विकृतौ तु द्विप्रस्ताराश्वितय इति प्रस्तारयोर्वैषम्येमायं व्यत्यासः कस्य धर्म इति सन्देहे यावन्तः प्रस्तारास्तावतो व्यत्यस्य चिनुयात् भेदाभावाय । व्यत्यासस्य प्रस्तारधर्मताप्रतिपादनाय पुनर्वचनं व्यत्यासस्य । एकवि माणम् एकविधप्रभृतिषड्विधपर्यन्तानां प्रथमाहारः प्रथमप्रयोगः यो युज्येत भृशं युक्तो भवति । यथाश्रुतिसङ्ख्या श्रुत्युक्तेन प्रकारेण सङ्ख्या सहस्रादिः यथा भृशं युज्यते तथोर्ध्वप्रमाणं जानुदघ्नादि च योयुज्येतेति च सम्बन्धः । एकविधप्रभृतिषड्विधपर्यन्तानां सर्वेषां प्रथमाहारेण द्वितीयाहारेण तृतीयाहारेण "साहस्रं चिन्वीत प्रथमं चिन्वानःऽ इत्याद्याः श्रूयमाणाः साहस्रादिसङ्ख्याजानुदघ्नादिपरिमाणाश्वैतेषु सम्पाद्यतयोपदिश्यन्ते । एतेन एकविधस्य प्रकृतित्वे द्विविधादीनां तत्प्रकृतित्वे च साहस्रादिसङ्ख्याजानुदघ्नादि परिमाणत्वं सिद्धं भवति । एकविधादयो ऽपि नित्या एव अकामसम्बन्धात् । प्रकृतयो विकृतयश् च नित्या उक्ताः । इतानीं काम्याः प्रौगादय उच्यन्ते । काम्या गुणविकाराः गुणशास्त्रत्वात्
ekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ sarveṣāṃ prathamāhāre dvitīyāhāre ca yathā saṅkhyāḥ śrūyante / kimuktaṃ bhavati? yadi prathamāhāraḥsahasrasaṅkhyā jānudaghnatā ca / atha dvitīya ete yuktā eva / te dharmāḥ saptārdhasvarūpayuktā eveti / tacca vacanaṃ saptārdhaprakṛtitvajñāpanārtham // karavindīyā vyākhyā vyatyā rṣet gataṃ / vikṛtiṣu punarvyatyāse vacanaṃ kimartham? ucyate - prakṛtau citīnāṃ prastārāṇāṃ ca vaiṣamyāt kimayaṃ vyatyāsaḥ prastāradharmaḥ citidharma iti kasyacitsandehaḥsyāt / vikṛtau tu dviprastārāśvitaya iti prastārayorvaiṣamyemāyaṃ vyatyāsaḥ kasya dharma iti sandehe yāvantaḥ prastārāstāvato vyatyasya cinuyāt bhedābhāvāya / vyatyāsasya prastāradharmatāpratipādanāya punarvacanaṃ vyatyāsasya / ekavi māṇam ekavidhaprabhṛtiṣaḍvidhaparyantānāṃ prathamāhāraḥ prathamaprayogaḥ yo yujyeta bhṛśaṃ yukto bhavati / yathāśrutisaṅkhyā śrutyuktena prakāreṇa saṅkhyā sahasrādiḥ yathā bhṛśaṃ yujyate tathordhvapramāṇaṃ jānudaghnādi ca yoyujyeteti ca sambandhaḥ / ekavidhaprabhṛtiṣaḍvidhaparyantānāṃ sarveṣāṃ prathamāhāreṇa dvitīyāhāreṇa tṛtīyāhāreṇa "sāhasraṃ cinvīta prathamaṃ cinvānaḥ' ityādyāḥ śrūyamāṇāḥ sāhasrādisaṅkhyājānudaghnādiparimāṇāśvaiteṣu sampādyatayopadiśyante / etena ekavidhasya prakṛtitve dvividhādīnāṃ tatprakṛtitve ca sāhasrādisaṅkhyājānudaghnādi parimāṇatvaṃ siddhaṃ bhavati / ekavidhādayo 'pi nityā eva akāmasambandhāt / prakṛtayo vikṛtayaś ca nityā uktāḥ / itānīṃ kāmyāḥ praugādaya ucyante / kāmyā guṇavikārāḥ guṇaśāstratvāt
Sanskrit only: no published translation is held for this verse.
ताश्चतुर्बागीया नवम्यश् चेति द्विविधाः । तत्र श्लोकाः - अङ्गुल्यो विंशतिशतं करण्येकविधे भवेत् । द्विविधे सप्ततिशतं ज्ञेयं दशतिलोनितम् ॥ त्रिविधे द्वे शते चाष्टौ चाङ्गुल्यष्,ट्तिलोनिताः । चतुर्विधस्य करणी चत्वलारिंशच्छतद्वयम् ॥ अष्टषष्टिः पञ्चविधे सैकादशतिले शते । षड्विधे त्रिशताच्याज्याःषडङ्गुल्यस्तिलावपि ॥ एकविधस्य तावत् करण्या द्वादशेन दशाङ्गुलेनैकं करणम् । तदर्धेन पञ्चाङ्गुलेन द्वितीयं पादेष्टकारूपम् । तृतीयेन च सैकादशतिलेन त्र्यङ्गुलेन तृतीयम् । सा नवमीत्युच्यते । एवं त्रयोदशेन साष्टतिलेन नवाङ्गुलेनैकम् । तदर्धेन तत्पाद्याः । चतुरङ्गुला सैकविंशतितिला । तृतीयेन च नवमी त्र्यङ्गुला सतिलत्रया । एवं द्विविधादिषु द्रष्टव्यम् । व्यत्यासंअश्चिकीर्षेत् तत्र प्रस्तारयोरनुक्तत्वात् द्वादशीत्रयोदशीनामेव सावयवानां प्रस्तारेषु व्यत्यासः । द्वादशीभिःसावयवभिरेकः प्रस्तारः त्रयोदशीभिरपर इति । संकालितोपधानं तु न भवत्यवचनात् एतदतिदिष्टप्रौगचित्यसम्भवाच्च । तत्र प्रथमे प्रस्तारे अग्निमध्ये नवद्वादशीनां नवम्यश्चतुरश्रीकृताः । ताः परितःषष्टिः पाद्याः । ताः परितो ऽष्टाविंशतिशतं द्वादश्यः । उत्तरांस एकामुद्धृत्य चतस्लः पाद्याः । द्विशतः प्रस्तारः । अपरस्मिन् त्रयोदशभिः प्रच्छादिते नवषष्टिशतमिष्टका भवन्ति । अग्निमध्यस्थमुद्धत्य चतस्रः पाद्याः । प्रतिकोणं चतस्रश्चतस्रः पाद्याः पृष्ठयायां पश्चात्पुरस्ताच्चैकैकामुद्धृत्य नवनव नवम्यः । द्विशतः प्रस्तारः । एकविध र्ध्वप्रमाणं एकविधादीनामपि सहस्रादिसंख्या । ऊर्ध्वप्रमाणं च जानुदघ्नादिसप्तविधादिपद्भवत्येव । क्षेत्रापचये ऽपि संख्योर्ध्वप्रमाणयोर्नापचय इत्यर्थः ॥ कपर्दिभाष्यम् काम्या गुणविकाराः गुणशास्रत्वात् ॥ ।३ ॥ काम्याः प्रौगादयः गुणेन विकृताः - किमुक्तं भवति? गुणसिद्धिर्नाग्नेः । कुतः? गुणशास्रत्वात् । शास्तीति शास्रम् । गुणो ऽत्र शिष्यते नाग्निः । तस्माद्गुणशास्त्रत्वात् गोदोहनादिव, द्गुणफलान्योतानि ॥ प्रौगचितं चिन्वीत भ्रातृव्यवान् इति विज्ञायते
tāścaturbāgīyā navamyaś ceti dvividhāḥ / tatra ślokāḥ - aṅgulyo viṃśatiśataṃ karaṇyekavidhe bhavet / dvividhe saptatiśataṃ jñeyaṃ daśatilonitam // trividhe dve śate cāṣṭau cāṅgulyaṣ,ṭtilonitāḥ / caturvidhasya karaṇī catvalāriṃśacchatadvayam // aṣṭaṣaṣṭiḥ pañcavidhe saikādaśatile śate / ṣaḍvidhe triśatācyājyāḥṣaḍaṅgulyastilāvapi // ekavidhasya tāvat karaṇyā dvādaśena daśāṅgulenaikaṃ karaṇam / tadardhena pañcāṅgulena dvitīyaṃ pādeṣṭakārūpam / tṛtīyena ca saikādaśatilena tryaṅgulena tṛtīyam / sā navamītyucyate / evaṃ trayodaśena sāṣṭatilena navāṅgulenaikam / tadardhena tatpādyāḥ / caturaṅgulā saikaviṃśatitilā / tṛtīyena ca navamī tryaṅgulā satilatrayā / evaṃ dvividhādiṣu draṣṭavyam / vyatyāsaṃaścikīrṣet tatra prastārayoranuktatvāt dvādaśītrayodaśīnāmeva sāvayavānāṃ prastāreṣu vyatyāsaḥ / dvādaśībhiḥsāvayavabhirekaḥ prastāraḥ trayodaśībhirapara iti / saṃkālitopadhānaṃ tu na bhavatyavacanāt etadatidiṣṭapraugacityasambhavācca / tatra prathame prastāre agnimadhye navadvādaśīnāṃ navamyaścaturaśrīkṛtāḥ / tāḥ paritaḥṣaṣṭiḥ pādyāḥ / tāḥ parito 'ṣṭāviṃśatiśataṃ dvādaśyaḥ / uttarāṃsa ekāmuddhṛtya cataslaḥ pādyāḥ / dviśataḥ prastāraḥ / aparasmin trayodaśabhiḥ pracchādite navaṣaṣṭiśatamiṣṭakā bhavanti / agnimadhyasthamuddhatya catasraḥ pādyāḥ / pratikoṇaṃ catasraścatasraḥ pādyāḥ pṛṣṭhayāyāṃ paścātpurastāccaikaikāmuddhṛtya navanava navamyaḥ / dviśataḥ prastāraḥ / ekavidha rdhvapramāṇaṃ ekavidhādīnāmapi sahasrādisaṃkhyā / ūrdhvapramāṇaṃ ca jānudaghnādisaptavidhādipadbhavatyeva / kṣetrāpacaye 'pi saṃkhyordhvapramāṇayornāpacaya ityarthaḥ // kapardibhāṣyam kāmyā guṇavikārāḥ guṇaśāsratvāt // .3 // kāmyāḥ praugādayaḥ guṇena vikṛtāḥ - kimuktaṃ bhavati? guṇasiddhirnāgneḥ / kutaḥ? guṇaśāsratvāt / śāstīti śāsram / guṇo 'tra śiṣyate nāgniḥ / tasmādguṇaśāstratvāt godohanādiva, dguṇaphalānyotāni // praugacitaṃ cinvīta bhrātṛvyavān iti vijñāyate
Sanskrit only: no published translation is held for this verse.
प्रौगः शकटपुर्वभागः । तदाकारं चिन्वीत भ्रातृव्यवान्यस्य बहवः भ्रातृव्याः स एवं चिन्वीत । यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच् छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगम्
praugaḥ śakaṭapurvabhāgaḥ / tadākāraṃ cinvīta bhrātṛvyavānyasya bahavaḥ bhrātṛvyāḥ sa evaṃ cinvīta / yāvānagniḥ sāratniprādeśo dvistāvatīṃ bhūmiṃ caturaśrāṃ kṛtvā pūrvasyāḥ karaṇyā ardhāc chroṇīṃ pratyālikhet | sā nityā praugam
Sanskrit only: no published translation is held for this verse.
कराणानि चयनम् इत्य् एकविधोक्तम् एतच्च वचनं सप्तार्धस्य प्रकृतित्वज्ञापनार्थम् । पञ्चदशभिरङ्गुलैर्नवभिश् च तिलैः अन्तरा चतुःपुरुषा रज्जुः द्विस्तावतीं करोति । तथा चतुरश्रं विहृत्य सूत्रोक्तेन मार्गेण श्रोणीं परिलिखेत् । करणानि च कारयेत् । द्वादशेन त्रयोदशेन सपादेन च प्रौगाकारः ॥ प्रौगा इष्टकाः कारयेत्
karāṇāni cayanam ity ekavidhoktam etacca vacanaṃ saptārdhasya prakṛtitvajñāpanārtham / pañcadaśabhiraṅgulairnavabhiś ca tilaiḥ antarā catuḥpuruṣā rajjuḥ dvistāvatīṃ karoti / tathā caturaśraṃ vihṛtya sūtroktena mārgeṇa śroṇīṃ parilikhet / karaṇāni ca kārayet / dvādaśena trayodaśena sapādena ca praugākāraḥ // praugā iṣṭakāḥ kārayet
Sanskrit only: no published translation is held for this verse.
उपधाने प्रथमप्रस्तारे प्रौगमुखे चतुःषष्टिः पादेष्टका उपदध्यात् । श्रोण्योश्चतस्रश्चतुर्विंशोत्तरं शतं द्वादश्यः चतस्रोर्ऽधेष्टकाः । एष द्विशतः प्रस्तारः । अपरस्मिन् श्रोण्योर्विंशतिविशतिस्त्रयोदशपादाः द्वावर्धावष्टपञ्चाशदधिकशतं त्रयोदश्यः । एष द्विशतः प्रस्तारः । व्यत्यासश् च कार्यः ॥ सुन्दरराजीया व्याख्या काम्याःअगुणशास्रत्वात् काम्याः छन्दश्वित्प्रभृतयो ऽग्नयो नित्यस्य चतुरश्रस्य गुणविकारा, तस्यैवाग्नेणमात्रेण विकृतत्वात् गुणफलं स्वफलं च साधयन्ति । यथा अग्निष्टोमस्य गुणविकारा उक्थ्यादयः । प्रौगचितंअविज्ञायते प्रौगं शकटस्य मुखं त्रिकोणं, तद्वच्चीयत इति प्रौगचित् । "कर्मण्यग्नयाख्यायाम्ऽ इति व्किप् । तस्याग्नेर्मानमाह - यावान लिखेत् सारत्निप्रादेशस्य सप्तविधस्य करणी त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयोर्ऽधद्वादशतिलाः । तस्या द्विकरणी पादोनपञ्चषष्टिचतुःशताङ्गुलयः द्विस्तावत्याः पञ्चदशपुरुषायाश्चतुरश्रीकृताया भूमेः करणी । प्रणगस्य पार्श्वमानी चत्वारः पुरुष एकोनचत्वारिंशदङ्गुलय एकविंशतितिलाश् च । यावानग्निरित्येव सिद्धे सारत्निप्रादेशग्रहणं तस्य पक्षस्य शाखान्तरीय त्वेन यत्नसाध्यत्वात् एकविधादिष्वेकशतपर्यन्तेषु केवलेषु कारत्निप्रदेशेषु च यथाकामं गुणविकारा भवन्त्येवेति पूर्वमेव प्रतिपादितम् । तत्र पक्षपुच्छरहितानां प्रौगचिदादीनां खाकाशश्रुतिवेदैकामित्यादिना आनीतस्य पुरुषस्य विंशतिशततमो भागो ऽङ्गुलिः कल्प्या । तस्याश्वतुस्त्रिंशो भागस्तिलः । सा प्रौगं नित्या प्रकृत्येव । सा भूमिरेवं कृते प्रौगं भवति । करणानि थोक्तं करणं द्वादशेन त्रयोदशेनेत्यादिना । प्रौगाःअरयेत् द्वादश्याः पार्श्वे त्रिचत्वारिंशदङ्गुले सपाददशीतलयुक्ते नवतिलोनं नवत्रिंशदङ्गुलमपरम् । तेषामर्धैः पाद्याः । तृतीयैर्नवम्यः । त्रयोदश्यास्तु चत्वारिंशदङ्गुले तिलोने पार्श्वे त्रिपादोनषाट्त्रिंशदङ्गुलमपरम् । एतेषामर्धैः पाद्याः । तृतीयैश् च नवम्यः । उपादाने प्रथमे प्रस्तारे चतुश्वत्वारिंशच्छतेन द्वादशीभिरुदीच्यो द्वादश रीतयः । मध्यमरीतिचतुष्टये मध्यो षोडशोद्धृत्य चतुःषष्टिः पाद्याः । प्रौगमुख्यामुद् धृत्य नव नवम्यः । द्विशतः प्रस्तारः । अपरस्मिन् प्रस्तारे त्रयोदशीबिः नवषष्टिशतेन त्रयोदश रीतयः । तासु दशम्यां सप्तेष्टका उद्धृत्य विंशतिः पाद्याः । अष्टादशनवम्यश् च निधेयाः । एवं द्विशतः । कपर्दिभाष्यम् उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यान् नुदेय प्रतिजनिष्यमाणान् इति विज्ञायते
upadhāne prathamaprastāre praugamukhe catuḥṣaṣṭiḥ pādeṣṭakā upadadhyāt / śroṇyoścatasraścaturviṃśottaraṃ śataṃ dvādaśyaḥ catasror'dheṣṭakāḥ / eṣa dviśataḥ prastāraḥ / aparasmin śroṇyorviṃśativiśatistrayodaśapādāḥ dvāvardhāvaṣṭapañcāśadadhikaśataṃ trayodaśyaḥ / eṣa dviśataḥ prastāraḥ / vyatyāsaś ca kāryaḥ // sundararājīyā vyākhyā kāmyāḥaguṇaśāsratvāt kāmyāḥ chandaśvitprabhṛtayo 'gnayo nityasya caturaśrasya guṇavikārā, tasyaivāgneṇamātreṇa vikṛtatvāt guṇaphalaṃ svaphalaṃ ca sādhayanti / yathā agniṣṭomasya guṇavikārā ukthyādayaḥ / praugacitaṃavijñāyate praugaṃ śakaṭasya mukhaṃ trikoṇaṃ, tadvaccīyata iti praugacit / "karmaṇyagnayākhyāyām' iti vkip / tasyāgnermānamāha - yāvāna likhet sāratniprādeśasya saptavidhasya karaṇī trīṇi śatānyaṣṭāviṃśatiśvāṅgulayor'dhadvādaśatilāḥ / tasyā dvikaraṇī pādonapañcaṣaṣṭicatuḥśatāṅgulayaḥ dvistāvatyāḥ pañcadaśapuruṣāyāścaturaśrīkṛtāyā bhūmeḥ karaṇī / praṇagasya pārśvamānī catvāraḥ puruṣa ekonacatvāriṃśadaṅgulaya ekaviṃśatitilāś ca / yāvānagnirityeva siddhe sāratniprādeśagrahaṇaṃ tasya pakṣasya śākhāntarīya tvena yatnasādhyatvāt ekavidhādiṣvekaśataparyanteṣu kevaleṣu kāratnipradeśeṣu ca yathākāmaṃ guṇavikārā bhavantyeveti pūrvameva pratipāditam / tatra pakṣapuccharahitānāṃ praugacidādīnāṃ khākāśaśrutivedaikāmityādinā ānītasya puruṣasya viṃśatiśatatamo bhāgo 'ṅguliḥ kalpyā / tasyāśvatustriṃśo bhāgastilaḥ / sā praugaṃ nityā prakṛtyeva / sā bhūmirevaṃ kṛte praugaṃ bhavati / karaṇāni thoktaṃ karaṇaṃ dvādaśena trayodaśenetyādinā / praugāḥarayet dvādaśyāḥ pārśve tricatvāriṃśadaṅgule sapādadaśītalayukte navatilonaṃ navatriṃśadaṅgulamaparam / teṣāmardhaiḥ pādyāḥ / tṛtīyairnavamyaḥ / trayodaśyāstu catvāriṃśadaṅgule tilone pārśve tripādonaṣāṭtriṃśadaṅgulamaparam / eteṣāmardhaiḥ pādyāḥ / tṛtīyaiś ca navamyaḥ / upādāne prathame prastāre catuśvatvāriṃśacchatena dvādaśībhirudīcyo dvādaśa rītayaḥ / madhyamarīticatuṣṭaye madhyo ṣoḍaśoddhṛtya catuḥṣaṣṭiḥ pādyāḥ / praugamukhyāmud dhṛtya nava navamyaḥ / dviśataḥ prastāraḥ / aparasmin prastāre trayodaśībiḥ navaṣaṣṭiśatena trayodaśa rītayaḥ / tāsu daśamyāṃ sapteṣṭakā uddhṛtya viṃśatiḥ pādyāḥ / aṣṭādaśanavamyaś ca nidheyāḥ / evaṃ dviśataḥ / kapardibhāṣyam ubhayayaḥ praugaṃ cinvīta yaḥ kāmayeta prajātān bhrātṛvyān nudeya pratijaniṣyamāṇān iti vijñāyate
Sanskrit only: no published translation is held for this verse.
उभयतःशकटमेव चिन्वीत यः कामयेतोत्पन्नानुत्पत्स्यमानांश् च शत्रून् बाधेयेति । यथा विमुखे शकटे
ubhayataḥśakaṭameva cinvīta yaḥ kāmayetotpannānutpatsyamānāṃś ca śatrūn bādheyeti / yathā vimukhe śakaṭe
Sanskrit only: no published translation is held for this verse.
तावद् एव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योर् अर्धात् तावति दक्षिणोत्तरयोर् निपातयेत् । सा नित्योभभयतः प्रौगम्
tāvad eva tīrghaṃ caturaśraṃ vihṛtya pūrvāparayoḥ karaṇyor ardhāt tāvati dakṣiṇottarayor nipātayet | sā nityobhabhayataḥ praugam
Sanskrit only: no published translation is held for this verse.
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेत्
praugacitoktīḥ (-ktaṃ) | ubhayataḥ praugā iṣṭakāḥ kārayet
Sanskrit only: no published translation is held for this verse.
प्रजातान् शत्रून प्रणुदेयं जनिष्यमाणांश् च प्रणुदेयं यथा न जायन्ते तथा करवाणीत्यर्थः । श्रुतिपदं व्याचष्टे --- यथावि - तोक्ताः विमुखे - नानामुखघे शकटे यथा पृष्ठै संहिते तिष्ठेते तादृगाकारमुभयत्र प्रौगं तथा चिन्वीतेत्यर्थः । तावदेव पूर्वोक्तं सारत्निप्रादेशश् च सप्तविधस्य द्वियुणं दीर्घं चतुरश्रं विहृत्य तिर्यङ्नानीपार्श्वमानीनां मध्ये शङ्कुं निहत्य पूर्वस्माच्छङ्कोः दक्षिणं शङ्कुं प्रत्यक्ष्णया लिशेद्दक्षिणतः पश्चिमं पश्चिमतः उत्तरमुत्तरतः पूर्वं, एवं लिशेदुभयतः प्रौगाकृतिक्षेत्रं भवति । विस्तारद्विगुणायामं दीर्घं पञ्चपुरुषाः सप्तदशाङ्गुलास्वायामः, द्वौ पुरुषावष्टषष्टिरङ्गुलय एकविंशतितिलाश् च तिर्यङ्भानी दीर्घचतुरश्रस्य ॥ उभय - येत् करणानि चयनविधिश् च प्रौगवत् । विशेषस्तूभयतः प्रौगाः इष्टकाः । त्रयः पुरुषाःसप्त चाङ्गुलयः सप्तदश तिलाश् च एषां प्रमाणम् । अस्य द्वादशो भागस्त्रिंशदङ्गुलयः पञ्चविंशतितिलाश् च । त्रयोदशो भागो ऽष्टाविंशतिरङ्गुलयः त्रिभागोना नव तिलाश् च । शतद्वयं अष्टाविंशतिरङ्गुलयः एकविंशतितिलाश्वोभयतः प्रौगस्य तिर्यङ्भानी । तस्या द्वादशभागेन त्रयोदशभागेन परिमितं करणं यथा भवति तथा भवेत् करणम् । अर्धेष्टका द्वादशभागीयाभिस्त्रयोदशभागीयाभिस्व आयामतस्तुल्याः विस्तारतस्तदर्धविस्ताराः । पादेष्टका आयामतो विस्तारतश्वार्धाः । प्रथमे प्रस्तारे याःपादा उपहिताः ते द्वितीये तदन्यत्रोपधेयाः । द्वादशभागीयापक्षे चतस्रोर्ऽदेष्टकाः त्रयोदशभागीयापक्षे द्वे ॥ सुन्दरराजीया व्याख्या उभयतःअशकटे विमुखे - विपर्यस्तमुखे प्राक्पश्चान्मुखे यथा शकटभागे तादृगेषो ऽग्निर्भवति । ताव येत् द्विस्तावदग्निक्षेत्रविस्तारद्विगुणायामं दीर्घचतुरश्रं विहरेत् । त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयो द्वाविंशतितिलाश् च तिर्यङ्भानी । द्विगुणा पार्श्वमानी । एवं विहृत्य पूर्वापरयोः करण्योर्मध्यात् दक्षिणोत्तरयोर्णध्ये निपादयेत् । बहिष्पन्द्यमपच्छिन्द्यात् । सुतोक्तः एकविधोक्त इष्टकादिः । उभ रयेत् द्वादश्याश्वत्वारि फलकानि त्रिंशदङ्गुलानि सैकविंशतितिलानि । एकाक्ष्णया सप्तविंशत्यङ्गुला त्रयोदशतिलयुक्ता । द्विगुणान्या । एषामर्धैः पाद्यास्तृतीयैर्नवम्यः । त्रयोदश्याश्वत्वारि फलकानि सपाद्ष्टाविंशत्यङ्गुलानि, इत्येकः कर्णरज्जुः । एक विधवदेवोपधांनम् । रीतयस्तु कोणादिमुखाः । द्वितीयप्रस्तारे मध्ये विंशतिः पाद्याः, अष्टादश नवम्यः । ता अपि मध्यस्थपादानां पश्चात्पुरक्ताच्च विधेयाः ॥ कपर्दिभाष्यम् रथचक्रचितं चिन्वीत भ्रातृव्यवान् इति विज्ञायते
prajātān śatrūna praṇudeyaṃ janiṣyamāṇāṃś ca praṇudeyaṃ yathā na jāyante tathā karavāṇītyarthaḥ / śrutipadaṃ vyācaṣṭe --- yathāvi - toktāḥ vimukhe - nānāmukhaghe śakaṭe yathā pṛṣṭhai saṃhite tiṣṭhete tādṛgākāramubhayatra praugaṃ tathā cinvītetyarthaḥ / tāvadeva pūrvoktaṃ sāratniprādeśaś ca saptavidhasya dviyuṇaṃ dīrghaṃ caturaśraṃ vihṛtya tiryaṅnānīpārśvamānīnāṃ madhye śaṅkuṃ nihatya pūrvasmācchaṅkoḥ dakṣiṇaṃ śaṅkuṃ pratyakṣṇayā liśeddakṣiṇataḥ paścimaṃ paścimataḥ uttaramuttarataḥ pūrvaṃ, evaṃ liśedubhayataḥ praugākṛtikṣetraṃ bhavati / vistāradviguṇāyāmaṃ dīrghaṃ pañcapuruṣāḥ saptadaśāṅgulāsvāyāmaḥ, dvau puruṣāvaṣṭaṣaṣṭiraṅgulaya ekaviṃśatitilāś ca tiryaṅbhānī dīrghacaturaśrasya // ubhaya - yet karaṇāni cayanavidhiś ca praugavat / viśeṣastūbhayataḥ praugāḥ iṣṭakāḥ / trayaḥ puruṣāḥsapta cāṅgulayaḥ saptadaśa tilāś ca eṣāṃ pramāṇam / asya dvādaśo bhāgastriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / trayodaśo bhāgo 'ṣṭāviṃśatiraṅgulayaḥ tribhāgonā nava tilāś ca / śatadvayaṃ aṣṭāviṃśatiraṅgulayaḥ ekaviṃśatitilāśvobhayataḥ praugasya tiryaṅbhānī / tasyā dvādaśabhāgena trayodaśabhāgena parimitaṃ karaṇaṃ yathā bhavati tathā bhavet karaṇam / ardheṣṭakā dvādaśabhāgīyābhistrayodaśabhāgīyābhisva āyāmatastulyāḥ vistāratastadardhavistārāḥ / pādeṣṭakā āyāmato vistārataśvārdhāḥ / prathame prastāre yāḥpādā upahitāḥ te dvitīye tadanyatropadheyāḥ / dvādaśabhāgīyāpakṣe catasror'deṣṭakāḥ trayodaśabhāgīyāpakṣe dve // sundararājīyā vyākhyā ubhayataḥaśakaṭe vimukhe - viparyastamukhe prākpaścānmukhe yathā śakaṭabhāge tādṛgeṣo 'gnirbhavati / tāva yet dvistāvadagnikṣetravistāradviguṇāyāmaṃ dīrghacaturaśraṃ viharet / trīṇi śatānyaṣṭāviṃśatiśvāṅgulayo dvāviṃśatitilāś ca tiryaṅbhānī / dviguṇā pārśvamānī / evaṃ vihṛtya pūrvāparayoḥ karaṇyormadhyāt dakṣiṇottarayorṇadhye nipādayet / bahiṣpandyamapacchindyāt / sutoktaḥ ekavidhokta iṣṭakādiḥ / ubha rayet dvādaśyāśvatvāri phalakāni triṃśadaṅgulāni saikaviṃśatitilāni / ekākṣṇayā saptaviṃśatyaṅgulā trayodaśatilayuktā / dviguṇānyā / eṣāmardhaiḥ pādyāstṛtīyairnavamyaḥ / trayodaśyāśvatvāri phalakāni sapādṣṭāviṃśatyaṅgulāni, ityekaḥ karṇarajjuḥ / eka vidhavadevopadhāṃnam / rītayastu koṇādimukhāḥ / dvitīyaprastāre madhye viṃśatiḥ pādyāḥ, aṣṭādaśa navamyaḥ / tā api madhyasthapādānāṃ paścātpuraktācca vidheyāḥ // kapardibhāṣyam rathacakracitaṃ cinvīta bhrātṛvyavān iti vijñāyate
Sanskrit only: no published translation is held for this verse.
यावान् अग्निः सारत्निप्रादेशस् तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश् चतुरश्रम् अवदध्याद् यावत्सम्भवेत्
yāvān agniḥ sāratniprādeśas tāvatīṃ bhūmiṃ parimaṇḍalāṃ kṛtvā tasmiṃś caturaśram avadadhyād yāvatsambhavet
Sanskrit only: no published translation is held for this verse.