Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·4·4.2

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 4.2

वाङ्मनसि दर्शनाच् छब्दाच् च अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानम् अवतारयिष्यन् प्रथमं तावत् यथाशास्त्रम् उत्क्रान्तिक्रमम् अन्वाचष्टे । समाना हि विद्वत् अविदुषोः उत्क्रान्तिः इति वक्ष्यति । अस्ति प्रायणविषया श्रुतिः ऽअस्य सोम्य पुरुषस्य प्रयतो वाक् मनसि संपद्यते मनः प्राणे प्राण- तेजसि तेजः परस्यां देवतायाम्ऽ (छा। ६।८।६) इति । किम् इह वाच एव वृत्तिमत्त्या मनसि संपत्तिः उच्यत उत वाग्वृत्तेःइति विशयः । तत्र वाक् एव तावत् मनसि संपद्यत इति प्राप्तम् । तथा हि श्रुतिः अनुगृहीता भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षण अविशये च श्रुतिः न्याय्या न लक्षणा । तस्मात् वाच एव अयं मनसि प्रलय इति । एवं प्राप्ते ब्रूमः - वाक् वृत्तिः इति व्याख्याते यावता वाक् मेनसि इति एव आचार्यः पठति । सत्यम् एतत् । पठिष्यति तु पुरस्तात् ऽअविभागो वचनात्ऽ (ब्र। सू। ४।२।१६) इति । तस्मात् अत्र वृत्ति उपशममात्रं विवक्षितम् इति गम्यते । तत्त्वप्रलयविवक्षायां तु सर्वत्र एव अविभागसाम्यात् किं परत्र एव विशिष्यात् अविभाग इति । तस्मात् अत्र वृत्ति उपसंहारविवक्षा । वाक् वृत्तिः पूर्वम् उपसंह्रियते मनोवृत्तौ अवस्थितायाम् इति अर्थः । कस्मात् । दर्शनात् । दृश्यते हि वाक् वृत्तेः पूर्व उपसंहारो मनोवृत्तौ विद्यमानायाम् । ननु श्रुतिसामर्थ्यात् वाच एव अयं मनसि अप्ययो युक्त इति उक्तम् । न इति आह । अतत्प्रकृतित्वात् । यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यो मृदीव शरावस्य । न च मनसो वाक् उत्पद्यत इति किञ्चन प्रमाणम् अस्ति । वृत्त्युत्ति उद्भव अभिभवौ तु अप्रकृतिसमाश्रयौ अपि दृश्येते । पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्य अग्नेः वृत्तिः उद्भवति अप्सु च उपशाम्यति । कथं तर्हि अस्मिन् पक्षे शब्दो वाक् मनसि संपद्यत इति । अत आह शब्दात् च इति । शब्दः अपि अस्मिन् पक्षे अवकल्पते वृत्तिवृत्तिमतोः अभेद उपचारात् इति अर्थः ॥ १ ॥ ---------------------- फ़्न्: प्रयतो म्रियमाणस्य ।

vāṅmanasi darśanāc chabdāc ca atha aparāsu vidyāsu phalaprāptaye devayānaṃ panthānam avatārayiṣyan prathamaṃ tāvat yathāśāstram utkrāntikramam anvācaṣṭe / samānā hi vidvat aviduṣoḥ utkrāntiḥ iti vakṣyati / asti prāyaṇaviṣayā śrutiḥ 'asya somya puruṣasya prayato vāk manasi saṃpadyate manaḥ prāṇe prāṇa- tejasi tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti / kim iha vāca eva vṛttimattyā manasi saṃpattiḥ ucyata uta vāgvṛtteḥiti viśayaḥ / tatra vāk eva tāvat manasi saṃpadyata iti prāptam / tathā hi śrutiḥ anugṛhītā bhavati / itarathā lakṣaṇā syāt / śrutilakṣaṇa aviśaye ca śrutiḥ nyāyyā na lakṣaṇā / tasmāt vāca eva ayaṃ manasi pralaya iti / evaṃ prāpte brūmaḥ - vāk vṛttiḥ iti vyākhyāte yāvatā vāk menasi iti eva ācāryaḥ paṭhati / satyam etat / paṭhiṣyati tu purastāt 'avibhāgo vacanāt' (bra. sū. 4.2.16) iti / tasmāt atra vṛtti upaśamamātraṃ vivakṣitam iti gamyate / tattvapralayavivakṣāyāṃ tu sarvatra eva avibhāgasāmyāt kiṃ paratra eva viśiṣyāt avibhāga iti / tasmāt atra vṛtti upasaṃhāravivakṣā / vāk vṛttiḥ pūrvam upasaṃhriyate manovṛttau avasthitāyām iti arthaḥ / kasmāt / darśanāt / dṛśyate hi vāk vṛtteḥ pūrva upasaṃhāro manovṛttau vidyamānāyām / nanu śrutisāmarthyāt vāca eva ayaṃ manasi apyayo yukta iti uktam / na iti āha / atatprakṛtitvāt / yasya hi yata utpattiḥ tasya tatra pralayo nyāyyo mṛdīva śarāvasya / na ca manaso vāk utpadyata iti kiñcana pramāṇam asti / vṛttyutti udbhava abhibhavau tu aprakṛtisamāśrayau api dṛśyete / pārthivebhyo hi indhanebhyaḥ taijasasya agneḥ vṛttiḥ udbhavati apsu ca upaśāmyati / kathaṃ tarhi asmin pakṣe śabdo vāk manasi saṃpadyata iti / ata āha śabdāt ca iti / śabdaḥ api asmin pakṣe avakalpate vṛttivṛttimatoḥ abheda upacārāt iti arthaḥ // 1 // ---------------------- FN: prayato mriyamāṇasya /

Sanskrit only: no published translation is held for this verse.

अत एव च सर्वाण्यनु ऽतस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैःऽ (प्रश्न। ३।९) इति अत्र अविशेषेण सर्वेषाम् एव इन्द्रियाणां मनसि संपत्तिः श्रूयते । तत्र अपि अत एव वाच इव चक्षुरादीनाम् अपि सवृत्तिके मनसि अवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलय असंभवात् शब्द उपपत्तेः च वृत्तिद्वारेण एव सर्वाणि इन्द्रियाणि मनः अनुवर्तन्ते । सर्वेषां करणानां मनसि उपसंहार अविशेषे सति वाचः पृथक् ग्रहणं वाक् मनसि संपद्यत इति उदाहरण अनुरोधेन ॥ २ ॥ मनोधिकरणम् । सू। ३

ata eva ca sarvāṇyanu 'tasmādupaśāntatejāḥ / punarbhavamindriyairmanasi saṃpadyamānaiḥ' (praśna. 3.9) iti atra aviśeṣeṇa sarveṣām eva indriyāṇāṃ manasi saṃpattiḥ śrūyate / tatra api ata eva vāca iva cakṣurādīnām api savṛttike manasi avasthite vṛttilopadarśanāt tattvapralaya asaṃbhavāt śabda upapatteḥ ca vṛttidvāreṇa eva sarvāṇi indriyāṇi manaḥ anuvartante / sarveṣāṃ karaṇānāṃ manasi upasaṃhāra aviśeṣe sati vācaḥ pṛthak grahaṇaṃ vāk manasi saṃpadyata iti udāharaṇa anurodhena // 2 // manodhikaraṇam / sū. 3

Sanskrit only: no published translation is held for this verse.

तन्मनः प्राण उत्तरात् समधिगतमेतत् ऽवाङ्मनसि संपद्यतेऽ (छा। ६।८।६) इति अत्र वृत्तिसंपत्तिविवक्ष इति । अथ यत् उत्तरवाक्यम् ऽमनः प्राणेऽ (छा। ६।८।६) इति किम् अत्र अपि वृत्तिसंपत्तिः एव विवक्ष्यत उत वृत्तिमत् संपत्तिः इति विचिकित्सायां वृत्तिमत् संपत्तिः एव अत्र इति प्राप्तम् । श्रुति अनुग्रहात् तत् प्रकृतिकत्व उपपत्तेः च । तथा हि - ऽअन्नमयं हि सोम्य मन आपोमयःप्राणःऽ (छा। ६।५।४) इति अन्नयोनि मन आत्मनन्ति अप् योनिं च प्राणम् । ऽआपश्चान्नमसृजन्तऽ इति श्रुतिः । अत- च यत् मनः प्राणे प्रकृतिविकार अभेदात् इति । एवं प्राप्ते ब्रूमः - तत् अपि अगृहीत बाह्य इन्द्रियवृत्ति मनो वृत्तिद्वारेण एव प्राणे प्रलीयते इति उत्तरात् वाक्यात् अवगन्तव्यम् । तथा हि सुषुप्सो- मुमूर्षोः च प्राणवृत्तौ परिस्पन्द आत्मिकायाम् अवस्थितायां मनोवृत्तीनाम् उपशमो दृश्यते । न च मनसः स्वरूप अप्ययः प्राणे संभवति । अतत् प्रकृतित्वात् । ननु दर्शितं मनसः प्राणप्रकृतित्वम् । न एतत् सारम् । न हि ईदृशेन प्राणाडिकेन तत् प्रकृतित्वेन मनः प्राणे संपत्तुम् अर्हति । एवम् अपि हि अन्ने मनः संपद्येत अप्सु च अन्नम् अप्सु एव च प्राणः । न हि एतस्मिन् अपि पक्षे प्राणभावपरिणताभ्यः अद्भ्यो मनो जायत इति किञ्चन प्रमाणम् अस्ति तस्मात् न मनसः प्राणे स्वरूप अप्ययः । वृत्ति अप्यये अपि तु शब्दः अवकल्पते वृत्तिवत्तिमतोः अभेद उपचारात् इति दर्शितम् ॥ ३ ॥

tanmanaḥ prāṇa uttarāt samadhigatametat 'vāṅmanasi saṃpadyate' (chā. 6.8.6) iti atra vṛttisaṃpattivivakṣa iti / atha yat uttaravākyam 'manaḥ prāṇe' (chā. 6.8.6) iti kim atra api vṛttisaṃpattiḥ eva vivakṣyata uta vṛttimat saṃpattiḥ iti vicikitsāyāṃ vṛttimat saṃpattiḥ eva atra iti prāptam / śruti anugrahāt tat prakṛtikatva upapatteḥ ca / tathā hi - 'annamayaṃ hi somya mana āpomayaḥprāṇaḥ' (chā. 6.5.4) iti annayoni mana ātmananti ap yoniṃ ca prāṇam / 'āpaścānnamasṛjanta' iti śrutiḥ / ata- ca yat manaḥ prāṇe prakṛtivikāra abhedāt iti / evaṃ prāpte brūmaḥ - tat api agṛhīta bāhya indriyavṛtti mano vṛttidvāreṇa eva prāṇe pralīyate iti uttarāt vākyāt avagantavyam / tathā hi suṣupso- mumūrṣoḥ ca prāṇavṛttau parispanda ātmikāyām avasthitāyāṃ manovṛttīnām upaśamo dṛśyate / na ca manasaḥ svarūpa apyayaḥ prāṇe saṃbhavati / atat prakṛtitvāt / nanu darśitaṃ manasaḥ prāṇaprakṛtitvam / na etat sāram / na hi īdṛśena prāṇāḍikena tat prakṛtitvena manaḥ prāṇe saṃpattum arhati / evam api hi anne manaḥ saṃpadyeta apsu ca annam apsu eva ca prāṇaḥ / na hi etasmin api pakṣe prāṇabhāvapariṇatābhyaḥ adbhyo mano jāyata iti kiñcana pramāṇam asti tasmāt na manasaḥ prāṇe svarūpa apyayaḥ / vṛtti apyaye api tu śabdaḥ avakalpate vṛttivattimatoḥ abheda upacārāt iti darśitam // 3 //

Sanskrit only: no published translation is held for this verse.

सो ऽध्यक्षे तदुपगमादिभ्यः स्थितम् एतत् यस्य यतो न उत्पत्तिः तस्य तस्मिन् वृत्तिप्रलयो न स्वरूपप्रलय इति । इदम् इदानीं प्राणः तेजसि इति अत्र चिन्त्यते - किं यथाश्रुति प्राणस्य तेजसि एव वृत्ति उपसंहारः किंवा देह इन्द्रियपञ्जर अध्यक्षे जीव इति । तत्र श्रुतेः अनतिशङ्क्यत्वात् प्राणस्य तेजसि एव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इति । एवं प्राप्ते प्रतिपद्यते सः अध्यक्ष इति । स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञ उपाधिके विज्ञान आत्मनि अवतिष्ठते । तत् प्रधाना प्राणवृत्तिः भवति इति अर्थः । कुतः - तत् उपगमादिभ्यः । एवम् एव इमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसामयन्ति यत्र एतत् ऊर्ध्व उच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्ष उपगामिनः सर्वान् प्राणान् अविशेषेण दर्शयति । विशेषेण च ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामतिऽ (बृ। ४।४।२) इति पञ्चवृत्तेः प्राणस्य अध्यक्ष अनुगामितां दर्शयति तत् अनुवृत्तितां च इतरेषाम् । ऽप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामतिऽ (बृ। ४।४।२) इति । ऽसविज्ञानो भवतिऽ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्व प्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति । ननु प्राणः तेजसि इति श्रूयते कथं प्राणः अध्यक्ष इति अधिकावापः क्रियते । न एष दोषः । अध्यक्षप्रधानत्वात् उत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्य अपि च विशेषस्य अपेक्षणीयत्वात् ॥ ४ ॥ कथं तर्हि प्राणः तेजसि इति श्रुतिः इति अत आह -

so 'dhyakṣe tadupagamādibhyaḥ sthitam etat yasya yato na utpattiḥ tasya tasmin vṛttipralayo na svarūpapralaya iti / idam idānīṃ prāṇaḥ tejasi iti atra cintyate - kiṃ yathāśruti prāṇasya tejasi eva vṛtti upasaṃhāraḥ kiṃvā deha indriyapañjara adhyakṣe jīva iti / tatra śruteḥ anatiśaṅkyatvāt prāṇasya tejasi eva saṃpattiḥ syāt aśrutakalpanāyā anyāyyatvāt iti / evaṃ prāpte pratipadyate saḥ adhyakṣa iti / sa prakṛtaḥ prāṇaḥ adhyakṣe avidyākarmapūrvaprajña upādhike vijñāna ātmani avatiṣṭhate / tat pradhānā prāṇavṛttiḥ bhavati iti arthaḥ / kutaḥ - tat upagamādibhyaḥ / evam eva imam ātmānam antakāle sarve prāṇā abhisāmayanti yatra etat ūrdhva ucchvāsī bhavati iti hi śrutyantaram adhyakṣa upagāminaḥ sarvān prāṇān aviśeṣeṇa darśayati / viśeṣeṇa ca 'tamutkrāmantaṃ prāṇo 'nūtkrāmati' (bṛ. 4.4.2) iti pañcavṛtteḥ prāṇasya adhyakṣa anugāmitāṃ darśayati tat anuvṛttitāṃ ca itareṣām / 'prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmati' (bṛ. 4.4.2) iti / 'savijñāno bhavati' iti ca adhyakṣasya antarvijñānavattva pradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṃ gamayati / nanu prāṇaḥ tejasi iti śrūyate kathaṃ prāṇaḥ adhyakṣa iti adhikāvāpaḥ kriyate / na eṣa doṣaḥ / adhyakṣapradhānatvāt utkramaṇādivyavahārasya śrutyantaragatasya api ca viśeṣasya apekṣaṇīyatvāt // 4 // kathaṃ tarhi prāṇaḥ tejasi iti śrutiḥ iti ata āha -

Sanskrit only: no published translation is held for this verse.

भूतेषु तच्छ्रुतेः स प्राणसंपृक्तः अध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इति अवगन्तव्यम् । प्राणः तेजसि इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्य अध्यक्षस्य । न एष दोषः । सः अध्यक्ष इति अध्यक्षस्य अपि अन्तराले अपि उपसंख्यातत्वात् । यः अपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सः अपि स्रुघ्नात्पाटलिपुत्रं याति इति शक्यते वदितुम् । तस्मात् प्राणः तेजसि इति प्राणसंपृक्तस्य अध्यक्षस्य एव एतत् तेजः सहचरितेषु भूतेषु अवस्थानम् ॥ ५ ॥ कथं तेजःसहचरितेषु भूतेषु इति उच्यते यावत् एकमेव श्रूयते प्राणः तेजसि इति । अत आह -

bhūteṣu tacchruteḥ sa prāṇasaṃpṛktaḥ adhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata iti avagantavyam / prāṇaḥ tejasi iti śruteḥ / nanu ca iyaṃ śrutiḥ prāṇasya tejasi sthitiṃ darśayati na prāṇasaṃpṛktasya adhyakṣasya / na eṣa doṣaḥ / saḥ adhyakṣa iti adhyakṣasya api antarāle api upasaṃkhyātatvāt / yaḥ api hi srughnānmathurāṃ gatvā mathurāyāḥ pāṭaliputraṃ vrajati saḥ api srughnātpāṭaliputraṃ yāti iti śakyate vaditum / tasmāt prāṇaḥ tejasi iti prāṇasaṃpṛktasya adhyakṣasya eva etat tejaḥ sahacariteṣu bhūteṣu avasthānam // 5 // kathaṃ tejaḥsahacariteṣu bhūteṣu iti ucyate yāvat ekameva śrūyate prāṇaḥ tejasi iti / ata āha -

Sanskrit only: no published translation is held for this verse.

नैकस्मिन् दर्शयतो हि न एकस्मिन् एव तेजसि शरीरान्तरप्रेप्सावेलायां जीवः अवतिष्ठते कार्यस्य शरीरस्य अनेकात्मकत्वदर्शनात् । दर्शयतः च एतम् अर्थं प्रश्नप्रतिवचने ऽआपः पुरुषवचसःऽ (छा। ५।३।३) इति । तत् व्याख्यातम् ऽत्र्यात्मकत्वात्तु भूयस्त्वात्ऽ (ब्रसू। ३।१।२) इति अत्र । श्रुतिस्मृती च एतमर्थं दर्शयतः । श्रुतिः ऽपृथ्वीमय आपोमयो वायुमय आकाशमयस्तोजोमयःऽ इत्याद्या । स्मृतिः अपि ऽअण्व्यो मात्राविनाशिन्यो दशार्धानां तु याःस्मृताः । ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशःऽ इत्याद्या । ननु च उपसंहृतेषु वाक् आदिषु करणेषु शरीरान्तरप्रेप्सावेलायां ऽक्वायं तदा पुरुषो भवतिऽ (बृ। ३।२।१३) इति उपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति - ऽतौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुःऽ (बृ। ३।२।१३) इति । अत्र उच्यते - तत्र कर्मप्रयुक्तस्य ग्रह अतिग्रहसंज्ञकस्थ इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिः इति कर्माश्रयता उक्ता । इह पुनः भूत उपादानात् देहान्तर उत्पत्तिः इति भूताश्रयत्वम् उक्तम् । प्रशंसाशब्दात् अपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न तु आश्रयान्तरं निवारितम् । तस्मात् अविरोधः ॥ ६ ॥ ---------------------- फ़्न्: दशार्धानां पञ्चभूतानां , अण्व्यः सूक्ष्माः , मीयन्त इति मात्राः ।

naikasmin darśayato hi na ekasmin eva tejasi śarīrāntaraprepsāvelāyāṃ jīvaḥ avatiṣṭhate kāryasya śarīrasya anekātmakatvadarśanāt / darśayataḥ ca etam arthaṃ praśnaprativacane 'āpaḥ puruṣavacasaḥ' (chā. 5.3.3) iti / tat vyākhyātam 'tryātmakatvāttu bhūyastvāt' (bra.sū. 3.1.2) iti atra / śrutismṛtī ca etamarthaṃ darśayataḥ / śrutiḥ 'pṛthvīmaya āpomayo vāyumaya ākāśamayastojomayaḥ' ityādyā / smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ / tābhiḥ sārdhamidaṃ sarvaṃ saṃbhavatyanupūrvaśaḥ' ityādyā / nanu ca upasaṃhṛteṣu vāk ādiṣu karaṇeṣu śarīrāntaraprepsāvelāyāṃ 'kvāyaṃ tadā puruṣo bhavati' (bṛ. 3.2.13) iti upakramya śrutyantaraṃ karmāśrayatāṃ nirūpayati - 'tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ karma haiva tatpraśaśaṃsatuḥ' (bṛ. 3.2.13) iti / atra ucyate - tatra karmaprayuktasya graha atigrahasaṃjñakastha indriyaviṣayātmakasya bandhanasya pravṛttiḥ iti karmāśrayatā uktā / iha punaḥ bhūta upādānāt dehāntara utpattiḥ iti bhūtāśrayatvam uktam / praśaṃsāśabdāt api tatra prādhānyamātraṃ karmaṇaḥ pradarśitaṃ na tu āśrayāntaraṃ nivāritam / tasmāt avirodhaḥ // 6 // ---------------------- FN: daśārdhānāṃ pañcabhūtānāṃ , aṇvyaḥ sūkṣmāḥ , mīyanta iti mātrāḥ /

Sanskrit only: no published translation is held for this verse.

समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य सा इयम् उत्क्रान्तिः किं विद्वत् अविदुषोः समाना किंवा विशेषवति इति विशयानानां विशेषवति इति तावत् प्राप्तम् । भूताश्रयविशिष्टा हि एषा । पुनः भवाय च भूतानि आश्रीयन्ते । न च विदुषः पुनर्भवः संभवति । ऽअमृतत्वं हि विद्वानश्नुतेऽ इति स्थितिः । तस्मत् अविदुष एव एष उत्क्रान्तिः । ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् । न । स्वापादिवत् यथाप्राप्त अनुकीर्तनात् । तथा हि ऽयत्रैतत्पुरुषः स्वपिति नामऽ ऽअशिशिषति नामऽ ऽपिपासति नामऽ (छा। ६।८।३,५) इति च सर्वप्राणिसाधारणा एव स्वापादयः अनुकीर्त्यन्ते विद्याप्रकरणे अपि प्रतिपादयिषितवस्तुप्रतिपादन अनुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते । एवम् इयम् अपि उत्क्रान्तिः महाजनगत एव अनुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इति एतत् प्रतिपादयितुम् । प्रतिषिद्धा च एषा विदुषः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ। ४।४।६) इति । तस्मात् अविदुष एव एष इति । एवं प्राप्ते ब्रूमः - समाना च एष उत्क्रान्तिः वाक् मनसि इत्याद्या विद्वत् अविदुषोः आसृति उपक्रमात् भवितुम् अर्हति । अविशेषश्रवणात् । अविरुद्धान् देहबीजभूतानि भूतसूक्ष्माणि आश्रित्य कर्मप्रयुक्तो देहग्रहणम् अनुभवितुं संसरति । विद्वान् तु ज्ञानप्रकाशितं मोक्षनाडीद्वारम् आश्रयते । तत् एतत् आसृति उपक्रमात् इति उक्तम् । ननु अमृतत्वं हि विदुषा प्राप्तव्यं न च तत् देशान्तर आयत्तं तत्र कृतो भूत आश्रयत्वं सृति उपक्रमो वा इति । अत्र उच्यते - अनुपोष्य च इदम्, अदग्ध्वा अत्यन्तम् अविद्यादीन् क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकम् अमृतत्वं प्रेप्सते संभवति तत्र सृति उपक्रमो भूत आश्रयत्वं च । ने हि निराश्रयाणां प्राणानां गतिः उपपद्यते । तस्मात् अदोषः ॥ ७ ॥ ५ संसारव्यपदेश अधिकरणम् ॥ सू। ८-११

samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya sā iyam utkrāntiḥ kiṃ vidvat aviduṣoḥ samānā kiṃvā viśeṣavati iti viśayānānāṃ viśeṣavati iti tāvat prāptam / bhūtāśrayaviśiṣṭā hi eṣā / punaḥ bhavāya ca bhūtāni āśrīyante / na ca viduṣaḥ punarbhavaḥ saṃbhavati / 'amṛtatvaṃ hi vidvānaśnute' iti sthitiḥ / tasmat aviduṣa eva eṣa utkrāntiḥ / nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavet / na / svāpādivat yathāprāpta anukīrtanāt / tathā hi 'yatraitatpuruṣaḥ svapiti nāma' 'aśiśiṣati nāma' 'pipāsati nāma' (chā. 6.8.3,5) iti ca sarvaprāṇisādhāraṇā eva svāpādayaḥ anukīrtyante vidyāprakaraṇe api pratipādayiṣitavastupratipādana anuguṇyena na tu viduṣo viśeṣavanto vidhitsyante / evam iyam api utkrāntiḥ mahājanagata eva anukīrtyate yasyāṃ parasyāṃ devatāyāṃ puruṣasya prayataḥ tejaḥ saṃpadyate sa ātmā tattvamasi iti etat pratipādayitum / pratiṣiddhā ca eṣā viduṣaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / tasmāt aviduṣa eva eṣa iti / evaṃ prāpte brūmaḥ - samānā ca eṣa utkrāntiḥ vāk manasi ityādyā vidvat aviduṣoḥ āsṛti upakramāt bhavitum arhati / aviśeṣaśravaṇāt / aviruddhān dehabījabhūtāni bhūtasūkṣmāṇi āśritya karmaprayukto dehagrahaṇam anubhavituṃ saṃsarati / vidvān tu jñānaprakāśitaṃ mokṣanāḍīdvāram āśrayate / tat etat āsṛti upakramāt iti uktam / nanu amṛtatvaṃ hi viduṣā prāptavyaṃ na ca tat deśāntara āyattaṃ tatra kṛto bhūta āśrayatvaṃ sṛti upakramo vā iti / atra ucyate - anupoṣya ca idam, adagdhvā atyantam avidyādīn kleśān aparavidyāsāmarthyāt āpekṣikam amṛtatvaṃ prepsate saṃbhavati tatra sṛti upakramo bhūta āśrayatvaṃ ca / ne hi nirāśrayāṇāṃ prāṇānāṃ gatiḥ upapadyate / tasmāt adoṣaḥ // 7 // 5 saṃsāravyapadeśa adhikaraṇam // sū. 8-11

Sanskrit only: no published translation is held for this verse.

तदापीतेः संसारव्यपदेशात् ऽतेजः परस्यां देवतायाम्ऽ (छा। ६।८।६) इति अत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इति एतत् उक्तं भवति । कीदृशी पुनः इयं संपत्तिः स्यात् इति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् । तत् प्रकृतित्व उपपत्तेः । सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवता इति प्रतिष्ठापितम् । तस्मात् आत्यन्तिकीयम् अविभागापत्तिः इति । एवं प्राप्ते ब्रूमः - तत् तेज आदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमापीतेरा संसारमोक्षात् सम्यक् ज्ञाननिमित्तात् अवतिष्ठते । ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये ऽनुसंयन्ति यथाकर्मयथाश्रुतम्ऽ (क। ५।७) इत्यादि संसारव्यपदेशात् । अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयात् अत्यन्तं ब्रह्म संपद्येत । तत्र विधिशास्त्रम् अनर्थकं स्यात् विद्याशास्त्रं च । मिथ्याज्ञाननिमित्तः च बन्धो न सम्यक् ज्ञानात् ऋते विस्रंसितुम् अर्हति । तस्मात् तत् प्रकृतित्वे अपि सुषुप्तप्रलयवत् बीजभाव अवशेष एव एषा संत्सपत्तिः इति ॥ ८ ॥

tadāpīteḥ saṃsāravyapadeśāt 'tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti atra prakaraṇasāmarthyāt tat yathāprakṛtaṃ tejaḥ sādhyakṣaṃ saprāṇaṃ sakaraṇagrāmaṃ bhūtāntarasahitaṃ prayataḥ puṃsaḥ parasyāṃ devatāyāṃ saṃpadyata iti etat uktaṃ bhavati / kīdṛśī punaḥ iyaṃ saṃpattiḥ syāt iti cintyate / tatra ātyantika eva tāvat svarūpapravilaya iti prāptam / tat prakṛtitva upapatteḥ / sarvasya hi janimato vastujātasya prakṛtiḥ parā devatā iti pratiṣṭhāpitam / tasmāt ātyantikīyam avibhāgāpattiḥ iti / evaṃ prāpte brūmaḥ - tat teja ādi bhūtasūkṣmaṃ śrotrādikaraṇāśrayabhūtamāpīterā saṃsāramokṣāt samyak jñānanimittāt avatiṣṭhate / 'yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarmayathāśrutam' (ka. 5.7) ityādi saṃsāravyapadeśāt / anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayāt atyantaṃ brahma saṃpadyeta / tatra vidhiśāstram anarthakaṃ syāt vidyāśāstraṃ ca / mithyājñānanimittaḥ ca bandho na samyak jñānāt ṛte visraṃsitum arhati / tasmāt tat prakṛtitve api suṣuptapralayavat bījabhāva avaśeṣa eva eṣā saṃtsapattiḥ iti // 8 //

Sanskrit only: no published translation is held for this verse.

सूक्ष्मं प्रमाणतश् च तथोपलब्धेः तत् च इतरभूतसहितं तेजो जीवस्य अस्मात् शरीरात् प्रवसत आश्रयभूतं स्वरूपतः प्रमाणतः च सूक्ष्मं भवितुम् अर्हति । तथा हि - नाडीनिष्क्रमणश्रवणादिभ्यः अस्य सौक्ष्म्यम् उपलभ्यते । तत्र तनुत्वात् संचार उपपत्तिः । स्वच्छत्वात् च अप्रतीघात उपपत्तिः । अत एव च देहात् निर्गच्छन् पार्श्वस्थैः न उपलभ्यते ॥ ९ ॥

sūkṣmaṃ pramāṇataś ca tathopalabdheḥ tat ca itarabhūtasahitaṃ tejo jīvasya asmāt śarīrāt pravasata āśrayabhūtaṃ svarūpataḥ pramāṇataḥ ca sūkṣmaṃ bhavitum arhati / tathā hi - nāḍīniṣkramaṇaśravaṇādibhyaḥ asya saukṣmyam upalabhyate / tatra tanutvāt saṃcāra upapattiḥ / svacchatvāt ca apratīghāta upapattiḥ / ata eva ca dehāt nirgacchan pārśvasthaiḥ na upalabhyate // 9 //

Sanskrit only: no published translation is held for this verse.

नोपमर्देनातः अत एव सूक्ष्मत्वात् न अस्य स्थूलस्य शरीरस्य उपमर्देन दाहादिनिमित्तेन इतरत् सूक्ष्मं शरीरम् उपपद्यते ॥ १० ॥

nopamardenātaḥ ata eva sūkṣmatvāt na asya sthūlasya śarīrasya upamardena dāhādinimittena itarat sūkṣmaṃ śarīram upapadyate // 10 //

Sanskrit only: no published translation is held for this verse.

अस्यैव चोपपत्तेर् ऊष्मा अस्य एव च सूक्ष्मस्या शरीरस्य एष ऊष्मा यम् एतस्मिन् शरीरे संस्पर्शेन ऊष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थिते अपि देहे विद्यमानेषु अपि च रूपादिषु देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्म इति । तथा च श्रुतिः - ऽउष्ण एव जीविष्यञ्शितो मरिष्यन् इतिऽ ॥ ११ ॥

asyaiva copapatter ūṣmā asya eva ca sūkṣmasyā śarīrasya eṣa ūṣmā yam etasmin śarīre saṃsparśena ūṣmāṇaṃ vijānanti / tathā hi mṛtāvasthāyām avasthite api dehe vidyamāneṣu api ca rūpādiṣu dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata upapadyate prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣma iti / tathā ca śrutiḥ - 'uṣṇa eva jīviṣyañśito mariṣyan iti' // 11 //

Sanskrit only: no published translation is held for this verse.

प्रतिषेधाद् इति चेन् न शारीरात् ऽअमृतत्वं चानुपोष्यऽ इति अतो विशेषणात् आत्यन्तिके अमृतत्वे गति उत्क्रान्त्योः अभावो अभ्युपगतः । तत्र अपि केनचित् कारणेन उत्क्रान्तिम् आशङ्क्य प्रतिषेधति - ऽअथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।६) इति अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानाम् उत्क्रान्तिः अस्ति इति चेत् । न इति उच्यते । यतः शारीरात् आत्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् । कथम् अवगम्यते ऽन तस्मात्प्राणा उत्क्रामन्तिऽ इति शाखान्तरे पञ्चमी प्रयोगात् । संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते । तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयस अधिकृतो देही संबध्यते न देहः । न । तस्मात् उच्चिक्रमिषोः जीवात् प्राणा अपक्रामन्ति सह एव तेन भवन्ति इति अर्थः ॥ १२ ॥ सप्राणस्य च प्रवसतो भवति उत्क्रान्तिः देहात् इति एवं प्राप्ते प्रति उच्यते -

pratiṣedhād iti cen na śārīrāt 'amṛtatvaṃ cānupoṣya' iti ato viśeṣaṇāt ātyantike amṛtatve gati utkrāntyoḥ abhāvo abhyupagataḥ / tatra api kenacit kāraṇena utkrāntim āśaṅkya pratiṣedhati - 'athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ataḥ paravidyāviṣayāt pratiṣedhāt na parabrahmavido dehāt prāṇānām utkrāntiḥ asti iti cet / na iti ucyate / yataḥ śārīrāt ātmana eṣa utkrāntipratiṣedhaḥ prāṇānāṃ na śarīrāt / katham avagamyate 'na tasmātprāṇā utkrāmanti' iti śākhāntare pañcamī prayogāt / saṃbandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā saṃbandhaviśeṣe vyavasthāpyate / tasmāt iti ca prādhānyāt abhyudayaniḥśreyasa adhikṛto dehī saṃbadhyate na dehaḥ / na / tasmāt uccikramiṣoḥ jīvāt prāṇā apakrāmanti saha eva tena bhavanti iti arthaḥ // 12 // saprāṇasya ca pravasato bhavati utkrāntiḥ dehāt iti evaṃ prāpte prati ucyate -

Sanskrit only: no published translation is held for this verse.

स्पष्टो ह्येकेषाम् न तत् अस्ति यत् उक्तं परब्रह्मविदः अपि देहात् अस्ति उत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह उपादानत्वात् इति । यतो देह उपादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातृणां स्पष्ट उपलभ्यते । तथा हि - आर्तभागप्रश्ने ऽयत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेतिऽ (बृ। ३।२।११) इति अत्र ऽनेति होवाच याज्ञवल्क्यःऽ (बृ। ३।२११) इति अनुत्क्रान्तिपक्षं परिगृह्य न तर्हि अयम् अनुत्क्रान्तेषु प्राणेषु म्रियत इति अस्याम् आशङ्कायाम् ऽअत्रैव समवनीयन्तऽ इति प्रविलयं प्राणानां प्रतिज्ञाय तत् सिद्धये ऽस उच्छ्वयत्याध्यात्मायत्याध्मातो मृतः शेतेऽ (बृ। ३।२।११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्ति अवधेः उच्छ्वयनादीनि समामनन्ति । देहस्य च एतानि स्युः न देहिनः । तत् सामान्यात् ऽन तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽ इति अत्र अपि अभेद उपचारेण देहापादानस्य एव उत्क्रमणस्य प्रतिषेधः । यदि अपि प्राधान्यं देहिन इति व्याख्येयं येषां पञ्चमी पाठः । येषां तु षष्ठीपाठः तेषां विद्वत् संबन्धिनि उत्क्रान्तिः प्रतिषिध्यत इति प्राप्त उत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य देहपादान एव सा प्रतिषिद्धा भवति, देहात् उत्क्रान्तिः प्राप्ता न देहिनः । अपि च ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ। ४।४।२) इति एवम् अविद्वत् विषयं सप्रपञ्चम् उत्क्रमणं संसारगमनं च दर्शयित्वा ऽइति नु कामयमानःऽ (बृ। ४।४।६) इति उपसंहृत्य अविद्वत् कथाम् ऽअथाकामयमानःऽ (बृ। ४।४।६) इति व्यपदिश्य विद्वांसं यदि तत् विषये अपि उत्क्रान्तमेव प्रापदेयसमञ्जस एव व्यपदेशः स्यात् । तस्मात् अविद्विषये प्राप्तयोः गति उत्क्रान्त्योः विद्वत् विषये प्रतिषेध इति एवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय । न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिः गतिः वा उपपद्यते निमित्त अभावात् । ऽअत्र ब्रह्म समश्नुतेऽ इति च एवञ्जातीयकाः श्रुतयो गति उत्क्रान्त्योः अभावं सूचयन्ति ॥ १३ ॥

spaṣṭo hyekeṣām na tat asti yat uktaṃ parabrahmavidaḥ api dehāt asti utkrāntiḥ utkrāntipratiṣedhasya deha upādānatvāt iti / yato deha upādāna eva utkrāntipratiṣedha ekeṣāṃ samāmnātṛṇāṃ spaṣṭa upalabhyate / tathā hi - ārtabhāgapraśne 'yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti' (bṛ. 3.2.11) iti atra 'neti hovāca yājñavalkyaḥ' (bṛ. 3.211) iti anutkrāntipakṣaṃ parigṛhya na tarhi ayam anutkrānteṣu prāṇeṣu mriyata iti asyām āśaṅkāyām 'atraiva samavanīyanta' iti pravilayaṃ prāṇānāṃ pratijñāya tat siddhaye 'sa ucchvayatyādhyātmāyatyādhmāto mṛtaḥ śete' (bṛ. 3.2.11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrānti avadheḥ ucchvayanādīni samāmananti / dehasya ca etāni syuḥ na dehinaḥ / tat sāmānyāt 'na tasmātprāṇā utkrāmantyatraiva samavanīyante' iti atra api abheda upacāreṇa dehāpādānasya eva utkramaṇasya pratiṣedhaḥ / yadi api prādhānyaṃ dehina iti vyākhyeyaṃ yeṣāṃ pañcamī pāṭhaḥ / yeṣāṃ tu ṣaṣṭhīpāṭhaḥ teṣāṃ vidvat saṃbandhini utkrāntiḥ pratiṣidhyata iti prāpta utkrāntipratiṣedhārthatvāt asya vākyasya dehapādāna eva sā pratiṣiddhā bhavati, dehāt utkrāntiḥ prāptā na dehinaḥ / api ca 'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) iti evam avidvat viṣayaṃ saprapañcam utkramaṇaṃ saṃsāragamanaṃ ca darśayitvā 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti upasaṃhṛtya avidvat kathām 'athākāmayamānaḥ' (bṛ. 4.4.6) iti vyapadiśya vidvāṃsaṃ yadi tat viṣaye api utkrāntameva prāpadeyasamañjasa eva vyapadeśaḥ syāt / tasmāt avidviṣaye prāptayoḥ gati utkrāntyoḥ vidvat viṣaye pratiṣedha iti evameva vyākhyeyaṃ vyapadeśārthavattvāya / na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇa utkrāntiḥ gatiḥ vā upapadyate nimitta abhāvāt / 'atra brahma samaśnute' iti ca evañjātīyakāḥ śrutayo gati utkrāntyoḥ abhāvaṃ sūcayanti // 13 //

Sanskrit only: no published translation is held for this verse.

स्मर्यते च स्मर्यते अपि च महाभारते गति उत्क्रान्त्योः अभावः - ऽसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणःऽ इति । ननु गतिः इति ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते ऽशुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावऽ इति । न । सशरीरस्य एव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीर उत्सर्ग इति द्रष्टव्यम् । सर्वभूतदृश्यत्वादि उपन्यासात् । न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्र एवौपसंहृतम्- ऽशुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः । दर्शयित्वा प्रभावं स्वं सर्वभूतगतो ऽभवत्ऽ इति । तस्मात् अभावः परब्रह्मविदो गति उत्क्रान्त्योः । गतिश्रुतीनां तु विषयम् उपरिष्टात् व्याख्यास्यामः ॥ १४ ॥

smaryate ca smaryate api ca mahābhārate gati utkrāntyoḥ abhāvaḥ - 'sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ / devā api mārge muhyantyapadasya padaiṣiṇaḥ' iti / nanu gatiḥ iti brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate 'śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāva' iti / na / saśarīrasya eva ayaṃ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīra utsarga iti draṣṭavyam / sarvabhūtadṛśyatvādi upanyāsāt / na hi aśarīraṃ gacchantaṃ sarvabhūtāni draṣṭuṃ śaknuyuḥ / tathā ca tatra evaupasaṃhṛtam- 'śukastu mārutācchīghrāṃ gatiṃ kṛtvāntarikṣagaḥ / darśayitvā prabhāvaṃ svaṃ sarvabhūtagato 'bhavat' iti / tasmāt abhāvaḥ parabrahmavido gati utkrāntyoḥ / gatiśrutīnāṃ tu viṣayam upariṣṭāt vyākhyāsyāmaḥ // 14 //

Sanskrit only: no published translation is held for this verse.

तानि परे तथा ह्य् आह तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन् एव परस्मिन् आत्मनि प्रलीयन्ते । कस्मात् । तथा हि आह श्रुतिः - ऽएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति (प्रश्न। ६।५) इति। ननु ऽगताः कलाः पञ्चदश प्रतिष्ठाःऽ (मु। ३।२।७) इति विद्वत् विषय एव अपरा श्रुतिः परस्मात् आत्मनः अन्यत्र अपि कलानां प्रलयम् आह स्म । न । सा खलु व्यवहारापेक्षा, पार्थिवाद्याः कलाः पृथिव्यादिः एव स्वप्रकृतीः अपीयन्ति इति । इतरा तु विद्वत् प्रतिपत्ति अपेक्षा, कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्म एव संपद्यत इति । तस्मात् अदोषः ॥ १५ ॥

tāni pare tathā hy āha tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasmin eva parasmin ātmani pralīyante / kasmāt / tathā hi āha śrutiḥ - 'evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti (praśna. 6.5) iti. nanu 'gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ' (mu. 3.2.7) iti vidvat viṣaya eva aparā śrutiḥ parasmāt ātmanaḥ anyatra api kalānāṃ pralayam āha sma / na / sā khalu vyavahārāpekṣā, pārthivādyāḥ kalāḥ pṛthivyādiḥ eva svaprakṛtīḥ apīyanti iti / itarā tu vidvat pratipatti apekṣā, kṛtsnaṃ kalājātaṃ parabrahmavido brahma eva saṃpadyata iti / tasmāt adoṣaḥ // 15 //

Sanskrit only: no published translation is held for this verse.

अविभागो वचनात् स पुन- विदुषः कलाप्रलयः किम् इतरेषाम् इव सावशेषो भवति आहोस्वित् निरवशेष इति । तत्र प्रलयसामान्यात् शक्ति अवशेषताप्रसक्तौ ब्रवीति - अविभागापत्तिः एव इति । कुतः - वचनात् । तथा हि कलाप्रलयम् उक्त्वा वक्ति - ऽभिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषो ऽकलो ऽमृतो भवतिऽ (प्र। ६।५) इति । अविद्या निमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्व उपपत्तिः । तस्मात् अविभाग एव इति ॥ १६ ॥

avibhāgo vacanāt sa puna- viduṣaḥ kalāpralayaḥ kim itareṣām iva sāvaśeṣo bhavati āhosvit niravaśeṣa iti / tatra pralayasāmānyāt śakti avaśeṣatāprasaktau bravīti - avibhāgāpattiḥ eva iti / kutaḥ - vacanāt / tathā hi kalāpralayam uktvā vakti - 'bhidyate tāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo 'kalo 'mṛto bhavati' (pra. 6.5) iti / avidyā nimittānāṃ ca kalānāṃ na vidyānimitte pralaye sāvaśeṣatva upapattiḥ / tasmāt avibhāga eva iti // 16 //

Sanskrit only: no published translation is held for this verse.

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता । संप्रतितु अपरविद्याविषयाम् एव चिन्ताम् अनुवर्तयति । समाना च असृति उपक्रमात् विद्वत् अविदुषोः उत्क्रान्तिःइति उक्तं तम् इदानीं सति उपक्रमं दर्शयति । तस्य उपसंहृतवागादि कलापस्य उच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयम् ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ इति श्रुतेः । तत् अग्रप्रज्वलनपूर्विका चक्षुरादिस्थान अपादाना च उत्क्रान्तिः श्रूयते - ऽतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ। ४।४।२) इति । सा किम् अनियमेन एव विद्वत् अविदुषोः भवति अथ अस्ति कश्चित् विदुषो विशेषनियम इति विचिकित्सायां श्रुति अविशेषात् अनियमप्राप्तौ आचष्टे - समा अपि हि विद्वत् अविदुषोः हृदयाग्रप्रद्योतने तत् प्रकाशितद्वारत्वे च मूर्धस्थानात् एव विद्वान् निष्क्रामति स्थानान्तरेभ्यः तु इतरे । कुतः - विद्यासामर्थ्यात् । यदि विद्वान् अपीतरवत् यतः कुतश्चित् देहदेशात् उत्क्रामेत न एव उत्कृष्टं लोकं लभेत । तत्र आनर्थिका एव विद्या स्यात् । तत् शेषगति अनुस्मृतियोगात् च विद्याशेषभूता च मूर्धनि अनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ताम् अभ्यस्यन् तस्य एव प्रतिष्ठित इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सु उपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्यया एव शताधिकया शतात् अतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिः इतरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्तिऽ (छा। ८।६।६) इति ॥ १७ ॥

tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā samāptā prāsaṅgikī paravidyāgatā cintā / saṃpratitu aparavidyāviṣayām eva cintām anuvartayati / samānā ca asṛti upakramāt vidvat aviduṣoḥ utkrāntiḥiti uktaṃ tam idānīṃ sati upakramaṃ darśayati / tasya upasaṃhṛtavāgādi kalāpasya uccikramiṣato vijñānātmana oka āyatanaṃ hṛdayam 'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' iti śruteḥ / tat agraprajvalanapūrvikā cakṣurādisthāna apādānā ca utkrāntiḥ śrūyate - 'tasya haitasya hṛdayasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti / sā kim aniyamena eva vidvat aviduṣoḥ bhavati atha asti kaścit viduṣo viśeṣaniyama iti vicikitsāyāṃ śruti aviśeṣāt aniyamaprāptau ācaṣṭe - samā api hi vidvat aviduṣoḥ hṛdayāgrapradyotane tat prakāśitadvāratve ca mūrdhasthānāt eva vidvān niṣkrāmati sthānāntarebhyaḥ tu itare / kutaḥ - vidyāsāmarthyāt / yadi vidvān apītaravat yataḥ kutaścit dehadeśāt utkrāmeta na eva utkṛṣṭaṃ lokaṃ labheta / tatra ānarthikā eva vidyā syāt / tat śeṣagati anusmṛtiyogāt ca vidyāśeṣabhūtā ca mūrdhani anāḍīsaṃbaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā tām abhyasyan tasya eva pratiṣṭhita iti yuktam / tasmāt hṛdayālayena brahmaṇā su upāsitena anugṛhītaḥ tadbhāvaṃ samāpanno vidvān mūrdhanyayā eva śatādhikayā śatāt atiriktayā ekaśatatamyā nāḍyā niṣkrāmati itarābhiḥ itare / tathā hi hārdavidyāṃ prakṛtya samāmananti - 'śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā / tayordhvamāyannamṛtatvameti viṣvaṅṅnyā utkrameṇa bhavanti' (chā. 8.6.6) iti // 17 //

Sanskrit only: no published translation is held for this verse.

रश्म्यनुसारी अस्ति हार्दविद्या - ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा। ८।१।१) इति उपक्रम्य विहिता । तत् प्रक्रियायाम् ऽअथ या एता हृदयस्य नाड्यःऽ (छा। ८।६।१) इति उपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धम् उक्त्वा उक्तम् ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा। ८।६।५) इति । पुनः च उक्तम् ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा। ८।६।६) इति । तस्मात् शताधिकया नाड्या निष्क्रामन् रश्मि अनुसारी निष्क्रामति इति गम्यते । तत् किंम् अविशेषेण एव अहनि रात्रौ वा म्रियमाणस्य रश्मि अनुसारित्वम् आहोस्वित् अहनि एव इति संशये सति अविशेषश्रवणात् अविशेषेण एव तावत् रश्मि अनुसारि इति प्रतिज्ञायते ॥ १८ ॥

raśmyanusārī asti hārdavidyā - 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti upakramya vihitā / tat prakriyāyām 'atha yā etā hṛdayasya nāḍyaḥ' (chā. 8.6.1) iti upakramya saprapañcaṃ nāḍīraśmisaṃbandham uktvā uktam 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti / punaḥ ca uktam 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6) iti / tasmāt śatādhikayā nāḍyā niṣkrāman raśmi anusārī niṣkrāmati iti gamyate / tat kiṃm aviśeṣeṇa eva ahani rātrau vā mriyamāṇasya raśmi anusāritvam āhosvit ahani eva iti saṃśaye sati aviśeṣaśravaṇāt aviśeṣeṇa eva tāvat raśmi anusāri iti pratijñāyate // 18 //

Sanskrit only: no published translation is held for this verse.

निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्मि अनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् । नाडीरश्मिसंबन्धविच्छेदात् इति चेत् । न । नाडीरश्मिसंबन्धस्य यावत् देहभावित्वात् । यावत् देहभावी हि शिराकिरणसंपर्कः । दर्शयति च एतमर्थं श्रुतिः - ऽअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्नादित्ये सृप्ताःऽ (छा। ८।६।२) इति निदाघसमये च निशासु अपि किरण अनुवृत्तिः उपलभ्यते प्रतापादिकार्यदर्शनात् । स्तोक अनुवृत्तेः तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेषु इव दुर्दिनेषु । ऽअहरेवैतद्रात्रौ दधातिऽ इति च एतदेव दर्शयति । यदि च रात्रौ प्रेतो विना एव रश्मि अनुसारेण ऊर्ध्वम् आक्रमेत रश्मि अनुसार आनर्थक्यं भवेत् । न हि एतत् विशिष्य अधीयते यो दिवा प्रैति स रश्मीन् अपेक्ष्य ऊर्द्वम् आक्रमते यः तु रात्रौ सः अनपेक्ष्य एव इति । अथ तु विद्वान् अपि रात्रिप्रायण अपराधमात्रेण न ऊर्ध्वम् आक्रमेत पाक्षिकफला विद्या इति अप्रवृत्तिः एव तस्यां स्यात् । मृत्युकालानियमात् । अथ अपि रात्रौ उपरतः अहरागमम् उदीक्षेत । अहरागमे अपि अस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् । ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा। ८।६।५) इति च श्रुतिः अनुदीक्षां दर्शयति । तस्मात् तत् अविशेषेण एव इदं रात्रिदिवं रश्मि अनुसारित्वम् ॥ १९ ॥

niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca asti ahani nāḍīraśmisaṃbandha iti ahani mṛtasya syāt raśmi anusāritvaṃ rātrau tu pretasya na syāt / nāḍīraśmisaṃbandhavicchedāt iti cet / na / nāḍīraśmisaṃbandhasya yāvat dehabhāvitvāt / yāvat dehabhāvī hi śirākiraṇasaṃparkaḥ / darśayati ca etamarthaṃ śrutiḥ - 'amuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te 'muṣminnāditye sṛptāḥ' (chā. 8.6.2) iti nidāghasamaye ca niśāsu api kiraṇa anuvṛttiḥ upalabhyate pratāpādikāryadarśanāt / stoka anuvṛtteḥ tu durlakṣyatvam ṛtvantararajanīṣu śaiśireṣu iva durdineṣu / 'aharevaitadrātrau dadhāti' iti ca etadeva darśayati / yadi ca rātrau preto vinā eva raśmi anusāreṇa ūrdhvam ākrameta raśmi anusāra ānarthakyaṃ bhavet / na hi etat viśiṣya adhīyate yo divā praiti sa raśmīn apekṣya ūrdvam ākramate yaḥ tu rātrau saḥ anapekṣya eva iti / atha tu vidvān api rātriprāyaṇa aparādhamātreṇa na ūrdhvam ākrameta pākṣikaphalā vidyā iti apravṛttiḥ eva tasyāṃ syāt / mṛtyukālāniyamāt / atha api rātrau uparataḥ aharāgamam udīkṣeta / aharāgame api asya kadācit araśmisaṃbandhārhaṃ śarīraṃ syāt pāvakādisaṃparkāt / 'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti ca śrutiḥ anudīkṣāṃ darśayati / tasmāt tat aviśeṣeṇa eva idaṃ rātridivaṃ raśmi anusāritvam // 19 //

Sanskrit only: no published translation is held for this verse.

अतश् चायने ऽपि दक्षिणे अत एव च उदीक्षा अनुपपत्तेः अपाक्षिकफलत्वात् च विद्याया अनियतकालत्वात् च मृत्योः दक्षिण अयने अपि म्रियमाणो विद्वान् प्राप्नोति एव विद्याफलम् । उत्तरायण मरण प्राशस्ति अप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् ऽआपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्ऽ (छा। ४।१५।५) इति च श्रुतेः अपेक्षितव्यम् उत्तरायणम् इति इमाम् आशङ्काम् अनेन सूत्रेण अपनुदति । प्राशस्त्यप्रसिद्धिः अविद्वत् विषया । भीष्मस्य प्रतिपालनम् आचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च । श्रुतेः तु अर्थं वक्ष्यति ऽआतिवाहिकास्तल्लिङ्गात्ऽ (ब्र। सू। ४।३।४) इति ॥ २० ॥ ननु च - ऽयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं फलं वक्ष्यामि भरतर्षभऽ (गी। ८।२३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतौ अपुनरावृत्तये नियमितः कथं रात्रौ दक्षिणायने वा प्रयातो अनावृत्तिं यायादिति । अत्र उच्यते -

ataś cāyane 'pi dakṣiṇe ata eva ca udīkṣā anupapatteḥ apākṣikaphalatvāt ca vidyāyā aniyatakālatvāt ca mṛtyoḥ dakṣiṇa ayane api mriyamāṇo vidvān prāpnoti eva vidyāphalam / uttarāyaṇa maraṇa prāśasti aprasiddherbhīṣmasya ca pratīkṣādarśanāt 'āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāṃstān' (chā. 4.15.5) iti ca śruteḥ apekṣitavyam uttarāyaṇam iti imām āśaṅkām anena sūtreṇa apanudati / prāśastyaprasiddhiḥ avidvat viṣayā / bhīṣmasya pratipālanam ācārapratipālanārthaṃ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṃ ca / śruteḥ tu arthaṃ vakṣyati 'ātivāhikāstalliṅgāt' (bra. sū. 4.3.4) iti // 20 // nanu ca - 'yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ / prayātā yānti taṃ phalaṃ vakṣyāmi bharatarṣabha' (gī. 8.23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtau apunarāvṛttaye niyamitaḥ kathaṃ rātrau dakṣiṇāyane vā prayāto anāvṛttiṃ yāyāditi / atra ucyate -

Sanskrit only: no published translation is held for this verse.

योगिनः प्रति च स्मर्येते स्मार्ते चैते योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते । स्मार्ते च एते योगसांख्ये न श्रौते । अतो विषयभेदात् प्रमाणाविशेषात् च न अस्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः । ननु - ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्ऽ । ऽधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्ऽ (गी। ८। २४,२५) इति च श्रौतौ एतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतौ अपि इति । उच्यते - ऽतं कालं वक्ष्यामिऽ (गी। ८।२३) इति स्मृतौ कालप्रतिज्ञानात् विरोधम् आशङ्क्य परिहार उक्तः । यदा पुनः स्मृतौ अपि अग्न्याद्या देवता एव अतिवाहिक्यो गृह्यन्ते तदा न कश्चित् विरोध इति ॥ २१ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ चतुर्थे ऽध्याये तृतीयः पादः । अत्र पादे सगुणविद्यावतो मृतस्य उत्तरमार्ग अभिधानम्

yoginaḥ prati ca smaryete smārte caite yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate / smārte ca ete yogasāṃkhye na śraute / ato viṣayabhedāt pramāṇāviśeṣāt ca na asya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ / nanu - 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam' / 'dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam' (gī. 8. 24,25) iti ca śrautau etau devayānapitṛyāṇau pratyabhijñāyete smṛtau api iti / ucyate - 'taṃ kālaṃ vakṣyāmi' (gī. 8.23) iti smṛtau kālapratijñānāt virodham āśaṅkya parihāra uktaḥ / yadā punaḥ smṛtau api agnyādyā devatā eva ativāhikyo gṛhyante tadā na kaścit virodha iti // 21 // iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya dvitīyaḥ pādaḥ // 2 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ caturthe 'dhyāye tṛtīyaḥ pādaḥ / atra pāde saguṇavidyāvato mṛtasya uttaramārga abhidhānam

Sanskrit only: no published translation is held for this verse.