अथात आत्रेयभद्रकाप्यीयम् अध्यायं व्याख्यास्यामः
athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ
Sanskrit only: no published translation is held for this verse.
Library·Agnivesa: Carakasamhita·1·1.26
अथात आत्रेयभद्रकाप्यीयम् अध्यायं व्याख्यास्यामः
athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ
Sanskrit only: no published translation is held for this verse.
इति ह स्माह भगवानात्रेयः
iti ha smāha bhagavānātreyaḥ
Sanskrit only: no published translation is held for this verse.
हिताहितैकदेशम् अभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायक आत्रेयभद्रकाप्यीयो ऽभिधीयते ॥ १ तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणम् आदौ कृतम् ॥ २] आत्रेयो भद्रकाप्यश्च शाकुन्तेयस् तथैव च । पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः
hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate // 1 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam // 2] ātreyo bhadrakāpyaśca śākunteyas tathaiva ca / pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ
Sanskrit only: no published translation is held for this verse.
यः कुमारशिरा नाम भरद्वाजः स चानघः । श्रीमान् वायोर्विदश्चैव राजा मतिमतां वरः
yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ / śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ
Sanskrit only: no published translation is held for this verse.
निमिश्च राजा वैदेहो बडिशश्च महामतिः । काङ्कायनश्च वाह्लीको वाह्लीकभिषजां वरः
nimiśca rājā vaideho baḍiśaśca mahāmatiḥ / kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṃ varaḥ
Sanskrit only: no published translation is held for this verse.
एते श्रुतवयोवृद्धा जितात्मानो महर्षयः । वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः
ete śrutavayovṛddhā jitātmāno maharṣayaḥ / vane caitrarathe ramye samīyurvijihīrṣavaḥ
Sanskrit only: no published translation is held for this verse.
तेषां तत्रोपविष्टानाम् इयमर्थवती कथा । बभूवार्थविदां सम्यग्रसाहारविनिश्चये
teṣāṃ tatropaviṣṭānām iyamarthavatī kathā / babhūvārthavidāṃ samyagrasāhāraviniścaye
Sanskrit only: no published translation is held for this verse.
मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम् ॥ १ रसेनाहारविनिश्चयो रसाहारविनिश्चयः किंवा अयं रसविनिश्चयः तथा परं चातो विपाकानाम् इत्यादिराहारविनिश्चयः ॥ २] एक एव रस इत्युवाच भद्रकाप्यः यं पञ्चानाम् इन्द्रियार्थानाम् अन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः स पुनरुदकादनन्य इति । द्वौ रसाव् इति शाकुन्तेयो ब्राह्मणः छेदनीय उपशमनीयश्चेति । त्रयो रसा इति पूर्णाक्षो मौद्गल्यः छेदनीयोपशमनीयसाधारणा इति । चत्वारो रसा इति हिरण्याक्षः कौशिकः स्वादुर्हितश्च स्वादुर् अहितश् चास्वादुर् हितश्चास्वादुर् अहितश्चेति । पञ्च रसा इति कुमारशिरा भरद्वाजः भौमौदकाग्नेयवायव्यान्तरिक्षाः । षड्रसा इति वायोर्विदो राजर्षिः गुरुलघुशीतोष्णस्निग्धरूक्षाः । सप्त रसा इति निमिर्वैदेहः मधुराम्ललवणकटुतिक्तकषायक्षाराः । अष्टौ रसा इति बडिशो धामार्गवः मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः । अपरिसंख्येया रसा इति काङ्कायनो वाह्लीकभिषक् आश्रयगुणकर्मसंस्वादविशेषाणाम् अपरिसंख्येयत्वात्
munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham // 1 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ // 2] eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti / dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti / trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti / catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti / pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ / ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ / sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ / aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ / aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt
Sanskrit only: no published translation is held for this verse.
एक एवेत्यादि ॥ १ इन्द्रियार्थानामिति निर्धारणे षष्ठी ॥ २ अन्यतमम् इति एकम् अन्यशब्दो ह्य् अयमेकवचनः यथान्यो दक्षिणेन गतो ऽन्य उत्तरेण एक इत्यर्थः तम् अप्प्रत्ययश्च स्वार्थिकः ॥ ३ जिह्वावैषयिकमिति जिह्वाग्राह्यम् ॥ ४ रसाभावोऽपि जिह्वया गूह्यते ऽत आह भावमिति ॥ ५ उदकादनन्य इति रसोदकयोर् एकत्वख्यापनार्थं पूर्वपक्षत्वाद् अदुष्टम् ॥ ६ पूर्वपक्षश्च कपिलमतेन ते ॥ ७ हि रसतन्मात्रं गन्धतन्मात्रम् इत्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यमिति ब्रुवते ॥ ८ छेदनीय इति अपतर्पणकारकः ॥ ९ उपशमनीय इति बृंहणः ॥ १० साधारण इत्याग्नेयसौम्यसामान्याद् उभयोर् अपि लङ्घनबृंहणयोः कर्ता परस्परविरोधादकर्ता वा ॥ ११ स्वादुरिति अभीष्टः हित इति आयताव् अनपकारी ॥ १२ आश्रीयत इत्याश्रयो द्रव्यं गुणाः स्निग्धगुर्वादयः कर्म धातुवर्धनक्षपणादि संस्वादः रसानाम् अवान्तरभेदः एषां विशेषाणां भेदानाम् इत्यर्थः ॥ १३ तत्र द्रव्यभेदाद् आधारभेदेनाश्रितस्यापि रसस्य भेदो भवति आश्रयो हि कारणं कारणभेदाच्च कार्यभेदो ऽवश्यं भवतीत्यर्थः ॥ १४ गुर्वादिगुणभेदस् तथा कर्मभेदाश्च रसकृता एव ॥ १५ ततश् च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः ॥ १६ संस्वादभेदस्तु एकस्याम् अपि मधुरजाताव् इक्षुक्षीरगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते स तु संस्वादभेदः स्वसंवेद्य एव यदुक्तम् इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ॥ १७ भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते इति ॥ १८] षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः मधुराम्ललवणकटुतिक्तकषायाः । तेषां षण्णां रसानां योनिरुदकं छेदनोपशमने द्वे कर्मणी तयोर् मिश्रीभावात् साधारणत्वं स्वाद्वस्वादुता भक्तिः हिताहितौ प्रभावौ पञ्चमहाभूतविकारास् त्व् आश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः क्षरणात् क्षारः नासौ रसः द्रव्यं तदनेकरससमुत्पन्नम् अनेकरसं कटुकलवणभूयिष्ठम् अनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम् अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसे ऽनुरससमन्विते वा द्रव्ये अपरिसंख्येयत्वं पुनस् तेषाम् आश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तम् एकैको ऽपि ह्य् एषाम् आश्रयादीनां भावानां विशेषान् आश्रयते विशेषापरिसंख्येयत्वात् न च तस्माद् अन्यत्वम् उपपद्यते परसारसंसृष्टभूयिष्ठत्वान्न चैषाम् अभिनिर्वृत्तेर् गुणप्रकृतीनाम् अपरिसंख्येयत्वं भवति तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः । तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वम् उपदेक्ष्यामः
eka evetyādi // 1 indriyārthānāmiti nirdhāraṇe ṣaṣṭhī // 2 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ // 3 jihvāvaiṣayikamiti jihvāgrāhyam // 4 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti // 5 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam // 6 pūrvapakṣaśca kapilamatena te // 7 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate // 8 chedanīya iti apatarpaṇakārakaḥ // 9 upaśamanīya iti bṛṃhaṇaḥ // 10 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā // 11 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī // 12 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ // 13 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ // 14 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva // 15 tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ // 16 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat // 17 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti // 18] ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ / teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ / taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ
Sanskrit only: no published translation is held for this verse.
स्निग्धरूक्षाद्या इत्यत्रादिग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः किंतु द्रव्यगुणाः पृथगेवेति दर्शयति ॥ १६ क्षरणात् अधोगमनक्रियायोगात् क्षारो द्रव्यं नासौ रसः रसस्य हि निष्क्रियस्य क्रियानुपपन्नेत्यर्थः ॥ १७ क्षरणं च क्षारस्य पानीययुक्तस्याधोगमनेन वदन्ति हि लौकिकाः क्षारं स्रावयामः इति शास्त्रं च छित्त्वा छित्त्वाशयात् क्षारः क्षरत्वात् क्षारयत्यधः इति ॥ १८ हेत्वन्तरम् आह द्रव्यं तदनेकरसोत्पन्नम् इति अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्पन्नम् अनेकरसोत्पन्नं यतश् चानेकरसोत्पन्नम् अत एवानेकरसं कारणगुणानुविधायित्वात् कार्यगुणस्येति भावः ॥ १९ अनेकरसत्वमेवाह कटुकलवणभूयिष्ठम् इति ॥ २० भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धो ऽस्तीति दर्शयति ॥ २१ हेत्वन्तरम् आह अनेकेन्द्रियार्थसमन्वितम् इति ॥ २२ क्षारो हि स्पर्शेन गन्धेन चान्वितः तेन द्रव्यं रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः ॥ २३ हेत्वन्तरमाह करणाभिनिर्वृत्तमिति करणेन भस्मपरिस्रावणादिनाभिनिर्वृत्तं कृतम् इत्यर्थः न रसो ऽनेन प्रकारेण क्रियत इति भावः ॥ २४ अव्यक्तरसपक्षं निषेधयति अव्यक्तीभाव इत्यादि ॥ २५ अव्यक्तीभाव इत्यभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानाम् एव क्वचिदाधारे ऽव्यक्तत्वं नान्यो मधुरादिभ्यो ऽव्यक्तरस इत्यर्थः ॥ २६ रसानामिति मधुरादीनां षण्णाम् ॥ २७ प्रकृताव् इत्यादि ॥ २८ प्रकृतौ कारणे जल इत्यर्थः ॥ २९ अव्यक्तत्वं च रससामान्यमात्रोपलब्धिर् मधुरादिविशेषशून्या सा च जले भवति यत उक्तं जलगुणकथने सुश्रुते व्यक्तरसता रसदोषः इति इहापि च अव्यक्तरसं च इति वक्ष्यति लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति जलस्येवास्य रसो न कश्चिन् मधुरादिर् व्यक्त इति ॥ ३० विशेषमधुराद्यनुपलब्धिश् चानुद्भूतत्वेन ॥ ३१ यथा दूराद् अविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर् भवति न शुक्लत्वादिविशेषबुद्धिः तथानुरसे ऽव्यक्तीभावो भवति प्रधानं व्यक्तं रसमनुगतो ऽव्यक्तत्वेनेत्यनुरसः यथा वेणुयवे मधुरे कषायो ऽनुरसः ॥ ३२ यदुक्तं रूक्षः कषायानुरसो मधुरः कफपित्तहा इति ॥ ३३ अनुरससमन्वित इति सर्वानुरसयुक्ते यथा विषे वचनं हि उष्णम् अनिर्देश्यरसम् इत्यादि ॥ ३४ किंवा अणुरससमन्विते इति पाठस् तेन अणुरसेनैकेन मरिचेन शर्करापानके कटुत्वम् अव्यक्तं स्यात् ॥ ३५ अपरिसंख्येयपक्षं दूषयति अपरीत्यादि ॥ ३६ तेषामिति रसानाम् अपरिसंख्येयत्वं न युक्तम् आश्रयादीनां भावानामिति आश्रयगुणकर्मसंस्वादानाम् विशेषापरिसंख्येयत्वादिति आश्रयादिभेदस्यापरिसंख्येयत्वात् ॥ ३७ अत्र हेतुमाह एकैकोऽपि हीत्यादि ॥ ३८ एषामाश्रयगुणकर्मसंस्वादानां विशेषान् एकैको ऽपि मधुरादिर् आश्रयते न च तस्माद् आश्रयादिभेदाद् अन्यत्वम् आश्रितस्य मधुरादेर् भवति ॥ ३९ एवं मन्यते यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः तथापि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्ण इव ॥ ४० तथा गुणानां गुरुपिच्छिलस्निग्धादीनामन्यत्वे ऽपि कर्मणां वा रसादिवर्धनायुर्जननवर्णकरत्वादीनां भिन्नत्वे सत्यपि न मधुररसस्यान्यत्वं यत एक एव मधुरस् तत्तद्गुणयुक्तो भवति तत्कर्मकारी चेति को विरोधः ॥ ४१ तथा मधुरस्यावान्तरास्वादभेदे ऽपि मधुरत्वजात्यनतिक्रमः कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः ॥ ४२ ननु मैवं भवत्व् अपरिसंख्येयत्वं रसानां परस्परसंयोगात् तु य आस्वादविशेषः स कार्यविशेषकरो ऽपि न हि यन्मधुराम्लेन क्रियते तन्मधुरेण वाम्लेन वा शक्यम् अतस्तेन परस्परसंयोगेनापरिसंख्येयत्वं भविष्यतीत्याह परस्परेत्यादि ॥ ४३ संसृष्टम् इति भावे क्तः तेन परस्परसंसर्गभूयिष्ठत्वाद् एषां मधुरादीनाम् अभिनिर्वृत्तेर्न गुणप्रकृतीनाम् असंख्येयत्वम् इति योजना अयमर्थः यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तो ऽभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति तथापि न तेषां गुणा गुरुलघ्वादयः प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसाभिवर्धकत्वाद्यास् ता असंख्येया भवन्ति किंतु य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टास्त एव मिश्रा भवन्ति ॥ ४४ किंवा गुणप्रकृतीनामिति मधुरादिषड्गुणस्वरूपाणाम् इत्यर्थः तेन रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसंख्येयत्वम् इत्यर्थः ॥ ४५ प्रकृतिशब्देन कर्म वोच्यते तेन गुणकर्मणाम् इत्यर्थः ॥ ४६ मधुरादीनाम् अवान्तरास्वादविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः ॥ ४७ यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरे ऽपि नोक्तम् इत्याह तस्माद् इत्यादि ॥ ४८ कर्मशब्देनेह गौरवलाघवादिकारका गुरुत्वादयो रसरक्तादिजननादयश् चापि बोद्धव्याः ॥ ४९ न केवलम् अन्यशास्त्रकारै रसानां संसृष्टानां कर्म नोपदिष्टं किंतु वयमपि नोपदेक्ष्याम इत्याह तच्चैवेत्यादि ॥ ५० तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानाम् अनधिकगुणकर्मत्वम् ॥ ५१ लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम् ॥ ५२ तत्र लक्ष्यते येन तल्लक्षणम् अतस्तु मधुरो रसः इत्यादिना ग्रन्थेन तथा स्नेहनप्रीणनह्लादन इत्यादिना च यद्वाच्यं तत् सर्वं गृह्यते ॥ ५३ किंवा लक्षणशब्देन मधुरो रस इत्यादिग्रन्थवाच्यं लक्षणम् उच्यते पृथक्त्वं च रसभेदज्ञानार्थं यद् वक्ष्यति स्नेहनप्रीणन इत्यादि तद् गृह्यते ॥ ५४] अग्रे तु तावद् द्रव्यभेदम् अभिप्रेत्य किंचिद् अभिधास्यामः । सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे तच्चेतनावदचेनं च तस्य गुणाः शब्दादयो गुर्वादयश् च द्रवान्ताः कर्म पञ्चविधमुक्तं वमनादि
snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati // 16 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ // 17 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti // 18 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ // 19 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti // 20 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati // 21 hetvantaram āha anekendriyārthasamanvitam iti // 22 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ // 23 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ // 24 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi // 25 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ // 26 rasānāmiti madhurādīnāṃ ṣaṇṇām // 27 prakṛtāv ityādi // 28 prakṛtau kāraṇe jala ityarthaḥ // 29 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti // 30 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena // 31 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ // 32 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti // 33 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi // 34 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt // 35 aparisaṃkhyeyapakṣaṃ dūṣayati aparītyādi // 36 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt // 37 atra hetumāha ekaiko'pi hītyādi // 38 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati // 39 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva // 40 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ // 41 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ // 42 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi // 43 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti // 44 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ // 45 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ // 46 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ // 47 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi // 48 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ // 49 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi // 50 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam // 51 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam // 52 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate // 53 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate // 54] agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ / sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi
Sanskrit only: no published translation is held for this verse.
अग्रे त्व् इत्यादि । रसेषु वाच्येषु द्रव्यभेदम् अभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वाद् द्रव्याभिधानम् अग्रे कृतम् इत्यर्थः ॥ १ किंचिदिति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वम् अप्रसङ्गदोषाद् इति भावः ॥ २ सर्वद्रव्यम् इति कार्यद्रव्यम् ॥ ३ अस्मिन्न् अर्थे अस्मिन् प्रकरणे ॥ ४ द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणान् आह ॥ ५ अत्र च परत्वापरत्वादीनाम् इहानभिधानेन चिकित्सायां परत्वादीनाम् अप्राधान्यं दर्शयति ये ऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनो ऽपि न ते पार्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः किं तर्ह्य् आधेयाः अत इह नैसर्गिकगुणकथने नोक्ताः ॥ ६ उक्तम् इति अपामार्गतण्डुलीये ॥ ७ एतच्च प्राधान्यादुच्यते तेन बृंहणाद्यपि बोद्धव्यम् ॥ ८] तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि तान्युपचयसंघातगौरवस्थैर्यकराणि द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्य् आप्यानि तान्य् उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्य् आग्नेयानि तानि दाहपाकप्रभाप्रकाशवर्णकराणि लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्य् आकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि
agre tv ityādi / raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ // 1 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ // 2 sarvadravyam iti kāryadravyam // 3 asminn arthe asmin prakaraṇe // 4 dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha // 5 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ // 6 uktam iti apāmārgataṇḍulīye // 7 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam // 8] tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi
Sanskrit only: no published translation is held for this verse.
बहुलशब्दो गुर्वादिभिः प्रत्येकं सम्बध्यते किंवा गन्धेनैव यतो गन्धगुणबहुला पृथिव्येव भवति अत एव द्रव्यान्तरलक्षणे ऽपि वैशेषिकगुणो ऽन्त एव पठ्यते रसगुणबहुलानि इत्यादि तेन तत्रापि रसादिभिर् एव बहुलशब्दो योज्यः ॥ १ सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वे ऽपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम् ॥ २ संघातः काठिन्यं स्थैर्यम् अविचाल्यम् ॥ ३ बन्धनं परस्परयोजनं प्रह्लादः शरीरेन्द्रियतर्पणम् ॥ ४ सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि ॥ ५ प्रभा वर्णप्रकाशिनी दीप्तिः यदुक्तं वर्णमाक्रामति छाया प्रभा वर्णप्रकाशिका इत्यादि ॥ ६ विचरणं विचारो गतिर् इत्यर्थः ॥ ७ सौषिर्यं रन्ध्रबहुलता ॥ ८ अत्राकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं यदेव भूरिशुषिरं तन्नाभसं किंवा आकाशगुणबहुलत्वेन नाभसं द्रव्यम् इत्युच्यते ॥ ९] अनेनोपदेशेन नानौषधिभूतं जगति किंचिद् द्रव्यम् उपलभ्यते तां तां युक्तिम् अर्थं च तं तम् अभिप्रेत्य
bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ // 1 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam // 2 saṃghātaḥ kāṭhinyaṃ sthairyam avicālyam // 3 bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam // 4 sūkṣmaṃ sūkṣmasroto'nusāri // 5 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi // 6 vicaraṇaṃ vicāro gatir ityarthaḥ // 7 sauṣiryaṃ randhrabahulatā // 8 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate // 9] anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya
Sanskrit only: no published translation is held for this verse.
अनेनेति प्रतिनियतद्रव्यगुणोपदेशेन यत् पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे संपाद्ये तद् भेषजं भवतीत्यर्थः ॥ १ तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजमित्याह तां तां युक्तिम् इत्यादि ॥ २ युक्तिम् इति उपायम् अर्थमिति प्रयोजनम् अभिप्रेत्येति अधिकृत्य तेन केनचिदुपायेन क्वचित् प्रयोजने किंचिद् द्रव्यमौषधं भवति न सर्वत्र ॥ ३ तेन यदुच्यते वैरोधिकानां सर्वदापथ्यत्वेन नानौषधं द्रव्यम् इति वचो विरोधि तन्न भवति वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति वैरोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित् स्युः ॥ ४ यान्यपि सर्वदापि स्वभावादेव विषमन्दकादीन्यपथ्यानि तान्यप्य् उपाययुक्तानि क्वचित् पथ्यानि भवन्ति यथा उदरे विषस्य तिलं दद्यात् इत्यादि ॥ ५ यत्तु तृणपांशुप्रभृतीनि नोपयुज्यन्ते अतो न तानि भेषजानीत्युच्यते तन्न तेषामपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात् ॥ ६] न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति द्रव्याणि हि द्रव्यप्रभावाद् गुणप्रभावाद् द्रव्यगुणप्रभावाच् च तस्मिंस्तस्मिन् काले तत्तदधिकरणम् आसाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यदा कुर्वन्ति स कालः यथा कुर्वन्ति स उपायः यत् साधयन्ति तत् फलम्
aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ // 1 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi // 2 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra // 3 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ // 4 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi // 5 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt // 6] na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam
Sanskrit only: no published translation is held for this verse.
पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद् भेषजत्वम् उक्तं तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्न् आह न तु केवलम् इत्यादि ॥ १ द्रव्यप्रभावाद् यथा दन्त्या विरेचकत्वं तथा मणीनां विषादिहन्तृत्वम् इत्यादि ॥ २ गुणप्रभावाद्यथा ज्वरे तिक्तको रसः शीते ऽग्निर् इत्यादि ॥ ३ द्रव्यगुणप्रभावाद् यथा कृष्णाजिनस्योपरीति अत्रापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतं यथा वा मण्डलैर् जातरूपस्य तस्या एव पयः शृतम् तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कार्मुकत्वम् ॥ ४ कथं कुर्वन्तीत्याह तस्मिंस् तस्मिन्न् इत्यादि ॥ ५ तां तां युक्तिमासाद्येति तां तां योजनां प्राप्य ॥ ६ यत् कुर्वन्तीत्यादाव् उदाहरणं यथा शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति तच् छिरोविरेचनं कर्म येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति तद्वीर्यं वीर्यं शक्तिः सा च द्रव्यस्य गुणस्य वा यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः नान्यत्राधिकरणे शिरोविरेचनद्रव्यं प्रभवतीत्यर्थः यदेति वसन्तादौ शिरोगौरवादियुक्ते च काले एतेनाकाले शीते शिरोविरेचनं स्तब्धत्वान्न कार्मुकं किंतु स्वकाल एव यथा येन प्रकारेण प्रधमनावपीडनादिना तथा प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते ॥ ७ ईषत् प्रलम्बशिरसं संवेश्य चावृतेक्षणम् इत्यादिना विधिना कुर्वन्ति स उपायः यत् साधयन्ति शिरोगौरवशूलाद्युपरमं तत् फलं फलम् उद्देश्यम् ॥ ८ कर्म कार्यं साधनम् उद्देश्यं फलं साध्यं यथा यागनिष्पाद्यो धर्मः कार्यतया कर्म तज्जन्यस्तु स्वर्गादिर् उद्देश्यः फलम् एवं वमनादिष्वपि कर्माधिकरणाद्युन्नेयम् ॥ ९] भेदश् चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद् भवति तम् उपदेक्ष्यामः
pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi // 1 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi // 2 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi // 3 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam // 4 kathaṃ kurvantītyāha tasmiṃs tasminn ityādi // 5 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya // 6 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte // 7 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam // 8 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam // 9] bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ
Sanskrit only: no published translation is held for this verse.
सम्प्रति द्रव्यम् अभिधाय विकृतानां रसानाम् एव भेदम् आह भेदश् चैषाम् इत्यादि ॥ १ प्रभावशब्दो द्रव्यदेशकालैः प्रत्येकं युज्यते तत्र द्रव्यप्रभावाद् यथा सोमगुणातिरेकान् मधुरः इत्यादि देशप्रभावाद् यथा हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यन्यत्राम्लानीत्यादि कालप्रभावाद्यथा बालाम्रं सकषायं तरुणमम्लं पक्वं मधुरं तथा हेमन्ते ओषध्यो मधुरा वर्षास्व् अम्ला इत्यादि ॥ २ अग्निसंयोगादयो ये ऽन्ये रसहेतवस् ते ऽपि काले द्रव्ये वान्तर्भावनीयाः ॥ ३] स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक् । यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु
samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi // 1 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi // 2 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ // 3] svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak / yānti pañcadaśaitāni dravyāṇi dvirasāni tu
Sanskrit only: no published translation is held for this verse.
भेदमाह स्वादुर् इत्यादि ॥ १ तत्र स्वादोरम्लादियोगात् पञ्च शेषैर् इति आदित्वेनोपयुक्ताद् अन्यैः तेनाम्लस्य लवणादियोगाच् चत्वारि एवं लवणस्य कट्वादियोगात् त्रीणि कटुकस्य तिक्तकषाययोगाद् द्वे तिक्तस्य कषाययोगाद् एकम् एवं पञ्चदश द्विरसानि ॥ २] पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत् । मधुरस्य तथाम्लस्य लवणस्य कटोस् तथा
bhedamāha svādur ityādi // 1 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni // 2] pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet / madhurasya tathāmlasya lavaṇasya kaṭos tathā
Sanskrit only: no published translation is held for this verse.
त्रिरसम् आह पृथग् इत्यादि ॥ १ मधुरस्याम्लादिरसचतुष्टयेन पृथग् इत्येकैकशो युक्तस्य शेषैर्लवणादिभिर् योगो भवति तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच् चत्वारि तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात् त्रीणि तथा कटुयुक्तस्य तिक्तादियोगाद् द्वे तथा तिक्तयुक्तस्य कषाययोगाद् एकम् एवं मधुरेणादिस्थितेन दश ॥ २ एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कट्वादियोगात् त्रीणि तथा कटुकयुक्तस्य शेषाभ्यां योगाद् द्वे एवं तिक्तयुक्तस्य कषाययोगाद् एकम् एवम् अम्लस्य षट् ॥ ३ अनेनैव न्यायेन लवणस्य त्रीणि कटोश् चैकमेव एवं मिलित्वा त्रिरसानि विंशतिः ॥ ४] वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च
trirasam āha pṛthag ityādi // 1 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa // 2 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ // 3 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ // 4] vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca
Sanskrit only: no published translation is held for this verse.
स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ । योगं शेषैः पृथग्यातश्चतुष्करससंख्यया
svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau / yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā
Sanskrit only: no published translation is held for this verse.
सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक् । युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा
sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak / yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā
Sanskrit only: no published translation is held for this verse.
कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् । यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा
kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak / yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā
Sanskrit only: no published translation is held for this verse.
चतूरसे स्वाद्वम्लाव् आदिस्थितौ लवणादिभिर् एकैकश्येन युक्तौ शेषैः कट्वादिभिर् योगात् षड् भवन्ति ॥ १ स्वादुलवणौ सहितौ आदिस्थितौ कट्वादिभिरिति कटुतिक्ताभ्यां पृथग्युक्तौ शेषैर् इति तिक्तकषायाभ्यां तेनेह बहुवचनं जातौ बोद्धव्यम् एवं त्रीणि ॥ २ स्वादूषणौ तथेत्यनेन स्वादुकटुकतिक्तकषायरूपम् एकम् ॥ ३ कट्वाद्यैर् इत्यादाव् अपि बहुवचनं जातौ ॥ ४ अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगाद् द्वे तथाम्ललवणौ तिक्तयुक्तौ शेषयोगाद् एकम् ॥ ५ अम्लकटू तथेत्यनेनाम्लकटुतिक्तकषायरूपम् एकम् ॥ ६ युज्येते त्व् इत्यादिना चैकम् ॥ ७ एवं पञ्चदश चतूरसानि ॥ ८] षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात्
catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti // 1 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi // 2 svādūṣaṇau tathetyanena svādukaṭukatiktakaṣāyarūpam ekam // 3 kaṭvādyair ityādāv api bahuvacanaṃ jātau // 4 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam // 5 amlakaṭū tathetyanenāmlakaṭutiktakaṣāyarūpam ekam // 6 yujyete tv ityādinā caikam // 7 evaṃ pañcadaśa catūrasāni // 8] ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt
Sanskrit only: no published translation is held for this verse.
अपवर्जनादिति त्यागात् ॥ १ अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ॥ २] इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया
apavarjanāditi tyāgāt // 1 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate // 2] iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā
Sanskrit only: no published translation is held for this verse.
त्रिषष्टिः स्यात्त्वसंख्येया रसानुरसकल्पनात् । रसास्तरतमाभ्यां तां संख्याम् अतिपतन्ति हि
triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt / rasāstaratamābhyāṃ tāṃ saṃkhyām atipatanti hi
Sanskrit only: no published translation is held for this verse.
रससंसर्गस्य प्रकारान्तरेणासंख्येयताम् आह त्रिषष्टिः स्याद् इत्यादि ॥ १ अनुरसोऽग्रे वक्ष्यमाणः ॥ २ अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना नास्ति केवले मधुरादौ तदभावात् तेन यथासम्भवं सप्तपञ्चाशत्संयोगविषयं रसानुरसकल्पनं ज्ञेयम् ॥ ३ किंवा एकरसेऽप्यनुरसोऽस्त्येवाव्यपदेश्यः ॥ ४ प्रकारान्तरेणाप्य् असंख्येयताम् आह रसास् तरतमाभ्याम् इत्यादि ॥ ५ मधुरमधुरतरमधुरतमादिभेदाद् असंख्येयता रसानां भवतीति भावः ॥ ६ किंवा रसानुरसत्वेनैव यासंख्येयता तत्रैवायं हेतुः रसास् तरतमाभ्यामित्यादिः ॥ ७] संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा । रसानां तत्र योग्यत्वात्कल्पिता रसचिन्तकैः
rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi // 1 anuraso'gre vakṣyamāṇaḥ // 2 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam // 3 kiṃvā ekarase'pyanuraso'styevāvyapadeśyaḥ // 4 prakārāntareṇāpy asaṃkhyeyatām āha rasās taratamābhyām ityādi // 5 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ // 6 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ // 7] saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā / rasānāṃ tatra yogyatvātkalpitā rasacintakaiḥ
Sanskrit only: no published translation is held for this verse.
एवमसंख्येयत्वेऽपि त्रिषष्टिविधैव कल्पना चिकित्साव्यवहारार्थम् इहाचार्यैः कल्पितेत्याह संयोगा इत्यादि ॥ १ तत्र योग्यत्वाद् इति तत्र स्वस्थातुरहितचिकित्साप्रयोगे ऽनतिसंक्षेपविस्तररूपतया हितत्वाद् इत्यर्थः ॥ २] क्वचिदेको रसः कल्प्यः संयुक्ताश् च रसाः क्वचित् । दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता
evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi // 1 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ // 2] kvacideko rasaḥ kalpyaḥ saṃyuktāś ca rasāḥ kvacit / doṣauṣadhādīn saṃcintya bhiṣajā siddhimicchatā
Sanskrit only: no published translation is held for this verse.
द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः । रसान् एकैकशो वापि कल्पयन्ति गदान् प्रति
dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ / rasān ekaikaśo vāpi kalpayanti gadān prati
Sanskrit only: no published translation is held for this verse.
तमेव चिकित्साप्रयोगम् आह क्वचिदित्यादि ॥ १ अत्रादिग्रहणाद् देशकालबलादीनाम् अनुक्तानां ग्रहणम् ॥ २ एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद् वानेकरसैकद्रव्यप्रयोगाद् एकरसद्रव्यप्रयोगाद्वा भवतीति दर्शयन्नाह द्रव्याणीत्यादि ॥ ३ द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि द्विरसं यथा कषायमधुरो मुद्गः त्रिरसं यथा मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ॥ ४ पित्तश्लेष्महरं भव्यम् इत्यादि चतूरसस् तिलः यद् उक्तं स्निग्धोष्णमधुरस् तिक्तः कषायः कटुकस् तिलः पञ्चरसं त्व् आमलकं हरीतकी च शिवा पञ्चरसा इत्यादिवचनात् व्यक्तषड्रसं तु द्रव्यम् इहानुक्तं विषं त्व् अव्यक्तषड्रससंयुक्तं हारीते त्व् एणमांसं व्यक्तषड्रससंयुक्तम् उक्तम् ॥ ५ एवं द्विरसादिद्रव्ययोगाद् द्विरसाद्युपयोगः ॥ ६ तथा संयुक्तांश्च रसानिति एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसान् एकैकशः कल्पयन्ति प्रयोजयन्ति ॥ ७ गदान् प्रतीति प्राधान्येन तेन स्वस्थवृत्ते ऽपि बोद्धव्यं किंवा द्विरसादिभेदो गद एव स्वस्थे तु सर्वरसप्रयोग एव यदुक्तं समसर्वरसं सात्म्यं समधातोः प्रशस्यते इति ॥ ८ एवं च व्याख्याने सति क्वचिदेको रस इत्यादिना सममस्य न पौनरुक्त्यम् ॥ ९ किंवा क्वचिद् एको रसः इत्यादिना स्वमतम् उक्तम् अत्रैवार्थे द्रव्याणि द्विरसादीनि इत्यादिनाचार्यान्तरसम्मतिं दर्शयति अत एवान्याचार्यान्तराभिप्रायेण कल्पयन्तीत्युक्तं तेन न पौनरुक्त्यम् ॥ १०] यः स्याद् रसविकल्पज्ञः स्याच्च दोषविकल्पवित् । न स मुह्येद् विकाराणां हेतुलिङ्गोपशान्तिषु
tameva cikitsāprayogam āha kvacidityādi // 1 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam // 2 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi // 3 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam // 4 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam // 5 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ // 6 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti // 7 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti // 8 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam // 9 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam // 10] yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit / na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu
Sanskrit only: no published translation is held for this verse.
रसज्ञानफलमाह यः स्याद् इत्यादि ॥ १ अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्नमवरुद्धं रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् ॥ २ दोषविकल्पज्ञानाच्च लिङ्गज्ञानं यावद्धि लिङ्गं तत् सर्वं दोषविकल्पसम्बद्धम् ॥ ३ रसदोषविकल्पज्ञानात् तु भेषजज्ञानं यतो रसतः स्वरूपज्ञानं भेषजद्रव्यस्य दोषतश्च भेषजप्रयोगविषयविज्ञानम् ॥ ४ किंवा रसविकल्पाच् च तथा दोषविकल्पाच् च हेत्वादिज्ञानं पृथगेव वक्तव्यं रसभेदाद्धि तत्कार्यं लिङ्गमपि ज्ञायते हेतुभेषजविज्ञानं तु ॥ ५ रसभेदविज्ञानादेव वक्तव्यं यतो रसभेदवद् द्रव्यमेव विकाराणां हेतुर्भेषजं च भवतीति एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति दोषविरोधि च द्रव्यं भेषजमिति ॥ ६ तद् युक्तम् उक्तं न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिष्विति ॥ ७] व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते । विपर्ययेणानुरसो रसो नास्ति हि सप्तमः
rasajñānaphalamāha yaḥ syād ityādi // 1 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt // 2 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham // 3 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam // 4 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu // 5 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti // 6 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti // 7] vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate / viparyayeṇānuraso raso nāsti hi saptamaḥ
Sanskrit only: no published translation is held for this verse.
पूर्वोक्तरसानुरसलक्षणमाह व्यक्त इत्यादि ॥ १ शुष्कस्य चेति चकाराद् आर्द्रस्य च आदौ चेति चकारादन्ते च तेन शुष्कस्य वार्द्रस्य वा प्रथमजिह्वासम्बन्धे वास्वादान्ते वा यो व्यक्तत्वेन मधुरो ऽयम् अम्लो ऽयम् इत्यादिना विकल्पेन गृह्यते स व्यक्तः यस् तूक्तावस्थाचतुष्टये ऽपि व्यक्तो नोपलभ्यते किं तर्ह्य् अव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते सो ऽनुरस इति वाक्यार्थः ॥ २ यतश्च मधुरादय एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः अतोऽव्यक्तो नाम सप्तमो रसो नास्ति ॥ ३ अयं चार्थः पूर्वं प्रतिषिद्धो ऽप्यनुगुणस्पष्टहेतुप्राप्त्या पुनर् निषिध्यते ॥ ४ अन्ये त्व् आहुः शुष्कस्य चेत्यनेन यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः तत्र शुष्कावस्थायां यो ऽव्यक्तः स रस उच्यते यस्त्वार्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति नासौ रसः किंत्व् अनुरसः ॥ ५ यथा पिप्पल्या आर्द्राया मधुरो रसो व्यक्तः शुष्कायास्तु पिप्पल्याः कटुकः तेन कटुक एव रसः पिप्पल्याः मधुरस्त्वनुरसः यस्तु द्राक्षादीनाम् आर्द्रावस्थायां शुष्कावस्थायां च मधुर एव तत्र विप्रतिपत्तिरपि नास्ति तेन तत्र मधुर एव रसः नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते रसः अनु चोपलभ्यते यः सो ऽनुरसो युक्तस् तिक्तत्वादिः तथा आर्द्रावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः सो ऽनुरस इति ॥ ६ किंत्व् आर्द्रापि पिप्पली मधुररसैवेति पश्यामः यतो वक्ष्यति श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली इति मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वान्य् अनुपपन्नानि तेन आर्द्रा पिप्पली व्यक्तमधुररसैव शुष्का तु मधुरानुरसेति युक्तम् ॥ ७] परापरत्वे युक्तिश्च संख्या संयोग एव च । विभागश्च पृथक्त्वं च परिमाणमथापि च
pūrvoktarasānurasalakṣaṇamāha vyakta ityādi // 1 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ // 2 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti // 3 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate // 4 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ // 5 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti // 6 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam // 7] parāparatve yuktiśca saṃkhyā saṃyoga eva ca / vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca
Sanskrit only: no published translation is held for this verse.
संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः । सिद्ध्युपायाश् चिकित्साया लक्षणैस्तान् प्रचक्ष्महे
saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ / siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe
Sanskrit only: no published translation is held for this verse.
देशकालवयोमानपाकवीर्यरसादिषु । परापरत्वे युक्तिश्च योजना या तु युज्यते
deśakālavayomānapākavīryarasādiṣu / parāparatve yuktiśca yojanā yā tu yujyate
Sanskrit only: no published translation is held for this verse.
संख्या स्याद्गणितं योगः सह संयोग उच्यते । द्रव्याणां द्वंद्वसर्वैककर्मजो ऽनित्य एव च
saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate / dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca
Sanskrit only: no published translation is held for this verse.
विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः । पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता
vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ / pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā
Sanskrit only: no published translation is held for this verse.
परिमाणं पुनर्मानं संस्कारः करणं मतम् । भावाभ्यसनमभ्यासः शीलनं सततक्रिया
parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam / bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā
Sanskrit only: no published translation is held for this verse.
इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः । चिकित्सा यैर् अविदितैर् न यथावत् प्रवर्तते
iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ / cikitsā yair aviditair na yathāvat pravartate
Sanskrit only: no published translation is held for this verse.
सम्प्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दश गुणान् रसधर्मत्वेनोपदेष्टव्यानाह परेत्यादि ॥ १ तच्च परत्वं प्रधानत्वम् अपरत्वम् अप्रधानत्वम् ॥ २ तद्विवरणं देशकालेत्यादि ॥ ३ तत्र देशो मरुः परः अनूपो ऽपरः कालो विसर्गः परः आदानमपरः वयस्तरुणं परम् अपरम् इतरन् मानं च शरीरस्य यथा वक्ष्यमाणं शरीरे परं ततोऽन्यदपरं पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः अयौगिकास् त्व् अपराः ॥ ४ आदिग्रहणात् प्रकृतिबलादीनां ग्रहणम् ॥ ५ किंवा परत्वापरत्वे वैशेषिकोक्ते ज्ञेये तत्र देशापेक्षया संनिकृष्टदेशसम्बन्धिनम् अपेक्ष्य विदूरदेशसम्बन्धिनि परत्वं संनिकृष्टदेशसम्बन्धिनि चापरत्वं भवति एवं संनिकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं यूनि चापरत्वं भवति ॥ ६ वयःप्रभृतिषु परत्वापरत्वं यथासम्भवं कालदेशकृतम् एवेहोपयोगाद् उपचरितम् अप्यभिहितं यतो न गुणे मानादौ गुणान्तरसम्भवः ॥ ७ युक्तिश्चेत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना अत एवोक्तं या तु युज्यते या कल्पना यौगिकी भवति सा तु युक्तिर् उच्यते अयौगिकी तु कल्पनापि सती युक्तिर् नोच्यते पुत्रो ऽप्यपुत्रवत् ॥ ८ युक्तिश्चेयं संयोगपरिमाणसंस्काराद्यन्तर्गताप्य् अत्युपयुक्तत्वात् पृथगुच्यते ॥ ९ संख्यां लक्षयति संख्येत्यादि ॥ १० गणितम् इहैकद्वित्र्यादि ॥ ११ संयोगमाह योग इत्यादि ॥ १२ सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः सहेत्यनेनेहाकिंचित्करं परस्परसंयोगं निराकरोति ॥ १३ तद्भेदमाह द्वंद्वेत्यादि ॥ १४ तत्र द्वंद्वकर्मजो यथा युध्यमानयोर् मेषयोः सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रिया योगजः एककर्मजो यथा वृक्षवायसयोः ॥ १५ अनित्य इति संयोगस्य कर्मजत्वेनानित्यत्वं दर्शयति ॥ १६ विभागमाह विभागस् त्व् इत्यादि ॥ १७ विभक्तिः विभजनम् ॥ १८ विभक्तिमेव विवृणोति वियोग इति संयोगस्य विगमो वियोगः ॥ १९ तत् किं संयोगाभाव एव वियोग इत्याह भागशो ग्रह इति ॥ २० विभागशो विभक्तत्वेन ग्रहणं यतो भवतीति भावः तेन विभक्तिरित्येषा भावरूपा प्रतीतिर् न संयोगाभावमात्रं भवति किंतर्हि भावरूपविभागगुणयुक्ता इत्यर्थः ॥ २१ पृथक्त्वं तु इदं द्रव्यं पटलक्षणं घटात् पृथग् इत्यादिका बुद्धिर्यतो भवति तत् पृथक्त्वं भवति ॥ २२ तच्चाचार्यस् त्रैविध्येनाह पृथक्त्वमित्यादि ॥ २३ तत्र यत् सर्वथासंयुज्यमानयोरिव मेरुहिमाचलयोः पृथक्त्वम् एतदसंयोग इत्यनेनोक्तम् ॥ २४ तथा संयुज्यमानानामपि पृथक्त्वं विजातीयानां महिषवराहादीनां तदाह वैलक्षण्यमित्यादि ॥ २५ विशिष्टलक्षणयुक्तत्वलक्षितं विजातीयानां पृथक्त्वम् इत्यर्थः ॥ २६ तथैकजातीयानामप्य् अविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह अनेकतेति ॥ २७ एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं नाप्यसंयोगः अथ चानेकता पृथक्त्वरूपा भवतीति भावः ॥ २८ किंवा पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहारार्थम् असंयोगवैलक्षण्यानेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्शयति ॥ २९ मानं प्रस्थाढकादितुलादिमेयम् । करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः यद्वक्ष्यति संस्कारो हि गुणान्तराधानमुच्यते इति ॥ ३० भावस्य षष्टिकादेर्व्यायामादेश् चाभ्यसनम् अभ्यासः ॥ ३१ अभ्यसनमेव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति शीलनं सततक्रियेति यं लोकाः शीलनसततक्रियाभ्याम् अभिदधति सो ऽभ्यास इति भावः ॥ ३२ अयं च संयोगसंस्कारविशेषरूपो ऽपि विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते ॥ ३३ न यथावत् प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्यं सूचयति ॥ ३४] गुणा गुणाश्रया नोक्तास्तस्माद् रसगुणान् भिषक् । विद्याद् द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः
samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyānāha paretyādi // 1 tacca paratvaṃ pradhānatvam aparatvam apradhānatvam // 2 tadvivaraṇaṃ deśakāletyādi // 3 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ // 4 ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam // 5 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati // 6 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ // 7 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat // 8 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate // 9 saṃkhyāṃ lakṣayati saṃkhyetyādi // 10 gaṇitam ihaikadvitryādi // 11 saṃyogamāha yoga ityādi // 12 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti // 13 tadbhedamāha dvaṃdvetyādi // 14 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ // 15 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati // 16 vibhāgamāha vibhāgas tv ityādi // 17 vibhaktiḥ vibhajanam // 18 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ // 19 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti // 20 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ // 21 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati // 22 taccācāryas traividhyenāha pṛthaktvamityādi // 23 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam // 24 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi // 25 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ // 26 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti // 27 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ // 28 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati // 29 mānaṃ prasthāḍhakāditulādimeyam / karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti // 30 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ // 31 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ // 32 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate // 33 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati // 34] guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak / vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ
Sanskrit only: no published translation is held for this verse.
सम्प्रति रसानां परस्परसंयोगो गुण उक्तः तथाग्रे च स्निग्धत्वादिर्गुणो वाच्यः स च गुणरूपरसे न सम्भवतीति यथा रसानां गुणनिर्देशो बोद्धव्यस् तदाह गुणा इत्यादि ॥ १ गुणा गुणाश्रया नोक्ता इति दीर्घंजीवितीये समवायी तु निश्चेष्टः कारणं गुणः इत्यनेन ॥ २ रसगुणानिति रसे स्निग्धादीन् गुणान् निर्दिष्टान् तद् रसाधारद्रव्यगुणान् एव विद्यात् ॥ ३ ननु यदि द्रव्यगुणा एव ते तत् किमिति रसगुणत्वेनोच्यन्त इत्याह कर्तुरित्यादि कर्तुरिति तन्त्रकर्तुः ॥ ४ अभिप्राया इति तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः सामान्यशब्दोपचारादिप्रयोगश् च प्रकरणादिवशाद् एव स्फुटत्वात् तथा प्रयोजनवशाच् च क्रियते ॥ ५ तच्च प्रकरणादि अतश्च प्रकृतं बुद्ध्वा इत्यादौ दर्शयिष्यामः ॥ ६ इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्यायमभिप्रायो यत् मधुरादिनिर्देशेनैव स्निग्धशीतादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत इति ॥ ७] अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च । तन्त्रकर्तुर् अभिप्रायानुपायांश् चार्थमादिशेत्
samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi // 1 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena // 2 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt // 3 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ // 4 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate // 5 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ // 6 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti // 7] ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca / tantrakartur abhiprāyānupāyāṃś cārthamādiśet
Sanskrit only: no published translation is held for this verse.
अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस् तदाह अतश् चेत्यादि ॥ १ तत्र प्रकृतं बुद्ध्वा यथा क्षाराः क्षीरं फलं पुष्पम् इत्यत्रोद्भिदगणस्य प्रकृतत्वात् क्षीरमिति स्नुह्यादिक्षीरम् एव क्षीरशब्देन वदेत् ॥ २ देशान्तरं बुद्ध्वेति यथा शिरसि शोधने ऽभिधीयमाने क्रिमिव्याधौ इति तच्छिरोगतक्रिमिव्याधाव् एव भवति ॥ ३ कालान्तरे यथा वमनकाले ऽभिहितं प्रतिग्रहांश् चोपहारयेद् इति तत्र प्रतिग्रहशब्देन पात्रमुच्यते न तु ग्रहणं प्रतिग्रहः ॥ ४ तन्त्रकर्तुर् अभिप्रायान् इति यथोक्तं रसेषु गुणारोपणे तद् बोद्धव्यम् ॥ ५ उपायान् इति शास्त्रोपायान् तन्त्रयुक्तिरूपान् ॥ ६ अर्थम् अभिधेयम् ॥ ७ यद्यपि प्रकृतादयो ऽपि तन्त्रकर्तुर् अभिप्राया एव तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुर् अभिप्रायत्वेन बोद्धव्यम् ॥ ८] षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् । षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः
abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi // 1 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet // 2 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati // 3 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ // 4 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam // 5 upāyān iti śāstropāyān tantrayuktirūpān // 6 artham abhidheyam // 7 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam // 8] ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram / ṣaṭ pañcabhūtaprabhavāḥ saṃkhyātāśca yathā rasāḥ
Sanskrit only: no published translation is held for this verse.
षड्विभक्तीर् इति मधुरादिषड्विभागान् इत्यर्थः ॥ १ षट् पञ्चभूतप्रभवा इति पञ्चभूतप्रभवाः सन्तो यथोक्तेन प्रकारेण सोमगुणातिरेकात् इत्यादिना यथा षट् संख्याताः षट्संख्यापरिच्छिन्ना भवन्ति तथा वक्ष्यामीति योजना ॥ २] सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश् चाव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहागुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीर् अभिप्रीणयन्ति तासु मूर्तिषु षड् अभिमूर्छन्ति रसाः
ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ // 1 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā // 2] saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ
Sanskrit only: no published translation is held for this verse.
सम्प्रति रसानाम् आदिकारणमेव तावद् आह सौम्या इत्यादि ॥ १ सौम्याः सोमदेवताकाः ॥ २ भ्रश्यमाना इति वदता भूमिसम्बन्धव्यतिरेकेणान्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः सम्बन्धो रसारम्भको भवतीति दर्श्यते ॥ ३ मूर्तीर् इति व्यक्तीः ॥ ४ अभिप्रीणयन्तीति तर्पयन्ति किंवा जनयन्ति ॥ ५ अभिमूर्छन्ति रसा इति व्यक्तिं यान्ति ॥ ६ अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तं तेन क्षितिस्थम् अपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव ॥ ७] तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्निभूयिष्ठत्वाल् लवणः वाय्वग्निभूयिष्ठत्वात्कटुकः वाय्वाकाशातिरिक्तत्वात् तिक्तः पवनपृथिवीव्यतिरेकात् कषाय इति । एवमेषां रसानां षट्त्वम् उपपन्नं न्यूनातिरेकविशेषान् महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः
samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi // 1 saumyāḥ somadevatākāḥ // 2 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate // 3 mūrtīr iti vyaktīḥ // 4 abhiprīṇayantīti tarpayanti kiṃvā janayanti // 5 abhimūrchanti rasā iti vyaktiṃ yānti // 6 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva // 7] teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti / evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ
Sanskrit only: no published translation is held for this verse.
सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेषु सर्वभूतसांनिध्यम् अस्ति क्वचित् तु कस्यचिद् भूतगुणस्यातिरेकाद् रसविशेषे भवतीति दर्शयति एतच्च मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं यच्चाधारकारणत्वम् अपां तत् सर्वसाधारणम् ॥ १ एवं लवणे ऽप्य् अपां कारणत्वं ज्ञेयम् ॥ २ लवणस्तु सुश्रुते पृथिव्यग्न्यतिरेकात् पठितः अस्मिंश् च विरोधे कार्यविरोधो नास्त्येव ॥ ३ ननु उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्य् उष्णशीतत्वेन भवितव्यं तल् लवणं कथम् उष्णं भवति नैवं यतो भूतानाम् अयं स्वभावो यत् केनचित् प्रकारेण संनिविष्टाः कंचिद् गुणम् आरभन्ते न सर्वम् ॥ ४ यथा मकुष्ठके ऽद्भिर् मधुरो रसः क्रियते न स्नेहः तथा सैन्धवे वह्निनापि नोष्णत्वम् आरभ्यते ॥ ५ अयं च भूतानां संनिवेशो ऽदृष्टप्रभावकृत एव स च संनिवेशः कार्यदर्शनेनोन्नेयः ॥ ६ तेन यत्र कार्यं दृश्यते तत्र कल्प्यते यथा लवणे उष्णत्वाद् अग्निर् विष्यन्दित्वाच्च जलमनुमीयते ॥ ७ आगमवेदनीयश्चायमर्थो नात्रास्मद्विधानां कल्पनाः प्रसरन्ति ॥ ८ एतेन यदुच्यते तोयवत् पृथिव्यादयोऽपि किमिति पृथग्रसान्तरं न कुर्वन्ति तथा तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति तदपि भूतस्वभावापर्यनुयोगाद् एव प्रत्युक्तम् ॥ ९ इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणरूपम् उच्यते तेन नीरसानाम् अपि हि दहनादीनां कारणत्वमुपपन्नम् एव व्युत्पादितम् ॥ १० रसभेदं दृष्टान्तेन साधयन्नाह एवम् इत्यादि ॥ ११ रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणादुपपन्नं षड्भ्यः कारणेभ्यः षट् कार्याणि भवन्तीति युक्तमेवेति भावः ॥ १२ भूतानां यथा नानावर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात् तथा रसानाम् अपीति ॥ १३ भूतानां यथोक्तानाम् अतिरेकविशेषहेतुम् आह षडृतुकत्वाद् इत्यादि ॥ १४ षडृतुकत्वेन कालो नानाहेमन्तादिरूपतया कंचिद्भूतविशेषं क्वचिद्वर्धयति स चात्मकार्यं रसं पुष्टं करोति यथा हेमन्तकाले सोमगुणातिरेको भवति शिशिरे वाय्वाकाशातिरेकः एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादाव् अपि भूतोत्कर्षो ज्ञेयः षडृतुकाच्चेति चकारेणाहोरात्रकृतो ऽपि भूतोत्कर्षो ज्ञेयः तथादृष्टकृतश् च तेन हेमन्तादाव् अपि रसान्तरोत्पादः क्वचिद्वस्तुन्य् उपपन्नो भवति ॥ १५ यद्यपि च ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं यदुक्तं ताव् एताव् अर्कवायू इत्यादि तथापि बीजाङ्कुरकार्यकारणभाववत् संसारानादितयैव भूतविशेषर्त्वोः कार्यकारणभावो वाच्यः ॥ १६] तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः लाघवादुत्प्लवनत्वाच् च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः पृथिव्या गुरुत्वान् निम्नगत्वाच् चोदकस्य व्यामिश्रात्मकाः पुनर् उभयतोभाजः
somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam // 1 evaṃ lavaṇe 'py apāṃ kāraṇatvaṃ jñeyam // 2 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva // 3 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam // 4 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate // 5 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ // 6 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate // 7 āgamavedanīyaścāyamartho nātrāsmadvidhānāṃ kalpanāḥ prasaranti // 8 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam // 9 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam // 10 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi // 11 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ // 12 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti // 13 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi // 14 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati // 15 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ // 16] tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ
Sanskrit only: no published translation is held for this verse.
भूतविशेषकृतं रसानां धर्मान्तरम् आह तत्रेत्यादि ॥ १ प्रायेणेति न सर्वे ॥ २ रसा इति रसयुक्तानि द्रव्याणि ॥ ३ प्लवनत्वादिति गतिमत्त्वात् यद्यपि गतिरधोऽपि स्यात् तथापि लघुत्वपरिगतगतिर् इह वायोरूर्ध्वम् एव गमनं करोति यथा शाल्मलीतुलानाम् ॥ ४ हेत्वन्तरम् आह ऊर्ध्वज्वलनत्वाच् चाग्नेरिति अग्नेर् अप्यूर्ध्वगतित्वाद् इत्यर्थः ॥ ५ निम्नगत्वमधोगत्वमेव ॥ ६] तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः
bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi // 1 prāyeṇeti na sarve // 2 rasā iti rasayuktāni dravyāṇi // 3 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyorūrdhvam eva gamanaṃ karoti yathā śālmalītulānām // 4 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ // 5 nimnagatvamadhogatvameva // 6] teṣāṃ ṣaṇṇāṃ rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ
Sanskrit only: no published translation is held for this verse.
विपाकस्य प्रभावो विपाकप्रभावः विपाकश्च कटूनां कटुरेव रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः अयं च वक्ष्यमाणे सर्वत्र हेतुः ॥ १ चरणादीनां साक्षाद्ग्रहणं तत्रैव प्रायो वातविकारभावात् ॥ २ अत्र च विपाकप्रभावादिकथनम् उदाहरणार्थं तेन मधुरादिषु विपाकादिकार्यम् उन्नेयम् ॥ ३ ग्लपयति हर्षक्षयं करोति ॥ ४ पीडनो व्रणपीडनः ॥ ५ शरीरक्लेदस्योपयोक्तेति आचूषकः ॥ ६ शीतोऽलघुश्च इत्यकारप्रश्लेषाद् अलघुः ॥ ७ अवगृह्णातीति बद्धानि करोति ॥ ८] इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति
vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ // 1 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt // 2 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam // 3 glapayati harṣakṣayaṃ karoti // 4 pīḍano vraṇapīḍanaḥ // 5 śarīrakledasyopayokteti ācūṣakaḥ // 6 śīto'laghuśca ityakārapraśleṣād alaghuḥ // 7 avagṛhṇātīti baddhāni karoti // 8] ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti
Sanskrit only: no published translation is held for this verse.
पृथक्त्वेनेति एकैकशो मात्रशः ॥ १ एकत्वेनेति एकीकृत्य समुदायमात्रश इत्यर्थः ॥ २ मात्रश इति मात्रया ॥ ३ तच्चैकीकरणं द्वित्र्यादिभिः सर्वैर् ज्ञेयम् ॥ ४ अध्यात्मलोकस्येति सर्वप्राणिजनस्य ॥ ५ अन्यथेति अमात्रया ॥ ६] शीतं वीर्येण यद् द्रव्यं मधुरं रसपाकयोः । तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः
pṛthaktveneti ekaikaśo mātraśaḥ // 1 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ // 2 mātraśa iti mātrayā // 3 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam // 4 adhyātmalokasyeti sarvaprāṇijanasya // 5 anyatheti amātrayā // 6] śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ / tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ
Sanskrit only: no published translation is held for this verse.
सम्प्रति रसद्वारेणैव द्रव्याणां वीर्यम् आह शीतमित्यादि ॥ १ यद्द्रव्यं रसे पाके च मधुरं तच्छीतं वीर्येण ज्ञेयं तथा तयोरिति रसपाकयोर् यदम्लं द्रव्यं तदुष्णं वीर्येण तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकम् उक्तं तच्चोष्णं वीर्येण भवति इति शेषः ॥ २ किंवा यच्चोष्णं कटुकं तयोः इति पाठः ॥ ३ तत्र यद्रसतो मधुरं तद् वीर्यतः शीतमिति वक्तव्ये यद् रसपाकयोर् इति करोति तन् मधुररसोचितपाकस्यैव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थम् एवम् अम्लकटुकयोर् अपि वाच्यम् ॥ ४] तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः । वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते
samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi // 1 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ // 2 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ // 3 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam // 4] teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ / vīryato'viparītānāṃ pākataścopadekṣyate
Sanskrit only: no published translation is held for this verse.
यथा पयो यथा सर्पिर् यथा वा चव्यचित्रकौ । एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्
yathā payo yathā sarpir yathā vā cavyacitrakau / evamādīni cānyāni nirdiśedrasato bhiṣak
Sanskrit only: no published translation is held for this verse.
सम्प्रति मधुरतिक्तकषायाणां शीतत्वं तथा कट्वम्ललवणानां चोष्णत्वं तथा कटुतिक्तकषायाणां चावृष्यत्वमित्यादयो रसद्वारेण द्रव्याणां ये गुणा उक्तास्तदपवादम् आह तेषामित्यादि ॥ १ रसोपदेशेन रसगुणकथनद्वारेण द्रव्याणां यः शीतोष्णादिगुणसंग्रहः कृतः स वीर्यतः पाकतश्चाविपरीतानां तेषां वक्ष्यमाणक्षीरादिद्रव्याणामेव निर्देष्टुं शक्यः न तु रसविपरीतवीर्यविपाकानाम् इत्यर्थः ॥ २ तेष्वविपरीतवीर्यविपाकान् उपदिशत्युपदेक्ष्यत इत्यादि ॥ ३ उपदेक्ष्यत इति यथा पय इत्यादिभिः सम्बध्यते ॥ ४ एतानि हि द्रव्यगुणकथनप्रसङ्गे रसाविपरीतवीर्यविपाकतयैवोपदेष्टव्यानीति रसानुरूपगुणत्वम् एषां ज्ञातव्यम् इत्यर्थः ॥ ५ इदं तूदाहरणैकदेशमात्रं तेनापराण्य् अप्येवंजातीयान्य् उदाहर्तव्यानीत्याह एवमादीनीत्यादि ॥ ६ एवमादीनि एवंप्रकाराणि गोधूमादीनीत्यर्थः ॥ ७] मधुरं किंचिदुष्णं स्यात् कषायं तिक्तमेव च । यथा महत्पञ्चमूलं यथाब्जानूपम् आमिषम्
samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi // 1 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ // 2 teṣvaviparītavīryavipākān upadiśatyupadekṣyata ityādi // 3 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate // 4 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ // 5 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi // 6 evamādīni evaṃprakārāṇi godhūmādīnītyarthaḥ // 7] madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca / yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam
Sanskrit only: no published translation is held for this verse.
लवणं सैन्धवं नोष्णमम्लमामलकं तथा । अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते
lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā / arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate
Sanskrit only: no published translation is held for this verse.
सम्प्रति यत्र विरुद्धवीर्यत्वेन रसेनोष्णत्वादि न निर्देश्यं तद् आह मधुरम् इत्यादि ॥ १ किंचित् कषायं चोष्णं तिक्तं चोष्णम् इति योजना कषायतिक्तलवणानाम् उदाहरणम् असूत्रितानाम् अपि प्रकरणात् कृतम् ॥ २ महत्पञ्चमूलं बिल्वादिपञ्चमूलम् इह ॥ ३ एतच्च तिक्तस्य कषायस्य चोष्णतायाम् उदाहरणम् अब्जानूपामिषं तु मधुरस्योष्णवीर्यत्वे ॥ ४] किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च । यथा कपित्थं संग्राहि भेदि चामलकं तथा
samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi // 1 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam // 2 mahatpañcamūlaṃ bilvādipañcamūlam iha // 3 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve // 4] kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca / yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ tathā
Sanskrit only: no published translation is held for this verse.
पिप्पली नागरं वृष्यं कटु चावृष्यमुच्यते । कषायः स्तम्भनः शीतः सो ऽभयायाम् अतोऽन्यथा
pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate / kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā
Sanskrit only: no published translation is held for this verse.
तस्माद्रसोपदेशेन न सर्वं द्रव्यम् आदिशेत् । दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम्
tasmādrasopadeśena na sarvaṃ dravyam ādiśet / dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram
Sanskrit only: no published translation is held for this verse.
वीर्यप्रसङ्गाद् अन्यम् अप्यम्लादीनां विरुद्धगुणम् आह किंचिद् इत्यादि ॥ १ अभयायाम् अतोऽन्यथेति अभयायां कषायो रसो भेदनश् चोष्णश् चेत्यर्थः ॥ २] रौक्ष्यात्कषायो रूक्षाणामुत्तमो मध्यमः कटुः । तिक्तोऽवरस्तथोष्णानाम् उष्णत्वाल्लवणः परः
vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi // 1 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ // 2] raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ / tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ
Sanskrit only: no published translation is held for this verse.
मध्योऽम्लः कटुकश् चान्त्यः स्निग्धानां मधुरः परः । मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते
madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ / madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate
Sanskrit only: no published translation is held for this verse.
मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः । स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः
madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ / svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ
Sanskrit only: no published translation is held for this verse.
अम्लात्कटुस् ततस्तिक्तो लघुत्वाद् उत्तमोत्तमः । केचिल् लघूनाम् अवरमिच्छन्ति लवणं रसम्
amlātkaṭus tatastikto laghutvād uttamottamaḥ / kecil laghūnām avaramicchanti lavaṇaṃ rasam
Sanskrit only: no published translation is held for this verse.
रौक्ष्याद् इत्यादि ॥ १ रौक्ष्येण कषाय उत्तम इति रूक्षतमः तिक्तो रूक्षः कटुस्तु मध्यो रूक्षतरः एवम् अन्यत्रापि ॥ २ कटुकश्चान्त्य इति अवर इत्यर्थः ॥ ३ एवं लवणश्चान्त्य इति अवर इत्यर्थः ॥ ४ लवणोऽवर इति गुरुत्वेनेत्यर्थः ॥ ५ अम्लात् कटुर् इत्यादौ अम्लात्कटुर्लघुः ततः कटुकाद् उत्तमात् तिक्तो लघुत्वेनोत्तमोत्तमः उत्तमात् कटुकादुत्तम उत्तमोत्तमः ॥ ६ एकीयमतमाह केचिद् इत्यादि ॥ ७ एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह गौरव इत्यादि ॥ ८ एतेन गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवे ऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य लाघवे चावर इत्यनेनाम्लादपि लघुनो ऽल्पं लाघवं लवणस्य स्वीकरोति ॥ ९ न च वाच्यम् अम्ले पृथिवी कारणं लवणे तु तोयं ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति यतो न निवेशेन गौरवलाघवे शक्येते ऽवधारयितुं तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कषायाद्गुरुर्भवति ॥ १०] परं चातो विपाकानां लक्षणं सम्प्रवक्ष्यते
raukṣyād ityādi // 1 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi // 2 kaṭukaścāntya iti avara ityarthaḥ // 3 evaṃ lavaṇaścāntya iti avara ityarthaḥ // 4 lavaṇo'vara iti gurutvenetyarthaḥ // 5 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ // 6 ekīyamatamāha kecid ityādi // 7 ekīyamataṃ vacanabhaṅgyā svīkurvannāha gaurava ityādi // 8 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti // 9 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati // 10] paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate
Sanskrit only: no published translation is held for this verse.
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा
kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ / amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā
Sanskrit only: no published translation is held for this verse.
सम्प्रति विपाकस्यापि रसरूपत्वाल्लक्षणम् आह परमित्यादि ॥ १ प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति ॥ २ कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते यतो न रसाः पच्यन्ते किंतु द्रव्यम् एव ॥ ३ लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः ॥ ४ विपाकलक्षणं तु जठराग्नियोगाद् आहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः वचनं हि । जाठरेणाग्निना योगाद् यदुदेति रसान्तरम् । आहारपरिणामान्ते स विपाकः प्रकीर्तितः ॥ ५] मधुरो लवणाम्लौ च स्निग्धभावात् त्रयो रसाः । वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः
samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi // 1 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati // 2 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva // 3 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ // 4 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi / jāṭhareṇāgninā yogād yadudeti rasāntaram / āhārapariṇāmānte sa vipākaḥ prakīrtitaḥ // 5] madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ / vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ
Sanskrit only: no published translation is held for this verse.
कटुतिक्तकषायास्तु रूक्षभावात् त्रयो रसाः । दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्
kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ / duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām
Sanskrit only: no published translation is held for this verse.
सम्प्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर् वातमूत्रपुरीषान् अवरोधकत्वे तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुम् आह मधुर इत्यादि ॥ १ अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद् वातपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः ॥ २ तेन मधुराम्लपाकयोरेतत्समानं लक्षणम् ॥ ३ एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः ॥ ४] शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः । मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः
samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi // 1 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ // 2 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam // 3 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ // 4] śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ / madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ
Sanskrit only: no published translation is held for this verse.
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः । तेषां गुरुः स्यान्मधुरः कटुकाम्लाव् अतो ऽन्यथा
pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ / teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā
Sanskrit only: no published translation is held for this verse.
सम्प्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुम् आह शुक्रहेत्यादि ॥ १ अतोऽन्यथेति लघुः ॥ २] विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति । द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत्
samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi // 1 ato'nyatheti laghuḥ // 2] vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati / dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet
Sanskrit only: no published translation is held for this verse.
सम्प्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच् चोत्कृष्टत्वं यथा भवति तद् आह विपाकेत्यादि ॥ १ विपाकलक्षणस्याल्पमध्यभूयिष्ठताम् उपलक्षयेत् प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोर् इत्यर्थः ॥ २ एतेन द्रव्येषु यद् गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि ततो हेतोर् विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति ॥ ३ अत्र केचिद्ब्रुवते प्रतिरसं पाको भवति यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति केचिद् ब्रुवते बलवतां रसानामबलवन्तो रसा वशतां यान्ति ततश् चानवस्थितः पाकः ॥ ४ तत्रैतद्द्वितयमपि पाके व्यवस्थाकरणम् अनादृत्य सुश्रुतेन द्विविधः पाको मधुरः कटुश् चाङ्गीकृतः ॥ ५ द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति शेषलघुभूतातिरेकात् तु कटुकः पाको भवति यदुक्तं द्रव्येषु पच्यमानेषु येष्व् अम्बुपृथिवीगुणाः ॥ ६ निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ ७ तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ॥ ८ निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते इति ॥ ९ प्रतिरसपाके तथानवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति तेन न कश्चिद्विशेषो विपाकेन तत्र बोध्यत इति सुश्रुतेन तत्पक्षद्वयम् उपेक्षितमिति साधु कृतम् ॥ १० तृतीयाम्लपाकनिरासस्तु दोषम् आवहति यतो व्रीहिकुलत्थादीनाम् अम्लपाकतया पित्तकर्तृत्वमुपलभ्यते अथ मन्यसे व्रीह्यादेर् उष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं तन्न मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते रसविपाकाभ्याम् एकस्य वीर्यस्य बाधनीयत्वात् ॥ ११ किंच अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते यदि तु तद् उष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात् दृश्यते च व्रीहिभक्षणाद् अम्लोद्गारादिनाम्लगुणभूयिष्ठतैवेति ॥ १२ किंच पृथिवीसोमगुणातिरेकान् मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर् भवतीति पक्षे यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः ॥ १३ अथवा तन्त्रकारयोः किम् अनयोर् अनेन वचनमात्रविरोधेन कर्तव्यं यतो यदम्लपाकं चरको ब्रूते तत्सुश्रुतेन वीर्योष्णम् इति कृत्वा समाधीयते तेन न कश्चिद् द्रव्यगुणे विरोधः ॥ १४ यत्तु सुश्रुतेऽम्लपाकनिरासार्थं दूषणम् उच्यते पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तदनभ्युपगमादेव निरस्तम् ॥ १५ ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं नैवं सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत् पित्तरक्तादिकारकं विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् सृष्टविण्मूत्र इत्यादिना लक्षणेन लक्ष्यत एव ॥ १६ एतेन यदुच्यते लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत्किं तेनोपदिष्टेनेति तन्निरस्तं भवति ॥ १७ यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् ॥ १८ अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः ॥ १९ अन्ये त्व् एतद्दोषभयाल् लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति ॥ २० तन्न कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर् मधुरः इति जतूकर्णवचनात् ॥ २१ नच वाच्यं कस्मात् त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति यतो भूतस्वभाव एवैषः येन मधुरादयस् त्रय एव भवन्ति भूतस्वभावाश् चापर्यनुयोज्याः ॥ २२ ननु यश्च रसविपरीतः पाको यथा लवणस्य मधुरः तिक्तकषाययोश् च कटुः स उच्यतां यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः तत्कथने किं प्रयोजनं यतो रसगुणैर् एव तत्र विपाकगुणोऽपि ज्ञास्यते ॥ २३ नैवं येन लवणादिवद् विसदृशरसान्तरोत्पादशङ्कानिरारासार्थम् अपि तत्रानुगुणोऽपि विपाको वक्तव्य एव विपाकजश्च रस आहारपरिणामान्ते भवति प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः तेन पिप्पल्याः कटुकरसत्वम् आदौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम् ॥ २४ तथा यत्र विपाकस्य रसाः समानगुणतयानुगुणा भवन्ति तत्र बलवत् कार्यं भवति विपर्यये तु दुर्बलम् इति ज्ञेयम् ॥ २५ एतच्च पाकत्रयं द्रव्यनियतं तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नम् एव तत्र ह्य् अविशेषेण सर्वेषामेव रसानाम् अवस्थावशात् त्रयः पाका वाच्याः अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः इत्यादिना ग्रन्थेन ॥ २६] मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् । वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः
samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi // 1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ // 2 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati // 3 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ // 4 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ // 5 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ // 6 nirvartante'dhikāstatra pāko madhura ucyate // 7 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu // 8 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti // 9 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam // 10 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyāmapi satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt // 11 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti // 12 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ // 13 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ // 14 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdhamamlatāmupaiti ityādinā tadanabhyupagamādeva nirastam // 15 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvamanupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva // 16 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati // 17 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam // 18 anayā diśā tiktakaṣāyayorapi pūrvapakṣaparihāraḥ // 19 anye tv etaddoṣabhayāl lavaṇo'pyamlaṃ pacyata iti vyākhyānayanti lavaṇastathetyatra tathāśabdena viprakṛṣṭasyāmlamityasya karṣaṇāditi // 20 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt // 21 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ // 22 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate // 23 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam // 24 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam // 25 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena // 26] mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam / vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ
Sanskrit only: no published translation is held for this verse.
शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया । नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया
śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā / nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā
Sanskrit only: no published translation is held for this verse.
एकीयमतेन वीर्यलक्षणम् आह मृद्वित्यादि ॥ १ एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम् ॥ २ वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति तेन तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति यथा पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयतीति तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनम् अभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिर् इत्यादि ॥ ३ यदुक्तं सुश्रुते एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद् रसम् अभिभूयात्मकर्म दर्शयन्ति इत्यादि ॥ ४ शीतोष्णवीर्यवादिमतं त्व् अग्नीषोमीयत्वाज् जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् ॥ ५ उक्तं च । नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ । व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् वा ॥ ६ एतच्च मतद्वयम् अप्याचार्यस्य परिभाषासिद्धमनुमतमेव येनोत्तरत्र रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते इत्यादौ पारिभाषिकम् एव वीर्यं निर्देक्ष्यति ॥ ७ पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह वीर्यं त्व् इत्यादि ॥ ८ वीर्यमिति शक्तिः ॥ ९ येनेति रसेन वा विपाकेन वा प्रभावेन वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते तस्यां क्रियायां तद् रसादि वीर्यम् ॥ १० अत एवोक्तं सुश्रुते येन कुर्वन्ति तद्वीर्यम् इति ॥ ११ अत्रैव लोकप्रसिद्धाम् उपपत्तिम् आह नावीर्यम् इत्यादि ॥ १२ अवीर्यम् अशक्तमित्यर्थः ॥ १३ वीर्यकृतेति वीर्यवता कृता वीर्यकृता ॥ १४] रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया । वीर्यं यावद् अधीवासान् निपाताच्चोपलभ्यते
ekīyamatena vīryalakṣaṇam āha mṛdvityādi // 1 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam // 2 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi // 3 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi // 4 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam // 5 uktaṃ ca / nānātmakamapi dravyamagnīṣomau mahābalau / vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā // 6 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati // 7 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi // 8 vīryamiti śaktiḥ // 9 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam // 10 ata evoktaṃ suśrute yena kurvanti tadvīryam iti // 11 atraiva lokaprasiddhām upapattim āha nāvīryam ityādi // 12 avīryam aśaktamityarthaḥ // 13 vīryakṛteti vīryavatā kṛtā vīryakṛtā // 14] raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā / vīryaṃ yāvad adhīvāsān nipātāccopalabhyate
Sanskrit only: no published translation is held for this verse.
रसादीनामेकद्रव्यनिविष्टानां भेदेन नार्थं लक्षणमाह रसो निपात इत्यादि ॥ १ निपात इति रसनायोगे ॥ २ कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः रसोपयोगे सति यो ऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः तेन विपाको निश्चीयते ॥ ३ अधीवासः सहावस्थानं यावद् अधीवासादिति यावच्छरीरनिवासात् एतच्च विपाकात्पूर्वं निपाताच्चोर्ध्वं ज्ञेयम् ॥ ४ निपाताच्चेति शरीरसंयोगमात्रात् तेन किंचिद् वीर्यम् अधीवासाद् उपलभ्यते यथानूपमांसादेर् उष्णत्वं किंचिच् च निपातादेव लभ्यते यथा मरीचादीनां तीक्ष्णत्वादि किंचिच् च निपाताधीवासाभ्यां यथा मरीचादीनामेव ॥ ५ एतेन रसः प्रत्यक्षेणैव विपाकस्तु नित्यपरोक्षः तत्कार्येणानुमीयते वीर्यं तु किंचिदनुमानेन यथा सैन्धवगतं शैत्यम् आनूपमांसगतं वा औष्ण्यं किंचिच् च वीर्यं प्रत्यक्षेणैव यथा राजिकागतम् औष्ण्यं घ्राणेन पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः ॥ ६ एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम् ॥ ७ एतच्च यथासम्भवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम् ॥ ८ द्रव्याणामिति उपयुज्यमानद्रव्याणाम् ॥ ९ तच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव ॥ १०] रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते । विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः
rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi // 1 nipāta iti rasanāyoge // 2 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate // 3 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam // 4 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva // 5 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ // 6 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam // 7 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam // 8 dravyāṇāmiti upayujyamānadravyāṇām // 9 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva // 10] rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate / viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ
Sanskrit only: no published translation is held for this verse.
प्रभावलक्षणमाह रसवीर्येत्यादि ॥ १ सामान्यमिति तुल्यता ॥ २ विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम् । सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत् प्रभावकृतम् इति सूचयति अत एवोक्तंप्रभावो ऽचिन्त्य उच्यते रसवीर्यविपाककार्यतयाचिन्त्य इत्यर्थः ॥ ३] कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः । तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम्
prabhāvalakṣaṇamāha rasavīryetyādi // 1 sāmānyamiti tulyatā // 2 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām / sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ // 3] kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ / tadvaddantī prabhāvāttu virecayati mānavam
Sanskrit only: no published translation is held for this verse.
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम् । ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम्
viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam / ūrdhvānulomikaṃ yacca tatprabhāvaprabhāvitam
Sanskrit only: no published translation is held for this verse.
मणीनां धारणीयानां कर्म यद्विविधात्मकम् । तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते
maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam / tat prabhāvakṛtaṃ teṣāṃ prabhāvo'cintya ucyate
Sanskrit only: no published translation is held for this verse.
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः । किंचिद्रसेन कुरुते कर्म वीर्येण चापरम्
samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ / kiṃcidrasena kurute karma vīryeṇa cāparam
Sanskrit only: no published translation is held for this verse.
द्रव्यं गुणेन पाकेन प्रभावेण च किंचन । रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति
dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana / rasaṃ vipākastau vīryaṃ prabhāvastānapohati
Sanskrit only: no published translation is held for this verse.
अस्यैव दुरभिगमत्वाद् उदाहरणानि बहून्याह कटुक इत्यादिना ॥ १ तद्वदिति चित्रकसमानगुणा ॥ २ विषघ्नमुक्तम् इति तस्माद्दंष्ट्राविषं मौलम् इत्यादिना ॥ ३ ऊर्ध्वानुलोमिकमिति युगपद् उभयभागहरं किंवा ऊर्ध्वहरं तथानुलोमहरं च ॥ ४ कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि ॥ ५ एतच्चोदाहरणमात्रं तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं प्रभाव इति ज्ञेयम् ॥ ६ प्रभावश्चेह द्रव्यशक्तिर् अभिप्रेता सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव यतः शक्तिर्हि स्वरूपमेव भावानां नातिरिक्तं किंचिद्धर्मान्तरम् एवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यम् यथोक्तं द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाम् इत्यादि ॥ ७ न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात् जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम् ॥ ८ नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिर् उक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सान्तर्भागत्वात् प्रभावाद् एव भवति ॥ ९ एवम् ऊर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथने ऽपि वाच्यम् ॥ १०] षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्
asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā // 1 tadvaditi citrakasamānaguṇā // 2 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā // 3 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca // 4 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi // 5 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam // 6 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi // 7 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam // 8 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati // 9 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam // 10] ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param
Sanskrit only: no published translation is held for this verse.
स्नेहनप्रीणनाह्लादमार्दवैर् उपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुवंल्लिम्पतीव च
snehanaprīṇanāhlādamārdavair upalabhyate / mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca
Sanskrit only: no published translation is held for this verse.
दन्तहर्षान् मुखास्रावात् स्वेदनान्मुखबोधनात् । विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्
dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt / vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet
Sanskrit only: no published translation is held for this verse.
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे । यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च
pralīyan kledaviṣyandamārdavaṃ kurute mukhe / yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca
Sanskrit only: no published translation is held for this verse.
संवेजयेद्यो रसानां निपाते तुदतीव च । विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः
saṃvejayedyo rasānāṃ nipāte tudatīva ca / vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ
Sanskrit only: no published translation is held for this verse.
प्रतिहन्ति निपाते यो रसनं स्वदते न च । स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः
pratihanti nipāte yo rasanaṃ svadate na ca / sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ
Sanskrit only: no published translation is held for this verse.
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः । बध्नातीव च यः कण्ठं कषायः स विकास्यपि
vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ / badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi
Sanskrit only: no published translation is held for this verse.
विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः ॥ १ प्रलीयन्निति विलीनो भवन् ॥ २ संस्रावयतीति संस्रावी ॥ ३ विकासीति हृदयविकसनशील उक्तं हि सुश्रुते हृदयं पीडयति इति ॥ ४] एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच भगवन् श्रुतमेतदवितथम् अर्थसम्पद्युक्तं भगवतो यथावद् द्रव्यगुणकर्माधिकारे वचः परं त्व् आहारविकाराणां वैरोधिकानां लक्षणम् अनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति
vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ // 1 pralīyanniti vilīno bhavan // 2 saṃsrāvayatīti saṃsrāvī // 3 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti // 4] evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti
Sanskrit only: no published translation is held for this verse.
सम्प्रति विरुद्धाहारं वक्तुम् आहैवम् इत्यादि ॥ १ शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव ॥ २ यत् किंचिद्दोषमास्राव्य इत्यादि वैरोधिकलक्षणं ज्ञेयम् ॥ ३] तम् उवाच भगवान् आत्रेयः देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधम् आपद्यन्ते परस्परगुणविरुद्धानि कानिचित् कानिचित् संयोगात् संस्काराद् अपराणि देशकालमात्रादिभिश् चापराणि तथा स्वभावादपराणि
samprati viruddhāhāraṃ vaktum āhaivam ityādi // 1 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva // 2 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam // 3] tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi
Sanskrit only: no published translation is held for this verse.
देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि ॥ १ विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति दूषयन्तीति यावत् ॥ २ यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरुद्धानि कानिचिद् इत्यादि ॥ ३ तत्र परस्परगुणविरुद्धानि यथा न मत्स्यान् पयसाभ्यवहरेत् उभयं ह्य् एतद् इत्यादिनोक्तानि ॥ ४ संयोगविरुद्धं यथा तदेव निकुचं पक्वं न माष इत्यादिनोक्तं यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धम् उच्यते तत् संयोगविरुद्धम् ॥ ५ मत्स्यपयसोस् तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम् । विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिद् एव द्रव्यप्रभावाद् भवति तेन षड्रसाहारोपयोगे मधुराम्लयोर् विरुद्धशीतोष्णवीर्ययोर् विरोधो नोद्भावनीयः ॥ ६ संस्कारतो विरुद्धं यथा न कपोतान् सर्षपतैलभृष्टान् इत्यादि ॥ ७ देशो द्विविधः भूमिः शरीरं च ॥ ८ तत्र भूमिविरुद्धं यथा तदेव भस्मपांशुपरिध्वस्तम् किंवा यत् किंचिदगोचरभृतं तद्देशविरुद्धं शरीरविरुद्धं यथा उष्णार्तस्य मधु मरणाय ॥ ९ कालविरुद्धं यथा पर्युषिता काकमाची मरणाय ॥ १० मात्राविरुद्धं यथा समधृते मधुसर्पिषी मरणाय ॥ ११ आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम् ॥ १२ स्वभावविरुद्धं यथा विषम् ॥ १३] तत्र यान्याहारमधिकृत्य भूयिष्ठम् उपयुज्यन्ते तेषाम् एकदेशं वैरोधिकम् अधिकृत्योपदेक्ष्यामः न मत्स्यान् पयसा सहाभ्यवहरेत् उभयं ह्य् एतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च
dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi // 1 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat // 2 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi // 3 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni // 4 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham // 5 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam / virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ // 6 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi // 7 deśo dvividhaḥ bhūmiḥ śarīraṃ ca // 8 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya // 9 kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya // 10 mātrāviruddhaṃ yathā samadhṛte madhusarpiṣī maraṇāya // 11 ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam // 12 svabhāvaviruddhaṃ yathā viṣam // 13] tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca
Sanskrit only: no published translation is held for this verse.
तन्निशम्यात्रेयवचनमनु भद्रकाप्यो ऽग्निवेशम् उवाच सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेद् अन्यत्रैकस्माच् चिलिचिमात् स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति
tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi
Sanskrit only: no published translation is held for this verse.
वैरोधिकमधिकृत्येति वैरोधिकम् उद्दिश्य ॥ १ शीतोष्णत्वादिति पयः शीतम् उष्णवीर्याश्च मत्स्याः शेषं मधुरत्वादि समानम् ॥ २ एतच्च द्रव्यप्रभावादेव विरोधि ॥ ३ स पुनः शकली इत्यादिना नान्दिनिः इति ख्यातो मत्स्य उच्यते ॥ ४] नेति भगवानात्रेयः सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरान् एतान् व्याधीन् उपजनयत्यामविषम् उदीरयति च । ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर् विरूढधान्यैर्वा नैकध्यमद्यात् तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यम् अथवा मरणमाप्नोति । न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान् मधुपयोभ्यां सहाभ्यवहरेत् तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनाम् अन्यतमं प्राप्नोत्यथवा मरणमिति । न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् । न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम् एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति । तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् । तथाम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् । तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः । पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति । हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति । पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति । उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य । बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति । मयूरमांसम् एरण्डसीसकावसक्तम् एरण्डाग्निप्लुष्टम् एरण्डतैलयुक्तं सद्यो व्यापादयति । हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय । मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय । मधु चोष्णम् उष्णार्तस्य च मधु मरणाय । मधुसर्पिषी समधृते चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पीत्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि । इत्येतद्यथाप्रश्नम् अभिनिर्दिष्टं भवतीति
vairodhikamadhikṛtyeti vairodhikam uddiśya // 1 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam // 2 etacca dravyaprabhāvādeva virodhi // 3 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate // 4] neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavaharedviśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca / grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti / na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti / na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt / na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti / tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt / tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham / tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ / padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati / hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati / pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati / upodikā tilakalkasiddhā heturatīsārasya / balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati / mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati / hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya / matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya / madhu coṣṇam uṣṇārtasya ca madhu maraṇāya / madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni / ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti
Sanskrit only: no published translation is held for this verse.
ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि ॥ १ कलमूकतेति कलमूकता अव्यक्तवचनता ॥ २ पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः पौष्करं पुष्करत्रत्ररूपं शाकं रोहिणी कटुरोहिणी ॥ ३ धमनीप्रतिचयः सिराजग्रन्थिः ॥ ४ जातुशाकं वंशपत्त्रिका ॥ ५ वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम् एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम् । तथाम्लेत्यादौ अम्लग्रहणेन लब्धानाप्य् अम्लाम्रातकादीनाम् अभिधानं विशेषविरोधसूचनार्थम् ॥ ६ सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं सर्वशब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं भवति हि प्रकरणाद् एकदेशे ऽपि सर्वव्यपदेशः यथा सर्वान् भोजयेदिति किंवा सर्वग्रहणम् अम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम् ॥ ७ पयसेति तृतीययेव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं तेन अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम् ॥ ८ वनको वनकोद्रवः ॥ ९ पद्मोत्तरिका कुसुम्भः ॥ १० शार्कर इति मैरेयविशेषणम् ॥ ११ वातं चातिकोपयतीति वचनेन पित्तकफाव् अल्पं कोपयतीति बोधयति एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम् ॥ १२ हारिद्रको हरिताल इति ख्यातः पक्षी ॥ १३ बलाका वारुण्या सह विरुद्धा तथा कुल्माषैश्च बलाका विरुद्धा ॥ १४ एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं सीसको हि भटित्रकरणकाष्ठम् उच्यते ॥ १५ तदेवेति हारिद्रकमांसम् ॥ १६ मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं किंवा निस्तालनं वसा जतूकर्णेऽप्युक्तं मत्स्यवसा सिद्धाः पिप्पल्यः इति ॥ १७ काकमाची मधु चेति संयोगविरुद्धम् ॥ १८ भासो गोष्ठकुक्कुटः ॥ १९] यत् किंचिद् दोषमास्राव्य न निर्हरति कायतः । आहारजातं तत् सर्वमहितायोपपद्यते
grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni // 1 kalamūkateti kalamūkatā avyaktavacanatā // 2 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī // 3 dhamanīpraticayaḥ sirājagranthiḥ // 4 jātuśākaṃ vaṃśapattrikā // 5 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam / tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham // 6 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham // 7 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām // 8 vanako vanakodravaḥ // 9 padmottarikā kusumbhaḥ // 10 śārkara iti maireyaviśeṣaṇam // 11 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam // 12 hāridrako haritāla iti khyātaḥ pakṣī // 13 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā // 14 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate // 15 tadeveti hāridrakamāṃsam // 16 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti // 17 kākamācī madhu ceti saṃyogaviruddham // 18 bhāso goṣṭhakukkuṭaḥ // 19] yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ / āhārajātaṃ tat sarvamahitāyopapadyate
Sanskrit only: no published translation is held for this verse.
अनुक्तवैरोधिकसंग्रहार्थमाह यत् किंचिदित्यादि ॥ १ आह्रियत इत्याहारो भेषजमपि ॥ २ दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति ॥ ३ अनेन वमनविरेचनद्रव्याणि निराकरोति तानि हि दोषानास्राव्य निर्हरन्ति ॥ ४] यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः । संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि
anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi // 1 āhriyata ityāhāro bheṣajamapi // 2 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti // 3 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti // 4] yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ / saṃskārato vīryataśca koṣṭhāvasthākramairapi
Sanskrit only: no published translation is held for this verse.
परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत्
parihāropacārābhyāṃ pākāt saṃyogato'pi ca / viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat
Sanskrit only: no published translation is held for this verse.
विरुद्धं देशतस्तावद् रूक्षतीक्ष्णादि धन्वनि । आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते
viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani / ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate
Sanskrit only: no published translation is held for this verse.
कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम् । शीते काले तथोष्णे च कटुकोष्णादिसेवनम्
kālato'pi viruddhaṃ yacchītarūkṣādisevanam / śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam
Sanskrit only: no published translation is held for this verse.
विरुद्धमनले तद्वदन्नपानं चतुर्विधे । मधुसर्पिः समधृतं मात्रया तद्विरुध्यते
viruddhamanale tadvadannapānaṃ caturvidhe / madhusarpiḥ samadhṛtaṃ mātrayā tadvirudhyate
Sanskrit only: no published translation is held for this verse.
कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् । यत्तत्सात्म्यविरुद्धं तु विरुद्धं त्व् अनिलादिभिः
kaṭukoṣṇādisātmyasya svāduśītādisevanam / yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ
Sanskrit only: no published translation is held for this verse.
या समानगुणाभ्यासविरुद्धान्नौषधक्रिया । संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत्
yā samānaguṇābhyāsaviruddhānnauṣadhakriyā / saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet
Sanskrit only: no published translation is held for this verse.
एरण्डसीसकासक्तं शिखिमांसं यथैव हि । विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम्
eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi / viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam
Sanskrit only: no published translation is held for this verse.
तत्संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते । क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यम् अभेदनम्
tatsaṃyojyoṣṇavīryeṇa dravyeṇa saha sevyate / krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam
Sanskrit only: no published translation is held for this verse.
मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु । एतत्कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया
mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu / etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā
Sanskrit only: no published translation is held for this verse.
श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् । निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम्
śramavyavāyavyāyāmasaktasyānilakopanam / nidrālasasyālasasya bhojanaṃ śleṣmakopanam
Sanskrit only: no published translation is held for this verse.
यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश् चाबुभुक्षितः । तच्च क्रमविरुद्धं स्याद्यच् चातिक्षुद्वशानुगः
yaccānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ / tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ
Sanskrit only: no published translation is held for this verse.
परिहारविरुद्धं तु वराहादीन्निषेव्य यत् । सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते
parihāraviruddhaṃ tu varāhādīnniṣevya yat / sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate
Sanskrit only: no published translation is held for this verse.
विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् । अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत् । संयोगतो विरुद्धं तद्यथाम्लं पयसा सह
viruddhaṃ pākataścāpi duṣṭadurdārusādhitam / apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet / saṃyogato viruddhaṃ tadyathāmlaṃ payasā saha
Sanskrit only: no published translation is held for this verse.
अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते । सम्पद्विरुद्धं तद्विद्याद् असंजातरसं तु यत्
amanorucitaṃ yacca hṛdviruddhaṃ taducyate / sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat
Sanskrit only: no published translation is held for this verse.
अतिक्रान्तरसं वापि विपन्नरसमेव वा । ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत् । तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम्
atikrāntarasaṃ vāpi vipannarasameva vā / jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat / tadevaṃvidhamannaṃ syādviruddhamupayojitam
Sanskrit only: no published translation is held for this verse.
यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति स च व्यक्त एव ॥ १] षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगंदराणाम् । मूर्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव
yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva // 1] ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagaṃdarāṇām / mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva
Sanskrit only: no published translation is held for this verse.
किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् । संतानदोषस्य तथैव मृत्योर् विरुद्धमन्नं प्रवदन्ति हेतुम्
kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām / saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum
Sanskrit only: no published translation is held for this verse.
षाण्ढ्यं नपुंसकता ॥ १ संतानदोषो मृतवत्सत्वादिः ॥ २ एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते तेन लशुनस्य क्षीरेण पानं क्वचिन् न विरोधि यदुक्तं साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ॥ ३ क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत् तथा मूलकस्वरसं क्षीरम् इत्यादिप्रयोगेषून्नेयम् ॥ ४ किंवा अनेकद्रव्यसंयोगाद् अत्र विरोधिनाम् अविरोधः विरोधिमात्रसंयोग एव विरोधी भवति ॥ ५ यत्तु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगे ऽविरोधार्थमुक्तम् अपक्वगमनादि तन्मधुनो द्रव्यान्तरसंयोगे ऽप्युष्णसम्बन्धत्वे विरोधित्वोपदर्शनार्थं यतो विषान्वयं मधु विषस्य चोष्णविरोधि ॥ ६ लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते ॥ ७] एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति । तद्यथा वमनं विरेचनं च तद्विरोधिनां च द्रव्याणां संशमनार्थम् उपयोगः तथाविधैश्च द्रव्यैः पूर्वम् अभिसंस्कारः शरीरस्येति
ṣāṇḍhyaṃ napuṃsakatā // 1 saṃtānadoṣo mṛtavatsatvādiḥ // 2 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam // 3 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam // 4 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati // 5 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi // 6 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate // 7] eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti / tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti
Sanskrit only: no published translation is held for this verse.
विरुद्धाशनजान् रोगान् प्रतिहन्ति विवेचनम् । वमनं शमनं चैव पूर्वं वा हितसेवनम्
viruddhāśanajān rogān pratihanti vivecanam / vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam
Sanskrit only: no published translation is held for this verse.
सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च । स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्
sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca / snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet
Sanskrit only: no published translation is held for this verse.
तद्विरोधिनामिति षाण्ढ्यादिहराणाम् ॥ १ तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः ॥ २ अभिसंस्कार इति सततोपयोगेन शरीरभावनम् ॥ ३ किंवा तथाविधैर् इति रसायनप्रयोगैः ॥ ४ एतच्चानागताबाधचिकित्सितं ज्ञेयम् ॥ ५] मतिरासीन्महर्षीणां या या रसविनिश्चये । द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया
tadvirodhināmiti ṣāṇḍhyādiharāṇām // 1 tathāvidhairiti viruddhāhārajavyādhiviruddhaiḥ // 2 abhisaṃskāra iti satatopayogena śarīrabhāvanam // 3 kiṃvā tathāvidhair iti rasāyanaprayogaiḥ // 4 etaccānāgatābādhacikitsitaṃ jñeyam // 5] matirāsīnmaharṣīṇāṃ yā yā rasaviniścaye / dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā
Sanskrit only: no published translation is held for this verse.
कारणं रससंख्याया रसानुरसलक्षणम् । परादीनां गुणानां च लक्षणानि पृथक्पृथक्
kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam / parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak
Sanskrit only: no published translation is held for this verse.
पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना । ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः
pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā / ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ
Sanskrit only: no published translation is held for this verse.
षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः । उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि
ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ / uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi
Sanskrit only: no published translation is held for this verse.
प्रवरावरमध्यत्वं रसानां गौरवादिषु । पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः
pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu / pākaprabhāvayorliṅgaṃ vīryasaṃkhyāviniścayaḥ
Sanskrit only: no published translation is held for this verse.
षण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् । यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत्
ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam / yadyadvirudhyate yasmādyena yatkāri caiva yat
Sanskrit only: no published translation is held for this verse.
वैरोधिकनिमित्तानां व्याधीनामौषधं च यत् । आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः
vairodhikanimittānāṃ vyādhīnāmauṣadhaṃ ca yat / ātreyabhadrakāpyīye tat sarvamavadanmuniḥ
Sanskrit only: no published translation is held for this verse.
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ
Sanskrit only: no published translation is held for this verse.