शरादीनां च मतौ दीर्घो भवति सञ्ज्ञायां विषये । शरावती । वंशावती । शर । वंश । धूम । अहि । कपि । मणि । मुनि । शुचि । हनु । शरादिः । सञ्ज्ञायाम् (*८,२।११) इति मतोर्वत्वम् । यवादित्वात् व्रीह्यादिभ्यो न भवति ॥ इको वहे ऽपीलोः
śarādīnāṃ ca matau dīrgho bhavati sañjñāyāṃ viṣaye / śarāvatī / vaṃśāvatī / śara / vaṃśa / dhūma / ahi / kapi / maṇi / muni / śuci / hanu / śarādiḥ / sañjñāyām (*8,2.11) iti matorvatvam / yavāditvāt vrīhyādibhyo na bhavati // iko vahe 'pīloḥ
Sanskrit only: no published translation is held for this verse.
इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति । ऋषीवहम् । कपीवहम् । मुनीवहम् । इकः इति किम् ? पिण्डवहम् । अपीलोः इति किम् ? पीलुवहम् । अपील्वादीनाम् इति वक्तव्यम् । इह मा भूत्, चारुवहम् ॥ उपसर्गस्य घञ्यमनुष्ये बहुलम्
igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati / ṛṣīvaham / kapīvaham / munīvaham / ikaḥ iti kim ? piṇḍavaham / apīloḥ iti kim ? pīluvaham / apīlvādīnām iti vaktavyam / iha mā bhūt, cāruvaham // upasargasya ghañyamanuṣye bahulam
Sanskrit only: no published translation is held for this verse.
उपसर्गस्य घञन्ते उत्तरपदे अमनुष्ये ऽभिधेये बहुलं दीर्घो भवति । वीक्लेदः । वीमार्गः । अपामार्गः । न च भवति । प्रसेवः । प्रसारः । सादकारयोः कृत्रिमे दीर्घो भवति । प्रासादः । प्राकारः । कृत्रिमे इति किम् ? प्रसादः । प्रकारः । वेशादिषु विभाषा दीर्घो भवति । प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । अमनुष्ये इति किम् ? निषादो मनुष्यः ॥ इकः काशे
upasargasya ghañante uttarapade amanuṣye 'bhidheye bahulaṃ dīrgho bhavati / vīkledaḥ / vīmārgaḥ / apāmārgaḥ / na ca bhavati / prasevaḥ / prasāraḥ / sādakārayoḥ kṛtrime dīrgho bhavati / prāsādaḥ / prākāraḥ / kṛtrime iti kim ? prasādaḥ / prakāraḥ / veśādiṣu vibhāṣā dīrgho bhavati / prativeśaḥ, pratīveśaḥ / pratirodhaḥ, pratīrodhaḥ / amanuṣye iti kim ? niṣādo manuṣyaḥ // ikaḥ kāśe
Sanskrit only: no published translation is held for this verse.
दस् ति
das ti
Sanskrit only: no published translation is held for this verse.
दा इत्य् एतस्य यः तकारादिर् आदेशः तस्मिन् परतः इगन्तस्य+उपसर्गस्य दीर्घो भवति । नीत्तम् । वीत्तम् । परीत्तम् । अच उपसर्गात् तः (*७,४।४७) इत्य् अन्तस्य यद्य् अपि तकारः क्रियते तथापि चर्त्वस्याश्रयात् सिद्धत्वम् इति तकारादिर् भवति । इकः इत्य् एव, प्रत्तम् । अवत्तम् । दः इति किम् ? वितीर्णम् । नितीर्णम् । ति इति किम् ? सुदत्तम् ॥ अष्टनः सञ्ज्ञायाम्
dā ity etasya yaḥ takārādir ādeśaḥ tasmin parataḥ igantasya+upasargasya dīrgho bhavati / nīttam / vīttam / parīttam / aca upasargāt taḥ (*7,4.47) ity antasya yady api takāraḥ kriyate tathāpi cartvasyāśrayāt siddhatvam iti takārādir bhavati / ikaḥ ity eva, prattam / avattam / daḥ iti kim ? vitīrṇam / nitīrṇam / ti iti kim ? sudattam // aṣṭanaḥ sañjñāyām
Sanskrit only: no published translation is held for this verse.
अष्टन् इत्य् एतस्य उत्तरपदे सञ्ज्ञायां दीर्घो भवति । अष्टावक्रः । अष्टाबन्धुरः । अष्टापदम् । सञ्ज्ञायाम् इति किम् ? अष्टपुत्रः । अष्टभार्यः ॥ छन्दसि च
aṣṭan ity etasya uttarapade sañjñāyāṃ dīrgho bhavati / aṣṭāvakraḥ / aṣṭābandhuraḥ / aṣṭāpadam / sañjñāyām iti kim ? aṣṭaputraḥ / aṣṭabhāryaḥ // chandasi ca
Sanskrit only: no published translation is held for this verse.
छन्दसि विषये ऽष्टनः उत्तरपदे दीर्घो भवति । आग्नेयमष्टाकपालं निर्वपेत् चरुम् । अष्टाहिरण्या दक्षिणा । अष्टापदी देवता सुमती । अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादो ऽन्यतरस्याम् (*४,१।८) इति ङीप् । गवि च युक्ते भाषायामाष्टनो दीर्घो भवति इति वक्तव्यम् । अष्टागवम् शकटम् ॥ चितेः कपि
chandasi viṣaye 'ṣṭanaḥ uttarapade dīrgho bhavati / āgneyamaṣṭākapālaṃ nirvapet carum / aṣṭāhiraṇyā dakṣiṇā / aṣṭāpadī devatā sumatī / aṣṭau pādau asyāḥ iti bahuvrīhau pādasya lope kṛte pādo 'nyatarasyām (*4,1.8) iti ṅīp / gavi ca yukte bhāṣāyāmāṣṭano dīrgho bhavati iti vaktavyam / aṣṭāgavam śakaṭam // citeḥ kapi
Sanskrit only: no published translation is held for this verse.
चितिशब्दस्य कपि परतः दीर्घो भवति । एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ विश्वस्य वसु-राटोः
citiśabdasya kapi parataḥ dīrgho bhavati / ekacitīkaḥ / dvicitīkaḥ / tricitīkaḥ // viśvasya vasu-rāṭoḥ
Sanskrit only: no published translation is held for this verse.
विश्वशब्दस्य वसु राट् इत्य् एतयोः उत्तरपदयोः दिर्घ आदेशो भवति । विश्वावसुः । विश्वाराट् । राट् इति विकारनिर्देशो यत्र अस्य एतद् रूपं तत्र+एव यथा स्यात् । इह न भवति, विश्वराजौ । विश्वराजः ॥ नरे सञ्ज्ञायाम्
viśvaśabdasya vasu rāṭ ity etayoḥ uttarapadayoḥ dirgha ādeśo bhavati / viśvāvasuḥ / viśvārāṭ / rāṭ iti vikāranirdeśo yatra asya etad rūpaṃ tatra+eva yathā syāt / iha na bhavati, viśvarājau / viśvarājaḥ // nare sañjñāyām
Sanskrit only: no published translation is held for this verse.
मित्रे चर्षौ
mitre carṣau
Sanskrit only: no published translation is held for this verse.
मित्रे च+उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति । विश्वामित्रो नाम ऋषिः । ऋषौ इति किम् ? विश्वमित्रो माणवकः ॥ मन्त्रे सोम-अश्व-इन्द्रिय-विश्वदेव्यस्य मतौ
mitre ca+uttarapade ṛṣāvabhidheye viśvasya dīrgho bhavati / viśvāmitro nāma ṛṣiḥ / ṛṣau iti kim ? viśvamitro māṇavakaḥ // mantre soma-aśva-indriya-viśvadevyasya matau
Sanskrit only: no published translation is held for this verse.
मन्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्य् एतेषां मतुप्प्रत्यये परतः दीर्थो भवति । सोमावती । अश्ववती । इन्द्रियावती । विश्वदेव्यावती ॥ ओषधेश् च विभक्ताव् अप्रथमायाम्
manraviṣaye soma aśva indriya viśvadevya ity eteṣāṃ matuppratyaye parataḥ dīrtho bhavati / somāvatī / aśvavatī / indriyāvatī / viśvadevyāvatī // oṣadheś ca vibhaktāv aprathamāyām
Sanskrit only: no published translation is held for this verse.
मन्त्रे इति वर्तते । ओषधिशब्दस्य विभक्ताव् अप्रथमायां परतः दीर्घो भवति । ओषधीभिरपीतत् । नमः पृथिव्यै नम ओषधीभ्यः । विभक्तौ इति किम् ? ओषधिपते । अप्रथमायाम् इति किम् ? स्थिरेयमस्त्वोषधिः ॥ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
mantre iti vartate / oṣadhiśabdasya vibhaktāv aprathamāyāṃ parataḥ dīrgho bhavati / oṣadhībhirapītat / namaḥ pṛthivyai nama oṣadhībhyaḥ / vibhaktau iti kim ? oṣadhipate / aprathamāyām iti kim ? sthireyamastvoṣadhiḥ // ṛci tunughamakṣutaṅkutroruṣyāṇām
Sanskrit only: no published translation is held for this verse.
ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्य् एषां दीर्घो भवति । आ तू न इन्द्र वृत्रहन् । नु - नू करणे । घ - उत वा घा स्यालात् । मक्षु - मक्षू गोमन्तमीमहे । तङ् - भरता जातवेदसम् । तङ् इति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन+इह न भवति, शृणोत ग्रावाणः । कु - कूमनः । त्र - अत्रा गौः । उरुष्य - उरुष्या णो ॥ इकः सुञि
ṛci viṣaye tu nu gha makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati / ā tū na indra vṛtrahan / nu - nū karaṇe / gha - uta vā ghā syālāt / makṣu - makṣū gomantamīmahe / taṅ - bharatā jātavedasam / taṅ iti thādeśasya ṅītvapakṣe grahaṇaṃ, tena+iha na bhavati, śṛṇota grāvāṇaḥ / ku - kūmanaḥ / tra - atrā gauḥ / uruṣya - uruṣyā ṇo // ikaḥ suñi
Sanskrit only: no published translation is held for this verse.
सुञ् निपातो गृह्यते । इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति । अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये । सुञः (*८,३।१०७) इति षत्वम्, नश्च धातुस्थोरुषुभ्यः (*८,४।२७) इति णत्वम् ॥ द्व्यचो ऽतस्तिङः
suñ nipāto gṛhyate / igantaraya suñi parato mantraviṣaye dīrgho bhavati / abhī ṣu ṇaḥ sakhīnām / ūrdhva ū ṣu ṇa ūtaye / suñaḥ (*8,3.107) iti ṣatvam, naśca dhātusthoruṣubhyaḥ (*8,4.27) iti ṇatvam // dvyaco 'tastiṅaḥ
Sanskrit only: no published translation is held for this verse.
निपातस्य च
nipātasya ca
Sanskrit only: no published translation is held for this verse.
ऋचि इत्य् एव । निपातस्य च ऋग्विषये दीर्ग्ः आदेशो भवति । एवा ते । अच्छा ॥ अन्येषाम् अपि दृश्यते
ṛci ity eva / nipātasya ca ṛgviṣaye dīrgḥ ādeśo bhavati / evā te / acchā // anyeṣām api dṛśyate
Sanskrit only: no published translation is held for this verse.
अन्येषाम् अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः । यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तद् अनेन कर्तव्यम् । केशाकेशि । कचाकचि । जलाषाट् । नारकः पूरुषः । शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु । श्वादन्तः । श्वादंष्ट्रः । श्वाकर्णः । श्वाकुन्दः । श्वावराहः । श्वापुच्छः । श्वापदः ॥ चौ
anyeṣām api dīrgho dṛśyate, sa śiṣṭaprayogādanugantavyaḥ / yasya dīrghatvaṃ vihitaṃ, dṛśyate ca prayoge, tad anena kartavyam / keśākeśi / kacākaci / jalāṣāṭ / nārakaḥ pūruṣaḥ / śuno dantadaṃṣṭrākarṇakundavarāhapucchapadeṣu / śvādantaḥ / śvādaṃṣṭraḥ / śvākarṇaḥ / śvākundaḥ / śvāvarāhaḥ / śvāpucchaḥ / śvāpadaḥ // cau
Sanskrit only: no published translation is held for this verse.
चौ परतः पूर्वपदस्य दीर्घो भवति । चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे । अन्तरङ्गो ऽपि यणादेशो दीर्घविधानसामर्थ्यान् न प्रवर्तते ॥ सम्प्रसारणस्य
cau parataḥ pūrvapadasya dīrgho bhavati / cau iti añcatirluptanakārākāro gṛhyate / dadhīcaḥ paśya / dadhīcā / dadhīce / madhūcaḥ paśya / madhūcā / madhūce / antaraṅgo 'pi yaṇādeśo dīrghavidhānasāmarthyān na pravartate // samprasāraṇasya
Sanskrit only: no published translation is held for this verse.