------------------ ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते -"चित्पतिस्त्वा पुनातु" "वाक्पतिस्त्वा पुनातु" "देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः"इति । तत्र तृतीयमन्त्रशेषः ऽ अच्छिद्रेण ऽ - इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते । कुतः । निराकाङ्क्षत्वात् । न हि"चित्पतिस्त्वा पुनातु""वाक्पतिस्त्वा पुनातु"इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति - इति प्राप्ते - ब्रूमः- ऽ मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्याऽकाङ्क्षास्ति ऽ इति । ऽ पवित्रेण रश्मिभिः ऽ इत्युक्तं करणत्वं हि क्रियामपेक्षते । क्रिया च ऽ पुनातु ऽ इत्येषा त्रिष्वपि मन्त्रेष्वेका । तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षे ऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति । तस्मात् - अस्त्यनुषङ्गः
------------------ jyotiṣṭome dīkṣāprakaraṇe paṭhyate -"citpatistvā punātu" "vākpatistvā punātu" "devastvā savitā punātvācchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ"iti | tatra tṛtīyamantraśeṣaḥ ' acchidreṇa ' - ityādibhāgaḥ prathamadvitīyayormantrayornānuṣajyate | kutaḥ | nirākāṅkṣatvāt | na hi"citpatistvā punātu""vākpatistvā punātu"ityanayoḥ śeṣiṇoḥ saṃpūrṇavākyayoḥ kāciccheṣākāṅkṣāsti - iti prāpte - brūmaḥ- ' mā bhūccheṣiṇorākāṅkṣā, tathāpi śeṣasyā'kāṅkṣāsti ' iti | ' pavitreṇa raśmibhiḥ ' ityuktaṃ karaṇatvaṃ hi kriyāmapekṣate | kriyā ca ' punātu ' ityeṣā triṣvapi mantreṣvekā | tayā kriyayā saṃbaddhaḥ śeṣaḥ kriyādvārā tṛtīyamantre nirapekṣe 'pi yathānveti, tathā pūrvayorapyanvetumarhati | tasmāt - astyanuṣaṅgaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.