------------------ काम्यकर्माण्येवं श्रूयन्ते - ऽचित्रया यजेत पशुकामःऽ ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामःऽ इति । तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि । यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् । मैवम् । वैषम्यात् । अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते । ऽचित्रया त्वन्यदेहो ऽवश्यमुत्पाद्यतेऽ इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति । अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् । अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् । न । प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् । तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम्
------------------ kāmyakarmāṇyevaṃ śrūyante - 'citrayā yajeta paśukāmaḥ' aindramekādaśakapālaṃ nivapetprajākāmaḥ' iti | tatra-yathā svargaphalasyā'muṣmikatvaṃ niyatam, evaṃ paśvādiphalasyāpi | yadi svargaheturjyotiṣṭomo dehāntarasyotpādakaḥ, tarhi citrādirapi tathāstu iti cet | maivam | vaiṣamyāt | asmindehe svargasya bhoktupraśakyatvādaśrutāpyanyadehospattirarthāpattyā kalpyate | 'citrayā tvanyadeho 'vaśyamutpādyate' iti niyamo na śrutaḥ, nāpi kiṃcittasya kalpakamasti | anenāpi dehena paśvādiphalasya bhoktuṃ śakyatvāt | asmindehe pratigrahādidṛṣṭopāyamantareṇa paśvādyalābhādvaidhacitrādiphalamāmuṣmikameva- iti cet | na | pratigrahādeḥ pratibandhanivṛttāvupayuktatvāt | tasmāt- asati pratibandhe phalamaihikam, sati tvāmuṣmikam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.