ध्यानमिति ध्यानशब्दस्तु उपलक्षणार्थः, समापत्त्यप्रमाणानामपि ग्रहणं भवति । यथातृतीयबोधिसत्त्वभूमावुक्तवत्- "सो ऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतो र्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसंपद्य विहरति । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् । सुखं न कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते- उपेक्षकः स्मृतिमान् । सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति । स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति ।" इति, एतानि चत्वारि ध्यानानि । चतस्त्र आरूप्यसमापत्तयस्तु- तद्यथा- "स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति । स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति । स सर्वश आकिंचन्यायतनसमतिक्रमान्नैव संज्ञा नासंज्ञापि इति संज्ञानासंज्ञायतनमुपसंपद्य विहरति ।" इमाश्चतस्त्र आरूप्यसमापत्तयः । चत्वारो ऽप्रमाणास्तु एवम्- "स मैत्रीसहगतेन चित्तेन विपुलेन महदतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति । एवं करुणासहगतेन चित्तेन । मुदितासहगतेन चित्तेन । उपेक्षासहगेतन चित्तेन विहरति ।" पञ्चाभिज्ञास्तु, तद्यथा- "सो ऽनेकविधां ऋद्धिविधिं प्रत्यनुभवति । पृथिवीमपि कम्पयति । एको ऽपि भूत्वा बहुधा भवति । बहुधापि भूत्वैको भवति । आविर्भावं तिरोभावमपि प्रत्यनुभवति । तिरः कुडयं तिरःप्राकारं पर्वतमप्यसज्जन् गच्छति तद्यथापि नाम आकाशे । आकाशे ऽपि पर्यङ्केन क्रामति तद्यथापि नाम पक्षिशकुनिः । पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नाम उदके । उदके ऽप्यमज्जन् गच्छति तद्यथापि पृथिव्याम् । धूमयति प्रज्वलति, तद्यथापि नाम महानग्निस्कन्धः । स्वकायादपि महावारिधारा उत्सृजति तद्यथापि नाम महामेघः । याभिर्वारिधाराभिरयं त्रिसाहस्त्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितो ऽग्निना एकज्वालीभूतो निर्वाप्यते । इमावपि चन्द्रसूर्यावेवंमहर्द्धिको एवंमहानुभावो पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकमपि कायेन वशं वर्तयति ।" इत्येते ऋद्धयभिज्ञाः । "स दिव्येन श्रोत्रधातुना [विशुद्धेना] तिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति दिव्यान् मानुष्यकान्, सूक्ष्मानौदारिकांश्च । ये दूरे ऽन्तिके वा अन्तशो दंशमशककीटमक्षिकाणामपि शब्दान् शृणोति । [एषा दिव्या श्रोत्राभिज्ञा] ॥" "स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । सरागं चित्तं सरागचित्तमिति यथाभूतं प्रजानाति । विरागं चित्तं विरागचित्तमिति प्रजानाति । सदोषं, विगतदोषं, समोहं, विगतमोहं, सक्लेशं, निःक्लेशं, परीत्तं, विपुलं, महदतं, अप्रमाणं, संक्षिप्तं, [विस्तीर्णं], समाहितं, असमाहितं, विमुक्तं, अविमुक्तं, साङ्गनम्, अनङ्गनम्, औदारिकं चित्तमौदारिकचित्तमिति यथाभूतं प्रजानाति । अनौदारिकं चित्तमनौदारिकं चित्तमिति यथाभूतं प्रजानाति । इति परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । [इत्येषा परचित्तज्ञानाभिज्ञा] ॥" "सो ऽनेकविधं पूर्वनिवासमनुस्मरति । एकामपि जातिमनुस्मरति । द्वे तिस्त्रञ्चतस्त्रः पञ्च दश विंशतिः त्रिंशतं चत्वारिंशतं पञ्चाशतं जातिशत[सहस्त्र]मनुस्मरति । अनेकान्यपि जातिशतानि । [अनेकान्यपि जातिसहस्त्राणि] अनेकान्यपि जातिशतसहस्त्राणि । संवर्तकल्पमपि विवर्तकल्पमपि । अनेकानपि संवर्तविवर्तकल्पानप्यनुस्मरति । कल्पशतमपि कल्पसहस्त्रमपि कल्पशतसहस्त्रमपि कल्पकोटीमपि कल्पकोटीशतमपि कल्पकोटीसहस्त्रमपि कल्पकोटीशतसहस्रमपि यावदनेकान्यपि कल्पकोटीनियुतशतसहस्राण्यनुस्मरति-अमुन्नाहमासं एवंनामा । एवंगोत्रः एवंजातिः एवमाहार एवमायुःप्रमाणः एवंचिरस्थितिकः एवं सुखदुःखप्रतिसंवेदी । सो ऽहं ततश्च्युतो ऽत्रोपपन्नः । ततश्च्युत इहोपपन्नः । इति साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वनिवासमनुस्मरित । [एषा पूर्वनिवासानुस्मृत्यभिज्ञा] ॥" "स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् प्रणीतान् हीनान् । यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति- इमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागताः आर्याणामपवादका मिथ्यादृष्टयः मिथ्यादृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनिरयेषूपपद्यन्ते । इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता वाक्सुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः । सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणात्सुगतौ स्वर्गे देवलोकेषूपपद्यन्त इति [प्रजानाति । एवं] दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमनुष्येण (च्यवमानानुपपद्यमानान्) साकारं सोद्देशं सनिमित्तं सत्त्वान् पश्यति । यथाकर्मोपगतान् सत्त्वान् यथाभूतान् प्रजानाति । स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठते । न च तेषां वशेनोपपद्यते ऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते । तत्कस्य हेतो? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः ॥" अत एव अस्यां भूमौ बोधिसत्त्वे ध्यानम् अभिज्ञाश्च सम्भवन्ति कथं सदा लौकिकरागद्वेषपरिक्षयः? चपदं तु अनुक्तसङ्ग्रहार्थम्, इति तस्य मोहस्यापि परिक्षयो भवति- कथम् इति, इदमपि यथा सूत्रे- "स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति ॥ तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति । सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति । दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति । तस्य अस्य प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्त्राणि ॥॥पेयालं॥॥।अनुपचयं मिथ्यारागः प्रहाणं गच्छति, अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति ।" इत्युक्तम् । अतस्तस्य रागो द्वेषो मोहश्च परिक्षीणो भवति । कथं हि ते सदा लौकिककामरागात् उपहन्तुं समर्था भविष्यन्तीति यथा- "इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम्", इत्युक्तम् । अतः स जिनपुत्रो लौकिककामरागान् उपहन्तुं समर्थो भविष्यति । एवम् अस्य बोधिसत्त्वस्य तृतीयबोधिसत्त्वभूमौ विशुद्धक्षान्तिपारमिताध्यानापरिमाणसमापत्यभिज्ञा रागादिपरिक्षयस्य च निश्चितप्राप्तिर्भविष्यतीत्युक्त्वा अधुना तु क्षान्तिपारमितापर्यन्तं पारमितात्रयाश्रयविशेषं सम्भारस्वभावं फलपरिसिद्धिव्यवस्थां च प्रकाशयितुम् आख्यायते- इमे हि दानादिमयाः त्रिधर्मा गृहिभ्य उक्ताः सुगतैस्तु भूयः । त एव पुण्येत्यपि संभृता हि सम्बुद्धरूपात्मककायहेतुः
dhyānamiti dhyānaśabdastu upalakṣaṇārthaḥ, samāpattyapramāṇānāmapi grahaṇaṃ bhavati / yathātṛtīyabodhisattvabhūmāvuktavat- "so 'syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattiheto rviviktaṃ kāmairviviktaṃ pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati / sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasaṃpadya viharati / sa prītervirāgādupekṣako viharati smṛtimān saṃprajānan / sukhaṃ na kāyena pratisaṃvedayati yattadāryā ācakṣante- upekṣakaḥ smṛtimān / sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamusaṃpadya viharati / sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati /" iti, etāni catvāri dhyānāni / catastra ārūpyasamāpattayastu- tadyathā- "sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasaṃpadya viharati / sa sarvaśa ākāśānantyāyatanasamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati / sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati / sa sarvaśa ākiṃcanyāyatanasamatikramānnaiva saṃjñā nāsaṃjñāpi iti saṃjñānāsaṃjñāyatanamupasaṃpadya viharati /" imāścatastra ārūpyasamāpattayaḥ / catvāro 'pramāṇāstu evam- "sa maitrīsahagatena cittena vipulena mahadatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati / evaṃ karuṇāsahagatena cittena / muditāsahagatena cittena / upekṣāsahagetana cittena viharati /" pañcābhijñāstu, tadyathā- "so 'nekavidhāṃ ṛddhividhiṃ pratyanubhavati / pṛthivīmapi kampayati / eko 'pi bhūtvā bahudhā bhavati / bahudhāpi bhūtvaiko bhavati / āvirbhāvaṃ tirobhāvamapi pratyanubhavati / tiraḥ kuḍayaṃ tiraḥprākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe / ākāśe 'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ / pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake / udake 'pyamajjan gacchati tadyathāpi pṛthivyām / dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ / svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ / yābhirvāridhārābhirayaṃ trisāhastramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito 'gninā ekajvālībhūto nirvāpyate / imāvapi candrasūryāvevaṃmaharddhiko evaṃmahānubhāvo pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokamapi kāyena vaśaṃ vartayati /" ityete ṛddhayabhijñāḥ / "sa divyena śrotradhātunā [viśuddhenā] tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyakān, sūkṣmānaudārikāṃśca / ye dūre 'ntike vā antaśo daṃśamaśakakīṭamakṣikāṇāmapi śabdān śṛṇoti / [eṣā divyā śrotrābhijñā] //" "sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti / virāgaṃ cittaṃ virāgacittamiti prajānāti / sadoṣaṃ, vigatadoṣaṃ, samohaṃ, vigatamohaṃ, sakleśaṃ, niḥkleśaṃ, parīttaṃ, vipulaṃ, mahadataṃ, apramāṇaṃ, saṃkṣiptaṃ, [vistīrṇaṃ], samāhitaṃ, asamāhitaṃ, vimuktaṃ, avimuktaṃ, sāṅganam, anaṅganam, audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti / anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti / iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti / [ityeṣā paracittajñānābhijñā] //" "so 'nekavidhaṃ pūrvanivāsamanusmarati / ekāmapi jātimanusmarati / dve tistrañcatastraḥ pañca daśa viṃśatiḥ triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśata[sahastra]manusmarati / anekānyapi jātiśatāni / [anekānyapi jātisahastrāṇi] anekānyapi jātiśatasahastrāṇi / saṃvartakalpamapi vivartakalpamapi / anekānapi saṃvartavivartakalpānapyanusmarati / kalpaśatamapi kalpasahastramapi kalpaśatasahastramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahastramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati-amunnāhamāsaṃ evaṃnāmā / evaṃgotraḥ evaṃjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṃcirasthitikaḥ evaṃ sukhaduḥkhapratisaṃvedī / so 'haṃ tataścyuto 'tropapannaḥ / tataścyuta ihopapannaḥ / iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsamanusmarita / [eṣā pūrvanivāsānusmṛtyabhijñā] //" "sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān / yathākarmopagān sattvān yathābhūtaṃ prajānāti- ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatāḥ āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātanirayeṣūpapadyante / ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ / samyagdṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇātsugatau svarge devalokeṣūpapadyanta iti [prajānāti / evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa (cyavamānānupapadyamānān) sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati / yathākarmopagatān sattvān yathābhūtān prajānāti / sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhate / na ca teṣāṃ vaśenopapadyate 'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate / tatkasya heto? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtatiḥ //" ata eva asyāṃ bhūmau bodhisattve dhyānam abhijñāśca sambhavanti kathaṃ sadā laukikarāgadveṣaparikṣayaḥ? capadaṃ tu anuktasaṅgrahārtham, iti tasya mohasyāpi parikṣayo bhavati- katham iti, idamapi yathā sūtre- "sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati // tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti / sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti / dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti / tasya asya prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahastrāṇi ....peyālaṃ.....anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati, anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchati, anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati /" ityuktam / atastasya rāgo dveṣo mohaśca parikṣīṇo bhavati / kathaṃ hi te sadā laukikakāmarāgāt upahantuṃ samarthā bhaviṣyantīti yathā- "iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum", ityuktam / ataḥ sa jinaputro laukikakāmarāgān upahantuṃ samartho bhaviṣyati / evam asya bodhisattvasya tṛtīyabodhisattvabhūmau viśuddhakṣāntipāramitādhyānāparimāṇasamāpatyabhijñā rāgādiparikṣayasya ca niścitaprāptirbhaviṣyatītyuktvā adhunā tu kṣāntipāramitāparyantaṃ pāramitātrayāśrayaviśeṣaṃ sambhārasvabhāvaṃ phalaparisiddhivyavasthāṃ ca prakāśayitum ākhyāyate- ime hi dānādimayāḥ tridharmā gṛhibhya uktāḥ sugataistu bhūyaḥ / ta eva puṇyetyapi saṃbhṛtā hi sambuddharūpātmakakāyahetuḥ
Sanskrit only: no published translation is held for this verse.