Library·Sucaritamisra: Mimamsaslokavarttikakasika·14

Sucaritamisra: Mimamsaslokavarttikakasika 14

अर्थाक्षेपे कारणम् आह -- अपरार्थ इति। न हि धूमादिस्वरूपमात्रम् अपरार्थीभूतम् एकदेशपदास्पदं भवति। न च परस्परापेक्षयैकदेशवाचोयुक्तिर् उपपद्यते। न ह्य् अग्न्यैकदेशो धूम इति कस्यचित् प्रतिपत्तिर् अस्ति। न चागृहीते ऽग्नौ तदेकदेशतया धूमो ऽवगन्तुं शक्यते। गृहीते च तस्मिन्न् अनुमेयाभावः। अत एकदेशत्वानुपपत्त्यैव तदाश्रयः कश्चिद् एकदेश्य् अवगम्यत इति सिद्धम् इति

arthākṣepe kāraṇam āha -- aparārtha iti. na hi dhūmādisvarūpamātram aparārthībhūtam ekadeśapadāspadaṃ bhavati. na ca parasparāpekṣayaikadeśavācoyuktir upapadyate. na hy agnyaikadeśo dhūma iti kasyacit pratipattir asti. na cāgṛhīte 'gnau tadekadeśatayā dhūmo 'vagantuṃ śakyate. gṛhīte ca tasminn anumeyābhāvaḥ. ata ekadeśatvānupapattyaiva tadāśrayaḥ kaścid ekadeśy avagamyata iti siddham iti

Sanskrit only: no published translation is held for this verse.

नन्व् आक्षिप्यताम् एकदेशशब्दाभ्याम् एकदेशी। तद् एकत्वं तु कुतो वगम्यते। अतः क्वचिद् एव धूमं दृष्ट्वा क्वचिद् एकदेश्यन्तरे ऽनुमानं न स्यात्। ऐकाधिकरण्यं त्व् एकदेशयोर् न सिध्यति, अनुपादानाद् इत्य् अत आह -- स एवेति। पूर्वप्रकृतम् एकदेशवान् इति विवक्षितैकसङ्ख्यम् एकदेशिनं प्रत्यवमृशति स एवेति। स खल्व् एक एवैकदेशी गम्यगमकरूपः उभयात्मकत्वात्। तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तः, यद्द्विरूपत्वम् अर्हति। नन्व् एकत्वं नैकदेशिनो ऽनुपात्तं लभ्यत इत्य् उक्तम्। न। ज्ञातसम्बन्धस्येत्य् एकवचनेनैवोपादानात्। एकदेशिनि ह्य् अन्यपदा(?र्थैकस्यै।र्थे ए)कत्वम् एकवचनेनोपात्तं, प्रमातृपक्षे ऽपि प्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्य् आक्षिप्ते द्वितीयापेक्षाक्षणे ऽपि स एव बुद्धौ विपरिवर्तमानस् तदाश्रयत्वेनावगम्यते नान्यः। तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच् च। यथा देवदत्तस्यैकत्र करे कङ्कणम् अङ्गुलीयकं करान्तर इति न भिन्नः कराश्रयो ऽवगम्यते। अपि तर्हि देवदत्त एक एव। अतस् सिद्धम् एक एवैकदेशी गम्यगमकरूप इति

nanv ākṣipyatām ekadeśaśabdābhyām ekadeśī. tad ekatvaṃ tu kuto vagamyate. ataḥ kvacid eva dhūmaṃ dṛṣṭvā kvacid ekadeśyantare 'numānaṃ na syāt. aikādhikaraṇyaṃ tv ekadeśayor na sidhyati, anupādānād ity ata āha -- sa eveti. pūrvaprakṛtam ekadeśavān iti vivakṣitaikasaṅkhyam ekadeśinaṃ pratyavamṛśati sa eveti. sa khalv eka evaikadeśī gamyagamakarūpaḥ ubhayātmakatvāt. tasya hi tau nāma vakṣyamāṇātmānau staḥ, yaddvirūpatvam arhati. nanv ekatvaṃ naikadeśino 'nupāttaṃ labhyata ity uktam. na. jñātasambandhasyety ekavacanenaivopādānāt. ekadeśini hy anyapadā(?rthaikasyai/rthe e)katvam ekavacanenopāttaṃ, pramātṛpakṣe 'pi prathamoccaritenaikadeśaśabdena svāśraya ekadeśiny ākṣipte dvitīyāpekṣākṣaṇe 'pi sa eva buddhau viparivartamānas tadāśrayatvenāvagamyate nānyaḥ. tatparityāge kāraṇābhāvāt, tathā vyutpattidarśanāc ca. yathā devadattasyaikatra kare kaṅkaṇam aṅgulīyakaṃ karāntara iti na bhinnaḥ karāśrayo 'vagamyate. api tarhi devadatta eka eva. atas siddham eka evaikadeśī gamyagamakarūpa iti

Sanskrit only: no published translation is held for this verse.

३,२५ उभयात्मा सन् गम्यगमक इत्य् उक्तम्। ताव् एवोभयात्मानौ दर्शयति -- असिद्धेनेति। यदि ह्य् असाव् एकदेश्यसिद्ध एव स्यात् सिद्धो वा, तदा न द्विरूपतां लभते। स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धो ऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वाद् उभयोपपत्तिर् इति। आह -- अस्त्व् अर्थाद् उपात्त एकदेशी। स चैको गम्यो गमक इति। स तु कथं प्रमातृभिर् उपादातव्य इति। न च तदुपादानप्रकारः कश्चिद् भाष्यकारेणोपात्तः। अतः पुनर् अपि न्यूनत्वम् इत्य् अत आह -- आत्त इति। तत्र नाम विशेषोपादानम् आश्रीयते, यत्र विशेषविवक्षा। न त्व् इह विशेषो विवक्षितः। स ह्य् एकदेशी प्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्याम् उपात्तो भवतु। उभयथानुमानव्यवहारदर्शनाद् इति

3,25 ubhayātmā san gamyagamaka ity uktam. tāv evobhayātmānau darśayati -- asiddheneti. yadi hy asāv ekadeśyasiddha eva syāt siddho vā, tadā na dvirūpatāṃ labhate. sa tu dhūmavadādinā rūpeṇa pratyakṣasiddho 'gnimadādinā cāsiddha iti dvyātmakatvād ubhayopapattir iti. āha -- astv arthād upātta ekadeśī. sa caiko gamyo gamaka iti. sa tu kathaṃ pramātṛbhir upādātavya iti. na ca tadupādānaprakāraḥ kaścid bhāṣyakāreṇopāttaḥ. ataḥ punar api nyūnatvam ity ata āha -- ātta iti. tatra nāma viśeṣopādānam āśrīyate, yatra viśeṣavivakṣā. na tv iha viśeṣo vivakṣitaḥ. sa hy ekadeśī pramātṛvivakṣāvaśena pṛthagabhinno vaikadeśaśabdābhyām upātto bhavatu. ubhayathānumānavyavahāradarśanād iti

Sanskrit only: no published translation is held for this verse.

तम् एवोभयथा व्यवहारं दर्शयति -- अनित्य इति। निगदव्याख्यातो ग्रन्थः

tam evobhayathā vyavahāraṃ darśayati -- anitya iti. nigadavyākhyāto granthaḥ

Sanskrit only: no published translation is held for this verse.

एकदेशी गम्यो गमको भेदाभेदाभ्याम् उपात्त इति दर्शितम्। कियति पुनर् अनुमानस्य व्यापार इति भवति संशयः। भवति हि विशिष्टार्थप्रतीताव् अपि विशेषणमात्रपर्यवसायि प्रमाणम्। यथा शब्दः। स खल्व् आकृतिविशिष्टायां व्यक्तौ धियम् आदधाति, अथ चान्वयव्यतिरेकाभ्याम् आकृतिमात्रपर्यवसायीति निश्चीयते। तद् इहापि यदि तद्वद् एव विशेषणमात्रपर्यवसायि प्रमाणम् इष्यते, ततस् सिद्धसाध्यत्वम्। सिद्धं हि सम्बन्धज्ञानकाले ऽग्निमात्रम्। किं तदनुमानेन। यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टम् एवानुमानं गोचरयतीतीष्यते। तत्र सम्बन्धग्रहणाभावाद् अ(न)नुमेयत्वम्। न ह्य् अग्निमद्विशेषेण पर्वतादिनान्वितो धूमो दृष्टः। न च समस्ताग्निमत्साधारणं ३,२६ सामान्यं किञ्चित् समस्ति। तद्भावे ऽपि पुनर् अपि सिद्धसाध्यतैव। अत एवाहुः -- अनुमाभङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनः । विशेषे ऽनुगमाभावस् सामान्ये सिद्धसाध्यता ॥ इत्य् अत आह -- एकदेशेति। अयम् अभिप्रायः -- दण्ड्यादिशब्दवद् विशिष्टविषयम् एवानुमानम्। न च सम्बन्धग्रहणाभावः। सकलोपाधिपरित्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमाद् इत्य् उक्तम् अस्माभिः। असत्य् अपि सामान्ये केनचिद् एकेनोपाधिनानन्तानाम् अपि भावानां सम्बन्धो गृह्यत एव। यद्य् अपि धूमवान् अग्निमान् इति सामान्यतो ऽवगतम्, तथाप्य् अयम् असाव् इति विशेषरूपेण प्रत्यभिज्ञानात् प्रमाणविषयत्वम् अप्य् उपपन्नम् इत्य् उक्तम् एवेति। कस्मात् पुनर्विशेषणमात्रपर्यवसाय्य् एव प्रमाणं नेष्यते, अत आह -- न हीति

ekadeśī gamyo gamako bhedābhedābhyām upātta iti darśitam. kiyati punar anumānasya vyāpāra iti bhavati saṃśayaḥ. bhavati hi viśiṣṭārthapratītāv api viśeṣaṇamātraparyavasāyi pramāṇam. yathā śabdaḥ. sa khalv ākṛtiviśiṣṭāyāṃ vyaktau dhiyam ādadhāti, atha cānvayavyatirekābhyām ākṛtimātraparyavasāyīti niścīyate. tad ihāpi yadi tadvad eva viśeṣaṇamātraparyavasāyi pramāṇam iṣyate, tatas siddhasādhyatvam. siddhaṃ hi sambandhajñānakāle 'gnimātram. kiṃ tadanumānena. yadi tu dvikhaṇḍadaṇḍyādiśabdavadviśiṣṭam evānumānaṃ gocarayatītīṣyate. tatra sambandhagrahaṇābhāvād a(na)numeyatvam. na hy agnimadviśeṣeṇa parvatādinānvito dhūmo dṛṣṭaḥ. na ca samastāgnimatsādhāraṇaṃ 3,26 sāmānyaṃ kiñcit samasti. tadbhāve 'pi punar api siddhasādhyataiva. ata evāhuḥ -- anumābhaṅgapaṅke 'smin nimagnā vādidantinaḥ | viśeṣe 'nugamābhāvas sāmānye siddhasādhyatā || ity ata āha -- ekadeśeti. ayam abhiprāyaḥ -- daṇḍyādiśabdavad viśiṣṭaviṣayam evānumānam. na ca sambandhagrahaṇābhāvaḥ. sakalopādhiparityāgena dhūmavanmātrasyāgnimattayā sambandhāvagamād ity uktam asmābhiḥ. asaty api sāmānye kenacid ekenopādhinānantānām api bhāvānāṃ sambandho gṛhyata eva. yady api dhūmavān agnimān iti sāmānyato 'vagatam, tathāpy ayam asāv iti viśeṣarūpeṇa pratyabhijñānāt pramāṇaviṣayatvam apy upapannam ity uktam eveti. kasmāt punarviśeṣaṇamātraparyavasāyy eva pramāṇaṃ neṣyate, ata āha -- na hīti

Sanskrit only: no published translation is held for this verse.

असम्भवम् एव दर्शयति -- न धर्मेति। धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धम् इति भवतैवोक्तम् इति। एवम् एव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्य् आह -- तथेति

asambhavam eva darśayati -- na dharmeti. dharmamātraṃ hi sambandhagrahaṇakāle siddham iti bhavataivoktam iti. evam eva dharmimātrānumāne svatantrobhayānumāne vā siddhasādhyatā darśayitavyety āha -- tatheti

Sanskrit only: no published translation is held for this verse.

धर्मधर्म्युभयेष्व् एवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्य् आह -- एकदेशस्येति

dharmadharmyubhayeṣv evānumeyeṣu yathāsaṅkhyaṃ dūṣaṇāntarāṇy āha -- ekadeśasyeti

Sanskrit only: no published translation is held for this verse.

३,२७ एतद् एव विवृणोति -- अनित्यत्वादय इति। पक्षैकदेशो हि लिङ्गं बह्वति। न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथम् अपक्षधर्मो लिङ्गं भविष्यति। एवं ध्वनिमात्रे ऽपि स्वतन्त्रे पक्षीकृते न कृतकत्वस्य तेनानुगमश् शक्यो दर्शयितुम्। न हि यत्र यत्र कृतकत्वं तत्र तत्र ध्वनिर् इति नियमस् सम्भवति। तथोभयस्य ध्वन्यनित्यत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्य् अनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति। समधिगतं तावद् धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वम् इति

3,27 etad eva vivṛṇoti -- anityatvādaya iti. pakṣaikadeśo hi liṅgaṃ bahvati. na cānityatvākhyasya dharmasya svatantrapakṣīkṛtasya kṛtakatvaṃ dharma iti katham apakṣadharmo liṅgaṃ bhaviṣyati. evaṃ dhvanimātre 'pi svatantre pakṣīkṛte na kṛtakatvasya tenānugamaś śakyo darśayitum. na hi yatra yatra kṛtakatvaṃ tatra tatra dhvanir iti niyamas sambhavati. tathobhayasya dhvanyanityatvātmakasyobhayena pakṣadharmatvānugamātmakena na sambandha ity anāgataṃ sambandhaśabdaṃ pūrvāparābhyāṃ sambandhya tantreṇa vyākhyā kartavyeti. samadhigataṃ tāvad dharmadharmyubhayeṣāṃ vyastasamastānāṃ na sādhyatvam iti

Sanskrit only: no published translation is held for this verse.

अथ कस्माद् धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्य् अत आह -- सम्बन्ध इति। मिताव् इति साधनवाक्यम् अपदिशति। न खलु परीक्षकस् साधनवाक्ये सम्बन्धवाचिना केनचिन् नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते। न ह्य् एवं प्रयुज्यते, अग्निपर्वतयोर् अस्ति सम्बन्धः धूमवत्त्वाद् इति। नापि पर्वतस्याग्निर् इति। देशम् एव त्व् अग्न्यादिना विशिष्टम् अनुमिमाना दृश्यन्ते। यद् एवं प्रयुञ्जते, अग्निमान् पर्वत इति। सम्बन्धो ऽपि नानुमीयत इत्य् अतीतेन सम्बन्ध इति। न परं प्रतिज्ञायां नोपादीयते, उदाहरणे ऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते। न हि भवति दर्शनं, यत्र यत्र धूमस् तत्र तत्राग्निसम्बन्ध इति। भवति तु यो यो धूमवान् स सो ग्निमान् इति देश एव निदर्शनं, तद् एतद् आह -- न चापीति। इहेति मितिं प्रत्यवमृशति। एतद् उक्तं भवति -- न साधनवाक्ये सम्बन्धस् साध्यतयोपादीयते नापि दृष्टान्ततया निर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुम् उचितम् इति

atha kasmād dharmadharmisambandha eva sādhyo na bhavatīty ata āha -- sambandha iti. mitāv iti sādhanavākyam apadiśati. na khalu parīkṣakas sādhanavākye sambandhavācinā kenacin nāmnā ṣaṣṭhyā vā sambandha upādīyate. na hy evaṃ prayujyate, agniparvatayor asti sambandhaḥ dhūmavattvād iti. nāpi parvatasyāgnir iti. deśam eva tv agnyādinā viśiṣṭam anumimānā dṛśyante. yad evaṃ prayuñjate, agnimān parvata iti. sambandho 'pi nānumīyata ity atītena sambandha iti. na paraṃ pratijñāyāṃ nopādīyate, udāharaṇe 'pi na tenānugamo liṅgasya nirdiśyate. na hi bhavati darśanaṃ, yatra yatra dhūmas tatra tatrāgnisambandha iti. bhavati tu yo yo dhūmavān sa so gnimān iti deśa eva nidarśanaṃ, tad etad āha -- na cāpīti. iheti mitiṃ pratyavamṛśati. etad uktaṃ bhavati -- na sādhanavākye sambandhas sādhyatayopādīyate nāpi dṛṣṭāntatayā nirdiśyate na cāyathāpratibhāsaṃ parīkṣakāṇāṃ vaktum ucitam iti

Sanskrit only: no published translation is held for this verse.

३,२८ अपि चायं सम्बन्धस् साध्यमानस् सन्मात्रतया वा साध्यते, केनचिद् वा धर्मेण विशिष्टः। न तावद् वस्तुसत्तामात्रम् अनुमानस्य विषयः। न च पर्वतादिवत् सिद्धसाध्यरूपम् आकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत्। तस्मान् न कथञ्चित् सम्बन्धस् साध्य इत्य् आह -- न चेति। नन्व् असति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते। नास्ति नाम स प्रकारः, यदसम्बन्ध्यमान एवाग्निना पर्वतस् तद्विशिष्टो भवतीत्य् अत आह -- तस्माद् इति व्यान्तेन। न(नु) सत्यम् असति सम्बन्धे विशिष्टो न भवति, न त्व् एतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्व् अर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनः स्वतन्त्रस्येति। अत्रैव दृष्टान्तम् आह -- यथेति। दण्ड्यादिशब्दा हि दण्डादिविशिष्टम् एवाभिदधानास् सम्बन्धम् अप्य् अर्थाद् उपाददते, न त्व् अभिदधति। तद्वद् इहापि पर्वतो ऽग्निमान् इति साध्यमाने ऽर्थगृहीतो ऽग्निसम्बन्धः, न पुनस् स एव साध्यते। यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवम् अत्रापि विशिष्टे साध्यमाने नुनिष्पादी भवतीत्य् अर्थः। इदं तु चिन्तनीयम्। कथं दण्ड्यादिशब्दा विशिष्टवचना इति। मत्वर्थीयप्रत्ययान्ता हि ते। स चास्यास्मिन् नास्तीति सम्बन्धे स्मर्यते, अतस् सम्बन्ध एवात्र प्रत्ययार्थः। स च प्रधानः। प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन इति स्मृतेः। इदं हि भेदेनैवोभयोर् अभिधाने प्राधान्यप्रतिपादनार्थं वचनम्। प्रधानं च शब्दार्थः। अतस् सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम्। अपि च नागृहीतविशेषणा विशेष्यते बुद्धिर् उत्पद्यत इति विशिष्टाभिधित्सायाम् अवश्यम् भावि प्रथमतरं विशेषणाभिधानम् आपतति तत एव विशिष्टावगाहसिद्धेर् न तद्यावच्छब्दस्याभिधानशक्तिर् उपकल्पयितुं ३,२९ शक्यते। अत एवाकृतिविशिष्टव्यक्त्यभिधानम् आकृत्यधिकरणे निराकरिष्यते। किञ् च -- कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मरति। कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धो ऽभिधीयते। यदि तद्धिताभिधेयो न स्यात्। अभिधेयनिष्कर्षे हि तयोः स्मरणं, यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तदभिधाने त्वतलाव् इति। तद् यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयः, तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोर् अनुशासनम् उपपद्यते। यथा गोशब्दाभिधेयं सामान्यं गोत्वम् इति त्व् अप्रत्ययेन निष्कृष्यते। अतस् सम्बन्ध एव दण्ड्यादिशब्दानाम् अभिधेय इति साम्प्रतं कथम् उच्यते नान्तरीयकस् सम्बन्ध इति। अत्राभिधीयते -- न तावत् स्मृत्यनुसारेण सम्बन्धवाच्यत्वम् अध्यवसातुं शक्यते। शब्दानुशासनमात्रं हि तद् अस्यास्त्य् अस्मिन्न् (५।२।९४) इति, न पुनरर्थानुशासनम्। अपि च वृत्तिविग्रहयोर् अन्यथान्यथा गुणप्रधानभावो दृश्यते। यथा चित्रगुर् इति चित्राभिर् गोभिर् विशिष्टो देवदत्तादिर् एव वृत्तौ प्रधानतयावगम्यते। विग्रहे तु चित्रा गावो यस्येति गवाम् एव देवदत्तादिर् विशेषणतया गुणभूतः। ताश् च प्रधानम्। वेदे ऽपि रथन्तरसामा सोम इति। तद् यद्य् अपि स्मृतिकारेण त(द् अ)स्येति विग्रहे सम्बन्धः प्रधानतया षष्ठ्या निर्दिष्टः, तथापि गोमदादितद्धितवृत्तौ तद्वान् एव प्रधानं भवति, तथा प्रतीतेः। गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानः। पाणिनेर् अपि भगवतस् सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुम् अभिमता। वृत्तौ विगृह्यमाणायाम् अवर्जनीय एव षष्ठीप्रयोगः। तावता च तदर्थः प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिर् उपजायते। अतो न तावत् स्मृत्यनुसारेण सम्बन्धस्य वाच्यता। यत् तु प्रथमतरं विशेषणम् अभिधेयम् इति। सत्यम्। न त्व् इह सम्बन्धो विशेषणम्। दण्डो हि दण्डिनो विशेषणं न सम्बन्धः। स च प्रकृत्या प्रथमम् अभिहित एव। अत एव नानेकाभिधानशक्तिकल्पनादोषः। निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीताव् अपि विशेषणमात्रम् अभिधीयत इति युक्तम्। तत्र ह्य् एकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति। दण्ड्यादिशब्दास् तु भागवन्तः। तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यांभिन्नौ ३,३० विशेषणविशेष्याव् अभिधीयेते इति किम् अनुपपन्नम्। अतः प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टः पुरुषो दण्डिशब्देनाभिधीयते। नन्व् असति सम्बन्धे दण्डो विशेष्टुम् एव नरं न शक्नोति। सत्यम्। न त्व् एतावता सम्बन्धो वाच्यो भवति। न हि पृथिव्याम् अनवस्थिता गावो न तद्वन्तं विशिंषन्तीति पृथिव्य् अप्य् अभिधीयत इति युक्तम् अभिधातुम्। यत एव त्व् असति सम्बन्धे विशिष्टावगतिर् अनुपपन्ना, अत एव सम्बन्धो ऽप्य् अर्थाद् अन्तर्भाव्यते। न त्व् अभिधीयते। यत् तु सम्बन्धाभिधाने त्वतलोर् अनुशासनम् असति सम्बन्धवाच्यत्वे ऽनुपपन्नम् इति, तद् अयुक्तम्। न ह्य् अभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हि यस्य गुणस्य हि भावाद् इति त्व् अभिधेयनिष्कर्षार्थम् एव स्मरणम्। इतरथा त्व् अनेनैव गतार्थत्वात् कृत्तद्धितसमासेष्व् इत्य् अवचनीयम् आपद्येत। अतः प्राक् प्रतीते एकनिमित्तसम्बन्धिविशिष्टे ऽपरस्मिन् सम्बन्धिन्य् अभिहिते ऽर्थगृहीतस् सम्बन्धो नाभिधेयपक्षे निक्षिप्यते। सर्वयौगिकानाम् अपि चैषैव दिग् दर्शयितव्या। आह च -- सर्वत्र यौगिकैश् शब्दैर् द्रव्यम् एवाभिधीयते । न हि सम्बन्धवाच्यत्वं सम्भवत्य् अतिगौरवात् ॥ इति। अतो ऽनुमेयान्तरासम्भवाद् विशेषणविशेष्यभूतौ धर्मधर्मिणाव् एवानुमानसमधिगम्याव् इति ॥ ३२ -- ३३ ॥ उपसंहरति -- विशेषणेति गम्याव् इत्यन्तेन। स चायम् अङ्गाङ्गिभावः कैश्चिद् विकल्पेनाश्रितः। एवं हि मन्यन्ते। सर्वथा हि धर्ममात्रे धर्मिणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति न विशिष्टप्रमायाम्। विशिष्टता तु कदाचित् कस्यचिद् यथाभिप्रायं भवतु नाम, न किञ्चिद् दुष्यति। सर्वथा तावत् धर्मिण एव पर्वतादेर् अग्न्यादिधर्मस् तद्धर्मेणैव धूमादिनावगन्तव्यः। स तु धर्मो विशेषणभूतो विशेष्यभूतो ३,३१ वावगन्तव्य इति न कश्चिद् विशेषः। उभयथापि स्वतन्त्रानुमानाभावाद् इत्य् आह -- अङ्गेत्य् अवधार्यते ऽन्तेन ॥ ३४ -- ३५ ॥ अत्र दूषणम् आह -- अत्रेति। अयम् अभिप्रायः -- लौकिकानि हि प्रमाणानि लक्षणकारैर् अपि यथालोकम् एवानुगन्तव्यानि। न तु विपरीतम्। न ह्य् अग्निः पर्वतविशिष्ट इति लोको बुध्यते। अपि तु पर्वतो ऽग्निमान् इति। तथा स्वयम् अनुमानेन प्रतिपन्नम् अर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मिणा विशिष्टम् एव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्न्यनुमान एव धूमवत्त्वाद् अग्निमान् इति। तच् चेदम् अग्नौ देशेन विशिष्टे नुमीयमाने नोपपद्यते। विशेषणतया हि पर्वतविशिष्टो ऽग्निर् इति धर्मिण्य् उपात्ते धूमवत्त्वाद् इति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते। धर्मधर्मितयावगतस्य हेतुत्वम्। न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धम् अर्हति, गुणानां परस्परासम्बन्धात्। अतो ऽस्मात् परार्थहेतुप्रयोगविशेषाद् एव लौकिकानाम् ईदृशी प्रतिपत्तिर् उन्नीयते। यत् स्वयम् अपि धर्मविशिष्टम् एव धर्मिणं बुध्यते न विपरीतम् इति

3,28 api cāyaṃ sambandhas sādhyamānas sanmātratayā vā sādhyate, kenacid vā dharmeṇa viśiṣṭaḥ. na tāvad vastusattāmātram anumānasya viṣayaḥ. na ca parvatādivat siddhasādhyarūpam ākāradvayaṃ sambandho vahati, yenānumānasya viṣayo bhavet. tasmān na kathañcit sambandhas sādhya ity āha -- na ceti. nanv asati sambandhe viśiṣṭa eva sādhayituṃ na śakyate. nāsti nāma sa prakāraḥ, yadasambandhyamāna evāgninā parvatas tadviśiṣṭo bhavatīty ata āha -- tasmād iti vyāntena. na(nu) satyam asati sambandhe viśiṣṭo na bhavati, na tv etāvatā sambandhasādhyatā sidhyati, viśiṣṭasādhyatvānyathānupapattyaiva tv arthagṛhītā matubarthasya sambandhasya sādhyatā na punaḥ svatantrasyeti. atraiva dṛṣṭāntam āha -- yatheti. daṇḍyādiśabdā hi daṇḍādiviśiṣṭam evābhidadhānās sambandham apy arthād upādadate, na tv abhidadhati. tadvad ihāpi parvato 'gnimān iti sādhyamāne 'rthagṛhīto 'gnisambandhaḥ, na punas sa eva sādhyate. yathā daṇḍyādiśabdato viśiṣṭārthapratītau satyāṃ sambandho nāntarīyako bhavati, evam atrāpi viśiṣṭe sādhyamāne nuniṣpādī bhavatīty arthaḥ. idaṃ tu cintanīyam. kathaṃ daṇḍyādiśabdā viśiṣṭavacanā iti. matvarthīyapratyayāntā hi te. sa cāsyāsmin nāstīti sambandhe smaryate, atas sambandha evātra pratyayārthaḥ. sa ca pradhānaḥ. prakṛtipratyayau pratyayārthaṃ saha brūtaḥ prādhānyena iti smṛteḥ. idaṃ hi bhedenaivobhayor abhidhāne prādhānyapratipādanārthaṃ vacanam. pradhānaṃ ca śabdārthaḥ. atas sambandhavacanā eva daṇḍyādiśabdā iti yuktam. api ca nāgṛhītaviśeṣaṇā viśeṣyate buddhir utpadyata iti viśiṣṭābhidhitsāyām avaśyam bhāvi prathamataraṃ viśeṣaṇābhidhānam āpatati tata eva viśiṣṭāvagāhasiddher na tadyāvacchabdasyābhidhānaśaktir upakalpayituṃ 3,29 śakyate. ata evākṛtiviśiṣṭavyaktyabhidhānam ākṛtyadhikaraṇe nirākariṣyate. kiñ ca -- kṛttaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām iti smarati. kathaṃ ca tābhyāṃ taddhitavṛttau sambandho 'bhidhīyate. yadi taddhitābhidheyo na syāt. abhidheyaniṣkarṣe hi tayoḥ smaraṇaṃ, yasya guṇasya hi bhāvād dravye śabdaniveśaḥ, tadabhidhāne tvatalāv iti. tad yadi daṇḍapuruṣasambandho daṇḍiśabdasyābhidheyaḥ, tathā sati tanniṣkarṣe daṇḍitvaṃ daṇḍiteti tvatalor anuśāsanam upapadyate. yathā gośabdābhidheyaṃ sāmānyaṃ gotvam iti tv apratyayena niṣkṛṣyate. atas sambandha eva daṇḍyādiśabdānām abhidheya iti sāmprataṃ katham ucyate nāntarīyakas sambandha iti. atrābhidhīyate -- na tāvat smṛtyanusāreṇa sambandhavācyatvam adhyavasātuṃ śakyate. śabdānuśāsanamātraṃ hi tad asyāsty asminn (5.2.94) iti, na punararthānuśāsanam. api ca vṛttivigrahayor anyathānyathā guṇapradhānabhāvo dṛśyate. yathā citragur iti citrābhir gobhir viśiṣṭo devadattādir eva vṛttau pradhānatayāvagamyate. vigrahe tu citrā gāvo yasyeti gavām eva devadattādir viśeṣaṇatayā guṇabhūtaḥ. tāś ca pradhānam. vede 'pi rathantarasāmā soma iti. tad yady api smṛtikāreṇa ta(d a)syeti vigrahe sambandhaḥ pradhānatayā ṣaṣṭhyā nirdiṣṭaḥ, tathāpi gomadāditaddhitavṛttau tadvān eva pradhānaṃ bhavati, tathā pratīteḥ. gomacchabdo hi puruṣapradhāno bhāsate na sambandhapradhānaḥ. pāṇiner api bhagavatas sambandhābhidhānadvāreṇa viśiṣṭavācyataiva pratipādayitum abhimatā. vṛttau vigṛhyamāṇāyām avarjanīya eva ṣaṣṭhīprayogaḥ. tāvatā ca tadarthaḥ pradhānatayā vācyatvena nirdiṣṭa iti bhrāntir upajāyate. ato na tāvat smṛtyanusāreṇa sambandhasya vācyatā. yat tu prathamataraṃ viśeṣaṇam abhidheyam iti. satyam. na tv iha sambandho viśeṣaṇam. daṇḍo hi daṇḍino viśeṣaṇaṃ na sambandhaḥ. sa ca prakṛtyā prathamam abhihita eva. ata eva nānekābhidhānaśaktikalpanādoṣaḥ. nirbhāgaśabdeṣu hi gavādiṣu viśiṣṭapratītāv api viśeṣaṇamātram abhidhīyata iti yuktam. tatra hy ekasyaivobhayābhidhānaśaktikalpanādoṣo bhavati. daṇḍyādiśabdās tu bhāgavantaḥ. teṣu bhinnābhyāṃ prakṛtipratyayābhyāṃbhinnau 3,30 viśeṣaṇaviśeṣyāv abhidhīyete iti kim anupapannam. ataḥ prakṛtyabhihitaprathamatarāvagatadaṇḍaviśiṣṭaḥ puruṣo daṇḍiśabdenābhidhīyate. nanv asati sambandhe daṇḍo viśeṣṭum eva naraṃ na śaknoti. satyam. na tv etāvatā sambandho vācyo bhavati. na hi pṛthivyām anavasthitā gāvo na tadvantaṃ viśiṃṣantīti pṛthivy apy abhidhīyata iti yuktam abhidhātum. yata eva tv asati sambandhe viśiṣṭāvagatir anupapannā, ata eva sambandho 'py arthād antarbhāvyate. na tv abhidhīyate. yat tu sambandhābhidhāne tvatalor anuśāsanam asati sambandhavācyatve 'nupapannam iti, tad ayuktam. na hy abhidheyaniṣkarṣe gomadādiṣu bhāvapratyayānuśāsanam, api tarhi abhidheyaniṣkarṣe hi yasya guṇasya hi bhāvād iti tv abhidheyaniṣkarṣārtham eva smaraṇam. itarathā tv anenaiva gatārthatvāt kṛttaddhitasamāseṣv ity avacanīyam āpadyeta. ataḥ prāk pratīte ekanimittasambandhiviśiṣṭe 'parasmin sambandhiny abhihite 'rthagṛhītas sambandho nābhidheyapakṣe nikṣipyate. sarvayaugikānām api caiṣaiva dig darśayitavyā. āha ca -- sarvatra yaugikaiś śabdair dravyam evābhidhīyate | na hi sambandhavācyatvaṃ sambhavaty atigauravāt || iti. ato 'numeyāntarāsambhavād viśeṣaṇaviśeṣyabhūtau dharmadharmiṇāv evānumānasamadhigamyāv iti || 32 -- 33 || upasaṃharati -- viśeṣaṇeti gamyāv ityantena. sa cāyam aṅgāṅgibhāvaḥ kaiścid vikalpenāśritaḥ. evaṃ hi manyante. sarvathā hi dharmamātre dharmiṇi vā svatantre pramīyamāṇe siddhasādhyatādidoṣo bhavati na viśiṣṭapramāyām. viśiṣṭatā tu kadācit kasyacid yathābhiprāyaṃ bhavatu nāma, na kiñcid duṣyati. sarvathā tāvat dharmiṇa eva parvatāder agnyādidharmas taddharmeṇaiva dhūmādināvagantavyaḥ. sa tu dharmo viśeṣaṇabhūto viśeṣyabhūto 3,31 vāvagantavya iti na kaścid viśeṣaḥ. ubhayathāpi svatantrānumānābhāvād ity āha -- aṅgety avadhāryate 'ntena || 34 -- 35 || atra dūṣaṇam āha -- atreti. ayam abhiprāyaḥ -- laukikāni hi pramāṇāni lakṣaṇakārair api yathālokam evānugantavyāni. na tu viparītam. na hy agniḥ parvataviśiṣṭa iti loko budhyate. api tu parvato 'gnimān iti. tathā svayam anumānena pratipannam arthaṃ tenaiva paraṃ pratipādayanto laukikā dharmiṇā viśiṣṭam eva hetuṃ prayuñjānā dṛśyante, yathāgnyanumāna eva dhūmavattvād agnimān iti. tac cedam agnau deśena viśiṣṭe numīyamāne nopapadyate. viśeṣaṇatayā hi parvataviśiṣṭo 'gnir iti dharmiṇy upātte dhūmavattvād iti hetudharmeṇa tasya sambandho na sphuṭaṃ prakāśate. dharmadharmitayāvagatasya hetutvam. na ca guṇabhāvopātto dharmī hetudharmasambandham arhati, guṇānāṃ parasparāsambandhāt. ato 'smāt parārthahetuprayogaviśeṣād eva laukikānām īdṛśī pratipattir unnīyate. yat svayam api dharmaviśiṣṭam eva dharmiṇaṃ budhyate na viparītam iti

Sanskrit only: no published translation is held for this verse.

यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटः केन तर्हि प्रसज्यत इत्य् अत आह -- प्रधानत्वाद् इति। ध्वनिविशिष्टम् अनित्यत्वं कृतकत्वाद् इत्य् उच्यमाने ऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुस् सम्बध्येत न ध्वनिना गुणभूतेन। सर्वस्य ह्य् एकवाक्यगतस्य प्रधानान्वय एव युक्तः। प्रधानसम्बन्धे च हेतोर् अपक्षधर्मत्वम्। न हि कृतकत्वम् ३,३२ अनित्यत्वस्य धर्मः, किं तर्हि ध्वनेः। अतो धर्म्य् एव धर्मविशिष्टः स्वयं प्रमातृभिर् अवगम्यते। तथैव परस्मै प्रतिपाद्यत इति युक्तम् इति। यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोस् सम्बन्धो वाक्याद् अवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धः कल्पयिष्यते। हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद् धर्मिणैव सम्बन्धो भविष्यतीत्य् अत आह -- तत्रेति। अयम् अभिप्रायः -- सत्यम् एवं धर्मिणा सम्बन्धः सिध्यति। किं त्वयम् एव क्लेशो यद्वाक्यस्वरसभङ्गो नाम। अत एवाह -- कल्प्यो ऽसाव् इति। अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति भावः

yadi tarhi dharmiṇo hetudharmeṇa sambandho na sphuṭaḥ kena tarhi prasajyata ity ata āha -- pradhānatvād iti. dhvaniviśiṣṭam anityatvaṃ kṛtakatvād ity ucyamāne 'nityatvākhyena dharmeṇaiva sādhyatayā pradhānabhūtena kṛtakatvādihetus sambadhyeta na dhvaninā guṇabhūtena. sarvasya hy ekavākyagatasya pradhānānvaya eva yuktaḥ. pradhānasambandhe ca hetor apakṣadharmatvam. na hi kṛtakatvam 3,32 anityatvasya dharmaḥ, kiṃ tarhi dhvaneḥ. ato dharmy eva dharmaviśiṣṭaḥ svayaṃ pramātṛbhir avagamyate. tathaiva parasmai pratipādyata iti yuktam iti. yadi tūcyate, satyaṃ pradhānatayā dharmeṇa hetos sambandho vākyād avagamyate, liṅgabalīyastvena tu vākyaṃ bādhitvā dharmiṇaiva sambandhaḥ kalpayiṣyate. hetudharmasya hi dharmiṇaiva sambandhayogyatā na dharmeṇa, ato dharmasambandhābhāvād dharmiṇaiva sambandho bhaviṣyatīty ata āha -- tatreti. ayam abhiprāyaḥ -- satyam evaṃ dharmiṇā sambandhaḥ sidhyati. kiṃ tvayam eva kleśo yadvākyasvarasabhaṅgo nāma. ata evāha -- kalpyo 'sāv iti. anyathāpratipannasyānyathākalpanaiva doṣa iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

ध्वनेः कृतकत्वाद् इति वा पुनर्धर्म्युपादानेन हेतुर् विशेषणीयः, न चैवं प्रयोक्तारः प्रयुञ्जाना दृश्यन्त इत्य् अभिप्रायेणाह -- ध्वनेर् इति। यस् तु वदति धर्मिण्य् अपि विशिष्टे साध्ये ऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वम् इत्य् उक्ते ध्वनिर् एव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वाद् इति तं प्रत्याह -- अन्वयस्येति। अन्वयोपदर्शनकाले हि भेदेनैव धर्मम् उपाददते। यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वम् इति न तत्र प्रधानसम्बन्धाशङ्का। अतः प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने यो गुणभाव आसीत्। नासौ दृष्टान्तवाक्ये दुष्यति। हेतुस् त्व् अविशिष्ट एव तार्किकैः प्रयुज्यत इत्य् उक्तम्। तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति। यस् तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेर् अनित्यत्वम् इति। एवं च कृतकत्वाद् इत्य् अस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धः स्फुटो भवति। धर्मसम्बन्ध एव यथावद् विभक्तिविपरिणामेन स्यात्। स चान्याय्य इति स वक्तव्यः। निराकृतो ऽयं पक्षो वार्तिककृतैव -- सम्बन्धो ऽप्य् अनुपादानान् नाम्ना षष्ठ्य् अपि वा मितौ इति। षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत्। तस्य च साध्यता निराकृतैव। विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता अधर्मस्येदानीं ३,३३ निराक्रियते। किम् अत्र सम्बन्धसाध्यत्वं पुनर् उपक्षिप्यते। तदलम् अनेन बालभाषितेनेति

dhvaneḥ kṛtakatvād iti vā punardharmyupādānena hetur viśeṣaṇīyaḥ, na caivaṃ prayoktāraḥ prayuñjānā dṛśyanta ity abhiprāyeṇāha -- dhvaner iti. yas tu vadati dharmiṇy api viśiṣṭe sādhye 'nvayopadarśanavelāyāṃ yatra yatra kṛtakatvam ity ukte dhvanir eva pradhānatayā sambadhyeta nānityatvaṃ guṇabhūtatvād iti taṃ pratyāha -- anvayasyeti. anvayopadarśanakāle hi bhedenaiva dharmam upādadate. yatra yatra kṛtakatvaṃ tatra tatrānityatvam iti na tatra pradhānasambandhāśaṅkā. ataḥ pratijñāvasthāyāṃ dharmaviśiṣṭe dharmiṇi sādhyamāne yo guṇabhāva āsīt. nāsau dṛṣṭāntavākye duṣyati. hetus tv aviśiṣṭa eva tārkikaiḥ prayujyata ity uktam. tatrāviśeṣita eva prayukte bhavati pradhānabhūtadharmasambandhāśaṅketi. yas tu vadati ṣaṣṭhyantena dhvaninānityatvaṃ viśeṣyate dhvaner anityatvam iti. evaṃ ca kṛtakatvād ity asyāvipariṇatavibhaktikena dhvaninaiva sambandhaḥ sphuṭo bhavati. dharmasambandha eva yathāvad vibhaktivipariṇāmena syāt. sa cānyāyya iti sa vaktavyaḥ. nirākṛto 'yaṃ pakṣo vārtikakṛtaiva -- sambandho 'py anupādānān nāmnā ṣaṣṭhy api vā mitau iti. ṣaṣṭhīnirdeśe hi sambandha eva sādhyo bhavet. tasya ca sādhyatā nirākṛtaiva. viśiṣṭasādhyapakṣa eva sthitvā dharmiviśiṣṭatā adharmasyedānīṃ 3,33 nirākriyate. kim atra sambandhasādhyatvaṃ punar upakṣipyate. tadalam anena bālabhāṣiteneti

Sanskrit only: no published translation is held for this verse.

अपि च अग्नेर् देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणाम् असम्भवो ऽपीत्य् आह -- अग्नेर् इति। दूषणान्तरसमुच्चये चकारः। एतद् इति वक्ष्यमाणलक्षणप्रतिनिर्देश इति। तान् एव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते -- विशिष्टेति

api ca agner deśaviśiṣṭatve sādhyamāne vakṣyamāṇasamastapakṣaprakārāṇām asambhavo 'pīty āha -- agner iti. dūṣaṇāntarasamuccaye cakāraḥ. etad iti vakṣyamāṇalakṣaṇapratinirdeśa iti. tān eva pakṣaprakārān vaktuṃ saṃkṣipya pratijānīte -- viśiṣṭeti

Sanskrit only: no published translation is held for this verse.

इदानीं विभज्य तान् एव दर्शयति -- यो ऽग्निर् इतीत्यन्तेन। निगदव्याख्यातो ग्रन्थः। विवेकस् तु पक्षाणां प्रणिहितैर् अवगम्यत इति। इहचाद्ययोर् द्वयोः पक्षयोस् सिद्धसाध्यता दोषः। सिद्धो हि क्वचिद् अग्निः, दृष्टपूर्वो ऽपि पूर्वदेशाधिकरणस् सिद्ध एव किं तत् प्र(सा)धानेन। परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्य् आह -- इह त्व् इति। सिद्धसाध्यता सुप्रकाशैव ॥ ४० -- ४२ ॥ विरोधं प्रपञ्चयति -- व्याप्तिर् इति। यत् तावत् यो ऽग्निः सो ऽनेन युक्त इत्य् उक्तं तद् अयुक्तम्। न ह्य् अनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात् सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्य् अत्राभावेन विरुध्यत इति

idānīṃ vibhajya tān eva darśayati -- yo 'gnir itītyantena. nigadavyākhyāto granthaḥ. vivekas tu pakṣāṇāṃ praṇihitair avagamyata iti. ihacādyayor dvayoḥ pakṣayos siddhasādhyatā doṣaḥ. siddho hi kvacid agniḥ, dṛṣṭapūrvo 'pi pūrvadeśādhikaraṇas siddha eva kiṃ tat pra(sā)dhānena. pareṣu tu pañcasu pakṣeṣu pramāṇāntaravirodha ity āha -- iha tv iti. siddhasādhyatā suprakāśaiva || 40 -- 42 || virodhaṃ prapañcayati -- vyāptir iti. yat tāvat yo 'gniḥ so 'nena yukta ity uktaṃ tad ayuktam. na hy anena deśena sarvāgnayo vyāpyante deśasyāvaibhavāt sarvāgnīnāṃ cātrāsannidhānāt, tadbhāvo hy atrābhāvena virudhyata iti

Sanskrit only: no published translation is held for this verse.

३,३४ यो दृष्टो ऽनेन सो ऽथवेति यद् उक्तं तद् दूषयति -- नापि पूर्वस्येति। दृष्टस्याप्य् अग्नेर् अनेन देशेन व्याप्तिर् न विद्यत इत्य् अर्थः। यो ऽयं स देशमात्रेणेत्य् अत्र दूषणम् आह -- नापीति देशैरन्तेन। न ह्य् एष पुरःस्थितो वह्निः सर्वैर् देशैर् विशेष्यते सर्वत्र तस्याभावाद् इति। पूर्वेण वाप्य् अयम् इत्य् अत्र विरोधम् आह -- पूर्वेणेति। पूर्वेण देशेनास्याग्नेर् विशेष्यता नास्त्य् एव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र। पूर्वानुभूतस्य त्व् अग्नेर् देशमात्रेण सम्बन्धः पुरःस्थितवह्नेः सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति

3,34 yo dṛṣṭo 'nena so 'thaveti yad uktaṃ tad dūṣayati -- nāpi pūrvasyeti. dṛṣṭasyāpy agner anena deśena vyāptir na vidyata ity arthaḥ. yo 'yaṃ sa deśamātreṇety atra dūṣaṇam āha -- nāpīti deśairantena. na hy eṣa puraḥsthito vahniḥ sarvair deśair viśeṣyate sarvatra tasyābhāvād iti. pūrveṇa vāpy ayam ity atra virodham āha -- pūrveṇeti. pūrveṇa deśenāsyāgner viśeṣyatā nāsty eva, pūrvadeśasyātrābhāvāt, asya ca tatra. pūrvānubhūtasya tv agner deśamātreṇa sambandhaḥ puraḥsthitavahneḥ sarvadeśasambandhanirākaraṇenaiva tulyanyāyatayā nirākṛta iti na pṛthagupanyasya dūṣita iti

Sanskrit only: no published translation is held for this verse.

एवं सप्तसु पक्षेषु निराकृतेष्व् अष्टमः पक्षो ऽवशिष्यते एतद् देशविशिष्टो वा यो ऽयम् अग्निर् इति तन्निराकरोति -- एतद् इति। अयं पुरःस्थितो ऽग्निर् अनेन देशेन विशिष्ट इति नैतत् साधयितुं शक्यम्। न ह्य् अप्रत्यक्षदेशो वह्निर् अयम् इति निर्देष्टुं शक्यः, नितरां विशिष्टतया साधयितुम्। यस् तु वदति स्मृत एव वह्निर् अनेन विशिष्टः साध्यत इति, स वक्तव्यः। स्वदेशकालवर्त्त्य् एव स्मरणेन विषयीकृतः कथम् असाव् अनेन देशेन विशेष्टुं शक्यः। तद् एवंवादिना नापि पूर्वस्येत्य् अपि नालोचितम्। अनवच्छिन्नस्मृताव् अपि च धर्मो धर्मिणो विशेषणम् इति नेदं युक्तिसाध्यम्। धर्माणां धर्मिविशेषणतयैव सर्वदावगतेर् इत्य् अलम् अनेनेति। देश एव तु पूर्वावगतो विशेष्यताम् अर्हतीत्य् अभिप्रायेणाह -- अग्नेर् इति ॥ ४४ -- ४५ ॥ यदि चाग्निर् विशेष्यो भवेत् ततस् तस्यैवायम् आद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात्। इह त्व् आदौ पर्वत एव ज्ञायते। कथम् असौ पश्चात् प्रत्येष्यमाणस्याग्नेर् विशेषणं भवतीत्य् आह -- तज्ज्ञानेति। तद्वृत्तेनाग्निं निर्दिशति। अग्नेर् ज्ञानकाले हि स एव देशो बुद्धः, नाग्निः, अतः कस्य ३,३५ देशो विशेषणं भवति। प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति कीदृग्धर्मो ऽयम् इति। तथा च देश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निर् इति। ननु देशो ऽपि प्रत्यक्षावगत एवेति कथम् असाव् अनुमानस्य विषयो भविष्यतीत्य् अत आह -- देशस्येति। स्वरूपमात्रम् एव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वम् इति। अतो धर्म्य् एव धर्मविशिष्टः प्रमेयः न धर्मो धर्मि विशिष्ट इत्य् आह -- तस्माद् इति ॥ ४६ -- ४७ ॥ एवं च देश एवाग्निविशिष्टः प्रमेयो ऽवतिष्ठते। स हि धर्मी, तदाश्रयत्वाद् अग्नेः। न त्व् अग्निः, अतदाश्रयत्वाद् देशस्येत्य् आह -- सा देशस्येति। अन्ये तु पूर्वावगतधूमम् अप्य् अग्निविशिष्टम् अनुमानस्य प्रमेयं मन्यन्ते। तद् अपि साध्व् एवेत्य् अभिप्रायेणाह -- धूमस्यान्यैश् च कल्पितेति। सा प्रमेयतेति सम्बन्धः। अत्र चोदयति -- नन्व् इति। विशिष्टो ऽनुमानस्य विषय इत्य् उक्तम्। नागृहीतविशेषणन्यायेन लिङ्गम् अपि शब्दवद् विशेषणमात्रपर्यवसाय्य् एव युक्तम्। शब्दो हि विशेषणमात्र एव वर्तत इत्य् आकृत्यधिकरणे वक्ष्यत इति

evaṃ saptasu pakṣeṣu nirākṛteṣv aṣṭamaḥ pakṣo 'vaśiṣyate etad deśaviśiṣṭo vā yo 'yam agnir iti tannirākaroti -- etad iti. ayaṃ puraḥsthito 'gnir anena deśena viśiṣṭa iti naitat sādhayituṃ śakyam. na hy apratyakṣadeśo vahnir ayam iti nirdeṣṭuṃ śakyaḥ, nitarāṃ viśiṣṭatayā sādhayitum. yas tu vadati smṛta eva vahnir anena viśiṣṭaḥ sādhyata iti, sa vaktavyaḥ. svadeśakālavartty eva smaraṇena viṣayīkṛtaḥ katham asāv anena deśena viśeṣṭuṃ śakyaḥ. tad evaṃvādinā nāpi pūrvasyety api nālocitam. anavacchinnasmṛtāv api ca dharmo dharmiṇo viśeṣaṇam iti nedaṃ yuktisādhyam. dharmāṇāṃ dharmiviśeṣaṇatayaiva sarvadāvagater ity alam aneneti. deśa eva tu pūrvāvagato viśeṣyatām arhatīty abhiprāyeṇāha -- agner iti || 44 -- 45 || yadi cāgnir viśeṣyo bhavet tatas tasyaivāyam ādyo jñānakālo bhavet, prasiddhasyāprasiddhena viśeṣaṇāt. iha tv ādau parvata eva jñāyate. katham asau paścāt pratyeṣyamāṇasyāgner viśeṣaṇaṃ bhavatīty āha -- tajjñāneti. tadvṛttenāgniṃ nirdiśati. agner jñānakāle hi sa eva deśo buddhaḥ, nāgniḥ, ataḥ kasya 3,35 deśo viśeṣaṇaṃ bhavati. pramitaṃ hi vastvapramitena dharmeṇa pramitsitaṃ bhavati kīdṛgdharmo 'yam iti. tathā ca deśa iti sa eva pramitsyate, pramīyate ca, na punaragnir iti. nanu deśo 'pi pratyakṣāvagata eveti katham asāv anumānasya viṣayo bhaviṣyatīty ata āha -- deśasyeti. svarūpamātram eva hi deśasya pratyakṣeṇāvagatam, anumānena tu pāvakādiviśiṣṭatā tasyānumīyata iti na gṛhītagrāhitvam iti. ato dharmy eva dharmaviśiṣṭaḥ prameyaḥ na dharmo dharmi viśiṣṭa ity āha -- tasmād iti || 46 -- 47 || evaṃ ca deśa evāgniviśiṣṭaḥ prameyo 'vatiṣṭhate. sa hi dharmī, tadāśrayatvād agneḥ. na tv agniḥ, atadāśrayatvād deśasyety āha -- sā deśasyeti. anye tu pūrvāvagatadhūmam apy agniviśiṣṭam anumānasya prameyaṃ manyante. tad api sādhv evety abhiprāyeṇāha -- dhūmasyānyaiś ca kalpiteti. sā prameyateti sambandhaḥ. atra codayati -- nanv iti. viśiṣṭo 'numānasya viṣaya ity uktam. nāgṛhītaviśeṣaṇanyāyena liṅgam api śabdavad viśeṣaṇamātraparyavasāyy eva yuktam. śabdo hi viśeṣaṇamātra eva vartata ity ākṛtyadhikaraṇe vakṣyata iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- नैवम् इति। कारणम् आह -- न हीति। अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानम् इष्टम्। लिङ्गं तु पूर्वावगतप्रतिबन्धबलेन प्रतिबन्धकधियम् उपकल्पयति। तद् यावतैव प्रतिबद्धम् अवगतं तावत्य् एव प्रतिबन्धके धियम् आदधाति। सर्वोपाधिपरित्यागेनाग्निमन्मात्रेण धूमवत्त्वं प्रतिबद्धम् अवगतम् इत्य् अग्निमत्त्वम् एवानुमापयतीति न कश्चित् दोष इति। न च विशेषणमात्रम् अनुमेयं सिद्धसाध्यत्वाद् इत्य् उक्तम् इत्य् अभिप्रायेणाह - ३,३६ न चेति। विशेष्यो ऽपि पर्वतादिस्वरूपेणावधारितः सो ऽपि नानुमेय इत्य् आह -- विशेष्य इति

pariharati -- naivam iti. kāraṇam āha -- na hīti. anekaśaktikalpanābhayena hi śabdasya viśeṣaṇamātraparyavasānam iṣṭam. liṅgaṃ tu pūrvāvagatapratibandhabalena pratibandhakadhiyam upakalpayati. tad yāvataiva pratibaddham avagataṃ tāvaty eva pratibandhake dhiyam ādadhāti. sarvopādhiparityāgenāgnimanmātreṇa dhūmavattvaṃ pratibaddham avagatam ity agnimattvam evānumāpayatīti na kaścit doṣa iti. na ca viśeṣaṇamātram anumeyaṃ siddhasādhyatvād ity uktam ity abhiprāyeṇāha - 3,36 na ceti. viśeṣyo 'pi parvatādisvarūpeṇāvadhāritaḥ so 'pi nānumeya ity āha -- viśeṣya iti

Sanskrit only: no published translation is held for this verse.

अतो विशिष्टत्वेनैव रूपेणाज्ञानात् तस्यैवानुमेयत्वम् इत्य् आह -- विशिष्टत्वेनेति। अत्र चोदयति -- नन्व् इति। धूमो ऽप्य् अग्निविशिष्टो ऽनुमीयत इत्य् उक्तं, तद् अयुक्तम्। प्रतिज्ञार्थैकदेशत्वाद् इति

ato viśiṣṭatvenaiva rūpeṇājñānāt tasyaivānumeyatvam ity āha -- viśiṣṭatveneti. atra codayati -- nanv iti. dhūmo 'py agniviśiṣṭo 'numīyata ity uktaṃ, tad ayuktam. pratijñārthaikadeśatvād iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- नैतद् इति। सामान्यविशेष्यात्मा हि धूमः, तत्र विशेषात्मना पक्षीकृतस्य सामान्यात्मना हेतुत्वम् इति न पक्षैकदेशतेति। समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपम् एव किम् अस्येति न ज्ञायते। तद् यदि धूमतज्ज्ञानादीनाम् अनुमानत्वम् इष्यते, ततः प्रमाणफलयोर् विषयभेदः स चायुक्तः। अत एव भिक्षुणा एकम् एव ज्ञानं प्रमाणफलरूपम् इति प्रत्यक्षम् उक्त्वा तद् एवानुमाने ऽप्य् अतिदिष्टं पूर्ववत् फलम् अस्येति। यदि त्व् अनुमेयज्ञानम् एव प्रमाणम् इष्यते ततो ऽप्य् अतिरिक्तफलाभावः। अतो वक्तव्यम् अनुमानस्य स्वरूपम् इत्य् अत आह -- धूमतज्ज्ञानेति। यत् तावत् भिक्षुणा प्रमाण(?फल)म् एव फलम् इत्य् एकविषयत्वलाभाद् आश्रितं, तत् प्रत्यक्षवद् इहापि प्रतिषेद्धव्यम्। न हि साध्यसाधनयोर् अभेदं लौकिका मन्यन्ते। को हि वृक्षच्छिदया सार्धं परशोर् एकत्वम् आतिष्ठते। विषयभेदपरिहारस् तु प्रत्यक्षोक्त एवेहाप्य् अनुसन्धातव्यः। यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात् समानविषयत्वम् उपपादितम्। एवम् इहापि धूमादिप्रमाणपक्षे तद्व्यापाराद् एव पुरोदितं विषयैकत्वम् अतिदेष्टव्यम्। अतो धूमस् तज्ज्ञानं वा सम्बन्धस् तत्स्मरणं वा प्रमाणम् अस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति। यत् तु बुद्धेः ३,३७ प्रमाण(?फल)त्वे फलाभाव इत्य् उक्तम्। भाष्यकारो हि बुद्धिर् एव प्रमाणम् इति दर्शयति यत् कारणम् असन्निकृष्टे ऽर्थे बुद्धिर् इति वदति। न च फलाभावः, हानादेर् एव फलत्वात्। न च सजातीयम् एव फलम् इति राजाज्ञा। उपयोगाद् धि सजातीयम् असजातीयं वा फलं भवत्य् एव। अस्तु वा सजातीयम् एव फलं हानादिबुद्धिः फलं भविष्यति। उपकारादिस्मृतिर् वेत्य् अभिप्रायेणाह -- प्रमेयधीर् इति

pariharati -- naitad iti. sāmānyaviśeṣyātmā hi dhūmaḥ, tatra viśeṣātmanā pakṣīkṛtasya sāmānyātmanā hetutvam iti na pakṣaikadeśateti. samadhigataṃ tāvadanumānasya viśiṣṭo viṣaya iti, svarūpam eva kim asyeti na jñāyate. tad yadi dhūmatajjñānādīnām anumānatvam iṣyate, tataḥ pramāṇaphalayor viṣayabhedaḥ sa cāyuktaḥ. ata eva bhikṣuṇā ekam eva jñānaṃ pramāṇaphalarūpam iti pratyakṣam uktvā tad evānumāne 'py atidiṣṭaṃ pūrvavat phalam asyeti. yadi tv anumeyajñānam eva pramāṇam iṣyate tato 'py atiriktaphalābhāvaḥ. ato vaktavyam anumānasya svarūpam ity ata āha -- dhūmatajjñāneti. yat tāvat bhikṣuṇā pramāṇa(?phala)m eva phalam ity ekaviṣayatvalābhād āśritaṃ, tat pratyakṣavad ihāpi pratiṣeddhavyam. na hi sādhyasādhanayor abhedaṃ laukikā manyante. ko hi vṛkṣacchidayā sārdhaṃ paraśor ekatvam ātiṣṭhate. viṣayabhedaparihāras tu pratyakṣokta evehāpy anusandhātavyaḥ. yathā hīndriyādipramāṇapakṣe yatra phalaṃ niṣpadyate tadviṣayavyāpārāt samānaviṣayatvam upapāditam. evam ihāpi dhūmādipramāṇapakṣe tadvyāpārād eva puroditaṃ viṣayaikatvam atideṣṭavyam. ato dhūmas tajjñānaṃ vā sambandhas tatsmaraṇaṃ vā pramāṇam astu, vivakṣādhīnatvāt pramāṇaphalabhāvasyeti. yat tu buddheḥ 3,37 pramāṇa(?phala)tve phalābhāva ity uktam. bhāṣyakāro hi buddhir eva pramāṇam iti darśayati yat kāraṇam asannikṛṣṭe 'rthe buddhir iti vadati. na ca phalābhāvaḥ, hānāder eva phalatvāt. na ca sajātīyam eva phalam iti rājājñā. upayogād dhi sajātīyam asajātīyaṃ vā phalaṃ bhavaty eva. astu vā sajātīyam eva phalaṃ hānādibuddhiḥ phalaṃ bhaviṣyati. upakārādismṛtir vety abhiprāyeṇāha -- prameyadhīr iti

Sanskrit only: no published translation is held for this verse.