Library·Sucaritamisra: Mimamsaslokavarttikakasika·5

Sucaritamisra: Mimamsaslokavarttikakasika 5

अथ समाने ऽपि मनोधीनत्वे स्वकीयकल्पनापोढलक्षणानुसारेण किञ्चिद् एव प्रत्यक्षम् आश्रीयते। तथा सतीच्छानुसारेण व्यवस्थायाम् इष्यमाणायां वयम् अपि यथाशयं किञ्चिद् एव प्रत्यक्षं वक्ष्याम इत्य् आह -- तदधीनत्वेति

atha samāne 'pi manodhīnatve svakīyakalpanāpoḍhalakṣaṇānusāreṇa kiñcid eva pratyakṣam āśrīyate. tathā satīcchānusāreṇa vyavasthāyām iṣyamāṇāyāṃ vayam api yathāśayaṃ kiñcid eva pratyakṣaṃ vakṣyāma ity āha -- tadadhīnatveti

Sanskrit only: no published translation is held for this verse.

पारिशेष्याद् अपि प्रत्यक्षान्तर्भाव एवास्याः सविकल्पकधियो युक्त इत्य् आह -- लिङ्गादीति। ननु सति प्रामाण्ये पारिशेष्यं भवति, न त्व् इयं प्रमाणम् अत आह -- बाधकेति

pāriśeṣyād api pratyakṣāntarbhāva evāsyāḥ savikalpakadhiyo yukta ity āha -- liṅgādīti. nanu sati prāmāṇye pāriśeṣyaṃ bhavati, na tv iyaṃ pramāṇam ata āha -- bādhaketi

Sanskrit only: no published translation is held for this verse.

इदं त्व् इह वक्तव्यम् -- सत्यं नेयम् अप्रमाणं, मृगतृष्णादिज्ञानवद् व्यवहाराविरोधात्। न च प्रमाणम् असदर्थगोचरत्वात्। निर्विकल्पपरिप्लावितस्वलक्षणप्रापकतया स्मृतिर् इत्य् आख्यायते। न च स्मरणं प्रमाणम् अत आह -- न चेति। पूर्वदृष्टार्थविषयं स्मरणं भवति। न च निर्विकल्पकेन सामान्यदर्शनम् १,२६० अस्ति, अप्रत्यक्षविषयत्वात् तस्य भवत्सिद्धान्ते। अस्माकम् अपि स्वलक्षणान्तरसम्भेदः पूर्वम् अदृष्ट एव। न चासदर्थत्वं, वक्ष्यमाणन्यायेन जात्यादीनां स्थास्यमानत्वात्। अतो नागृहीतग्रहणाद् अप्रामाण्यं नासदर्थतया वेति, अतः प्रमाणं सत् पारिशेष्यात् प्रत्यक्षे ऽन्तर्भवतीत्य् उपसंहरति -- तस्माद् इति। भवन्तो ऽपि वाङ्मनसविसंवादेनैवास्याः बुद्धेर् अप्रामाण्यम् आचक्षते। सर्वव्यवहाराणां सविकल्पकाधीनत्वाद् इत्य् आह -- व्यवहार इति

idaṃ tv iha vaktavyam -- satyaṃ neyam apramāṇaṃ, mṛgatṛṣṇādijñānavad vyavahārāvirodhāt. na ca pramāṇam asadarthagocaratvāt. nirvikalpapariplāvitasvalakṣaṇaprāpakatayā smṛtir ity ākhyāyate. na ca smaraṇaṃ pramāṇam ata āha -- na ceti. pūrvadṛṣṭārthaviṣayaṃ smaraṇaṃ bhavati. na ca nirvikalpakena sāmānyadarśanam 1,260 asti, apratyakṣaviṣayatvāt tasya bhavatsiddhānte. asmākam api svalakṣaṇāntarasambhedaḥ pūrvam adṛṣṭa eva. na cāsadarthatvaṃ, vakṣyamāṇanyāyena jātyādīnāṃ sthāsyamānatvāt. ato nāgṛhītagrahaṇād aprāmāṇyaṃ nāsadarthatayā veti, ataḥ pramāṇaṃ sat pāriśeṣyāt pratyakṣe 'ntarbhavatīty upasaṃharati -- tasmād iti. bhavanto 'pi vāṅmanasavisaṃvādenaivāsyāḥ buddher aprāmāṇyam ācakṣate. sarvavyavahārāṇāṃ savikalpakādhīnatvād ity āha -- vyavahāra iti

Sanskrit only: no published translation is held for this verse.

ननु किम् इदं नाप्रामाण्यं च युज्यत इति। विशिष्टावगाहिनो हि विकल्पाः। भिन्नं च विशेष्याद् विशेषणम्। अभेदे विशेषणविशेष्यानुपपत्तेः। अतो ऽर्थान्तरभूतैर् जात्यादिभिर् विशिष्टे वस्तुनि गृह्यमाणे अतस्मिंस् तद्ग्रहणाद् भ्रान्तिर् एव सविकल्पकज्ञानम् इत्य् आह -- जात्यादीति

nanu kim idaṃ nāprāmāṇyaṃ ca yujyata iti. viśiṣṭāvagāhino hi vikalpāḥ. bhinnaṃ ca viśeṣyād viśeṣaṇam. abhede viśeṣaṇaviśeṣyānupapatteḥ. ato 'rthāntarabhūtair jātyādibhir viśiṣṭe vastuni gṛhyamāṇe atasmiṃs tadgrahaṇād bhrāntir eva savikalpakajñānam ity āha -- jātyādīti

Sanskrit only: no published translation is held for this verse.

परिहरति -- नैतद् इति। कारणम् आह -- स्थितम् इति। पररूपेण हि परस्मिन् निरूप्यमाणे भ्रान्तिर् भवति। न च जात्यादीनां पाररूप्यं, तेषाम् अनतिभेदाद् इति भावः

pariharati -- naitad iti. kāraṇam āha -- sthitam iti. pararūpeṇa hi parasmin nirūpyamāṇe bhrāntir bhavati. na ca jātyādīnāṃ pārarūpyaṃ, teṣām anatibhedād iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

नन्व् अभेदे विशेषणविशेष्यभावानुपपत्तिर् उक्ता, अत आह -- यदि हीति। न विशेषणम् एकान्ततो जात्यादि विशेष्याद् भिद्यते, सर्वदैव तदाकारावबोधाद् इत्य् अर्थः

nanv abhede viśeṣaṇaviśeṣyabhāvānupapattir uktā, ata āha -- yadi hīti. na viśeṣaṇam ekāntato jātyādi viśeṣyād bhidyate, sarvadaiva tadākārāvabodhād ity arthaḥ

Sanskrit only: no published translation is held for this verse.

नन्व् अत्यन्तभिन्नम् एव लाक्षादिरूपं स्फटिकादि स्वाकारेण विशिष्टं बोधयद् दृष्टं, तद्वद् एव हि जात्यादिविशिष्टबोधो ऽपि भवन् मिथ्या स्याद् इति, अत आह -- स्फटिकादाव् इति। अयम् अभिप्रायः -- उक्तम् अस्माभिः १,२६१ सदैव जात्यादिविशिष्टं वस्तु गृह्यते। कस्यचित् कदाचिद् विवेकानवगमात्। अतः कथं मिथ्या भविष्यति। लाक्षोपहितं तु स्फटिकं कश्चिद् एवाव्युत्पन्नो ऽजातविवेको ऽरुणम् इति बुध्यते। अतस् तज्ज्ञानं भ्रान्तिर् भवति। तदैव हीतरे दृष्टविवेका जानन्ति नेदम् अरुणम् औपाधिको ऽयम् अरुणभ्रम इति। अव्युत्पन्नो ऽपि चोपाधिविगमे जानात्य् एव यथा नेदम् अरुणम् इति। अतो युक्तं भ्रान्तित्वं बाधोत्पादाद् इति

nanv atyantabhinnam eva lākṣādirūpaṃ sphaṭikādi svākāreṇa viśiṣṭaṃ bodhayad dṛṣṭaṃ, tadvad eva hi jātyādiviśiṣṭabodho 'pi bhavan mithyā syād iti, ata āha -- sphaṭikādāv iti. ayam abhiprāyaḥ -- uktam asmābhiḥ 1,261 sadaiva jātyādiviśiṣṭaṃ vastu gṛhyate. kasyacit kadācid vivekānavagamāt. ataḥ kathaṃ mithyā bhaviṣyati. lākṣopahitaṃ tu sphaṭikaṃ kaścid evāvyutpanno 'jātaviveko 'ruṇam iti budhyate. atas tajjñānaṃ bhrāntir bhavati. tadaiva hītare dṛṣṭavivekā jānanti nedam aruṇam aupādhiko 'yam aruṇabhrama iti. avyutpanno 'pi copādhivigame jānāty eva yathā nedam aruṇam iti. ato yuktaṃ bhrāntitvaṃ bādhotpādād iti

Sanskrit only: no published translation is held for this verse.

जात्यादितद्वतां तु परस्परविवेको न दृष्टपूर्वः। अतो न भ्रान्तित्वं युक्तम् इत्य् आह -- न हीति। ननु भवत्व् एवं जातौ। न हि तया निर्मुक्तं वस्तु कदाचिद् उपलभ्यते। गुणकर्मभ्यां तु वियुक्तवस्तुबोधो दृष्ट एव। ध्रियमाण एव हि द्रव्ये कुतश्चित् कारणात् पूर्वगुणविनाशो गुणान्तरोत्पादश् च दृश्यते। एवं कर्मण्य् अपि दर्शयितव्यम्। अतः कथं तयोर् अव्यतिरेकः, अत आह - तद्विमोकेनेति। अयम् अभिप्रायः -- यद्य् अपि तद्विमुक्तं वस्तु दृश्यते, तानि तु तद्विमुक्तानि न जातु दृश्यन्ते। यच् च नाम यतो भिन्नं तत् ततो विमुक्तम् अपि कदाचिद् उपलब्धं मणेर् इवौपाधिको ऽरुणिमा। न चेह तथा। अतो व्यापकनिवृत्त्या व्याप्यस्यात्यन्तभेदस्य निवृत्तिः। कथम् इदानीं पूर्वापरयोर् गुणकर्मणोर् नाशोत्पादौ। प्रत्यभिज्ञायते हि तद् एवेदम् इति द्रव्यं, गुणकर्मणी च विनष्टे। तद् इदम् अभेदे नोपपद्यते। न नोपपद्यते, स्थित्युत्पत्तिविनाशात्मकम् एव नो वस्त्व् इति रुचकाद्युदाहरणे वक्ष्यामः। तद् इह वस्त्व् अपि गुणकर्मनाशे नश्यत्य् एव। रूपं हि तद् वस्तुनः, कथं तद्विनाशे न नशतीति शक्यते वक्तुम्। तयोर् अपि नात्यन्तिको विनाशः, वस्त्वात्मना विद्यमानत्वात्। जाताव् अपि चैषैव गतिः। तत्रापि हि स्थित्युपत्तिविनाशा दृश्यन्त एव। वियुक्तबोधो ऽपि दृशयते। दृश्यते हि विनष्टपिण्डवियुक्ता पुण्डान्तरे जातिः। सा कथं ततो भिन्ना भविष्यति। अथ तत्र कथञ्चिद् भेदम् आश्रित्य समाधिर् १,२६२ अभिधीयते, शक्यो ऽसौ गुणकर्मणोर् अपि वक्तुम् इति केन विशेषेण जाताव् अभेदम् आश्रित्य गुणकर्मणोर् भेदं वर्णयाञ् चक्रुः। अतो यदा जात्यादयो दृश्यन्ते, तदा[६८४]पिण्डाद् अभेदेनैवावगम्यन्त इत्य् अभेदो ऽपि तेषाम्। यैव तु काचिद् अनुपपत्तिर् आपाद्यते सानेकान्तवादिनां नासज्यत इत्य् अस्तु तावद् इदम् इति

jātyāditadvatāṃ tu parasparaviveko na dṛṣṭapūrvaḥ. ato na bhrāntitvaṃ yuktam ity āha -- na hīti. nanu bhavatv evaṃ jātau. na hi tayā nirmuktaṃ vastu kadācid upalabhyate. guṇakarmabhyāṃ tu viyuktavastubodho dṛṣṭa eva. dhriyamāṇa eva hi dravye kutaścit kāraṇāt pūrvaguṇavināśo guṇāntarotpādaś ca dṛśyate. evaṃ karmaṇy api darśayitavyam. ataḥ kathaṃ tayor avyatirekaḥ, ata āha - tadvimokeneti. ayam abhiprāyaḥ -- yady api tadvimuktaṃ vastu dṛśyate, tāni tu tadvimuktāni na jātu dṛśyante. yac ca nāma yato bhinnaṃ tat tato vimuktam api kadācid upalabdhaṃ maṇer ivaupādhiko 'ruṇimā. na ceha tathā. ato vyāpakanivṛttyā vyāpyasyātyantabhedasya nivṛttiḥ. katham idānīṃ pūrvāparayor guṇakarmaṇor nāśotpādau. pratyabhijñāyate hi tad evedam iti dravyaṃ, guṇakarmaṇī ca vinaṣṭe. tad idam abhede nopapadyate. na nopapadyate, sthityutpattivināśātmakam eva no vastv iti rucakādyudāharaṇe vakṣyāmaḥ. tad iha vastv api guṇakarmanāśe naśyaty eva. rūpaṃ hi tad vastunaḥ, kathaṃ tadvināśe na naśatīti śakyate vaktum. tayor api nātyantiko vināśaḥ, vastvātmanā vidyamānatvāt. jātāv api caiṣaiva gatiḥ. tatrāpi hi sthityupattivināśā dṛśyanta eva. viyuktabodho 'pi dṛśayate. dṛśyate hi vinaṣṭapiṇḍaviyuktā puṇḍāntare jātiḥ. sā kathaṃ tato bhinnā bhaviṣyati. atha tatra kathañcid bhedam āśritya samādhir 1,262 abhidhīyate, śakyo 'sau guṇakarmaṇor api vaktum iti kena viśeṣeṇa jātāv abhedam āśritya guṇakarmaṇor bhedaṃ varṇayāñ cakruḥ. ato yadā jātyādayo dṛśyante, tadā[684]piṇḍād abhedenaivāvagamyanta ity abhedo 'pi teṣām. yaiva tu kācid anupapattir āpādyate sānekāntavādināṃ nāsajyata ity astu tāvad idam iti

Sanskrit only: no published translation is held for this verse.

यदि तु जात्यादिबोधविधानुविधायिनः स्फटिकादाव् अपि चारुणादिबोधा भवेयुः, कस् तेषाम् अपि प्रामाण्यं वारयेद् इत्य् आह -[६८५]तत्रापीति

yadi tu jātyādibodhavidhānuvidhāyinaḥ sphaṭikādāv api cāruṇādibodhā bhaveyuḥ, kas teṣām api prāmāṇyaṃ vārayed ity āha -[685]tatrāpīti

Sanskrit only: no published translation is held for this verse.

एवं जात्यादीनाम् अभेदं प्रतिपाद्येदानीम् ऐकान्तिकभेदवादिनः काणादान् प्रत्याह -- न चापीति। एवं हि मन्यन्ते -- भिन्नयोर् एव जात्यादितद्वतोः समवायलक्षणः सम्बन्ध इति। तथा च पठन्ति -- अयुतसिद्धानाम् आधाराधेयभूतानाम् इहप्रत्ययहेतुर् यः सम्बन्धः स समवायः इति। तदयुतसिद्धयोः सम्बन्धित्वासम्भवाद् अनुपपन्नम् इति। कथं पुनर् अयुतसिद्धानां सम्बन्धित्वम्[६८६]अनुपपन्नं भवतीत्य् अत आह -- नानिष्पन्नस्य सम्बन्ध इति। अयम् अभिप्रायः -- केयम् अयुतसिद्धः। किं[६८७]युतसिद्ध्यभावमात्रम्, अथवा[६८८]पृथक्सिद्धिः। यदि युतसिद्ध्यभावः, कस्य केन सम्बन्ध इति सिद्धयोर् हि सम्बन्धिनोः सम्बन्धो भवति, नासिद्धयोः। अथापृथक्सिद्धिः, तत्राप्य् एतद् एवोत्तरं नानिष्पन्नस्य सम्बन्ध इति। अपृथङ्निष्पन्नयोस् तादात्म्याद् इति भावः। अथैतद्दोषपरिहारार्थं पृथङ्निष्पत्तिर् इष्यते, तथा सति युतसिद्धिर् एवापद्यत इत्य् आह -- निष्पत्ताव् इति

evaṃ jātyādīnām abhedaṃ pratipādyedānīm aikāntikabhedavādinaḥ kāṇādān pratyāha -- na cāpīti. evaṃ hi manyante -- bhinnayor eva jātyāditadvatoḥ samavāyalakṣaṇaḥ sambandha iti. tathā ca paṭhanti -- ayutasiddhānām ādhārādheyabhūtānām ihapratyayahetur yaḥ sambandhaḥ sa samavāyaḥ iti. tadayutasiddhayoḥ sambandhitvāsambhavād anupapannam iti. kathaṃ punar ayutasiddhānāṃ sambandhitvam[686]anupapannaṃ bhavatīty ata āha -- nāniṣpannasya sambandha iti. ayam abhiprāyaḥ -- keyam ayutasiddhaḥ. kiṃ[687]yutasiddhyabhāvamātram, athavā[688]pṛthaksiddhiḥ. yadi yutasiddhyabhāvaḥ, kasya kena sambandha iti siddhayor hi sambandhinoḥ sambandho bhavati, nāsiddhayoḥ. athāpṛthaksiddhiḥ, tatrāpy etad evottaraṃ nāniṣpannasya sambandha iti. apṛthaṅniṣpannayos tādātmyād iti bhāvaḥ. athaitaddoṣaparihārārthaṃ pṛthaṅniṣpattir iṣyate, tathā sati yutasiddhir evāpadyata ity āha -- niṣpattāv iti

Sanskrit only: no published translation is held for this verse.

किं पुनर्[६८९]अनिष्टम् आपादितम्। नन्व् इष्यत एव जातितद्वतोर् असम्बद्धयोर् एव कियान् अपि कालभेदः। तां च तयोर् अवस्थां योगिनः पशन्ति नान्ये। न १,२६३ तावता रज्जुघटयोर् इव तयोर् युतसिद्धयोर् एव सम्बन्धः संयोगः स्याद् इति वाच्यम्। न हि नः पृथक्सिद्धिर् युतसिद्धिलक्षणम्। अपि तर्हि। भिन्नाश्रयत्वं पृथग्गतिमत्त्वं च। द्वयोर् अन्यतरस्य वा युतसिद्धिः तदभावो ऽयुतसिद्धिः। च न जातेस् तदुभयम् अस्तीत्य् अयुतसिद्धयोः समवाय एव सम्बन्धो भविष्यति, अत आह -- तथा च सतीति। अयम् अभिप्रायः -- न तावत् पृथक्सिद्धे जातिव्यक्ती वयम् उपलभामहे। योगिगम्यश् च जात्यादिरहितः क्षणो दुस्साध एव। उपेत्यापि ब्रूमः। हेत्वभावात् सम्बन्धो न स्याद् इति। न हि रज्जुघटयोर् इव पृथक्सिद्धयोर् देवदत्तादिजातिव्यक्त्योः संयोजको दृश्यते। समवायस् तु न तावत् सम्बन्धहेतुः, सम्बन्धरूपाभ्युपगमात्। अथापि तद्धेतुः, नैवम् अपि युतसिद्धौ सम्बध्नाति। ननूक्तं युतसिद्धिर् एव जातेर् नास्तीति भिन्नाश्रयसमवायाभावाद् अपृथग्गतिमत्त्वाच् चेति। न, युतसिद्धिशब्दस्य पृथक्सिद्धिमात्रवचनत्वात्, नञा तदभावमात्रम् अयुतसिद्धिर् आख्यायते। सा चेत् पृथक्सिद्धिर् अस्ति कथम् अयुतसिद्धिर् भविष्यति। अथापि पारिभाषिको ऽयुतसिद्धिशब्दः, तथापि व्यक्तेः स्वावयवसमवायित्वाज् जातेश् च व्यक्त्याश्रयत्वाद् भिन्नाश्रयाश्रयित्वम् अस्तीति युतसिद्धिप्रसङ्गः। न च युतसिद्धिसम्बन्धे समवायो हेतुः। न च हेत्वन्तरम् अप्य् अस्तीति सूक्तं न सम्बन्धे हेतुः कश्चिद् इति। सम्बन्धहेत्वभावाच् च षड् अपि द्रव्यादयः पदार्थाः असम्बन्धा भवेयुर् इत्य् आह - षण्णाम् इति

kiṃ punar[689]aniṣṭam āpāditam. nanv iṣyata eva jātitadvator asambaddhayor eva kiyān api kālabhedaḥ. tāṃ ca tayor avasthāṃ yoginaḥ paśanti nānye. na 1,263 tāvatā rajjughaṭayor iva tayor yutasiddhayor eva sambandhaḥ saṃyogaḥ syād iti vācyam. na hi naḥ pṛthaksiddhir yutasiddhilakṣaṇam. api tarhi. bhinnāśrayatvaṃ pṛthaggatimattvaṃ ca. dvayor anyatarasya vā yutasiddhiḥ tadabhāvo 'yutasiddhiḥ. ca na jātes tadubhayam astīty ayutasiddhayoḥ samavāya eva sambandho bhaviṣyati, ata āha -- tathā ca satīti. ayam abhiprāyaḥ -- na tāvat pṛthaksiddhe jātivyaktī vayam upalabhāmahe. yogigamyaś ca jātyādirahitaḥ kṣaṇo dussādha eva. upetyāpi brūmaḥ. hetvabhāvāt sambandho na syād iti. na hi rajjughaṭayor iva pṛthaksiddhayor devadattādijātivyaktyoḥ saṃyojako dṛśyate. samavāyas tu na tāvat sambandhahetuḥ, sambandharūpābhyupagamāt. athāpi taddhetuḥ, naivam api yutasiddhau sambadhnāti. nanūktaṃ yutasiddhir eva jāter nāstīti bhinnāśrayasamavāyābhāvād apṛthaggatimattvāc ceti. na, yutasiddhiśabdasya pṛthaksiddhimātravacanatvāt, nañā tadabhāvamātram ayutasiddhir ākhyāyate. sā cet pṛthaksiddhir asti katham ayutasiddhir bhaviṣyati. athāpi pāribhāṣiko 'yutasiddhiśabdaḥ, tathāpi vyakteḥ svāvayavasamavāyitvāj jāteś ca vyaktyāśrayatvād bhinnāśrayāśrayitvam astīti yutasiddhiprasaṅgaḥ. na ca yutasiddhisambandhe samavāyo hetuḥ. na ca hetvantaram apy astīti sūktaṃ na sambandhe hetuḥ kaścid iti. sambandhahetvabhāvāc ca ṣaḍ api dravyādayaḥ padārthāḥ asambandhā bhaveyur ity āha - ṣaṇṇām iti

Sanskrit only: no published translation is held for this verse.

अपि च, अयं समवायः सम्बध्य वा समवायिनौ सम्बन्धाति असम्बध्य वा। न तावद् असम्बध्य, असम्बद्धस्य सम्बन्धहेतोर् अदृष्टत्वात्। सम्बन्धस् तु सम्बन्धहेत्वन्तरम् अन्तरेण न सम्भवति, न च तद् उपलभ्यते। अतः समवायिभ्यः समवायस्य वियोगाद् विश्लेषात् समवायिनाम् अपि परस्परविश्लेषः स्याद् इत्य् आह -- समवायेति। सम्बन्धहेत्वन्तरकल्पनायां त्व् अव्यवस्था स्याद् इत्य् आह -- तत्कॢप्ताव् इति

api ca, ayaṃ samavāyaḥ sambadhya vā samavāyinau sambandhāti asambadhya vā. na tāvad asambadhya, asambaddhasya sambandhahetor adṛṣṭatvāt. sambandhas tu sambandhahetvantaram antareṇa na sambhavati, na ca tad upalabhyate. ataḥ samavāyibhyaḥ samavāyasya viyogād viśleṣāt samavāyinām api parasparaviśleṣaḥ syād ity āha -- samavāyeti. sambandhahetvantarakalpanāyāṃ tv avyavasthā syād ity āha -- tatkḷptāv iti

Sanskrit only: no published translation is held for this verse.

१,२६४ यदि तु समवायिनोर् आत्मरूपं स्वरूपम् एव समवायः नासाव् अन्येन सम्बन्धनीय इत्य् उच्यते, एवं तर्ह्य् अङ्गीकृतो ऽभेदवाद इति धर्मधर्मिणोर् एव स्वरूपं समवायो ऽस्तु यद्य् अवश्यं समवायनाम्ना प्रयोजनं, किं समवायान्तरग्रहेणेत्य् आह -- अथेति

1,264 yadi tu samavāyinor ātmarūpaṃ svarūpam eva samavāyaḥ nāsāv anyena sambandhanīya ity ucyate, evaṃ tarhy aṅgīkṛto 'bhedavāda iti dharmadharmiṇor eva svarūpaṃ samavāyo 'stu yady avaśyaṃ samavāyanāmnā prayojanaṃ, kiṃ samavāyāntaragraheṇety āha -- atheti

Sanskrit only: no published translation is held for this verse.

अत्र कारणम् आह -- न हीति। उक्तम् इदं व्यतिरिक्तस्य सम्बन्धहेत्वन्तराभ्युपगमे ऽनवस्था। अभेदे तु परम् उभयवादिसिद्धयोर् धर्मधर्मिणोर् एवाभेदो ऽभ्युपगन्तव्यः। किं समवायग्रहेणेति

atra kāraṇam āha -- na hīti. uktam idaṃ vyatiriktasya sambandhahetvantarābhyupagame 'navasthā. abhede tu param ubhayavādisiddhayor dharmadharmiṇor evābhedo 'bhyupagantavyaḥ. kiṃ samavāyagraheṇeti

Sanskrit only: no published translation is held for this verse.

नन्व् अस्तु जात्यादिधर्माणाम् अभेदः, धर्म्य् एव तु भिन्नो नोपलभ्यते यः सविकल्पकज्ञानैर् विषयीक्रियते, तत् तावद् उपन्यस्यति -- नन्व् इति। एवं हि मन्यन्ते -- नायं धर्मी धर्मेभ्यो ऽतिरिक्तो ऽङ्गुलीभ्य इवाङ्गुष्ठो दृश्यते। न चास्य व्यवस्थापने प्रत्यक्षं प्रक्रमते। तस्येन्द्रियजत्वादिन्द्रियाणां पञ्चानां पञ्चसु रूपादिषूपक्षीणत्वात्। षष्ठस्य च मनसः स्वातन्त्र्येण बहिर्विषयव्यवस्थापने ऽसामर्थ्यात्। यथाहुः -- क्षीणानि चक्षुरादीनि रूपादिष्व् एव पञ्चसु । न षष्ठम् इन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ इति। अतो रूपादिसङ्घातमात्रम् एवेदं बहिर् उपलभ्यते न तत्त्वान्तरं वृक्षसङ्घात इव वनबुद्धिर् इति

nanv astu jātyādidharmāṇām abhedaḥ, dharmy eva tu bhinno nopalabhyate yaḥ savikalpakajñānair viṣayīkriyate, tat tāvad upanyasyati -- nanv iti. evaṃ hi manyante -- nāyaṃ dharmī dharmebhyo 'tirikto 'ṅgulībhya ivāṅguṣṭho dṛśyate. na cāsya vyavasthāpane pratyakṣaṃ prakramate. tasyendriyajatvādindriyāṇāṃ pañcānāṃ pañcasu rūpādiṣūpakṣīṇatvāt. ṣaṣṭhasya ca manasaḥ svātantryeṇa bahirviṣayavyavasthāpane 'sāmarthyāt. yathāhuḥ -- kṣīṇāni cakṣurādīni rūpādiṣv eva pañcasu | na ṣaṣṭham indriyaṃ tasya grāhakaṃ vidyate bahiḥ || iti. ato rūpādisaṅghātamātram evedaṃ bahir upalabhyate na tattvāntaraṃ vṛkṣasaṅghāta iva vanabuddhir iti

Sanskrit only: no published translation is held for this verse.

अत्र परिहारम् आह -- आविर्भावेति धर्म्यन्तेन। अयम् अभिप्रायः -- प्रतीमो हि वयं विष्फारिताक्षा रूपादिवद् एकं द्रव्यं न च विपर्येति तत् १,२६५ कथम् अन्यथा भविष्यतीति। यत्त्वभेदेन नोपलभ्यत इति। सत्यम्, केन वा धर्मेभ्यो ऽत्यन्तभेदो धर्मिण उपेयते। ग्राहकाभावस् तु रूपादिवदन्वयव्यतिरेकाभ्यां दर्शनस्पर्शनयोर् एव सामर्थ्यप्रदर्शनेन परिहर्तव्यः। अपि च यदि धर्मातिरिक्तो धर्मी न स्यात् को ऽयम् आविर्भावतिरोभावधर्मकेषु रूपादिष्व् अनुगतः प्रत्यभिज्ञायते। प्रत्यभिजानीमो हि वयम् अग्निसंयोगप्रच्यावितप्राच्यरूपम् उपजातरूपान्तरं सो[६९०]ऽयं घट इति घटम्। न च तदत्यन्ताभेदे घटते स्थित्युत्पत्तिविनाशानाम् एकत्रापातात्। अतो ऽस्ति धर्मेभ्यो भिन्नं तेष्व् अनुगतं, धर्मिरूपं यद्वशाद् एवं विभाग इति। अपि चात्यन्ताभेदपक्षे धर्मग्रहणम् अन्तरेण धर्मी न ज्ञायेतैव। दृश्यते च धर्मग्रहणात् प्राग् एव सन्तम् असादौ धर्मिज्ञानम् इत्य् आह -- यत्र वेति। अतः सिद्धम् अस्ति धर्मि धर्माश् च तदनतिरेकिणो जात्यादय इति

atra parihāram āha -- āvirbhāveti dharmyantena. ayam abhiprāyaḥ -- pratīmo hi vayaṃ viṣphāritākṣā rūpādivad ekaṃ dravyaṃ na ca viparyeti tat 1,265 katham anyathā bhaviṣyatīti. yattvabhedena nopalabhyata iti. satyam, kena vā dharmebhyo 'tyantabhedo dharmiṇa upeyate. grāhakābhāvas tu rūpādivadanvayavyatirekābhyāṃ darśanasparśanayor eva sāmarthyapradarśanena parihartavyaḥ. api ca yadi dharmātirikto dharmī na syāt ko 'yam āvirbhāvatirobhāvadharmakeṣu rūpādiṣv anugataḥ pratyabhijñāyate. pratyabhijānīmo hi vayam agnisaṃyogapracyāvitaprācyarūpam upajātarūpāntaraṃ so[690]'yaṃ ghaṭa iti ghaṭam. na ca tadatyantābhede ghaṭate sthityutpattivināśānām ekatrāpātāt. ato 'sti dharmebhyo bhinnaṃ teṣv anugataṃ, dharmirūpaṃ yadvaśād evaṃ vibhāga iti. api cātyantābhedapakṣe dharmagrahaṇam antareṇa dharmī na jñāyetaiva. dṛśyate ca dharmagrahaṇāt prāg eva santam asādau dharmijñānam ity āha -- yatra veti. ataḥ siddham asti dharmi dharmāś ca tadanatirekiṇo jātyādaya iti

Sanskrit only: no published translation is held for this verse.

तद्विशिष्टबोधे पररूपनिरूपणाभावान् नाप्रामाण्यं सविकल्पकज्ञानाम् इत्य् आह -- अत इति

tadviśiṣṭabodhe pararūpanirūpaṇābhāvān nāprāmāṇyaṃ savikalpakajñānām ity āha -- ata iti

Sanskrit only: no published translation is held for this verse.

अस्तु वात्यन्तभेदः, तथापि न मिथ्येत्य् आह -- यस्यापीति द्वयेन। अयम् अभिप्रायः -- नान्यरूपसंवेद्यतामात्रेण मिथ्यात्वं, किन् तु पुनर् अन्यथासंवेदनेन। बाधकप्रत्ययेनेति यावत्। इह च सर्वेषां सर्वदा च तद्रूपा बुद्धिर् इति भावनाया इव धात्वर्थविशिष्टबोधो न मिथ्येति

astu vātyantabhedaḥ, tathāpi na mithyety āha -- yasyāpīti dvayena. ayam abhiprāyaḥ -- nānyarūpasaṃvedyatāmātreṇa mithyātvaṃ, kin tu punar anyathāsaṃvedanena. bādhakapratyayeneti yāvat. iha ca sarveṣāṃ sarvadā ca tadrūpā buddhir iti bhāvanāyā iva dhātvarthaviśiṣṭabodho na mithyeti

Sanskrit only: no published translation is held for this verse.

नैकं रूपाद्यभेदो वा दृष्टं चेन् नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्ने ऽपि शक्तिमत् ॥ प्स् १।२१च्-२२द् (च्फ़्। न्र् १३१,२७-२८) इति, अत्राह -- न चानेकेति। यत् तावद् उक्तं ग्राहकभेदाद् भेद इति। तद् अयुक्तं, भिन्नशरीरस्थचक्षुर् ग्राह्यस्याभिन्नत्वेन हेतोर् अनैकान्तिकत्वाद् इति

naikaṃ rūpādyabhedo vā dṛṣṭaṃ cen nendriyeṇa tat | akṣānekatvavaiyarthyaṃ svārthe bhinne 'pi śaktimat || PS 1.21c-22d (cf. NR 131,27-28) iti, atrāha -- na cāneketi. yat tāvad uktaṃ grāhakabhedād bheda iti. tad ayuktaṃ, bhinnaśarīrasthacakṣur grāhyasyābhinnatvena hetor anaikāntikatvād iti

Sanskrit only: no published translation is held for this verse.

यदि तु चक्षुष्ट्वेनैकत्वाद् इन्द्रियभेद एव तत्र नास्तीत्य् उच्यते, तद् इहापीन्द्रियत्वेन समानम्। अतो बुद्धिभेदनिबन्धन एव भेदो न ग्राहकभेदनिबन्धन इत्य् अभिप्रायेणाह -- जात्यभेदाद् इति। अत एव भिन्नेन्द्रियग्राह्यापि सत्ता एकबुद्धिविषयतया न भिद्यत इत्य् आह -- तुल्येति। सर्वेन्द्रियैर् हि सत्तागुणत्वयोर् ज्ञानम् इति भावः

yadi tu cakṣuṣṭvenaikatvād indriyabheda eva tatra nāstīty ucyate, tad ihāpīndriyatvena samānam. ato buddhibhedanibandhana eva bhedo na grāhakabhedanibandhana ity abhiprāyeṇāha -- jātyabhedād iti. ata eva bhinnendriyagrāhyāpi sattā ekabuddhiviṣayatayā na bhidyata ity āha -- tulyeti. sarvendriyair hi sattāguṇatvayor jñānam iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

रूपाद्यभेदो वेति यद् उक्तं तत्राह -- बुद्धिभेदाद् इति। सिद्धसाधनत्वं वा द्वयोर् अपि प्रयोगयोर् इत्य् आह -- एकेति। सद्रूपेण रूपादीनाम् एकत्वं रूपादिरूपेण च धर्मिणो नानात्वम् इत्य् अर्थः

rūpādyabhedo veti yad uktaṃ tatrāha -- buddhibhedād iti. siddhasādhanatvaṃ vā dvayor api prayogayor ity āha -- eketi. sadrūpeṇa rūpādīnām ekatvaṃ rūpādirūpeṇa ca dharmiṇo nānātvam ity arthaḥ

Sanskrit only: no published translation is held for this verse.

अक्षानेकत्ववैयर्थ्ये परिहारम् आह -- क्वचिच् चेति। न क्वचिद् धर्मिणि त्वक्चक्षुषोः सङ्करो दृष्ट इत्य् एकम् एवाक्षं युक्तम् इत्य् अर्थः। अत्र कारणम् आह -- दार्ढ्येति। यदि हि सङ्करदर्शनाद् एकत्वम् आश्रीयते, तद्दार्ढ्यदौर्बल्यभेदेन व्यवस्था नोपपद्येत। दृढे हि चक्षुषि दुर्बले च श्रोत्रे रूपम् उपलभ्यते। एवं बलवति १,२६७ श्रोत्रे दुर्बले च चक्षुष्य् अपि शब्दः श्रूयते। सेयं चक्षुश् श्रोत्रयोर् विषयव्यवस्था नाक्षैकत्वे घटत इति

akṣānekatvavaiyarthye parihāram āha -- kvacic ceti. na kvacid dharmiṇi tvakcakṣuṣoḥ saṅkaro dṛṣṭa ity ekam evākṣaṃ yuktam ity arthaḥ. atra kāraṇam āha -- dārḍhyeti. yadi hi saṅkaradarśanād ekatvam āśrīyate, taddārḍhyadaurbalyabhedena vyavasthā nopapadyeta. dṛḍhe hi cakṣuṣi durbale ca śrotre rūpam upalabhyate. evaṃ balavati 1,267 śrotre durbale ca cakṣuṣy api śabdaḥ śrūyate. seyaṃ cakṣuś śrotrayor viṣayavyavasthā nākṣaikatve ghaṭata iti

Sanskrit only: no published translation is held for this verse.

नन्व् इयं व्यवस्थानुपपन्नैव, सर्वत्रैव प्रसङ्गात्। यदि हीन्द्रियान्तरम् इन्द्रियान्तरविषये न प्रवर्तते, क्वचिद् अपि न प्रवर्तेत। प्रवृत्तौ वाव्यवस्थया सर्वत्रैव प्रवर्तेत अतिक्रमदर्शनाद् अत आह -- यथा हीति द्वयेन। नेदम् अदृष्टान्तं पक्षीक्रियते यत् क्वचिद् व्यवस्था क्वचित् सङ्कर इति। सङ्कीर्यते हि मनश्चक्षुरादिभिः रूपादिबोधे। सुखादिसंवेदने च व्यवतिष्ठते। अतः कार्यदर्शनानुसारिणौ व्यवस्थासङ्करौ नानुपपन्नौ। न त्व् एकत्र व्यवस्थादर्शनात् सर्वत्रैव सङ्करो निर्वर्तते। क्वचिद् वा दृष्ट इति सर्वत्रैव प्रसजतीति ॥ [१६०] ॥ किं पुनर् अनयोर् व्यवस्थासङ्करयोर् मनसः कारणम् अत आह -- श्रोत्रादेर् इति। उपहतश्रोत्रादिर् अपि शब्दादि स्मरति इत्य् अत आन्तरे स्मृतिसुखादाव् अन्यनिरपेक्षं, वर्तमानं च रूपादि न जानाति। अतस् तत्र बहिःकारणापेक्षं मनः।[६९२]अतः क्वचित् सङ्करः क्वचिच् चासङ्कर इति व्यवस्था सिध्यतीति

nanv iyaṃ vyavasthānupapannaiva, sarvatraiva prasaṅgāt. yadi hīndriyāntaram indriyāntaraviṣaye na pravartate, kvacid api na pravarteta. pravṛttau vāvyavasthayā sarvatraiva pravarteta atikramadarśanād ata āha -- yathā hīti dvayena. nedam adṛṣṭāntaṃ pakṣīkriyate yat kvacid vyavasthā kvacit saṅkara iti. saṅkīryate hi manaścakṣurādibhiḥ rūpādibodhe. sukhādisaṃvedane ca vyavatiṣṭhate. ataḥ kāryadarśanānusāriṇau vyavasthāsaṅkarau nānupapannau. na tv ekatra vyavasthādarśanāt sarvatraiva saṅkaro nirvartate. kvacid vā dṛṣṭa iti sarvatraiva prasajatīti || [160] || kiṃ punar anayor vyavasthāsaṅkarayor manasaḥ kāraṇam ata āha -- śrotrāder iti. upahataśrotrādir api śabdādi smarati ity ata āntare smṛtisukhādāv anyanirapekṣaṃ, vartamānaṃ ca rūpādi na jānāti. atas tatra bahiḥkāraṇāpekṣaṃ manaḥ.[692]ataḥ kvacit saṅkaraḥ kvacic cāsaṅkara iti vyavasthā sidhyatīti

Sanskrit only: no published translation is held for this verse.

एवं कार्यव्यवस्थया व्यवस्थासङ्करौ प्रतिपाद्येदानीम् अक्षैकत्वे दोषम् आह -- एकम् इति। नन्व् एकत्वे ऽपि शक्तिभेदाद् व्यवस्था सेत्स्यति, अत एकम् एव सर्वशरीरव्यापि त्वगिन्द्रियं कल्प्यतां, शक्तयस् तस्य देहभागेषु भिन्ना भवन्तु किम् इन्द्रियभेदेनात आह -- कल्प्यत इति। शक्तिभेदो वा कल्प्यते इन्द्रियभेदो वा। को विशेषः। नन्व् इन्द्रियकल्पनायां १,२६८ शक्तिमद्भेदो ऽप्य् अपरः कल्पनीय इति गौरवम्। अस्तु वा प्रमाणवन्त्य् अदृष्टानि कल्प्यानि सुबहून्य् अपि, सन्ति देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धादिप्रकाशनशक्तयश् चेति वर्णितम्। यत् तु सकलशरीरव्यापिन एकस्यैव वायवीयस्य त्वगिन्द्रियस्य रूपादिप्रकाशनशक्तिकल्पनं तदत्यन्तापरिदृष्टम् अप्रमाणकम् इति भावः। इन्द्रियं भवेद् इति। इन्द्रियस्थाने शक्तिः कल्पनीयतया निपतेद् इत्य् अर्थः

evaṃ kāryavyavasthayā vyavasthāsaṅkarau pratipādyedānīm akṣaikatve doṣam āha -- ekam iti. nanv ekatve 'pi śaktibhedād vyavasthā setsyati, ata ekam eva sarvaśarīravyāpi tvagindriyaṃ kalpyatāṃ, śaktayas tasya dehabhāgeṣu bhinnā bhavantu kim indriyabhedenāta āha -- kalpyata iti. śaktibhedo vā kalpyate indriyabhedo vā. ko viśeṣaḥ. nanv indriyakalpanāyāṃ 1,268 śaktimadbhedo 'py aparaḥ kalpanīya iti gauravam. astu vā pramāṇavanty adṛṣṭāni kalpyāni subahūny api, santi deheṣu pṛthivyādibhūtabhāgāḥ kḷptagandhādiprakāśanaśaktayaś ceti varṇitam. yat tu sakalaśarīravyāpina ekasyaiva vāyavīyasya tvagindriyasya rūpādiprakāśanaśaktikalpanaṃ tadatyantāparidṛṣṭam apramāṇakam iti bhāvaḥ. indriyaṃ bhaved iti. indriyasthāne śaktiḥ kalpanīyatayā nipated ity arthaḥ

Sanskrit only: no published translation is held for this verse.

एवं दार्ढ्यदौर्बल्यभेदेन कार्यव्यवस्थां प्रतिपाद्याक्षानेकत्वं समर्थितम्। इदानीं व्यवस्थानाश्रयणे दोषम् आह -- शृणुयाद् इति। यदि नेन्द्रियाणि व्यवस्थितविषयाणि भवेयुः, बधिरो ऽपि चक्षुष्मान् शब्दं शृणुयात्। चक्षुषो ऽपि तद्विषयव्यापारात्। अतो नैकत्र सङ्करदर्शनेन सर्वत्र तत्कल्पना कार्या। तद् इदं दार्ढ्यदौर्बल्यभेदेनेत्य् अस्यैव व्यतिरेकप्रदर्शनम्। व्यवस्था तावद् दृश्यते। यदि तु सर्वत्रैव सङ्करः स्याद् अयं दोषः स्याद् इति। मनस इदानीं यथा हि मनस इत्य् अनेन निदर्शितयोर्[६९३]व्यवस्थासङ्करयोर् उक्तयोर् व्यतिरेके दोषं दर्शयिष्यन् सङ्करव्यतिरेके तावद् आह -- मनसो वेति। अयम् अर्थः -- यदि मनो बहिर्विषयवेदने स्वतन्त्रं भवेत्, तत्राप्य् अयम् एव दोषः बधिरः शब्दं शृणुयाद् इति। तस्यापि मनसो भावात्। अयं च वर्तमानस्य चाज्ञानाद् इत्य् अनेन यो बहिर्विषयवेदने मनसः सङ्करो दर्शितः तस्य व्यतिरेक इति

evaṃ dārḍhyadaurbalyabhedena kāryavyavasthāṃ pratipādyākṣānekatvaṃ samarthitam. idānīṃ vyavasthānāśrayaṇe doṣam āha -- śṛṇuyād iti. yadi nendriyāṇi vyavasthitaviṣayāṇi bhaveyuḥ, badhiro 'pi cakṣuṣmān śabdaṃ śṛṇuyāt. cakṣuṣo 'pi tadviṣayavyāpārāt. ato naikatra saṅkaradarśanena sarvatra tatkalpanā kāryā. tad idaṃ dārḍhyadaurbalyabhedenety asyaiva vyatirekapradarśanam. vyavasthā tāvad dṛśyate. yadi tu sarvatraiva saṅkaraḥ syād ayaṃ doṣaḥ syād iti. manasa idānīṃ yathā hi manasa ity anena nidarśitayor[693]vyavasthāsaṅkarayor uktayor vyatireke doṣaṃ darśayiṣyan saṅkaravyatireke tāvad āha -- manaso veti. ayam arthaḥ -- yadi mano bahirviṣayavedane svatantraṃ bhavet, tatrāpy ayam eva doṣaḥ badhiraḥ śabdaṃ śṛṇuyād iti. tasyāpi manaso bhāvāt. ayaṃ ca vartamānasya cājñānād ity anena yo bahirviṣayavedane manasaḥ saṅkaro darśitaḥ tasya vyatireka iti

Sanskrit only: no published translation is held for this verse.

अन्तर्विषयवेदने च यन्मनसः स्वातन्त्र्यम् उक्तं तद्व्यतिरेके दोषम् आह -- न स्मरेद् इति। यदि ह्य् आन्तरे ऽपि बहिर्विषयवेदनवन्मनो बाह्यापेक्षं भवेद्, बधिरः शब्दं न स्मरेत् श्रोत्राभावात्। अथासत्य् अपि कारणे १,२६९ स्मृतिः स्याद्, एवम् एव वर्तमानोपलब्धिर् अपि भवेत्। अयं च श्रोत्रादेर् उपघाते ऽपीत्य् अनेनोक्ताया आन्तरेषु मनसो व्यवस्थाया व्यतिरेक इति

antarviṣayavedane ca yanmanasaḥ svātantryam uktaṃ tadvyatireke doṣam āha -- na smared iti. yadi hy āntare 'pi bahirviṣayavedanavanmano bāhyāpekṣaṃ bhaved, badhiraḥ śabdaṃ na smaret śrotrābhāvāt. athāsaty api kāraṇe 1,269 smṛtiḥ syād, evam eva vartamānopalabdhir api bhavet. ayaṃ ca śrotrāder upaghāte 'pīty anenoktāyā āntareṣu manaso vyavasthāyā vyatireka iti

Sanskrit only: no published translation is held for this verse.

परतन्त्रं बहिर्विषयवेदने मन इत्य् उक्तम्। किं पुनः कारणं बाह्यबोधे मनो व्याप्रियत इति। सन्ति चक्षुरादीन्य् एव तत्र कारणानि अत आह -- स्मृतिश् चेति वेलायामन्तेन। अयम् अभिप्रायः -- एवंवादिना[६९४]मन एवाक्षिप्यते। तत्र चैतद् एव तावद् वक्तव्यम्। आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्[६९५]च मनसो लिङ्गम् इति। अस्ति खल्व् आत्मा। सन्निकृष्यते च नानार्थैर् नायनं तेजः। किञ्चिद् एव तु ज्ञायते न सर्वम्। तत् कस्य हेतोः कारणवैकल्येन कार्यप्रतिबन्धो दृष्टः यथा सत्सु तन्तुषु पटो नोत्पद्यते तन्तुसंयोगानाम् अभावात्। एवम् इहाप्य् अस्ति तदन्यद् ज्ञानकारणं यस्मिन्न् अव्याप्रियमाणे न ज्ञानम् उत्पद्यते व्याप्रियमाणे च भवति। तच् च मन इत्य् उच्यते। अपि च श्रोत्रादिभिः शब्दाद्युपलब्धिकाले यदि मनो न व्याप्रियते, कथम् उत्तरकालं स्मरणम् उपपद्येत। मनो हि स्मृत्युत्पत्तौ कारणम्। तद् यदि शब्दाद्युपलब्धिवेलायां मनो व्यापृतं भवति, ततः पूर्वम् असाव् अर्थो मनसा प्रकाशित इति परस्ताद् अपि स्मर्यत इत्य् उपपन्नं भवति। बाह्येन्द्रियमात्रकारणके तु पूर्वज्ञाने तेषां स्मृतिसमवाये व्यापाराभावात् स्मृतिर् न स्यात्। न ह्य् अकारणिका ज्ञानोत्पत्तिः सम्भवति। अतो ऽस्ति बहिर्विषयबोधे मनोव्यापारः। सुखादिसंवेदनं चासत्त्वे मनसो नोपपद्येतेति। अपि चासत्त्वे मनसो यद् इदं पूर्वानुभूतानां सर्वेषाम् अस्मरणं तन्नोपपद्यते। किञ्चिद् एव तु कदाचित् कश्चित् स्मरतीति दृश्यते। तद् एवम् उपपद्यते यद्य् अस्ति किञ्चिद् अन्तःकरणं, तदात्मसंयोगविशेषेण हि तदा स्मृतिर् व्यवतिष्ठते। न च संस्कारोद्बोधानुद्बोधकृता व्यवस्था। अनुग्राहको हि करणानां संस्कारः न स्वतन्त्रः करणम्। इतरथा तु स एवान्तःकरणम् आपद्येतेत्य् आह -- न चेति

paratantraṃ bahirviṣayavedane mana ity uktam. kiṃ punaḥ kāraṇaṃ bāhyabodhe mano vyāpriyata iti. santi cakṣurādīny eva tatra kāraṇāni ata āha -- smṛtiś ceti velāyāmantena. ayam abhiprāyaḥ -- evaṃvādinā[694]mana evākṣipyate. tatra caitad eva tāvad vaktavyam. ātmendriyārthasannikarṣe jñānasyābhāvo bhāvaś[695]ca manaso liṅgam iti. asti khalv ātmā. sannikṛṣyate ca nānārthair nāyanaṃ tejaḥ. kiñcid eva tu jñāyate na sarvam. tat kasya hetoḥ kāraṇavaikalyena kāryapratibandho dṛṣṭaḥ yathā satsu tantuṣu paṭo notpadyate tantusaṃyogānām abhāvāt. evam ihāpy asti tadanyad jñānakāraṇaṃ yasminn avyāpriyamāṇe na jñānam utpadyate vyāpriyamāṇe ca bhavati. tac ca mana ity ucyate. api ca śrotrādibhiḥ śabdādyupalabdhikāle yadi mano na vyāpriyate, katham uttarakālaṃ smaraṇam upapadyeta. mano hi smṛtyutpattau kāraṇam. tad yadi śabdādyupalabdhivelāyāṃ mano vyāpṛtaṃ bhavati, tataḥ pūrvam asāv artho manasā prakāśita iti parastād api smaryata ity upapannaṃ bhavati. bāhyendriyamātrakāraṇake tu pūrvajñāne teṣāṃ smṛtisamavāye vyāpārābhāvāt smṛtir na syāt. na hy akāraṇikā jñānotpattiḥ sambhavati. ato 'sti bahirviṣayabodhe manovyāpāraḥ. sukhādisaṃvedanaṃ cāsattve manaso nopapadyeteti. api cāsattve manaso yad idaṃ pūrvānubhūtānāṃ sarveṣām asmaraṇaṃ tannopapadyate. kiñcid eva tu kadācit kaścit smaratīti dṛśyate. tad evam upapadyate yady asti kiñcid antaḥkaraṇaṃ, tadātmasaṃyogaviśeṣeṇa hi tadā smṛtir vyavatiṣṭhate. na ca saṃskārodbodhānudbodhakṛtā vyavasthā. anugrāhako hi karaṇānāṃ saṃskāraḥ na svatantraḥ karaṇam. itarathā tu sa evāntaḥkaraṇam āpadyetety āha -- na ceti

Sanskrit only: no published translation is held for this verse.

आह -- सेत्स्यत्य् अयं बाह्यान्तःकरणविवेकः। करणसद्भाव एव तु किं कारणं, बोधस्वभावो हि पुरुषः। तदयम् अन्यनिरपेक्ष एव शब्दादीन् १,२७० भोत्स्यते, अत आह -- बोधेति। यदि ह्य् अयं बोध[६९६]स्वभावो ऽन्यनिरपेक्षो बुध्यते, युगपद् एव विश्वं जानीयात्। अतो ऽवश्यमस्य नियामकानि कारणान्य् अभ्युपगन्तव्यानीति

āha -- setsyaty ayaṃ bāhyāntaḥkaraṇavivekaḥ. karaṇasadbhāva eva tu kiṃ kāraṇaṃ, bodhasvabhāvo hi puruṣaḥ. tadayam anyanirapekṣa eva śabdādīn 1,270 bhotsyate, ata āha -- bodheti. yadi hy ayaṃ bodha[696]svabhāvo 'nyanirapekṣo budhyate, yugapad eva viśvaṃ jānīyāt. ato 'vaśyamasya niyāmakāni kāraṇāny abhyupagantavyānīti

Sanskrit only: no published translation is held for this verse.

प्रकृताव् इदानीं व्यवस्थासङ्करौ[६९७]ग्राह्यग्राहकशक्तिद्वारेणोपवर्णिताव् उपसंहरति -- तस्माद् इति। कार्यद्वारेण हि ग्राह्यग्राहकशक्तयः। ताभ्यो व्यवस्थासङ्करसिद्धिर् इति

prakṛtāv idānīṃ vyavasthāsaṅkarau[697]grāhyagrāhakaśaktidvāreṇopavarṇitāv upasaṃharati -- tasmād iti. kāryadvāreṇa hi grāhyagrāhakaśaktayaḥ. tābhyo vyavasthāsaṅkarasiddhir iti

Sanskrit only: no published translation is held for this verse.

ननु कार्यानुसारेणेन्द्रियभेदे वर्ण्यमाने नीलादिभेदभिन्नानेकदर्शनात् तदनुसारिणीन्द्रियकल्पना न व्यवतिष्ठेतैव, अत आह -- चक्षूरूपादीति। नानाविधम् अपि हि रूपं विष्फारिताक्षा बुध्यन्त इत्य् अवान्तरभेदम् अनादृत्य रूपमात्रप्रकाशकम् एव चक्षुर् इति निश्चीयते। एवं श्रोत्रे ऽपि दर्शयितव्यम्। अतो नेन्द्रियानन्त्यम्। चक्षूरूपादीति। चक्षुरादिभेदो रूपादिभेदवशेनेति। आदिशब्दस्य प्रत्येकम् अभिसम्बन्ध इति

nanu kāryānusāreṇendriyabhede varṇyamāne nīlādibhedabhinnānekadarśanāt tadanusāriṇīndriyakalpanā na vyavatiṣṭhetaiva, ata āha -- cakṣūrūpādīti. nānāvidham api hi rūpaṃ viṣphāritākṣā budhyanta ity avāntarabhedam anādṛtya rūpamātraprakāśakam eva cakṣur iti niścīyate. evaṃ śrotre 'pi darśayitavyam. ato nendriyānantyam. cakṣūrūpādīti. cakṣurādibhedo rūpādibhedavaśeneti. ādiśabdasya pratyekam abhisambandha iti

Sanskrit only: no published translation is held for this verse.

सुखग्रहणार्थम् इदानीं व्यवस्थासङ्करौ संक्षिप्य दर्शयति -- तस्माद् इति। स्पर्शवद्द्रव्यपरिमाणं मूर्तिः। असर्वगतद्रव्यपरिमाणं वा, तद्विशिष्टानि भूम्यप्तेजांसि द्रव्याणि द्वाभ्यां दर्शनस्पर्शनाभ्याम् उपलभ्यन्ते। रूपादिपञ्चकं वैकैकशश् चक्षुरादिभिः। एवं द्रव्यान्तरगुणान्तरकर्मणां जातेश् च यथादर्शनं व्यवस्थासङ्कराव् अनुसन्धातव्याव् इति

sukhagrahaṇārtham idānīṃ vyavasthāsaṅkarau saṃkṣipya darśayati -- tasmād iti. sparśavaddravyaparimāṇaṃ mūrtiḥ. asarvagatadravyaparimāṇaṃ vā, tadviśiṣṭāni bhūmyaptejāṃsi dravyāṇi dvābhyāṃ darśanasparśanābhyām upalabhyante. rūpādipañcakaṃ vaikaikaśaś cakṣurādibhiḥ. evaṃ dravyāntaraguṇāntarakarmaṇāṃ jāteś ca yathādarśanaṃ vyavasthāsaṅkarāv anusandhātavyāv iti

Sanskrit only: no published translation is held for this verse.

१,२७१ एवं तावद् अस्ति धर्मी ग्राहकभेदे चाभिन्नः। जात्यादयश् च तदनतिरेकिणो धर्मा इति पररूपनिरूपणाभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् उक्तम्। इदानीम् अशब्दरूपाणाम् एव भावानां सविकल्पकज्ञानेषु शब्दाकारेण निरूप्यमाणत्वाद् अस्ति पाररूप्यम् इति ये वदन्ति, तेषां मतम् उपन्यस्यति -- नन्व् इति। अयम् अर्थः -- यद्य् अपि जात्यादिरूपो धर्मी, तथापि तेषाम् एव शब्दातिरिक्तानाम् अभावात् तद्रूपेण वस्तुनि निरूप्यमाणे शब्दात्मनैव निरूपणम् आपद्यते। ततश् चाशब्दात्मनां शब्दात्मना निरूपणे पुनर् अपि पाररूप्यम् आपन्नम् इति मृगतृष्णादिज्ञानवद् एव पञ्च विकल्पा मिथ्या स्युर् इति

1,271 evaṃ tāvad asti dharmī grāhakabhede cābhinnaḥ. jātyādayaś ca tadanatirekiṇo dharmā iti pararūpanirūpaṇābhāvān na savikalpakajñānānāṃ mithyātvam ity uktam. idānīm aśabdarūpāṇām eva bhāvānāṃ savikalpakajñāneṣu śabdākāreṇa nirūpyamāṇatvād asti pārarūpyam iti ye vadanti, teṣāṃ matam upanyasyati -- nanv iti. ayam arthaḥ -- yady api jātyādirūpo dharmī, tathāpi teṣām eva śabdātiriktānām abhāvāt tadrūpeṇa vastuni nirūpyamāṇe śabdātmanaiva nirūpaṇam āpadyate. tataś cāśabdātmanāṃ śabdātmanā nirūpaṇe punar api pārarūpyam āpannam iti mṛgatṛṣṇādijñānavad eva pañca vikalpā mithyā syur iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- न शब्देति। कारणम् आह -- प्राग् इति। बुद्धिर् एवात्र शब्दाकारा नास्तीति भावः

pariharati -- na śabdeti. kāraṇam āha -- prāg iti. buddhir evātra śabdākārā nāstīti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- नन्व् इति द्वयेन। अयम् अर्थः -- किम् इदं प्राग् शब्दाद् यादृशी बुद्धिर् इत्य् उच्यते। न हि शब्दार्थसम्बन्धज्ञानात् प्राग् गोत्वशुक्लत्वादिरूपेण गवाकारादिभावविषया बुद्धयो भवन्ति। शब्दसम्बन्धोत्तरकालम् एव तद्रूपा बुद्धिर् उत्पद्यते। तद् यदि शब्दातिरेकिणो जात्यादयः सन्ति तेषां च तद्रूपत्वं, ततः प्राग् अपि शब्दसम्बन्धाद् अशब्दज्ञो ऽपि तद्रूपं लक्षयेत्। न च लक्षयति। अतः शब्दान्वयव्यतिरेकानुविधानाच् छब्दस्यैव तद्रूपत्वम् इति निश्चीयत इति

atra codayati -- nanv iti dvayena. ayam arthaḥ -- kim idaṃ prāg śabdād yādṛśī buddhir ity ucyate. na hi śabdārthasambandhajñānāt prāg gotvaśuklatvādirūpeṇa gavākārādibhāvaviṣayā buddhayo bhavanti. śabdasambandhottarakālam eva tadrūpā buddhir utpadyate. tad yadi śabdātirekiṇo jātyādayaḥ santi teṣāṃ ca tadrūpatvaṃ, tataḥ prāg api śabdasambandhād aśabdajño 'pi tadrūpaṃ lakṣayet. na ca lakṣayati. ataḥ śabdānvayavyatirekānuvidhānāc chabdasyaiva tadrūpatvam iti niścīyata iti

Sanskrit only: no published translation is held for this verse.

१,२७२ परिहरति -- यथेति। यथैव हि रूपरसगन्धस्पर्शशब्दा एवाक्षजायां बुद्धौ विभक्ता भासन्ते विनापि शब्दम्, एवं गोत्वादिजातयो गमनादीनि कर्माणि प्राग् अपि शब्दान् निर्विकल्पकेनापि विलक्षणेन रूपेण प्रतीयन्त एव। सम्बन्धग्रहणोत्तरकालं तु केवलं संज्ञासंज्ञिसम्बन्धग्रहणम् एवाधिकं नापरं किञ्चित्। यदि तु शब्दादयो न सन्तीत्य् उच्यते, कस्याध्यास इति वक्तव्यम् इति

1,272 pariharati -- yatheti. yathaiva hi rūparasagandhasparśaśabdā evākṣajāyāṃ buddhau vibhaktā bhāsante vināpi śabdam, evaṃ gotvādijātayo gamanādīni karmāṇi prāg api śabdān nirvikalpakenāpi vilakṣaṇena rūpeṇa pratīyanta eva. sambandhagrahaṇottarakālaṃ tu kevalaṃ saṃjñāsaṃjñisambandhagrahaṇam evādhikaṃ nāparaṃ kiñcit. yadi tu śabdādayo na santīty ucyate, kasyādhyāsa iti vaktavyam iti

Sanskrit only: no published translation is held for this verse.

सिध्यत्य् अपि शब्दात्मकता यदि शब्दसम्भेदात् प्राग् गोत्वादयो न प्रतीयन्त एव। न त्व् एतद् अस्ति, अगृहीतसम्बन्धस्यापि तद्बोधोत्पादाद् इत्य् आह -- न चेति

sidhyaty api śabdātmakatā yadi śabdasambhedāt prāg gotvādayo na pratīyanta eva. na tv etad asti, agṛhītasambandhasyāpi tadbodhotpādād ity āha -- na ceti

Sanskrit only: no published translation is held for this verse.

परस्ताद् अपि नाभेदोपचारो ऽस्तीत्य् आह -- श्रुतीति। कारणम् आह -- विवेकाद् इति। द्वाभ्याम्[६९८]इन्द्रियाभ्यां द्वाव् अर्थशब्दौ गम्येते इत्य् अर्थः

parastād api nābhedopacāro 'stīty āha -- śrutīti. kāraṇam āha -- vivekād iti. dvābhyām[698]indriyābhyāṃ dvāv arthaśabdau gamyete ity arthaḥ

Sanskrit only: no published translation is held for this verse.

अन्यतरधर्मनिष्कर्षमात्रे तु शब्दस्य व्यापारः, न स्वरूपारोप इत्य् आह -- अनन्तेति

anyataradharmaniṣkarṣamātre tu śabdasya vyāpāraḥ, na svarūpāropa ity āha -- ananteti

Sanskrit only: no published translation is held for this verse.

स्याद् एतत् -- उपायः शब्दो ऽर्थबोधे। उपायधर्माश् चोपेये ऽध्यारोप्यमाणा दृष्टा दर्पणादिधर्मा इव मुखादौ, अत आह -- न चेति। अनैकान्तिको हेतुर् इति भावः

syād etat -- upāyaḥ śabdo 'rthabodhe. upāyadharmāś copeye 'dhyāropyamāṇā dṛṣṭā darpaṇādidharmā iva mukhādau, ata āha -- na ceti. anaikāntiko hetur iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

१,२७३ अत्रापरे वदन्ति -- न वयं जात्यादीन् अपलपामः। किं तर्हि। गौर् अयम् इति सामानाधिकरण्येन शब्दरूपानुविद्धबोधाद् रूपसमारोपम् आचक्ष्महे इति। तान् प्रत्याह -- नित्यम् इति। अयम् अभिप्रायः -- यदि शब्दरूपानुविद्ध एव सर्वदा गोत्वादिबोधः रूपान्तरं तु तेषं कदाचिद् अपि न दृष्टं, कथं तर्हि शब्दरूपात् तद्रूपभेदसिद्धिः, असति भेदे कुत्र किम् अध्यस्त्यत इति

1,273 atrāpare vadanti -- na vayaṃ jātyādīn apalapāmaḥ. kiṃ tarhi. gaur ayam iti sāmānādhikaraṇyena śabdarūpānuviddhabodhād rūpasamāropam ācakṣmahe iti. tān pratyāha -- nityam iti. ayam abhiprāyaḥ -- yadi śabdarūpānuviddha eva sarvadā gotvādibodhaḥ rūpāntaraṃ tu teṣaṃ kadācid api na dṛṣṭaṃ, kathaṃ tarhi śabdarūpāt tadrūpabhedasiddhiḥ, asati bhede kutra kim adhyastyata iti

Sanskrit only: no published translation is held for this verse.

अभेदाभ्युपगमे च पाररूप्याभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् आह -- यद्य् अभेद इति। पारमार्थिके तु स्वरूपभेदाभ्युपगमे ऽध्यारोपवाचोयुक्तिर् अनर्थिका। न ह्य् असङ्कीर्णस्वभावं वस्तु वस्त्वन्तरात्मना भ्रान्तिवर्जितैर् आरोपयितुं शक्यते। न च सर्वदा सर्वेषां भ्रान्तिः सम्भवति, तद् एतद् आह -- भेदश् चेद् इति। अतो भ्रान्त्यैवेयम् अध्यासकल्पना तद्वादिनाम् इत्य् आह -- भ्रान्त्येति

abhedābhyupagame ca pārarūpyābhāvān na savikalpakajñānānāṃ mithyātvam ity āha -- yady abheda iti. pāramārthike tu svarūpabhedābhyupagame 'dhyāropavācoyuktir anarthikā. na hy asaṅkīrṇasvabhāvaṃ vastu vastvantarātmanā bhrāntivarjitair āropayituṃ śakyate. na ca sarvadā sarveṣāṃ bhrāntiḥ sambhavati, tad etad āha -- bhedaś ced iti. ato bhrāntyaiveyam adhyāsakalpanā tadvādinām ity āha -- bhrāntyeti

Sanskrit only: no published translation is held for this verse.

भ्रान्तौ बीजम् आह -- शब्देनेति। गृहीतो ह्य् अर्थो न शब्दम् अन्तरेण निर्देष्टुं शक्यत इति भावः। तथापि किम् अत आह -- गौर् इति। त्रयाणाम् अपि वाच्यवाचकज्ञानानां समानो निर्देशः गौर्[६९९]इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इति। वाच्यं च स च बुद्धिश् च वाच्यतद्बुद्धयः। तद्वादिनां पुरुषाणां गौर् इति समानो निर्देशः प्रतीयत इत्य् अर्थः

bhrāntau bījam āha -- śabdeneti. gṛhīto hy artho na śabdam antareṇa nirdeṣṭuṃ śakyata iti bhāvaḥ. tathāpi kim ata āha -- gaur iti. trayāṇām api vācyavācakajñānānāṃ samāno nirdeśaḥ gaur[699]iti śabdo gaur ity artho gaur iti jñānam iti. vācyaṃ ca sa ca buddhiś ca vācyatadbuddhayaḥ. tadvādināṃ puruṣāṇāṃ gaur iti samāno nirdeśaḥ pratīyata ity arthaḥ

Sanskrit only: no published translation is held for this verse.

तथापि किं जातम् अत आह -- निर्देशेति। अयम् अर्थः -- एवं हि श्रोता विकल्पयति यतो ऽयं वक्ता त्रिष्व् अपि समानं शब्दं प्रयुङ्क्ते, अतो १,२७४ ऽस्यानुभवस् त्रिष्व् अपि समान एव। तद्वच् च स्वयम् अपि सविकल्पकज्ञानप्रमेयम् अर्थं बुध्यमानस् त्रिगोचरस्य ज्ञानस्य वक्तृस्वरूपताम् अध्यवस्यति। यादृशं वक्त्रा प्रतिपन्नं तादृग् एव प्रतिपद्यत इति यावत्। एवं पूर्वपूर्ववक्त्रनुसारेणोत्तरोत्तरेषां श्रोतॄणां निर्देशसाधारण्याद् अध्यासभ्रम इति

tathāpi kiṃ jātam ata āha -- nirdeśeti. ayam arthaḥ -- evaṃ hi śrotā vikalpayati yato 'yaṃ vaktā triṣv api samānaṃ śabdaṃ prayuṅkte, ato 1,274 'syānubhavas triṣv api samāna eva. tadvac ca svayam api savikalpakajñānaprameyam arthaṃ budhyamānas trigocarasya jñānasya vaktṛsvarūpatām adhyavasyati. yādṛśaṃ vaktrā pratipannaṃ tādṛg eva pratipadyata iti yāvat. evaṃ pūrvapūrvavaktranusāreṇottarottareṣāṃ śrotṝṇāṃ nirdeśasādhāraṇyād adhyāsabhrama iti

Sanskrit only: no published translation is held for this verse.

यदि निर्देशसाधारण्याद् भ्रान्तिः, अर्थाध्यास एव किं न शब्दबुद्ध्योः प्रतिपाद्यते। समानं हि भ्रान्तिबीजम् अत आह -- भ्रान्तीति। उपायो ह्य् अर्थस्य जडात्मनः स्वयम् अप्रकाशस्य मतिश्रुती। उपायपूर्विका चोपेयस्थितिर् इति तत्पूर्वम् अर्थं बुध्यमानास् तदध्यासं मन्यन्ते। श्रुतिश् च श्रूयत इति शब्दो ऽभिधीयते। मत्यध्यासश् च पूर्वम् अनुपक्षिप्तो ऽपि कैश्चिद् आश्रितः। स च शब्दाध्यासनिराकरणेनैव तुल्यन्यायतया निराकृतो भविष्यतीत्य् उपन्यस्तः। एवं बौद्धगन्धिवैयाकरणा मन्यन्ते -- जात्यादिर् अर्थो व्यतिरेकाव्यतिरेकविकल्पदूरीकृतनिरूपणः।[७००]शून्याङ्कुरजन्मादौ तु बाह्या[७०१]सम्भवाद् अशक्यो ऽभ्युपगन्तुम्, अतो ज्ञानाकार एवार्थ इति। तद् अपि ज्ञानात् प्राग् एवार्थरूपोपलम्भात् तद्द्वारेणैव ज्ञानावधारणान् निराकृतं वेदितव्यम्। विकल्पपरिहारस् त्व् आकृतिग्रन्थे वक्ष्यते। शून्यादौ तु बाह्यार्थसम्भवो निरालम्बनवाद इति

yadi nirdeśasādhāraṇyād bhrāntiḥ, arthādhyāsa eva kiṃ na śabdabuddhyoḥ pratipādyate. samānaṃ hi bhrāntibījam ata āha -- bhrāntīti. upāyo hy arthasya jaḍātmanaḥ svayam aprakāśasya matiśrutī. upāyapūrvikā copeyasthitir iti tatpūrvam arthaṃ budhyamānās tadadhyāsaṃ manyante. śrutiś ca śrūyata iti śabdo 'bhidhīyate. matyadhyāsaś ca pūrvam anupakṣipto 'pi kaiścid āśritaḥ. sa ca śabdādhyāsanirākaraṇenaiva tulyanyāyatayā nirākṛto bhaviṣyatīty upanyastaḥ. evaṃ bauddhagandhivaiyākaraṇā manyante -- jātyādir artho vyatirekāvyatirekavikalpadūrīkṛtanirūpaṇaḥ.[700]śūnyāṅkurajanmādau tu bāhyā[701]sambhavād aśakyo 'bhyupagantum, ato jñānākāra evārtha iti. tad api jñānāt prāg evārtharūpopalambhāt taddvāreṇaiva jñānāvadhāraṇān nirākṛtaṃ veditavyam. vikalpaparihāras tv ākṛtigranthe vakṣyate. śūnyādau tu bāhyārthasambhavo nirālambanavāda iti

Sanskrit only: no published translation is held for this verse.

निपुणं तु चिन्तयतां त्रिष्व् अपि विलक्षणा बुद्धिर् उपजायत इत्य् आह -- गोत्व इति। उभयोर् ज्ञानम् अनाकारम् अनुमीयत इत्य् अर्थः

nipuṇaṃ tu cintayatāṃ triṣv api vilakṣaṇā buddhir upajāyata ity āha -- gotva iti. ubhayor jñānam anākāram anumīyata ity arthaḥ

Sanskrit only: no published translation is held for this verse.

अयम् अपरः शब्दाध्यासे दोष इत्य् आह -- यदि चेति। शब्देन सहाभेदरूपेणेत्य् अर्थः। अक्षादौ शब्दे ऽध्यस्यमाने शब्दैकत्वात् तद्रूपत्वाच् चार्थस्य देवनादेर् एकत्वं प्रसज्यत इति

ayam aparaḥ śabdādhyāse doṣa ity āha -- yadi ceti. śabdena sahābhedarūpeṇety arthaḥ. akṣādau śabde 'dhyasyamāne śabdaikatvāt tadrūpatvāc cārthasya devanāder ekatvaṃ prasajyata iti

Sanskrit only: no published translation is held for this verse.

१,२७५ नन्व् अस्त्य् एवानक्षनिवृत्त्या त्रिष्व् अप्य् एकत्वं, न। शब्दात् प्रागनवगतेः। अगृहीतसम्बन्धस्य च शब्दस्याप्रत्यायकत्वात्। तद् एतद् आशङ्कया सहाह -- स्याद् इति। अध्यासवादी स्वाभिप्रायेण चोदयति -- गवादिष्व् इति। इतरश् च[७०२]स्वमतत्वेनोत्तरम् आह -- नेति। कारणम् आह -- एकेति। दृश्यते हि प्राग् एव शब्दान् निर्विकल्पकेनाप्य् एकं रूपम् अनुगतम् इति प्राग् एवोक्तम् इति

1,275 nanv asty evānakṣanivṛttyā triṣv apy ekatvaṃ, na. śabdāt prāganavagateḥ. agṛhītasambandhasya ca śabdasyāpratyāyakatvāt. tad etad āśaṅkayā sahāha -- syād iti. adhyāsavādī svābhiprāyeṇa codayati -- gavādiṣv iti. itaraś ca[702]svamatatvenottaram āha -- neti. kāraṇam āha -- eketi. dṛśyate hi prāg eva śabdān nirvikalpakenāpy ekaṃ rūpam anugatam iti prāg evoktam iti

Sanskrit only: no published translation is held for this verse.

विभीतकादिषु नैकरूपानुगमो ऽस्तीत्य् आह -- त्रय इति। शब्द एवात्र साधारणो गवादिजातिशब्दविलक्षणो नार्थ इति

vibhītakādiṣu naikarūpānugamo 'stīty āha -- traya iti. śabda evātra sādhāraṇo gavādijātiśabdavilakṣaṇo nārtha iti

Sanskrit only: no published translation is held for this verse.

किं पुनर् अत्राप्य् एकशब्दवाच्यतया शाबलेयादिवदेकधर्मान्वयो नेष्यते। अत आह -- परस्परेति। अयं च विविक्ताकृतिबोधो ऽध्यासपक्षे न युक्तः। शब्दरूपस्याविभागाद् इत्य् आह -- तदध्यास इति

kiṃ punar atrāpy ekaśabdavācyatayā śābaleyādivadekadharmānvayo neṣyate. ata āha -- paraspareti. ayaṃ ca viviktākṛtibodho 'dhyāsapakṣe na yuktaḥ. śabdarūpasyāvibhāgād ity āha -- tadadhyāsa iti

Sanskrit only: no published translation is held for this verse.

ननु न वर्णः शब्दः। किं तर्हि। स्फोटः। तद् इह भिन्नार्थप्रत्ययावसेय एव भिन्नः स्फोट इत्य् आशङ्कते -- भिन्नाः स्युर् इति। तत्र परिहारम् आह -- नेति। कारणम् आह -- अर्थ इति। संशयो ह्य् अर्थ उच्चरिते शब्दे भवति। स शब्दभेदे न भवेद् इति भावः। यदि संशयः ततः किम् अत आह -- न सामान्याद् इति। सामान्यदर्शननिबन्धनो हि संशयः। स शब्दभेदे ऽनुपपन्न इति। शब्दसादृश्यात् तर्हि संशयो भविष्यतीत्य् अत आह -- रूपाभेद इति। अयम् अभिप्रायः -- न वर्णातिरिक्तः पदस्फोटो ऽस्तीति वक्ष्यामः। वर्णा एव हि पदं, ते चाभिन्नरूपाः प्रतीयन्त इति

nanu na varṇaḥ śabdaḥ. kiṃ tarhi. sphoṭaḥ. tad iha bhinnārthapratyayāvaseya eva bhinnaḥ sphoṭa ity āśaṅkate -- bhinnāḥ syur iti. tatra parihāram āha -- neti. kāraṇam āha -- artha iti. saṃśayo hy artha uccarite śabde bhavati. sa śabdabhede na bhaved iti bhāvaḥ. yadi saṃśayaḥ tataḥ kim ata āha -- na sāmānyād iti. sāmānyadarśananibandhano hi saṃśayaḥ. sa śabdabhede 'nupapanna iti. śabdasādṛśyāt tarhi saṃśayo bhaviṣyatīty ata āha -- rūpābheda iti. ayam abhiprāyaḥ -- na varṇātiriktaḥ padasphoṭo 'stīti vakṣyāmaḥ. varṇā eva hi padaṃ, te cābhinnarūpāḥ pratīyanta iti

Sanskrit only: no published translation is held for this verse.

१,२७६ दुर्भणः शब्दभेद इति दूषणान्तरम् आह -- भवत्यादाव् इति

1,276 durbhaṇaḥ śabdabheda iti dūṣaṇāntaram āha -- bhavatyādāv iti

Sanskrit only: no published translation is held for this verse.

अयं चापरो दोष इत्य् आह -- शब्देति कथमन्तेन। अभिन्ना हि शब्दस्य निष्पन्नरूपता नामाख्यातयोर् इति। इदं च नोपपद्यत इत्य् आह -- कथं चेति। कः पुनर् मूर्तो ऽर्थः। न तावज् जातिः अमूर्तत्वात्। व्यक्तिस् त्व् अध्यासवादिभिर् अपि नापलपितैव। सा च मूर्तैवेति। को दोषः। सत्यम्। इदं तु परिणामविवर्तवादिनः प्रत्युक्तम्। परिणामवादिनो हि वाग् एवार्थात्मना परिणमतीति मन्यन्ते, त उपालभ्यन्ते। कथम् अमूर्तस्य मूर्तः परिणामः। मूर्तानां हि मृदादीनां मूर्तो घटादिपरिणामो भवतीति युक्तम्। एवं विवर्तवादे ऽपि वाच्यम्। मूर्तं हि मुखम् आदर्शे विवृत्तं युक्तं यद् मूर्तम् उपलभ्यते। अमूर्तविवर्ते तु कथं मूर्तनिर्भासा बुद्धिर् इति

ayaṃ cāparo doṣa ity āha -- śabdeti kathamantena. abhinnā hi śabdasya niṣpannarūpatā nāmākhyātayor iti. idaṃ ca nopapadyata ity āha -- kathaṃ ceti. kaḥ punar mūrto 'rthaḥ. na tāvaj jātiḥ amūrtatvāt. vyaktis tv adhyāsavādibhir api nāpalapitaiva. sā ca mūrtaiveti. ko doṣaḥ. satyam. idaṃ tu pariṇāmavivartavādinaḥ pratyuktam. pariṇāmavādino hi vāg evārthātmanā pariṇamatīti manyante, ta upālabhyante. katham amūrtasya mūrtaḥ pariṇāmaḥ. mūrtānāṃ hi mṛdādīnāṃ mūrto ghaṭādipariṇāmo bhavatīti yuktam. evaṃ vivartavāde 'pi vācyam. mūrtaṃ hi mukham ādarśe vivṛttaṃ yuktaṃ yad mūrtam upalabhyate. amūrtavivarte tu kathaṃ mūrtanirbhāsā buddhir iti

Sanskrit only: no published translation is held for this verse.

तथा यच् चेदं गवाश्वादयो जातिशब्दाः शुक्लादयो गुणशब्दा इति विभज्यन्ते, तद् अपि वाच्यरूपानपेक्षणे नोपपद्यत इत्य् आह -- गवाश्वेति ॥ विशेषणविशेष्यभावो ऽपि बाह्यार्थानपेक्षया न व्यवतिष्ठत इत्य् आह -- वृक्षप्लक्षादीति

tathā yac cedaṃ gavāśvādayo jātiśabdāḥ śuklādayo guṇaśabdā iti vibhajyante, tad api vācyarūpānapekṣaṇe nopapadyata ity āha -- gavāśveti || viśeṣaṇaviśeṣyabhāvo 'pi bāhyārthānapekṣayā na vyavatiṣṭhata ity āha -- vṛkṣaplakṣādīti

Sanskrit only: no published translation is held for this verse.

सामानाधिकरण्यं च नीलोत्पलादिषु शब्दबुद्ध्योर् इवार्थबुद्ध्योर् अपि नाध्यास उपपन्न इत्य् आह -- सामानाधिकरण्यम् इति। अपि च १,२७७ एकत्रोपसंहृते बुद्धी समानाधिकरणे भवतः। तद् इहाध्यासवादिनां कुत्रैकत्रोपसंहारो वाच्यः। न तावद् असाधारणे, तस्यापि कल्पनीयत्वाद् इत्य् आह -- एकत्रेति। अस्मन्मते तु वाच्यभागानुप्रवेशद्वारेणास्त्य् एकत्रोपसंहार इति विवेचनीयम् इति

sāmānādhikaraṇyaṃ ca nīlotpalādiṣu śabdabuddhyor ivārthabuddhyor api nādhyāsa upapanna ity āha -- sāmānādhikaraṇyam iti. api ca 1,277 ekatropasaṃhṛte buddhī samānādhikaraṇe bhavataḥ. tad ihādhyāsavādināṃ kutraikatropasaṃhāro vācyaḥ. na tāvad asādhāraṇe, tasyāpi kalpanīyatvād ity āha -- ekatreti. asmanmate tu vācyabhāgānupraveśadvāreṇāsty ekatropasaṃhāra iti vivecanīyam iti

Sanskrit only: no published translation is held for this verse.

यदि त्व् असाधारण एव वस्तुत्वसामान्यगोचर उपसंहार इष्यते, ततः सर्वेषाम् एव गवाश्वादिशब्दानां वस्तुगोचरत्वाविशेषात् सामानाधिकरण्यं प्राप्नोतीत्य् आह -- वस्तुमात्र इति। इह वस्तुत्वाभ्युपगमम् अनापाद्यैव वार्त्तिककृता दोषबाहुल्याद् अतिप्रसङ्गो ऽभिहित इति

yadi tv asādhāraṇa eva vastutvasāmānyagocara upasaṃhāra iṣyate, tataḥ sarveṣām eva gavāśvādiśabdānāṃ vastugocaratvāviśeṣāt sāmānādhikaraṇyaṃ prāpnotīty āha -- vastumātra iti. iha vastutvābhyupagamam anāpādyaiva vārttikakṛtā doṣabāhulyād atiprasaṅgo 'bhihita iti

Sanskrit only: no published translation is held for this verse.

अभ्युपगम्याप्य् असाधारणोपसंहारं व्यक्त्यानन्त्यान् नीलोपलपदप्रयोगो न स्यात्, दृश्यते चासाव् इति दूषणान्तरम् आह -- न चेति

abhyupagamyāpy asādhāraṇopasaṃhāraṃ vyaktyānantyān nīlopalapadaprayogo na syāt, dṛśyate cāsāv iti dūṣaṇāntaram āha -- na ceti

Sanskrit only: no published translation is held for this verse.

न चानेकनीलोत्पलव्यक्तिसाधारणी नीलोत्पलत्वजातिर् भवद्भिर् इष्यते यत्र शब्दो वर्तेतेत्य् आह -- न चेति। न केवलं नेष्यते, युक्तिश् च तदभ्युपगमे न भवतीत्य् आह -- शब्दार्थयोर् इति। द्वौ ह्य् अत्र नीलोत्पलशब्दाव् अध्यस्येते। अतः श्रुतशब्दभागानुगतौ द्वाव् एव शब्दाध्यासरूपाव् अर्थौ गम्येते। न हि शब्दद्वयाध्यासे प्रत्याय्यैकत्वं सम्भवतीति

na cānekanīlotpalavyaktisādhāraṇī nīlotpalatvajātir bhavadbhir iṣyate yatra śabdo vartetety āha -- na ceti. na kevalaṃ neṣyate, yuktiś ca tadabhyupagame na bhavatīty āha -- śabdārthayor iti. dvau hy atra nīlotpalaśabdāv adhyasyete. ataḥ śrutaśabdabhāgānugatau dvāv eva śabdādhyāsarūpāv arthau gamyete. na hi śabdadvayādhyāse pratyāyyaikatvaṃ sambhavatīti

Sanskrit only: no published translation is held for this verse.

यदि सहप्रयोगमात्रात् सामानाधिकरण्यम् इत्य् उच्यते, स तर्हि पर्यायशब्दयोर् अपि कदाचिद् अव्युत्पन्नबोधार्थे प्रयोगो दृष्ट इति तयोर् अपि सामानाधिकरण्यं स्याद् इत्य् आह -- शब्दद्वयस्येति

yadi sahaprayogamātrāt sāmānādhikaraṇyam ity ucyate, sa tarhi paryāyaśabdayor api kadācid avyutpannabodhārthe prayogo dṛṣṭa iti tayor api sāmānādhikaraṇyaṃ syād ity āha -- śabdadvayasyeti

Sanskrit only: no published translation is held for this verse.

१,२७८ अपि च नानवगतसम्बन्धं पदं प्रत्याययति। न चानवगते ऽर्थे सम्बन्धो ऽनुभवितुं शक्यते। तद् इहाध्यासवादे सम्बन्धानुभववेलायां कीदृशो ऽर्थः प्रत्येतव्य इति वाच्यम् इत्य् आह -- न चेति। न केनचिद् रूपेण प्रत्येतुं शक्यत इति भावः

1,278 api ca nānavagatasambandhaṃ padaṃ pratyāyayati. na cānavagate 'rthe sambandho 'nubhavituṃ śakyate. tad ihādhyāsavāde sambandhānubhavavelāyāṃ kīdṛśo 'rthaḥ pratyetavya iti vācyam ity āha -- na ceti. na kenacid rūpeṇa pratyetuṃ śakyata iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

किम् इति न शक्यते, अत आह -- तदानीम् इति। शब्दरूपो ह्य् अर्थः। न चाव्युत्पन्नस् ताद्रूप्यावधारणे समर्थः। तद् इहाध्यासात् सम्बन्धबुद्धिः ततश् चाध्यास इति तत्रेतरेतराश्रयम् इति भावः। असाधारणेन च सम्बन्धग्रहणं नाशङ्कन्नीयम् एव, पिण्डान्तरे ऽप्रयोगप्रसङ्गाद् इत्य् आह -- न चेति

kim iti na śakyate, ata āha -- tadānīm iti. śabdarūpo hy arthaḥ. na cāvyutpannas tādrūpyāvadhāraṇe samarthaḥ. tad ihādhyāsāt sambandhabuddhiḥ tataś cādhyāsa iti tatretaretarāśrayam iti bhāvaḥ. asādhāraṇena ca sambandhagrahaṇaṃ nāśaṅkannīyam eva, piṇḍāntare 'prayogaprasaṅgād ity āha -- na ceti

Sanskrit only: no published translation is held for this verse.

तद् इदानीं सम्बन्धानपेक्षस्यैव शब्दस्यात्माध्यासशक्तत्वं बलाद् आपतितं, तत्र च प्रथमश्राविणो ऽपि तद्रूपार्थबोधप्रसङ्ग इत्य् आह -- तत्रेति ॥ न च वाक्यं तवापि शब्दो नित्यम् अर्थेन सम्बद्धः तत् किमर्थे स्मरणं नादधातीति। मम ह्य् अस्ति वाच्यं व्यतिरिक्तं तद्, येन वाच्यवाचकसम्बन्धो ऽवगतः स शब्ददर्शनाद् अर्थं स्मरति। यस् त्व् अस्येदं वाच्यम् इति न जानाति न तस्यार्थस्मरणम् इति नानुपपन्नं किञ्चिद् इत्य् आह -- ममेति। भवतस् तु वाचकरूपातिरिक्तवाच्यरूपाभावात् प्रथमश्रवणे ऽप्य् अध्यस्तरूपता स्याद् इति पूर्वेण सम्बन्ध इत्य् आह -- भवत इति

tad idānīṃ sambandhānapekṣasyaiva śabdasyātmādhyāsaśaktatvaṃ balād āpatitaṃ, tatra ca prathamaśrāviṇo 'pi tadrūpārthabodhaprasaṅga ity āha -- tatreti || na ca vākyaṃ tavāpi śabdo nityam arthena sambaddhaḥ tat kimarthe smaraṇaṃ nādadhātīti. mama hy asti vācyaṃ vyatiriktaṃ tad, yena vācyavācakasambandho 'vagataḥ sa śabdadarśanād arthaṃ smarati. yas tv asyedaṃ vācyam iti na jānāti na tasyārthasmaraṇam iti nānupapannaṃ kiñcid ity āha -- mameti. bhavatas tu vācakarūpātiriktavācyarūpābhāvāt prathamaśravaṇe 'py adhyastarūpatā syād iti pūrveṇa sambandha ity āha -- bhavata iti

Sanskrit only: no published translation is held for this verse.

न त्व् एतद् अस्तीति व्यतिरेकेण दर्शयति -- यथेति

na tv etad astīti vyatirekeṇa darśayati -- yatheti

Sanskrit only: no published translation is held for this verse.

१,२७९ यतश् च गृहीतशब्दो ऽपि नार्थं प्रतिपद्यते, ततो नैव वाचकाधीनं वाच्यम् इत्य् आह -- तस्माद् इति। प्रमाणान्तरावगतार्थरूपस्मारकत्वात् तु श्रुतेर् एव तत्पारतन्त्र्यं युक्तम् इत्य् आह -- स्मारकत्वाद् इति

1,279 yataś ca gṛhītaśabdo 'pi nārthaṃ pratipadyate, tato naiva vācakādhīnaṃ vācyam ity āha -- tasmād iti. pramāṇāntarāvagatārtharūpasmārakatvāt tu śruter eva tatpāratantryaṃ yuktam ity āha -- smārakatvād iti

Sanskrit only: no published translation is held for this verse.

उपसंहरति -- तेनेति

upasaṃharati -- teneti

Sanskrit only: no published translation is held for this verse.

प्रवृत्तिनिवृत्त्युपदेशेषु कुर्याद् न कुर्याद् इत्य् एवमादिषु शब्दस्यातदात्मकत्वात् तदात्मकार्थबोधो ऽनुपपन्न इत्य् आह -- प्रवृत्ताव् इति

pravṛttinivṛttyupadeśeṣu kuryād na kuryād ity evamādiṣu śabdasyātadātmakatvāt tadātmakārthabodho 'nupapanna ity āha -- pravṛttāv iti

Sanskrit only: no published translation is held for this verse.

पर्यायशब्देषु च शब्दभेदाद् अर्थ(?भेदोप।भेदा)पत्तिर् इत्य् आह -- करहस्तादीति

paryāyaśabdeṣu ca śabdabhedād artha(?bhedopa/bhedā)pattir ity āha -- karahastādīti

Sanskrit only: no published translation is held for this verse.

अपि चायम् अध्यासः सादृश्याद् वा भवति शुक्ताव् इव रजतस्य, उपरागाद् वा मणाव् इव जपारुणिम्नः। न चैतद् उभयम् अपि शब्दाध्यासे सम्भवति। दूरस्थेनानुरागासम्भवात् सादृश्यानवगतेश् चेति। तद् एतद् आह -- आत्माध्यास इति सार्धेन। यद् अपि विवर्तवादिनां प्रत्यवस्थानं दूरस्थम् अपि चन्द्रादि जले विवर्त(?म् उ।उ)पलभ्यते, तद्वच्छब्दो ऽपि प्रत्येष्यत इति। तद् अयुक्तम्। अरूपस्य प्रतिबिम्बासम्भवाद् इत्य् आह -- दूरस्थेति

api cāyam adhyāsaḥ sādṛśyād vā bhavati śuktāv iva rajatasya, uparāgād vā maṇāv iva japāruṇimnaḥ. na caitad ubhayam api śabdādhyāse sambhavati. dūrasthenānurāgāsambhavāt sādṛśyānavagateś ceti. tad etad āha -- ātmādhyāsa iti sārdhena. yad api vivartavādināṃ pratyavasthānaṃ dūrastham api candrādi jale vivarta(?m u/u)palabhyate, tadvacchabdo 'pi pratyeṣyata iti. tad ayuktam. arūpasya pratibimbāsambhavād ity āha -- dūrastheti

Sanskrit only: no published translation is held for this verse.

१,२८० ननु यद् इदम् उक्तं दूरस्थत्वाच् छब्देनानुरागो न सम्भवतीति। तद् अयुक्तम्। वैभवेन शब्दस्य सर्वत्र सन्निधानाद् अत आह -- शब्देति

1,280 nanu yad idam uktaṃ dūrasthatvāc chabdenānurāgo na sambhavatīti. tad ayuktam. vaibhavena śabdasya sarvatra sannidhānād ata āha -- śabdeti

Sanskrit only: no published translation is held for this verse.

किञ्चायम् अनुरागः समानेन्द्रियग्राह्येणैव दृष्टः यथा चाक्षुषस्य मणेर् अरुणिम्ना चाक्षुषेणैव। न हि त्वचा स्फटिके ऽनुभूयमाने चाक्षुषो ऽरुणिमा तम् अनुरञ्जयति। एवं श्रौत्रः शब्दो न चाक्षुषम् अर्थम् अनुरञ्जयितुं शक्नोतीत्य् आह -- न चेति

kiñcāyam anurāgaḥ samānendriyagrāhyeṇaiva dṛṣṭaḥ yathā cākṣuṣasya maṇer aruṇimnā cākṣuṣeṇaiva. na hi tvacā sphaṭike 'nubhūyamāne cākṣuṣo 'ruṇimā tam anurañjayati. evaṃ śrautraḥ śabdo na cākṣuṣam artham anurañjayituṃ śaknotīty āha -- na ceti

Sanskrit only: no published translation is held for this verse.