क्अ इ,१५५।१९-१५६।२७ रो इ,४६२-४६६ तत्र गाङ्प्रतिषेधः । तत्र गाङः प्रतिषेधः वक्तव्यः : अधिजगे । इवर्णाभ्यासता प्राप्नोति । न वक्तव्यः । गाङ् लिटि इति द्विलकारकः निर्देशः : लिटि लकारादौ इति । कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् । कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति । कॄति : अचिकीर्तत् । कॄति । एजन्त : जग्ले मम्ले । एजन्त । दिवादि : दुद्यूषति सुस्यूषति । दिवादि । नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति । एवम् तर्हि प्रत्यये इति वक्ष्यामि । प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् । प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति । दिवादयः एके परिहृताः । एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि । सः तर्हि निमित्तशब्दः उपादेयः । न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते । अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते । तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः । ज्वरनिमित्तम् इति गम्यते । नड्वलोदकम् पादरोगः । पादरोगनिमित्तम् इति गम्यते । अयुः घृतम् । आयुषः निमित्तम् इति गम्यते । अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति । एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति । एवम् तर्हि प्रतिषेधः प्रकृतः । सः अनुवर्तिष्यते । क्व प्रकृतः । न पदान्तद्विर्वचन इति । द्विर्वचननिमित्ते अचि अजादेशः न भवति इति । एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति । एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च विशेष्यते द्विर्वचनम् च । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । एकशेषनिर्देशात् । एकशेषनिर्देशः अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् । द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति । न वक्तव्यः । ओः पुयण्जिषु वचनम् ज्ञापकम् णौ स्थानिवद्भावस्य । यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति । यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति । तुल्यजातीयस्य ज्ञापकम् । कः च तुल्यजातीयः । यथाजातीयकाः पुयण्जयः । कथञ्जातीयकाः च एते । अवर्णपराः । कथम् जग्ले मम्ले । अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः ।
KA I,155.19-156.27 Ro I,462-466 tatra gāṅpratiṣedhaḥ . tatra gāṅaḥ pratiṣedhaḥ vaktavyaḥ : adhijage . ivarṇābhyāsatā prāpnoti . na vaktavyaḥ . gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ : liṭi lakārādau iti . kṝtyejantadivādināmadhātuṣu abhyāsarūpam . kṝtyejantadivādināmadhātuṣu abhyāsarūpam na sidhyati . kṝti : acikīrtat . kṝti . ejanta : jagle mamle . ejanta . divādi : dudyūṣati susyūṣati . divādi . nāmadhātu : bhavanam icchati bhavanīyati bhavanīyateḥ san : bibhavanīyiṣati . evam tarhi pratyaye iti vakṣyāmi . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam na sidhyati . divādayaḥ eke parihṛtāḥ . evam tarhi dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi . saḥ tarhi nimittaśabdaḥ upādeyaḥ . na hi antareṇa nimittaśabdam nimittārthaḥ gamyate . antareṇa api nimittaśabdam nimittārthaḥ gamyate . tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ . jvaranimittam iti gamyate . naḍvalodakam pādarogaḥ . pādaroganimittam iti gamyate . ayuḥ ghṛtam . āyuṣaḥ nimittam iti gamyate . atha vā akāraḥ matvarthīyaḥ : dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , dvirvacane iti . evam api na jñāyate kiyantam asau kālam sthānivat bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat na bhaviṣyati . evam tarhi pratiṣedhaḥ prakṛtaḥ . saḥ anuvartiṣyate . kva prakṛtaḥ . na padāntadvirvacana iti . dvirvacananimitte aci ajādeśaḥ na bhavati iti . evam api na jñāyate kiyantam asau kālam na bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ bhaviṣyati . evam tarhi ubhayam anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam ca dvirvacanam . dvirvacane ca kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat bhavati . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ vaktavyaḥ : avanunāvayiṣati , avacukṣāvayiṣati . na vaktavyaḥ . oḥ puyaṇjiṣu vacanam jñāpakam ṇau sthānivadbhāvasya . yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ bhavati ṇau sthānivat iti . yadi etat jñāpyate acīkīrtat atra api prāpnoti . tulyajātīyasya jñāpakam . kaḥ ca tulyajātīyaḥ . yathājātīyakāḥ puyaṇjayaḥ . kathañjātīyakāḥ ca ete . avarṇaparāḥ . katham jagle mamle . anaimittikam āttvam śiti tu pratiṣedhaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.