Library·Patanjali: Vyakaranamahabhasya·1·1.2·1.2.45

Patanjali: Vyakaranamahabhasya 1.2.45

क्अ इ,२१७।२-१० रो इइ,६९-७१ अर्थवत् इति व्यपदेशाय : वर्णानाम् च मा भूत् इति । किम् च स्यात् । वनम् , धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत । अधातुः इति किमर्थम् । अहन् वृत्रम् इति । अधातुः इति शक्यम् अकर्तुम् । कस्मात् न भवति अहन् वृत्रम् इति । आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति । न एतत् अस्ति ज्ञापकम् । प्रतिषिद्धार्थम् एतत् स्यात् : अपि काकः श्येनायते इति । अप्रत्ययः इति किमर्थम् । काण्डे कुड्ये । अप्रत्ययः इति शक्यम् अकर्तुम् । कस्मात् न भवति काण्डे कुड्ये* इति । कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

KA I,217.2-10 Ro II,69-71 arthavat iti vyapadeśāya : varṇānām ca mā bhūt iti . kim ca syāt . vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta . adhātuḥ iti kimartham . ahan vṛtram iti . adhātuḥ iti śakyam akartum . kasmāt na bhavati ahan vṛtram iti . ācāryapravṛttiḥ jñāpayati na dhātoḥ prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ iti dhātugrahaṇam karoti . na etat asti jñāpakam . pratiṣiddhārtham etat syāt : api kākaḥ śyenāyate iti . apratyayaḥ iti kimartham . kāṇḍe kuḍye . apratyayaḥ iti śakyam akartum . kasmāt na bhavati kāṇḍe kuḍye* iti . kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhavati na anyasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२१७।११-२१९।९ रो इइ,७१-७७ अर्थवति अनेकपदप्रसङ्गः । अर्थवति प्रातिपदिकसञ्ज्ञायाम् अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति : दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति । समुदायः अनर्थकः । समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके । समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके । तत् यथा लोके आढ्यम् इदम् नगरम् , गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः । यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः । आतः च अवयवाः एव अर्थवन्तः न समुदायः । यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभुङ्क्ते । अन्यैः एतत् द्रष्टुम् अपि अशक्यम् । का तर्हि इयम् वाचोयुक्तिः : आढ्यम् इदम् नगरम् , गोमत् इदम् इति । एषा एषा वाचोयुक्तिः : इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः : आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति । गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते । एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् । वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः : देवदत्त गाम् अभ्याज शुक्लाम् । देवदत्त गाम् अभ्याज कृष्णाम् इति । किम् कारणम् । अर्थवत्त्वात् । अर्थवत् हि एतत् वाक्यम् भवति । न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये । पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः । पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते : पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये । इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ । गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ । अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः । शुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा । इह इदानीम् देवदत्त गाम् अभ्याज शुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति : देवदत्तः एव कर्ता न अन्यः । गौः एव कर्म न अन्यत् । अभ्याजिः एव क्रिया न अन्या । शुक्लाम् एव न कृष्णाम् इति । एतेषाम् पदानाम् सामान्ये वर्तमानानाम् यद्विशेषे अवस्थानम् सः वाक्यार्थः । तस्मात् प्रतिषेधः । तस्मात् प्रतिषेधः वक्तव्यः । न वक्तव्यः । अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् । अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति : समासः एव अर्थवताम् समुदायायानाम् प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति । यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति : बहुपटवः , उच्चकैः इति । किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते । प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् । न एषः दोषः । यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति । तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणम् भविष्यति । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते । पठिष्यति हि आचार्यः : चितः सप्रकृतेः बह्वकजर्थम् इति । तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वात् अन्तोदात्तत्वम् न भविष्यति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यत् अयम् अप्रययः इति प्रतिषेधम् शास्ति । सः च तदन्तप्रतिषेधः । सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः । ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः । न अर्थः प्राप्त्यर्थेन । कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति । सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या । उभयम् न वक्तव्यम् । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकानाम् समासः । कथञ्जातीयकानाम् समासः । सुबन्तानाम् । सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति । सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते : जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति । तत् नियमार्थम्

KA I,217.11-219.9 Ro II,71-77 arthavati anekapadaprasaṅgaḥ . arthavati prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : daśa dāḍimāni ṣaṭ apūpāḥ kuṇḍam ajājinam palalapiṇḍaḥ adhorukam etat kumāryāḥ sphaiyakṛtasya pitā pratiśīnaḥ iti . samudāyaḥ anarthakaḥ . samudāyaḥ anarthakaḥ iti cet avayavārthavattvāt samudāyārthavattvam yathā loke . samudāyaḥ anarthakaḥ iti cet avayavaiḥ arthavadbhiḥ samudāyāḥ api arthavantaḥ bhavanti yathā loke . tat yathā loke āḍhyam idam nagaram , gomat idam nagaram iti ucyate na ca tatra sarve āḍhyāḥ bhavanti sarve vā gomantaḥ . yathā loke iti ucyate loke ca avayavāḥ eva arthavantaḥ na samudāyaḥ . ātaḥ ca avayavāḥ eva arthavantaḥ na samudāyaḥ . yasya hi tat dravyam bhavati saḥ tena kāryam karoti yasya ca gāvaḥ santi saḥ tāsām kṣīram ghṛtam ca upabhuṅkte . anyaiḥ etat draṣṭum api aśakyam . kā tarhi iyam vācoyuktiḥ : āḍhyam idam nagaram , gomat idam iti . eṣā eṣā vācoyuktiḥ : iha tāvat āḍhyam idam nagaram iti akāraḥ matvarthīyaḥ : āḍhyāḥ asmin santi iti tat idam āḍhyam iti . gomat idam iti matvantāt matvarthīyaḥ lupyate . evam api vākyapratiṣedhaḥ arthavattvāt . vākyasya prātipadikasñjñāyāḥ pratiṣedhaḥ vaktavyaḥ : devadatta gām abhyāja śuklām . devadatta gām abhyāja kṛṣṇām iti . kim kāraṇam . arthavattvāt . arthavat hi etat vākyam bhavati . na vai padārthāt anyasya arthasya upalabdhiḥ bhavati vākye . padārthāt anyasya anupalabdhiḥ iti cet padārthābhisambandhasya upalabdhiḥ . padārthāt anyasya anupalabdhiḥ iti cet evam ucyate : padārthābhisambandhasya upalabdhiḥ bhavati vākye . iha devadatta iti ukte kartā nirdiṣṭaḥ karma kriyāguṇau ca anirdiṣṭau . gām iti ukte karma nirdiṣṭam kartā kriyāguṇau ca anirdiṣṭau . abhyāja iti ukte kriyā nirdiṣṭā kartṛkarmaṇī guṇaḥ ca anirdiṣṭaḥ . śuklām iti ukte guṇaḥ nirdiṣṭaḥ kartṛkarmaṇī kriyā ca anirdiṣṭā . iha idānīm devadatta gām abhyāja śuklām iti ukte sarvam nirdiṣṭam bhavati : devadattaḥ eva kartā na anyaḥ . gauḥ eva karma na anyat . abhyājiḥ eva kriyā na anyā . śuklām eva na kṛṣṇām iti . eteṣām padānām sāmānye vartamānānām yadviśeṣe avasthānam saḥ vākyārthaḥ . tasmāt pratiṣedhaḥ . tasmāt pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . arthavatsamudāyānām samāsagrahaṇam niyamārtham . arthavatsamudāyānām samāsagrahaṇam niyamārtham bhaviṣyati : samāsaḥ eva arthavatām samudāyāyānām prātipadikasañjñaḥ bhavati na anyaḥ iti . yadi niyamaḥ kriyate prakṛtipratyayasamudāyasya prātipadikasañjñā na prāpnoti : bahupaṭavaḥ , uccakaiḥ iti . kim punaḥ atra prātipadikasañjñayā prārthyate . prātipadikāt iti svādyutpattiḥ yathā syāt . na eṣaḥ doṣaḥ . yathā eva atra aprātipadikatvāt svādyutpattiḥ na bhavati evam luk api na bhaviṣyati . tatra yā eva antarvartinī vibhaktiḥ tasyāḥ eva śravaṇam bhaviṣyati . na evam śakyam . svare hi doṣaḥ syāt . bahupaṭavaḥ iti evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate . paṭhiṣyati hi ācāryaḥ : citaḥ saprakṛteḥ bahvakajartham iti . tasyām punaḥ luptāyam yā anyā vibhaktiḥ utpadyate tasyāḥ prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham śāsti . saḥ ca tadantapratiṣedhaḥ . saḥ tarhi jñāpakārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ . nanu ca ayam prāptyarthaḥ api vaktavyaḥ . na arthaḥ prāptyarthena . kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya iti . saḥ eṣaḥ ananyārthaḥ pratyayapratiṣedhaḥ vaktavyaḥ prakṛtipratyayasamudāyasya vā prātipadikasañjñā vaktavyā . ubhayam na vaktavyam . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakānām samāsaḥ . kathañjātīyakānām samāsaḥ . subantānām . suptiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti . suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā bahulam ābhīkṣṇye kartāram ca abhidadhāti iti . tat niyamārtham

Sanskrit only: no published translation is held for this verse.

क्अ इ,२१९।१०-२२०।८ रो इइ,७७-७९ अर्थवत्ता न उपपद्यते केवलेन अवचनात् । अर्थवत्ता न उपपद्यते वृक्षशब्दस्य । किम् कारणम् । केवलेन अवचनात् । न केवलेन वृक्षशब्देन अर्थः गम्यते । केन तर्हि । सप्रत्ययकेन । न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः । न वा एषः दोषः । किम् कारणम् । प्रत्ययेन नित्यसम्बन्धात् । नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति । प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति । अन्यत् भवान् पृष्टः अन्यत् आचष्टे । आम्रान् पृष्टः कोविदारान् आचष्टे । अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह । एवम् च किल नाम कृत्वा चोद्यते : समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति । सिद्धम् तु अन्वयव्यतिरेकाभ्याम् । सिद्धम् एतत् । कथम् । अन्वयात् व्यतिरेकात् च । कः असौ अन्वयः व्यतिरेकः वा । इह वृक्षः इति उक्ते कः चित् शब्दः श्रूयते : वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः । अर्थः अपि कः चित् गम्यते : मूलस्कन्धफलपलाशवान् एकत्वम् च । वृक्षौ इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : सकारः हीयते , औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी । अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : एकत्वम् हीयते द्वित्वम् उपजायते मूलस्कन्धफलपलाशवान् अन्वयी । ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते । यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते । यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी। विषमः उपन्यासः । बहवः हि शब्दाः एकार्थाः भवन्ति । तत् यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति । एकः च शब्दः बह्वर्थः । तत् यथा : अक्षाः पादाः माषाः इति । अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति । न ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव । तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा । सामान्यशब्दाः एते एवम् स्युः । सामान्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते । यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति । न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।

KA I,219.10-220.8 Ro II,77-79 arthavattā na upapadyate kevalena avacanāt . arthavattā na upapadyate vṛkṣaśabdasya . kim kāraṇam . kevalena avacanāt . na kevalena vṛkṣaśabdena arthaḥ gamyate . kena tarhi . sapratyayakena . na vā pratyayena nityasambandhāt kevalasya aprayogaḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . pratyayena nityasambandhāt . nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti . pratyayena nityasambandhāt kevalasya aprayogaḥ na bhaviṣyati . anyat bhavān pṛṣṭaḥ anyat ācaṣṭe . āmrān pṛṣṭaḥ kovidārān ācaṣṭe . arthavattā na upapadyate kevalena avacanāt iti bhavān asmābhiḥ coditaḥ kevalasya aprayoge hetum āha . evam ca kila nāma kṛtvā codyate : samudāyasya arthe prayogāt avayavānām aprasiddhiḥ iti . siddham tu anvayavyatirekābhyām . siddham etat . katham . anvayāt vyatirekāt ca . kaḥ asau anvayaḥ vyatirekaḥ vā . iha vṛkṣaḥ iti ukte kaḥ cit śabdaḥ śrūyate : vṛkṣaśabdaḥ akārāntaḥ sakārāntaḥ ca pratyayaḥ . arthaḥ api kaḥ cit gamyate : mūlaskandhaphalapalāśavān ekatvam ca . vṛkṣau iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : sakāraḥ hīyate , aukāraḥ upajāyate vṛkṣaśabdaḥ akārāntaḥ anvayī . arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : ekatvam hīyate dvitvam upajāyate mūlaskandhaphalapalāśavān anvayī . te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate . yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate . yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī. viṣamaḥ upanyāsaḥ . bahavaḥ hi śabdāḥ ekārthāḥ bhavanti . tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekaḥ ca śabdaḥ bahvarthaḥ . tat yathā : akṣāḥ pādāḥ māṣāḥ iti . ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati . na brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva . tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā . sāmānyaśabdāḥ ete evam syuḥ . sāmānyaśabdāḥ ca na antareṇa viśeṣam prakaraṇam vā viśeṣeṣu avatiṣṭhante . yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ kasmin cid arthe pratītiḥ upajāyate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti . na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२२०।९-२४ रो इइ,७९-८० किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः । वर्णस्य अर्थवदनर्थकत्वे उक्तम् । किम् उक्तम् । अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् । वर्णव्यत्यये च अर्थान्तरगमनात् । वर्णानुपलब्धौ च अनर्थगतेः । सङ्घातार्थवत्त्वात् च । सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् । अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः । वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् इति । तत्र इदम् अपरिहृतम् : सङ्घातार्थवत्त्वात् च इति । तस्य परिहारः । सङ्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः । सङ्घातार्थवत्त्वात् च इति चेत् दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः । तत् यथा । एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः । एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः । एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति । विषमः उपन्यासः । भवति हि तत्र या च यावती च अर्थमात्रा । भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः । इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः । यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति ।

KA I,220.9-24 Ro II,79-80 kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . varṇasya arthavadanarthakatve uktam . kim uktam . arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt . varṇavyatyaye ca arthāntaragamanāt . varṇānupalabdhau ca anarthagateḥ . saṅghātārthavattvāt ca . saṅghātasya aikārthyāt subabhāvaḥ varṇāt . anarthakāḥ tu prativarṇam arthānupalabdheḥ . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt iti . tatra idam aparihṛtam : saṅghātārthavattvāt ca iti . tasya parihāraḥ . saṅghātārthavattvāt ca iti cet dṛṣṭaḥ hiatadarthena guṇena guṇinaḥ arthabhāvaḥ . saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena guṇinaḥ arthabhāvaḥ . tat yathā . ekaḥ tantuḥ tvaktrāṇe asamarthaḥ tatsamudāyaḥ ca kambalaḥ samarthaḥ . ekaḥ taṇḍulaḥ kṣutpratighāte asamarthaḥ tatsamudāyaḥ ca vardhatikam samarthaḥ . ekaḥ ca balvajaḥ bandhane asamarthaḥ tatsamudāyaḥ ca rajjuḥ samarthā bhavati . viṣamaḥ upanyāsaḥ . bhavati hi tatra yā ca yāvatī ca arthamātrā . bhavati hi kim cit prati ekaḥ tantuḥ tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane samarthaḥ . ime punaḥ varṇāḥ atyantāya eva anarthakāḥ . yathā tarhi rathāṅgāni vihṛtāni pratyekam vrajikriyām prati asamarthāni bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām varṇānām samudāyāḥ arthavantaḥ avayavāḥ anarthakāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२२०।२५-२२१।१० रो इइ,८१-८२ निपातस्य अनर्थकस्य प्रातिपदिकत्वम् । निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या । खञ्जति निखञ्जति लम्बते प्रलम्बते । किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते । प्रातिपदिकात् इति स्वाद्युत्पत्तिः , सुबन्तम् पदम् इति पदसञ्ज्ञा , पदस्य पदात् इति निघातः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । सत्याम् अपि प्रातिपदिकसञ्ज्ञायाम् स्वाद्युत्पत्तिः न प्राप्नोति । किम् कारणम् । न हि प्रातिपदिकसञ्ज्ञायाम् एव स्वाद्युत्पत्तिः प्रतिबद्धा । किम् तर्हि । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति । न एषः दोषः । अविशेषेण उत्पद्यन्ते । उत्पन्नानाम् नियमः क्रियते । अथ वा प्रकृतार्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु । बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी* अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति ।

KA I,220.25-221.10 Ro II,81-82 nipātasya anarthakasya prātipadikatvam . nipātasya anarthakasya prātipadikasañjñā vaktavyā . khañjati nikhañjati lambate pralambate . kim punaḥ atra prātipadikasañjñayā prārthyate . prātipadikāt iti svādyutpattiḥ , subantam padam iti padasañjñā , padasya padāt iti nighātaḥ yathā syāt . na etat asti prayojanam . satyām api prātipadikasañjñāyām svādyutpattiḥ na prāpnoti . kim kāraṇam . na hi prātipadikasañjñāyām eva svādyutpattiḥ pratibaddhā . kim tarhi . ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca eṣām ekatvādayaḥ santi . na eṣaḥ doṣaḥ . aviśeṣeṇa utpadyante . utpannānām niyamaḥ kriyate . atha vā prakṛtārthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva arthe ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam na ekasmin na bahuṣu . bahuṣu eva artheṣu bahuvacanam na ekasmin na dvayoḥ iti . atha vā ācāryapravṛttiḥ jñāpayati anarthakānām api eteṣām bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau iti anarthakayoḥ gatyupasargasañjābādhikām karmapravacanīyasañjñām śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२२१।११-२२२।७ रो इइ,८२-८५ किम् पुनः अयम् पर्युदासः : यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः : प्रत्ययः न इति । कः च अत्र विशेषः । अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् । अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः वक्तव्यः : काण्डे कुड्ये । किम् कारणम् । अन्तवत्त्वात् । तिबतिपोः एकादेशः अतिपः अन्तवत् स्यात् । अस्ति अन्यत् तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः : प्रत्ययः न इति । न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः आदिवत्त्वात् । न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः प्राप्नोति : ब्रह्मबन्धूः । किम् कारणम् । आदिवत्त्वात् । प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् । तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात् स्वादयः इति यत् अयम् न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् शाश्ति । अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि । तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति । सुब्लोपे च प्रत्ययलक्षणत्वात् । सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति : राजा तक्षा । प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति प्रतिषेधम् शास्ति । अथ वा पुनः अस्तु पर्युदासः । ननु च उक्तम् : अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् इति । प्रसज्यप्रतिषेधे अपि एषः दोषः । द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि । गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन । तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति । किम् च नपुंसके । नपुंसकम् यस्य गुणः । कस्य च नपुंसकम् गुणः । प्रातिपदिकस्य ।

KA I,221.11-222.7 Ro II,82-85 kim punaḥ ayam paryudāsaḥ : yat anyat pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : pratyayaḥ na iti . kaḥ ca atra viśeṣaḥ . apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt . apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ vaktavyaḥ : kāṇḍe kuḍye . kim kāraṇam . antavattvāt . tibatipoḥ ekādeśaḥ atipaḥ antavat syāt . asti anyat tipaḥ iti kṛtvā prātipadikasañjñā prāpnoti . astu tarhi prasajyapratiṣedhaḥ : pratyayaḥ na iti . na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ ādivattvāt . na pratyayaḥ iti cet ūṅekādeśe pratiṣedhaḥ prāpnoti : brahmabandhūḥ . kim kāraṇam . ādivattvāt . pratyayāpratyayayoḥ pratyayasya ādivat syāt . tatra pratyayaḥ na iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati utpadyante ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya pratiṣedham śāśti . atha vā dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . tatra avayavasya yā prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati . sublope ca pratyayalakṣaṇatvāt . sublope ca pratyayalakṣaṇena pratiṣedhaḥ prāpnoti : rājā takṣā . pratyayalakṣaṇena pratyayaḥ na iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ iti pratiṣedham śāsti . atha vā punaḥ astu paryudāsaḥ . nanu ca uktam : apratyayaḥ iti cet tibekādeśe pratiṣedhaḥ antavattvāt iti . prasajyapratiṣedhe api eṣaḥ doṣaḥ . dve hi atra prātipadikasañjñe : avayavasya api samudāyasya api . gṛhyate ca prātipadikāprātipadikayoḥ ekādeśaḥ prātipadikagrahaṇena . tasmāt ubhābhyām api vaktavyam syāt : hrasvaḥ napuṃsake yat tasya iti . kim ca napuṃsake . napuṃsakam yasya guṇaḥ . kasya ca napuṃsakam guṇaḥ . prātipadikasya .

Sanskrit only: no published translation is held for this verse.