क्अ इ,३९५।१-३९६।११ रो इइ,६१२-६१६ समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् । समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ । समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् । किम् कारणम् । तद्धितार्थे कृतत्वात् । तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति । यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । कानि । पञ्चपूली दशपूली । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति । पञ्चगवम् दशगवम् । गोः अतद्धितलुकि इत् टच् न प्रप्नोति । न एषः दोषः । अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । गोः अकारः द्विगोः समाहारे । अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । अभिधानार्थम् तु । अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् । समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति । किम् च स्यात् । तद्धितोत्पत्तिः प्रसज्येत । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । सर्वाणि परिहृतानि । न सर्वाणि परिहृतानि । पञ्चकुमारि दशकुमारि । लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः । वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः । किम् प्रयोजनम् । समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च । यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः । यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः । उत्तरपदेन परिमाणिन द्विगोः समासवचनम् । उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः । द्विमासजातः त्रिमासजातः । किम् पुनः कारणम् न सिध्यति । सुप् सुपा इति वर्तते । एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते । द्व्याह्नजातः च न सिध्यति । द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् । भवितव्यम् च यदा समाहारे द्विगुः । द्व्यह्नजातः तु न सिध्यति । किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि । पञ्चगवप्रियः दशगवप्रियः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः । अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् । उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति । सर्वत्र मत्वर्थे प्रतिषेधः । सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । पञ्चखट्वा दशखट्वा । द्विगोः इति ईकारः मा भूत् । पञ्चगुः दशगुः । गोः अतद्धितलुकि इति टच् मा भूत् इति ।
KA I,395.1-396.11 Ro II,612-616 samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇānarthakyam taddhitārthena kṛtatvāt . samāhāraḥ samūhaḥ iti aviśiṣtau etau arthau . samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇam anarthakam . kim kāraṇam . taddhitārthe kṛtatvāt . taddhitārthe dviguḥ iti evam atra dviguḥ bhaviṣyati . yadi taddhitārthe dviguḥ iti evam atra dviguḥ bhavati taddhitotpattiḥ prāpnoti . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . kāni . pañcapūlī daśapūlī . aparimāṇabistācitakambalebhyaḥ na taddhitaluki iti pratiṣedhaḥ prāpnoti . pañcagavam daśagavam . goḥ ataddhitaluki it ṭac na prapnoti . na eṣaḥ doṣaḥ . aviśeṣeṇa dvigoḥ ṅīp bhavati iti uktvā samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . goḥ akāraḥ dvigoḥ samāhāre . aviśeṣeṇa goḥ ṭac bhavati iti uktvā dvigoḥ samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . abhidhānārtham tu . abhidhānārtham tu samāhāragrahaṇam kartavyam . samāhāreṇa abhidhānam yathā syāt taddhitārthena mā bhūt iti . kim ca syāt . taddhitotpattiḥ prasajyeta . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . sarvāṇi parihṛtāni . na sarvāṇi parihṛtāni . pañcakumāri daśakumāri . lik taddhitaluki iti ṅīpaḥ luk prasajyeta . dvandvatatpuruṣayoḥ uttarapade nityasamāsavacanam . dvandvatatpuruṣayoḥ uttarapade nityasamāsaḥ vaktavyaḥ . vāgdṛṣadapriyaḥ chatropānahapriyaḥ pañcagavapriyaḥ daśagavapriyaḥ . kim prayojanam . samudāyavṛttau avayavānām mā kadā cit avṛttiḥ bhūt iti . tat tarhi vaktavyam . na vaktavyam . iha dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca . yadā vṛttipakṣaḥ tadā sarveṣām eva vṛttiḥ . yadā tu avṛttiḥ tadā sarveṣām avṛttiḥ . uttarapadena parimāṇina dvigoḥ samāsavacanam . uttarapadena parimāṇina dvigoḥ samāsaḥ vaktavyaḥ . dvimāsajātaḥ trimāsajātaḥ . kim punaḥ kāraṇam na sidhyati . sup supā iti vartate . evam tarhi idam syāt : dvau māsau dvimāsam , dvimāsam jātasya iti . na evam śakyam . svare hi doṣaḥ syāt . dvimāsajātaḥ iti prāpnoti dvimāsajātaḥ iti ca iṣyate . dvyāhnajātaḥ ca na sidhyati . dvyahajāta iti prāpnoti na ca evam bhavitavyam . bhavitavyam ca yadā samāhāre dviguḥ . dvyahnajātaḥ tu na sidhyati . kim ucyate parimāṇinā iti na punaḥ anyatra api . pañcagavapriyaḥ daśagavapriyaḥ . anyatra samudāyabahuvrīhitvāt uttarapadaprasiddhiḥ . anyatra samudāyabaḥ huvrīhisañjñḥ . anyatra samudāyabahuvrīhitvāt uttarapadam prasiddham . uttarapade prasiddhe uttarapade iti dviguḥ bhaviṣyati . sarvatra matvarthe pratiṣedhaḥ . sarveṣu pakṣeṣu dvigusañjñāyāḥ matvarthe pratiṣedhaḥ vaktavyaḥ . kim prayojanam . pañcakhaṭvā daśakhaṭvā . dvigoḥ iti īkāraḥ mā bhūt . pañcaguḥ daśaguḥ . goḥ ataddhitaluki iti ṭac mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.