क्अ इ,३९३।२-१९ रो इइ,६०७-६०९ समाहारः इति कः अयम् शब्दः । समाङ्पूर्वात् हरतेः सर्मसाधने घञ् । समाह्रियते समाहारः इति । यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् । एवम् तर्हि भावसाधनः भविष्यति । समाहरणम् समाहारः । अथ भावसाधने सति किम् अभिधीयते । यत् तत् औत्तराधर्यम् । कः पुनः गवाम् समाहारः । यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा । यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति । एवम् तर्हि समभ्याशीकरणम् समाहारः । एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति । किम् कारणम् । सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे । न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते । किम् तर्हि । सादृश्ये अपि वर्तते । तत् यथा मातुः अनुहरति पितुः अनुहरति । अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते । अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा । यत् आकाङ्क्षत तत् एकम् स च समाहारः । अयम् तर्हि भावसाधने सति दोषः । पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति । न एषः दोषः । इह तावत् अयम् प्रष्टव्यः । अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते । असम्भवात् । आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदम् अपि एवञ्जातीयकम् एव । असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति । अथ वा अव्यतिरेकात् द्रव्याकृत्योः ।
KA I,393.2-19 Ro II,607-609 samāhāraḥ iti kaḥ ayam śabdaḥ . samāṅpūrvāt harateḥ sarmasādhane ghañ . samāhriyate samāhāraḥ iti . yadi karmasādhanaḥ pañca kumāryaḥ samahṛtāḥ pañcakumāri daśakumāri gostriyoḥ upasarjanasya iti hrasvatvam na prāpnoti dviguḥ ekavacanam iti etat ca vaktavyam . evam tarhi bhāvasādhanaḥ bhaviṣyati . samāharaṇam samāhāraḥ . atha bhāvasādhane sati kim abhidhīyate . yat tat auttarādharyam . kaḥ punaḥ gavām samāhāraḥ . yat tat arjanam krayaṇam bhiṣaṇam aparaharaṇam vā . yadi evam vikṣipteṣu pūleṣu goṣu carantīṣu na sidhyati . evam tarhi samabhyāśīkaraṇam samāhāraḥ . evam api pañcagrāmī ṣaṇṇagarī tripurī iti na sidhyati . kim kāraṇam . sam ekatvavācī āṅ ābhimukhye vartate haratiḥ deśāntaraprāpaṇe . na avaśyam haratiḥ deśāntaraprāpaṇe eva vartate . kim tarhi . sādṛśye api vartate . tat yathā mātuḥ anuharati pituḥ anuharati . atha vā pañcagrāmī ṣaṇṇagarī tripurī iti na eva idam iyati eva avatiṣṭhate . avaśyam asau tataḥ kim cit ākāṅkṣati kriyām vā guṇam vā . yat ākāṅkṣata tat ekam sa ca samāhāraḥ . ayam tarhi bhāvasādhane sati doṣaḥ . pañcapūlī ānīyatām iti bhāvānayane codite dravyānayanam na prāpoti . na eṣaḥ doṣaḥ . iha tāvat ayam praṣṭavyaḥ . atha iha gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti katham ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanāni kriyante . asambhavāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . idam api evañjātīyakam eva . asambhavāt bhāvānayanasya dravyānayanam bhaviṣyati . atha vā avyatirekāt dravyākṛtyoḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३९३।२०-३९४।२४ रो इइ,६०९-६१२ किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति । एवम् भवितुम् अर्हति । द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः । का एतरेतराश्रयता । द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा । तत् एतत् इतरेतराश्रयम् । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवम् तर्हि अर्थे इत् वक्ष्यामि । अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् । अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति । पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः । किम् कारणम् । द्विगुना उक्तत्वात् बहुव्रीहिवत् । तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति । एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि । समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञाभावः । समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति । क्व अन्यत्र । स्वरे । पञ्चारत्निः , दशारत्निः । इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् । सिद्धम् एतत् । कथम् । प्रत्ययोत्तरपदयोः च इति वचनात् । प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् । ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति । न एषः दोषः । इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति । न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः । न हि सञ्ज्ञा नित्या । एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते । तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः च इति विप्रतिषिद्धम् । भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति । एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः । अथ वा पुनः अस्तु अर्थे इति । ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति । न एषः दोषः । न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते । किम् तर्हि । स्यादर्थे अपि वर्तते । तत् यथा । दारार्थम् घटामहे । धनार्थम् भिक्षामहे । दाराः नः स्युः । धनानि नः स्युः इति । एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति । द्विगोः वा लुग्वचनम् ज्ञापकम् तद्धितोत्पत्तेः । अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति।
KA I,393.20-394.24 Ro II,609-612 kim punaḥ dvigusañjñā pratyayottarapadayoḥ bhavati . evam bhavitum arhati . dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ . dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ . kā etaretarāśrayatā . dvigunimitte pratyayottarapade pratyayottarapadanimittā ca dvigusañjñā . tat etat itaretarāśrayam . itaretarāśrayāṇi ca na prakalpante . evam tarhi arthe it vakṣyāmi . arthe cet taddhitānutpattiḥ bahuvrīhivat . arthe cet taddhitotpattiḥ na prāpnoti . pāñcanāpitiḥ , dvimāturaḥ , traimāturaḥ . kim kāraṇam . dvigunā uktatvāt bahuvrīhivat . tat yathā citraguḥ iti bahuvrīhiṇoktatvāt matvarthasya matvarthīyaḥ na bhavati . evam tarhi samāsataddhitavidhau iti vakṣyāmi . samāsataddhitavidhau iti cet anyatra samāsasañjñābhāvaḥ . samāsataddhitavidhau iti cet anyatra samāsasañjñā na prāpnoti . kva anyatra . svare . pañcāratniḥ , daśāratniḥ . igante dvigau iti eṣaḥ svaraḥ na prāpnoti . siddham tu pratyayottarapadayoḥ ca iti vacanāt . siddham etat . katham . pratyayottarapadayoḥ ca iti vacanāt . pratyayottarapadayoḥ dvigusañjñā bhavati iti vaktavyam . nanu ca uktam dvigusañjñā pratyayottarapadayoḥ cet itaretarāśrayatvāt aprasiddhiḥ iti . na eṣaḥ doṣaḥ . itaretarāśrayamātram etat coditam sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti . na idam tulyam anyaiḥ itaretarāśrayaiḥ . na hi sañjñā nityā . evam tarhi bhāvinī sañjñā vijñāsyate . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati . yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ ca iti vipratiṣiddham . bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api tasmin dviguḥ bhavati yasya abhinirvṛttasya pratyaya uttarapadam iti ca ete sañjñe bhaviṣyataḥ . atha vā punaḥ astu arthe iti . nanu ca uktam arthe cet taddhitānutpattiḥ bahuvrīhivat iti . na eṣaḥ doṣaḥ . na avaśyam arthaśabdaḥ abhidheye eva vartate . kim tarhi . syādarthe api vartate . tat yathā . dārārtham ghaṭāmahe . dhanārtham bhikṣāmahe . dārāḥ naḥ syuḥ . dhanāni naḥ syuḥ iti . evam iha api taddhitārthe dviguḥ bhavati taddhitaḥ syāt iti . dvigoḥ vā lugvacanam jñāpakam taddhitotpatteḥ . atha vā yat ayam dvigoḥ luk anapatye iti dvigoḥ uttarasya taddhitasya lukam śāsti tat jñāpayati ācāryaḥ utpadyate dvigoḥ taddhitaḥ iti.
Sanskrit only: no published translation is held for this verse.
क्अ इ,३९५।१-३९६।११ रो इइ,६१२-६१६ समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् । समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ । समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् । किम् कारणम् । तद्धितार्थे कृतत्वात् । तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति । यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । कानि । पञ्चपूली दशपूली । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति । पञ्चगवम् दशगवम् । गोः अतद्धितलुकि इत् टच् न प्रप्नोति । न एषः दोषः । अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । गोः अकारः द्विगोः समाहारे । अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । समाहारे एव न अन्यत्र इति । अभिधानार्थम् तु । अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् । समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति । किम् च स्यात् । तद्धितोत्पत्तिः प्रसज्येत । उत्पद्यताम् । लुक् भविष्यति । लुक्कृतानि प्राप्नुवन्ति । सर्वाणि परिहृतानि । न सर्वाणि परिहृतानि । पञ्चकुमारि दशकुमारि । लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् । द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः । वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः । किम् प्रयोजनम् । समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च । यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः । यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः । उत्तरपदेन परिमाणिन द्विगोः समासवचनम् । उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः । द्विमासजातः त्रिमासजातः । किम् पुनः कारणम् न सिध्यति । सुप् सुपा इति वर्तते । एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति । न एवम् शक्यम् । स्वरे हि दोषः स्यात् । द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते । द्व्याह्नजातः च न सिध्यति । द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् । भवितव्यम् च यदा समाहारे द्विगुः । द्व्यह्नजातः तु न सिध्यति । किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि । पञ्चगवप्रियः दशगवप्रियः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः । अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः । अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् । उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति । सर्वत्र मत्वर्थे प्रतिषेधः । सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । पञ्चखट्वा दशखट्वा । द्विगोः इति ईकारः मा भूत् । पञ्चगुः दशगुः । गोः अतद्धितलुकि इति टच् मा भूत् इति ।
KA I,395.1-396.11 Ro II,612-616 samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇānarthakyam taddhitārthena kṛtatvāt . samāhāraḥ samūhaḥ iti aviśiṣtau etau arthau . samāhārasamūhayoḥ aviśeṣāt samāhāragrahaṇam anarthakam . kim kāraṇam . taddhitārthe kṛtatvāt . taddhitārthe dviguḥ iti evam atra dviguḥ bhaviṣyati . yadi taddhitārthe dviguḥ iti evam atra dviguḥ bhavati taddhitotpattiḥ prāpnoti . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . kāni . pañcapūlī daśapūlī . aparimāṇabistācitakambalebhyaḥ na taddhitaluki iti pratiṣedhaḥ prāpnoti . pañcagavam daśagavam . goḥ ataddhitaluki it ṭac na prapnoti . na eṣaḥ doṣaḥ . aviśeṣeṇa dvigoḥ ṅīp bhavati iti uktvā samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . goḥ akāraḥ dvigoḥ samāhāre . aviśeṣeṇa goḥ ṭac bhavati iti uktvā dvigoḥ samāhāre iti vakṣyāmi . tat niyamārtham bhaviṣyati . samāhāre eva na anyatra iti . abhidhānārtham tu . abhidhānārtham tu samāhāragrahaṇam kartavyam . samāhāreṇa abhidhānam yathā syāt taddhitārthena mā bhūt iti . kim ca syāt . taddhitotpattiḥ prasajyeta . utpadyatām . luk bhaviṣyati . lukkṛtāni prāpnuvanti . sarvāṇi parihṛtāni . na sarvāṇi parihṛtāni . pañcakumāri daśakumāri . lik taddhitaluki iti ṅīpaḥ luk prasajyeta . dvandvatatpuruṣayoḥ uttarapade nityasamāsavacanam . dvandvatatpuruṣayoḥ uttarapade nityasamāsaḥ vaktavyaḥ . vāgdṛṣadapriyaḥ chatropānahapriyaḥ pañcagavapriyaḥ daśagavapriyaḥ . kim prayojanam . samudāyavṛttau avayavānām mā kadā cit avṛttiḥ bhūt iti . tat tarhi vaktavyam . na vaktavyam . iha dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca . yadā vṛttipakṣaḥ tadā sarveṣām eva vṛttiḥ . yadā tu avṛttiḥ tadā sarveṣām avṛttiḥ . uttarapadena parimāṇina dvigoḥ samāsavacanam . uttarapadena parimāṇina dvigoḥ samāsaḥ vaktavyaḥ . dvimāsajātaḥ trimāsajātaḥ . kim punaḥ kāraṇam na sidhyati . sup supā iti vartate . evam tarhi idam syāt : dvau māsau dvimāsam , dvimāsam jātasya iti . na evam śakyam . svare hi doṣaḥ syāt . dvimāsajātaḥ iti prāpnoti dvimāsajātaḥ iti ca iṣyate . dvyāhnajātaḥ ca na sidhyati . dvyahajāta iti prāpnoti na ca evam bhavitavyam . bhavitavyam ca yadā samāhāre dviguḥ . dvyahnajātaḥ tu na sidhyati . kim ucyate parimāṇinā iti na punaḥ anyatra api . pañcagavapriyaḥ daśagavapriyaḥ . anyatra samudāyabahuvrīhitvāt uttarapadaprasiddhiḥ . anyatra samudāyabaḥ huvrīhisañjñḥ . anyatra samudāyabahuvrīhitvāt uttarapadam prasiddham . uttarapade prasiddhe uttarapade iti dviguḥ bhaviṣyati . sarvatra matvarthe pratiṣedhaḥ . sarveṣu pakṣeṣu dvigusañjñāyāḥ matvarthe pratiṣedhaḥ vaktavyaḥ . kim prayojanam . pañcakhaṭvā daśakhaṭvā . dvigoḥ iti īkāraḥ mā bhūt . pañcaguḥ daśaguḥ . goḥ ataddhitaluki iti ṭac mā bhūt iti .
Sanskrit only: no published translation is held for this verse.