क्अ इ,४२०।२-४२१।१६ रो इइ,६९९-७०४ पदग्रहणम् किमर्थम्। अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् । यथा मे माता तथा मे पिता सुस्नातम् भोः इति । पदग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ अन्यग्रहणम् किमर्थम् । अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् । राजपुरुषः तक्षपुरुषः इति । न एतत् अस्ति प्रयोजनम् । तत्पुरुषः स्वपदार्थे बाधकः भविष्यति । भवेत् एकसञ्ज्ञाधिकारे सिद्धम् । परङ्कार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति । परङ्कार्यत्वे च न दोषः । शेषः इति वर्तते । शेषत्वात् न भविष्यति । शेषवचने उक्तम् । किम् उक्तम् । तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति । अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन । एकसङ्ज्ञाधिकारे च कर्तव्यम् । अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत । अथ अनेकग्रहणम् किमर्थम्। अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् । सर्पिषः अपि स्यात् । मधुनः अपि स्यात् । गोमूत्रस्य अपि स्यात् । न एतत् अस्ति प्रयोजनम् । सुप् सुपा इति वर्तते । इदम् तर्हि प्रयोजनम् । बहूनाम् अपि समासः यथा स्यात् । सुसूक्ष्मजटकेशेन सुनताजिनवाससा । उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति । इह अपि यथा स्यात् । प्लक्षन्यग्रोधखदिरपलाशाः इति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति । तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति । ग्रहणेन तत्पुरुषः उच्यते । तेन बहूनाम् न भविष्यति । अतः उत्तरम् पठति । अनेकवचनम् उपसर्जनार्थम् । अनेकग्रहणम् क्रियते उपसर्जनार्थम् । प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् । चित्रगुः शबलगुः इति । न वा एकविभक्तित्वात् । न वा एतत् अपि प्रयोजनम् अस्ति । किम् कारणम् । एकविभक्तित्वात् । एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति । चित्रगुः शबलगुः इति । चित्राः यस्य गावः चित्रगुः तिष्ठति । चित्राः यस्य गावः चित्रगुम् पश्य । चित्राः यस्य गावः चित्रगुणा कृतम् । चित्राः यस्य गावः चित्रगवे देहि । चित्राः यस्य गावः चित्रगोः आनय । चित्राः यस्य गावः चित्रगोः स्वम् । चित्राः यस्य गावः चित्रगौ निधेहि । चित्राः यस्य गावः हे चित्रगो इति । यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति । राजकुमारी तक्षकुमारी । राज्ञः या कुमारी राजकुमारी तिष्ठति । राज्ञः या कुमारी राजकुमारीम् पश्य । राज्ञः या कुमारी राजकुमार्या कृतम् । राज्ञः या कुमारी राजकुमार्यै देहि । राज्ञः या कुमारी राजकुमार्याः आनय । राज्ञः या कुमारी राजकुमार्याः स्वम् । राज्ञः या कुमारी राजकुमार्याम् निधेहि । राज्ञः या कुमारी हे राजकुमारि इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एकग्रहणसामर्थ्यात् । यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् । विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।
KA I,420.2-421.16 Ro II,699-704 padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt . yathā me mātā tathā me pitā susnātam bhoḥ iti . padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha anyagrahaṇam kimartham . anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ syāt . rājapuruṣaḥ takṣapuruṣaḥ iti . na etat asti prayojanam . tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati . bhavet ekasañjñādhikāre siddham . paraṅkāryatve tu na sidhyati . ārambhasāmarthyāt ca tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti . paraṅkāryatve ca na doṣaḥ . śeṣaḥ iti vartate . śeṣatvāt na bhaviṣyati . śeṣavacane uktam . kim uktam . tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti . atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena . ekasaṅjñādhikāre ca kartavyam . akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe bahuvrīhim bādhate evam anyapadārthe api bādheta . atha anekagrahaṇam kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt . sarpiṣaḥ api syāt . madhunaḥ api syāt . gomūtrasya api syāt . na etat asti prayojanam . sup supā iti vartate . idam tarhi prayojanam . bahūnām api samāsaḥ yathā syāt . susūkṣmajaṭakeśena sunatājinavāsasā . uttarārtham ca anekagrahaṇam kartavyam cārthe dvandvaḥ anekam iti . iha api yathā syāt . plakṣanyagrodhakhadirapalāśāḥ iti . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti . tatpuruṣaḥ api tarhi bahūnām prāpnoti . grahaṇena tatpuruṣaḥ ucyate . tena bahūnām na bhaviṣyati . ataḥ uttaram paṭhati . anekavacanam upasarjanārtham . anekagrahaṇam kriyate upasarjanārtham . prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā syāt . citraguḥ śabalaguḥ iti . na vā ekavibhaktitvāt . na vā etat api prayojanam asti . kim kāraṇam . ekavibhaktitvāt . ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati . citraguḥ śabalaguḥ iti . citrāḥ yasya gāvaḥ citraguḥ tiṣṭhati . citrāḥ yasya gāvaḥ citragum paśya . citrāḥ yasya gāvaḥ citraguṇā kṛtam . citrāḥ yasya gāvaḥ citragave dehi . citrāḥ yasya gāvaḥ citragoḥ ānaya . citrāḥ yasya gāvaḥ citragoḥ svam . citrāḥ yasya gāvaḥ citragau nidhehi . citrāḥ yasya gāvaḥ he citrago iti . yadi tarhi yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati iha api prāpnoti . rājakumārī takṣakumārī . rājñaḥ yā kumārī rājakumārī tiṣṭhati . rājñaḥ yā kumārī rājakumārīm paśya . rājñaḥ yā kumārī rājakumāryā kṛtam . rājñaḥ yā kumārī rājakumāryai dehi . rājñaḥ yā kumārī rājakumāryāḥ ānaya . rājñaḥ yā kumārī rājakumāryāḥ svam . rājñaḥ yā kumārī rājakumāryām nidhehi . rājñaḥ yā kumārī he rājakumāri iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ekagrahaṇasāmarthyāt . yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam anarthakam syāt . vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .
Sanskrit only: no published translation is held for this verse.
क्अ इ, ४२१।१७-४२३।१४ रो इइ,७०४-७१० पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् । पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः । चित्रगुः देवदत्तः इति । किम् कारणम् । अभिहितत्वात् । चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति । न वा अनभिहितत्वात् । न वा एषः दोषः । किम् कारणम् । अनभिहितत्वात् । चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति । कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति । सामान्याभिधाने हि विशेषानभिधानम् । सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। भवेत् सिद्धम् यदा सामान्ये वृत्तिः । यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति । चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति । तत् अपि सिद्धम् । कथम् । न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च । यदा वाक्यम् तदा न समासः । यदा समासः तदा न वक्यम् । यदा समासः तदा सामान्ये वृत्तिः । तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । चित्रगुः । कः । देवदत्तः इति। सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति । चित्रगु तत् । चित्रगु किम् चित् । चित्रगु सर्वम् इति । सामान्यम् अपि यथा विशेषः तद्वत् । चित्रगु इति उक्ते सन्देहः स्यात् । सर्वम् वा विश्वम् वा इति । तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । अथ वा विभक्त्यर्थः अभिदीयते । एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते । तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः । विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः । बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति । अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः । बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति । कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् । सिद्धम् तु यथा गुणवचनेषु । सिद्धम् एतत्। कथम् । यथा गुणवचनेषु । गुणवचनेषु उक्तम् : गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति । तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च । अर्थग्रहणसामर्थ्यात् । इह अनेकम् अन्यपदे इति इयता सिद्धम् । कथम् पुनः पदे नाम वृत्तिः स्यात् । शब्दः हि एषः । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति । यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति । उक्तम् वा । किम् उक्तम् । लिङ्गेषु तावत् । सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति । साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति । प्रथमा तर्हि न प्राप्नोति । समयात् भविष्यति । यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति । कर्मादीनाम् अभावात् । षष्ठी तर्हि प्राप्नोति । शेषलक्षणा षष्ठी । अशेषत्वात् न भविष्यति । एवम् अपि व्यतिकरः । एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने । अर्थतः व्यवस्था भविष्यति । अथ वा सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येअम् अन्या विशेष्यम् । यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । अथ वा वक्ष्यति एतत् । तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति । एवम् अपि षष्ठी प्राप्नोति । किम् कारणम् । व्यभिचरति एव हि
KA I, 421.17-423.14 Ro II,704-710 padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt . padārthasya abhidhāne anuprayogasya anupapattiḥ . citraguḥ devadattaḥ iti . kim kāraṇam . abhihitatvāt . citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti . na vā anabhihitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anabhihitatvāt . citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . katham anabhihitaḥ yāvatā idānīm eva uktam padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt iti . sāmānyābhidhāne hi viśeṣānabhidhānam . sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. bhavet siddham yadā sāmānye vṛttiḥ . yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati . citrā gāvaḥ devadattasya citraguḥ devadattaḥ iti . tat api siddham . katham . na idam ubhayam yugapat bhavati vākyam ca samāsaḥ ca . yadā vākyam tadā na samāsaḥ . yadā samāsaḥ tadā na vakyam . yadā samāsaḥ tadā sāmānye vṛttiḥ . tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . citraguḥ . kaḥ . devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti . citragu tat . citragu kim cit . citragu sarvam iti . sāmānyam api yathā viśeṣaḥ tadvat . citragu iti ukte sandehaḥ syāt . sarvam vā viśvam vā iti . tatra avaśyam sandehanivṛttyartham viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . atha vā vibhaktyarthaḥ abhidīyate . etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate . tatra hi sarvapaścāt padam vartate asya iti . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ . vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyābhyām upacāraḥ anupapannaḥ . bahuyavam bahuyavā bahuyavaḥ bahuyavau bahuhavāḥ iti . aparaḥ āha : vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ vibhaktyarthābhidhāne dravyasya ye liṅgasaṅkhye tābhyām vibhaktyarthasya upacāraḥ anupapannaḥ . bahuyavam bahuyavāḥ bahuyavaḥ bahuyavau bahuhavāḥ iti . katham hi anyasya liṅgasaṅkhyābhyām anyasya upacāraḥ syāt . siddham tu yathā guṇavacaneṣu . siddham etat. katham . yathā guṇavacaneṣu . guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . tat yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca . arthagrahaṇasāmarthyāt . iha anekam anyapade iti iyatā siddham . katham punaḥ pade nāma vṛttiḥ syāt . śabdaḥ hi eṣaḥ . śabde asambhavāt arthe kāryam vijñāsyate . saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti . yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti . uktam vā . kim uktam . liṅgeṣu tāvat . siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti . sāṅkhyeṣu api uktam karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti . prathamā tarhi na prāpnoti . samayāt bhaviṣyati . yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti . karmādīnām abhāvāt . ṣaṣṭhī tarhi prāpnoti . śeṣalakṣaṇā ṣaṣṭhī . aśeṣatvāt na bhaviṣyati . evam api vyatikaraḥ . ekasmin api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu api ekavacanadvivacane . arthataḥ vyavasthā bhaviṣyati . atha vā saṅkhyā nāma iyam parapradhānā . saṅkhyeam anyā viśeṣyam . yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt . atha vā vakṣyati etat . tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti . evam api ṣaṣṭhī prāpnoti . kim kāraṇam . vyabhicarati eva hi
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२३।१६-४२५।१३ रो इइ,७१०-७१४ परिगणनम् कर्तव्यम् । बहुव्रीहिः समानाधिकरणानाम् । समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः । किम् प्रयोजनम् । व्यधिकरणानाम् मा भूत् इति । पञ्चभिः भुक्तम् अस्य इति । अव्ययानाम् च । अव्ययानाम् बहुव्रीहिः वक्तव्यः । उच्चैर्मुखः नीचैर्मुखः । सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च । सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः । समुदायविकारषष्ठ्याः च । समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः । केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः । प्रादिभ्यः धातुजस्य वा । प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः । नञः अस्त्यर्थानाम् । नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः । अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः । तत् तर्हि बहु वक्तव्यम् । न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः । न वा वक्तव्यम् । असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : पञ्चभिः भुक्तम् अस्य इति । अनभिधानात् । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः । तत् यथा पञ्च भुक्तवन्तः अस्य इति । अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् । तत् कथम् कर्तव्यम् । अर्थनियमे मत्वर्थग्रहणम् । अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् । मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् । इह मा भूत् : कष्टम् श्रितम् अनेन इति । तथा च उत्तरस्य वचनार्थः । एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति । के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति । सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति । अपरः आह : यत् वार्त्तिके इति । कर्मवचनेन अप्रथ्मायाः । कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः । ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली । यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् । प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः । कर्तृवचनेन अपि । कर्तृवचनेन अपि इति वक्तव्यम् । अप्रथमायाः इति किमर्थम् । वृष्टे देवे गतः । अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति । वृष्टे देवे गतम् पश्य इति । बहिरङ्गा अत्र अप्रथमा । सुबधिकारे अस्तिक्षीरादिवचनम् । सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी । तत् तर्हि वक्तव्यम् । न वा अव्ययत्वात् । न वा वक्तव्यम् । किम् कारणम् । अव्ययत्वात् । अव्ययः अयम् अस्तिशब्दः । न एषः अस्तेः लट् । कथम् अव्ययत्वम् । उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा । निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।
KA I,423.16-425.13 Ro II,710-714 parigaṇanam kartavyam . bahuvrīhiḥ samānādhikaraṇānām . samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ . kim prayojanam . vyadhikaraṇānām mā bhūt iti . pañcabhiḥ bhuktam asya iti . avyayānām ca . avyayānām bahuvrīhiḥ vaktavyaḥ . uccairmukhaḥ nīcairmukhaḥ . saptamyupamānapūrvapadasya uttarapadalopaḥ ca . saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . kaṇṭhesthaḥ kālaḥ asya kaṇṭhekālaḥ uṣṭramukham iva mukham asya uṣṭramukhaḥ kharamukhaḥ . samudāyavikāraṣaṣṭhyāḥ ca . samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . keśānām samāhāraḥ cūḍā asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ . prādibhyaḥ dhātujasya vā . prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ . nañaḥ astyarthānām . nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ . tat tarhi bahu vaktavyam . na vā anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ . na vā vaktavyam . asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam asya iti . anabhidhānāt . tat ca avaśyam anabhidhānam āśrayitavyam . kriyamāṇe api vai parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ . tat yathā pañca bhuktavantaḥ asya iti . atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam kriyate vartiparigaṇanam api kartavyam . tat katham kartavyam . arthaniyame matvarthagrahaṇam . arthaniyame matvarthagrahaṇam kartavyam . matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam . iha mā bhūt : kaṣṭam śritam anena iti . tathā ca uttarasya vacanārthaḥ . evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati . ke cit tāvat āhuḥ : yat vṛttisūtre iti . saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . aparaḥ āha : yat vārttike iti . karmavacanena aprathmāyāḥ . karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ . ūḍhaḥ rathaḥ anena ūḍharathaḥ anaḍvān upahṛtaḥ paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ uddhṛtaudanā sthālī . yadi karmavacanena iti ucyate kartṛvacanena katham . prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ grāmam āgatātithiḥ grāmaḥ . kartṛvacanena api . kartṛvacanena api iti vaktavyam . aprathamāyāḥ iti kimartham . vṛṣṭe deve gataḥ . aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati . vṛṣṭe deve gatam paśya iti . bahiraṅgā atra aprathamā . subadhikāre astikṣīrādivacanam . subadhikāre astikṣīrādīnām upasaṅkhyānam kartavyam . astikṣīrā brāhmaṇī . tat tarhi vaktavyam . na vā avyayatvāt . na vā vaktavyam . kim kāraṇam . avyayatvāt . avyayaḥ ayam astiśabdaḥ . na eṣaḥ asteḥ laṭ . katham avyayatvam . upasargavibhaktisvarapratirūpakāḥ ca nipātasañjñāḥ bhavanti iti nipātasñjñā . nipātaḥ avyayam iti avyayasañjñā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,४२५।१४-४२७।५ रो इइ,७१४-७१९ अथ किंसब्रह्मचारी इति कः अयम् समासः । बहुव्रीहिः इति अह । कः अस्य विग्रहः । के सब्रह्मचारिणः अस्य इति । यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते । न हि अन्यत् पृष्टेन अन्यत् आख्यायते । एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति । प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति । किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत । किंसब्रह्मचारी इति च इष्यते । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी किंसब्रह्मचारी इति । भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति । एवम् तर्हि एवम् विग्रहः करिष्यते । कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति । अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति । ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते । न एषः दोषः । अग्नौकरवाणिन्यायेन भविष्यति । तत् यथा । कः चित् कम् चित् आह । अग्नौ करवाणि इति । कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति । अपरः आह : अग्नौ करिष्यते इति । क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति । यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते । नूनम् सः अपि कठ इति । एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् । नूनम् ते अपि कठाः इति । न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् । उपसर्जनम् हे ते भवन्ति । अथ अर्थतृतीयाः इति कः अयम् समासः । बहुव्रीहिः इति आह । कः अस्य विग्रहः । अर्धम् तृतीयम् एषाम् इति । कः समासार्थः । समासार्थः न उपपद्यते । अन्यपदार्थः हि नाम सः भवति । येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः । एवम् तर्हि एवम् विग्रहः करिष्यते । अर्धम् तृतीयम् अनयोः इति । एवम् अपि कः षष्ठ्यर्थः । षष्ठ्यर्थः न उपपद्यते । किम् हि तयोः अर्धम् भवति । अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् समासार्थः न उपपद्यते इति । न एषः दोषः । अवयवेन विग्रहः समुदायः समासार्थः । यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः । ननु च उक्तम् । षष्ठ्यर्थः न उपपद्यते इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः । तत्र एतत् स्यात् । एकस्मात् प्रादुर्भावः इति । एतत् च वार्तम् । तत् यथा । सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति । एवञ्जातीयकम् भ्रातृत्वम् नाम । अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् । इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् अनुससार पाण्डवम् । सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति। द्वयोः द्विवचनम् प्राप्नोति इति । न एषः दोषः । अयम् तीयन्तः शब्दः अस्ति एव पूरणम् । अस्ति सहायवाची । तत् यः सहायवाची तस्य इदम् ग्रहणम् । असिद्वितीयः असिसहायः इति गम्यते । एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति । ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति । न एषः दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि । तत् यथा । शुक्लवाससम् आनय । लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति । तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति । अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति । ननु च उक्तम् एकवचनम् प्राप्नोति इति । न एषः दोषः । सङ्ख्या नाम इयम् परप्रधाना । सङ्ख्येयम् अनया विशेष्यम् । यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात् । इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते । न एषः दोषः । समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते। तद् यथा । पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति । एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति । कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम्
KA I,425.14-427.5 Ro II,714-719 atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti aha . kaḥ asya vigrahaḥ . ke sabrahmacāriṇaḥ asya iti . yadi evam kaṭhaḥ iti prativacanam na upapadyate . na hi anyat pṛṣṭena anyat ākhyāyate . evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī iti . prativacanam ca eva na upapadyate svare ca doṣaḥ bhavati . kiṃsabrahmacārī iti evam svaraḥ prasajyeta . kiṃsabrahmacārī iti ca iṣyate . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī kiṃsabrahmacārī iti . bhavet prativacanam upapannam svare tu doṣaḥ bhavati . evam tarhi evam vigrahaḥ kariṣyate . kaḥ sabrahmacārī tava kiṃsabrahmacārī tvam iti . atha vā punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya iti . nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate . na eṣaḥ doṣaḥ . agnaukaravāṇinyāyena bhaviṣyati . tat yathā . kaḥ cit kam cit āha . agnau karavāṇi iti . kuru iti kartari anujñāte karma api anujñātam bhavati . aparaḥ āha : agnau kariṣyate iti . kriyatām iti karmaṇi anujñāte kartā api anujñātaḥ bhavati . yathā eva khalu api ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate . nūnam saḥ api kaṭha iti . evam kaṭhaḥ iti ukte sambandhāt etat gantavyam syāt . nūnam te api kaṭhāḥ iti . na khalu api te śakyāḥ samāsena pratinirdeṣṭum . upasarjanam he te bhavanti . atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ . bahuvrīhiḥ iti āha . kaḥ asya vigrahaḥ . ardham tṛtīyam eṣām iti . kaḥ samāsārthaḥ . samāsārthaḥ na upapadyate . anyapadārthaḥ hi nāma saḥ bhavati . yeṣām padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ . evam tarhi evam vigrahaḥ kariṣyate . ardham tṛtīyam anayoḥ iti . evam api kaḥ ṣaṣṭhyarthaḥ . ṣaṣṭhyarthaḥ na upapadyate . kim hi tayoḥ ardham bhavati . astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam samāsārthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . avayavena vigrahaḥ samudāyaḥ samāsārthaḥ . yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ . nanu ca uktam . ṣaṣṭhyarthaḥ na upapadyate iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ . tatra etat syāt . ekasmāt prādurbhāvaḥ iti . etat ca vārtam . tat yathā . sārthikanam ekapratiśraye uṣitānām prātaḥ utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ bhavati . evañjātīyakam bhrātṛtvam nāma . atra cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām . iha tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam anusasāra pāṇḍavam . saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti iti . na eṣaḥ doṣaḥ . ayam tīyantaḥ śabdaḥ asti eva pūraṇam . asti sahāyavācī . tat yaḥ sahāyavācī tasya idam grahaṇam . asidvitīyaḥ asisahāyaḥ iti gamyate . evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti . nanu ca uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti . na eṣaḥ doṣaḥ . bhavati bahuvrīhau tadguṇasaṃvijñānam api . tat yathā . śuklavāsasam ānaya . lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti . tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . atha vā punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . nanu ca uktam ekavacanam prāpnoti iti . na eṣaḥ doṣaḥ . saṅkhyā nāma iyam parapradhānā . saṅkhyeyam anayā viśeṣyam . yadi ca atra ekavacanam syāt saṅkhyeyam aviśeṣitam syāt . iha tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye pravṛttaḥ avayave na upapadyate . na eṣaḥ doṣaḥ . samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api vartante. tad yathā . pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . evam ayam samudāye droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati . kāmam tarhi anena eva hetunā yadā dvau droṇau ardhārḍhakam
Sanskrit only: no published translation is held for this verse.