Library·Patanjali: Vyakaranamahabhasya·2·2.2·2.2.29

Patanjali: Vyakaranamahabhasya 2.2.29

क्अ इ,४३०।८-२५ रो इइ,७२९-७३० चार्थे इति उच्यते चः च अव्ययम् । तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति । न एषः दोषः । पाठेन अव्ययसञ्ज्ञा क्रियते । न च समासः तत्र पठ्यते । पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति । यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति । न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व । किम् तर्हि । स्वाभाविकम् एतत् । तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् । अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति । अथ इह कस्मात् न भवति । याज्ञिकः च अयम् वैयाकरणः च । कठः च अयम् बह्वृचः च । औक्थिकः च अयम् मीमांसकः च इति । शेषः इति वर्तते । अशेषत्वात् न भविष्यति । यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति । न एषः दोषः । अन्यत् हि कृतम् अन्यत् अकृतम् ।

KA I,430.8-25 Ro II,729-730 cārthe iti ucyate caḥ ca avyayam . tena samāsasya avyayasañjñā prāpnoti . na eṣaḥ doṣaḥ . pāṭhena avyayasañjñā kriyate . na ca samāsaḥ tatra paṭhyate . pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . na idam vācanikam aliṅgatā asaṅkhyatā va . kim tarhi . svābhāvikam etat . tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat prāk samāsāt cārthasya liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . atha iha kasmāt na bhavati . yājñikaḥ ca ayam vaiyākaraṇaḥ ca . kaṭhaḥ ca ayam bahvṛcaḥ ca . aukthikaḥ ca ayam mīmāṃsakaḥ ca iti . śeṣaḥ iti vartate . aśeṣatvāt na bhaviṣyati . yadi śeṣaḥ iti vartate upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum mā tvā tāptām kṛtākṛte iti etat na sidhyati . na eṣaḥ doṣaḥ . anyat hi kṛtam anyat akṛtam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३१।१-४३४।१४ रो इइ,७३१-७४१ चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः । चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति । अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति । सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् । सिद्धम् एतत् । कथम् । युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् । तत्र पुंवद्भावप्रतिषेधः । तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः । पट्वीमृद्व्यौ । समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति । विप्रतिषिद्धेषु च अनुपपत्तिः । विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः । शीतोष्णे सुखदुःखे जननमरणे । किम् कारणम् । सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् । यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति । इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति । दर्शनीयायाः माता दर्शनीयामाता इति । अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति । यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति । सर्वे एव हि शब्दाः विप्रतिषिद्धाः । इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति । न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति । अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् । एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति । अतः किम् । युगपतधिकरणवचनतायाः अनुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः । शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति । प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति । विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य । विग्रहे खलु अपि युगपद्वचनता दृश्यते : द्यवा ह क्षमा । द्यवा चित् अस्मै पृथिवी नमेते इति । किम् एतत् । युगपदधिकरणवचनतायाः उपोद्बलकम् । विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे । समुदायात् सिद्धम् । समुदायात् सिद्धम् एतत् । किम् एतत् समुदायात् सिद्धम् इति । द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् । तस्य अयम् परिहारः । समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य । समुदायात् सिद्धम् इति चेत् तत् न । किम् कारणम् । एकार्थत्वात् समुदायस्य । एकार्थाः हि समुदायाः भवन्ति । तत् यथा शतम् यूथम् वनम् इति । न ऐकार्थ्यम् । न अयम् एकार्थः । किम् तर्हि । द्व्यर्थः बह्वर्थः च । प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः । यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः । तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् । तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न । किम् कारणम् । बहुत्वाभावात् । न अत्र बहुत्वम् अस्ति । किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति । याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि । यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः । अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न । किम् कारणम् । प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् । प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः । कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः । कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् । कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् । तुल्यम् हि कारणम् । यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति । तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति । दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते । दर्शनम् हेतुः इति चेत् तुल्यम् । दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति । प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् । तुल्यम्

KA I,431.1-434.14 Ro II,731-741 cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ . cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam prāpnoti . ahaḥ ahaḥ nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti . siddham tu yugapadadhikaraṇavacane dvandvavacanāt . siddham etat . katham . yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam . tatra puṃvadbhāvapratiṣedhaḥ . tatra etasmin lakṣaṇe puṃvadbhāvasya pratiṣedhaḥ vaktavyaḥ . paṭvīmṛdvyau . samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ prāpnoti . vipratiṣiddheṣu ca anupapattiḥ . vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ . śītoṣṇe sukhaduḥkhe jananamaraṇe . kim kāraṇam . sukhapratighātena hi duḥkham duḥkapratighātena ca sukham . yat tāvat ucyate tatra puṃvadbhāvapratiṣedhaḥ iti . idam tāvat ayam praṣṭavyaḥ : atha iha kasmāt na bhavati . darśanīyāyāḥ mātā darśanīyāmātā iti . atha matam etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati . yad api ucyate vipratiṣiddheṣu ca anupapattiḥ iti . sarve eva hi śabdāḥ vipratiṣiddhāḥ . iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ plakṣārtham sampratyāyayati nyagrodhārtham nivartayati . nyagrodhaśabdaḥ prayujyamānaḥ nyagrodhārtham sampratyāyayati plakṣārtham nivartayati . atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām . evam api śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam prāpnoti . ataḥ kim . yugapatadhikaraṇavacanatāyāḥ anupapattiḥ . plakṣanyagrodhau plakṣanyagrodhāḥ iti . yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ . śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : plakṣanyagrodhau plakṣanyagrodhāḥ iti . plakṣaśabdaḥ sārthakaḥ nivṛttaḥ nyagrodhaśabdaḥ upasthitaḥ ekārthaḥ tasya ekārthatvāt ekavacanam eva prāpnoti . vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya . vigrahe khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā . dyavā cit asmai pṛthivī namete iti . kim etat . yugapadadhikaraṇavacanatāyāḥ upodbalakam . vigrahe kila nāma yugapadadhikaraṇavacanatā syāt kim punaḥ samāse . samudāyāt siddham . samudāyāt siddham etat . kim etat samudāyāt siddham iti . dvivacanabahuvacanaprasiddhiḥ iti coditam . tasya ayam parihāraḥ . samudāyāt siddham iti cet na ekārthatvāt samudāyasya . samudāyāt siddham iti cet tat na . kim kāraṇam . ekārthatvāt samudāyasya . ekārthāḥ hi samudāyāḥ bhavanti . tat yathā śatam yūtham vanam iti . na aikārthyam . na ayam ekārthaḥ . kim tarhi . dvyarthaḥ bahvarthaḥ ca . plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ . yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ . tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt . tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na . kim kāraṇam . bahutvābhāvāt . na atra bahutvam asti . kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti . yābhyām eva atra ekaḥ dvyarthaḥ tābhyām eva aparaḥ api . yadi evam anyavācakena anyasya vacanānupapattiḥ . anyavācakena śabdena anyasya vacanam na upapadyate . anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . anyavācakena anyasya vacanānupapattiḥ iti cet ucyate tat na . kim kāraṇam . plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ . katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ . kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham . kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na tulyakāraṇatvāt siddham . tulyam hi kāraṇam . yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api etat bhavati . tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat bhavati . darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ dṛśyate . darśanam hetuḥ iti cet tulyam . darśanam hetuḥ iti cet tulyam etat bhavati . plakṣe api nyagrodhaśabdaḥ dṛśyatām . tulyam

Sanskrit only: no published translation is held for this verse.

क्अ इ,४३४।१५-४३५।३ रो इइ,७४२-७४३ एकादश द्वादश इति कः अयम् समासः । एकादीनाम् दशादिभिः द्वन्द्वः । एकादीनाम् दशादिभिः द्वन्द्वः समासः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः । एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति । एकविंशतिः द्वाविंशतिः । सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् । कथम् । समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति । एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः । यदि समानाधिकरणः स्वरः न सिध्यति । यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् । किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् । इह मा भूत् शतसहस्रम् इति । अस्तु तर्हि द्वन्द्वः । ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति। न एषः दोषः । सर्वः द्वन्द्वः विभाषा एकवत् भवति । यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

KA I,434.15-435.3 Ro II,742-743 ekādaśa dvādaśa iti kaḥ ayam samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ . ekādīnām daśādibhiḥ dvandvaḥ samāsaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ . ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam prāpnoti . ekaviṃśatiḥ dvāviṃśatiḥ . siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca . siddham etat . katham . samānādhikaraṇādhikāre vaktavyam adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ bhavati iti . ekādhikā viṃśatiḥ ekaviṃśatiḥ dvyadhikā viṃśatiḥ dvāviṃśatiḥ . yadi samānādhikaraṇaḥ svaraḥ na sidhyati . yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat . kim punaḥ kāraṇam dvandve iti evam tat . iha mā bhūt śatasahasram iti . astu tarhi dvandvaḥ . nanu ca uktam ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ . sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati . yadā tarhi ekavacanam tadā napuṃsakaliṅgam prāpnoti . liṅgam aśiṣyam lokāśrayatvāt liṅgasya .

Sanskrit only: no published translation is held for this verse.