क्अ इ,४०८।२२-४०९।४ रो इइ,६६० किमर्थः चकारः । अनुकरषणार्थः । अन्यतरस्याम् इति एतत् अनुकृष्यते । किम् प्रयोजनम् । अन्यतरस्याम् समासः यथा स्यात् । समासेन मुक्ते वाक्यम् अपि यथ स्यात् । जीविकाम् प्राप्तः इति । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् भविष्यति । इदम् तर्हि प्रयोजनम् । द्वितीयासमासः अपि यथ स्यात् । जीविकाप्राप्तः इति । एतत् अपि न अस्ति प्रयोजनम्। अयम् अपि उच्यते द्वितीयासमासः अपि । तत् उभयम् वचनात् भविष्यति । एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः । किम् तर्हि । अत्वम् अनेन विधीयते । प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति । प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।
KA I,408.22-409.4 Ro II,660 kimarthaḥ cakāraḥ . anukaraṣaṇārthaḥ . anyatarasyām iti etat anukṛṣyate . kim prayojanam . anyatarasyām samāsaḥ yathā syāt . samāsena mukte vākyam api yatha syāt . jīvikām prāptaḥ iti . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam bhaviṣyati . idam tarhi prayojanam . dvitīyāsamāsaḥ api yatha syāt . jīvikāprāptaḥ iti . etat api na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api . tat ubhayam vacanāt bhaviṣyati . evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ . kim tarhi . atvam anena vidhīyate . prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ iti . prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.