क्अ इ,४४१।१९-४४२।५ रो इइ,७६२-७६४ परिगणनं कर्तव्यम् । तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् । तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् । तिङ् । क्रियते कटः । कृत् । कृतः कटः । तद्धित । औपगवः कापटवः । समास । चित्रगुः शबलगुः । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या । क्व । कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति । कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति । का तर्हि स्यात् । षष्ठी । शेषलक्षणा षष्ठी । अशेषत्वात् न भविष्यति । अन्याः अपि न प्राप्नुवन्ति । किम् कारणम् । कर्मादीन् आमभावात् । समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति । न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति । अथ वा कटः अपि कर्म भीष्मादयः अपि । तत्र कर्मणि इति एव सिद्धम् । अथ वा कटः एव कर्म । तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति । तस्मात् न अर्थः परिगणनेन ।
KA I,441.19-442.5 Ro II,762-764 parigaṇanaṃ kartavyam . tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam . tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam kartavyam . tiṅ . kriyate kaṭaḥ . kṛt . kṛtaḥ kaṭaḥ . taddhita . aupagavaḥ kāpaṭavaḥ . samāsa . citraguḥ śabalaguḥ . utsarge hi prātipadikasāmānādhikaraṇye vibhaktivacanam . utsarge hi prātipadikasāmānādhikaraṇye vibhaktiḥ vaktavyā . kva . kaṭam karoti bhīṣmam udāram śobhanam darśanīyam iti . kaṭaśabdāt utpadyamānayā dvitīyayā abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā na prāpnoti . kā tarhi syāt . ṣaṣṭhī . śeṣalakṣaṇā ṣaṣṭhī . aśeṣatvāt na bhaviṣyati . anyāḥ api na prāpnuvanti . kim kāraṇam . karmādīn āmabhāvāt . samayaśca kṛtaḥ ne kevalā prakṛtiḥ proktavyā na kevalaḥ pratyayaḥ iti . na cānyā utpadyamānā etam abhisambandham utsahante vaktum iti kṛtvā dvitīyā bhaviṣyati . atha vā kaṭaḥ api karma bhīṣmādayaḥ api . tatra karmaṇi iti eva siddham . atha vā kaṭaḥ eva karma . tatsāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati . tasmāt na arthaḥ parigaṇanena .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.