क्अ इ,४५०।१६-४५१।३ रो इइ,७८८-७८९ अप्राणिषु इति उच्यते । तत्र इदम् न सिध्यति : न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति । एवम् तर्हि योगविभागः करिष्यते । मन्यकर्मणि अनादरे विभाषा । ततः अप्राणिषु । अप्राणिषु च विभाषा इति । इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति । यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि । इमे च नावादयः भविष्यन्ति । न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् । न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् । अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति ।
KA I,450.16-451.3 Ro II,788-789 aprāṇiṣu iti ucyate . tatra idam na sidhyati : na tvā śvānam manye , na tvā śune manye iti . evam tarhi yogavibhāgaḥ kariṣyate . manyakarmaṇi anādare vibhāṣā . tataḥ aprāṇiṣu . aprāṇiṣu ca vibhāṣā iti . iha api tarhi prāpnoti : na tvā kākam manye , na tvā śukam manye iti . yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi . ime ca nāvādayaḥ bhaviṣyanti . na tvā nāvam manye yāvat tīrṇam na nāvyam . na tvā annam manye yāvat bhuktam na śrāddham . atra yeṣu prāṇiṣu na iṣyate te nāvādayaḥ bhaviṣyanti . manyakarmaṇi prakṛṣyakutsitagrahaṇam . manyakarmaṇi prakṛṣyakutsitagrahaṇam kartavyam iha mā bhūt : tvām tṛṇam manye iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.