क्अ इ,४६९।२-४७०।६ रो इइ,८३८-८४० लादेशे सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् । लादेशे सल्लिड्गग्रहणम् कर्तव्यम् । सल्लिटोः प्रयोगे न इति वक्तव्यम् । किम् प्रयोजनम् । किकिनोः प्रतिषेधार्थम् । किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् । । पपिः सोमं ददिः गाः । किम् पुनः कारणम् न सिध्यति । तयोः अलादेशत्वात् । न हि तौ लादेशौ । अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः । बाढम् स्यात् । लादेशौ तर्हि भविष्यतः । तत् कथम् । आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिम् अतिदेशः गम्यते । अन्तरेण अपि वतिम् अतिदेशः गम्यते । तत् यथा । एषः ब्रह्मदत्तः । अब्रह्मदत्तम् ब्रह्मदत्तः इति आह । ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति । एवम् इह अपि अलिटम् लिट् इति आह । लिड्वत् इति विज्ञास्यते । उकारप्रयोगे न इति वक्तव्यम् । कटम् चिकीर्षुः । ओदनम् बुभुक्षुः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उकारः अपि अत्र निर्दिश्यते । कथम् । प्रश्लिष्टनिर्देशः अयम् । उ उक ऊक ल ऊक लोक इति । उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः । उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् । दस्याः कामुकः । वृषल्याः कामुकः । अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् । पुरा सूर्यस्य उदेतोः आधेयः । पुरा वत्सानाम् अपाकर्तोः । पुरा क्रूरस्य विसृपः विरप्शिन् । शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम् । शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम् कर्तव्यम् । सोमम् पवमानः । नडम् आघ्नानः । अधीयन् पारायणम् । लप्रयोगे न इति प्रतिषेधः न प्राप्नोति । मा भूत् एवम् । तृन् इति एवम् भविष्यति । कथम् । तृन् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व संनिविष्टानाम् प्रत्याहारः । लटः शतृ इति अतः प्रभृति आ तृनः नकारात् । यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति । द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् । तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् । तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति ।
KA I,469.2-470.6 Ro II,838-840 lādeśe salliḍgrahaṇam kikinoḥ pratiṣedhārtham . lādeśe salliḍgagrahaṇam kartavyam . salliṭoḥ prayoge na iti vaktavyam . kim prayojanam . kikinoḥ pratiṣedhārtham . kikinoḥ api prayoge pratiṣedhaḥ yathā syāt . | papiḥ somaṃ dadiḥ gāḥ . kim punaḥ kāraṇam na sidhyati . tayoḥ alādeśatvāt . na hi tau lādeśau . atha tau lādeśau syātām syāt pratiṣedhaḥ . bāḍham syāt . lādeśau tarhi bhaviṣyataḥ . tat katham . ādṛgamahanajanaḥ kikinau liṭ ca iti liḍvat iti vakṣyāmi . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā . eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe : brahmadattavat ayam bhavati iti . evam iha api aliṭam liṭ iti āha . liḍvat iti vijñāsyate . ukāraprayoge na iti vaktavyam . kaṭam cikīrṣuḥ . odanam bubhukṣuḥ . tat tarhi vaktavyam . na vaktavyam . ukāraḥ api atra nirdiśyate . katham . praśliṣṭanirdeśaḥ ayam . u uka ūka la ūka loka iti . ukapratiṣedhe kameḥ bhāṣāyām apratiṣedhaḥ . ukapratiṣedhe kameḥ bhāṣāyām pratiṣedhaḥ na bhavati iti vaktavyam . dasyāḥ kāmukaḥ . vṛṣalyāḥ kāmukaḥ . avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ . avyayapratiṣedhe tosunkasunoḥ pratiṣedhaḥ na bhavati iti vaktavyam . purā sūryasya udetoḥ ādheyaḥ . purā vatsānām apākartoḥ . purā krūrasya visṛpaḥ virapśin . śānaṃścānaśśatṝṛṇām upasaṅkhyānam . śānaṃścānaśśatṝṛṇām upasaṅkhyānam kartavyam . somam pavamānaḥ . naḍam āghnānaḥ . adhīyan pārāyaṇam . laprayoge na iti pratiṣedhaḥ na prāpnoti . mā bhūt evam . tṛn iti evam bhaviṣyati . katham . tṛn iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva saṃniviṣṭānām pratyāhāraḥ . laṭaḥ śatṛ iti ataḥ prabhṛti ā tṛnaḥ nakārāt . yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti . dviṣaḥ śatuḥ vāvacanam . dviṣaḥ śatuḥ vā iti vaktavyam . tat ca avaśyaṃ vaktavyam pratyayagrhaṇe sati pratiṣedhārtham . tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.