क्अ इइ,१८।१६-१९।१७ रो इइइ,५०-५५ अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति । भावः कर्ता च । अथ कर्म । न अस्ति कर्म । ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते । अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः । न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् । कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति । अस्ति अत्र विशेषः । द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतम् । उपमेयेन कर्मणा सकर्मकः भवति । तत् यथा । अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च। उपमानकर्ता अन्तर्भूतः । उपेमेयकर्त्रा सक्र्तृकः भवति । अयम् तर्हि कथम् सकर्मकः भवति । मुण्डयति माणवकम् इति । अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च । सामान्यकर्म अन्तर्भूतम् । विशेषकर्मणा सकर्मकः भवति । ननु च वृत्त्या एव अत्र न भवितव्यम् । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । न एषः दोषः । न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च । न हि माणवकः क्रियते । यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः । तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति । कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति । न उभौ इषियुक्तौ इति । न कर्तव्यः । उभौ अत्र इषियुक्तौ मुण्डः माणवकः च । कथम् । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असौ मौण्ड्यम् इच्छति । इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति । अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति । एवम् तर्हि मुण्डादयः गुअणवचनाः । गुणवचनाः च सापेक्षाः । वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति । अथ वा धातवः एव मुण्डादयः । न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च । यदा वाक्यम् न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिः । तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । मुण्डयति । कम् । माणवकम् इति । मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति । अथ वा उक्तम् एतत् । न अत्र व्यापारः अनुगन्तव्यः इति । गमक्त्वात् इह वृत्तिः भविष्यति । मुण्डयति माणवकम् इति । अथ इह क्यचा भवितव्यम् । इष्टः पुत्रः । इष्यते पुत्रः इति । के चित् तावत् आहुः न भवितव्यम् इत् । किम् कारणम् । स्वशब्देन उक्तत्वात् इति । अपरे आहुः : भवितव्यम् इति । किम् कारणम् । धात्वर्थे अयम् क्यच् विधीयते । सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति । इहभवन्तः तु आहुः न भवितव्यम् इति । किम् कारणम् । इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।
KA II,18.16-19.17 Ro III,50-55 atha asya kyajantasya kāni sādhanāni bhavanti . bhāvaḥ kartā ca . atha karma . na asti karma . nanu ca ayam iṣiḥ sakarmakaḥ yasya ayam arthe kyac vidhīyate . abhihitam tat karma antarbhūtam dhātvarthaḥ sampannaḥ . na ca idānīm anyat karma asti yena sakarmakaḥ syāt . katham tarhi ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati māṇavakam iti . asti atra viśeṣaḥ . dve hi atra karmaṇī upamānakarma upameyakarma ca . upamānakarma antarbhūtam . upameyena karmaṇā sakarmakaḥ bhavati . tat yathā . api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā ca upameyakartā ca. upamānakartā antarbhūtaḥ . upemeyakartrā sakrtṛkaḥ bhavati . ayam tarhi katham sakarmakaḥ bhavati . muṇḍayati māṇavakam iti . atra api dve karmaṇī sāmānyakarma viśeṣakarma ca . sāmānyakarma antarbhūtam . viśeṣakarmaṇā sakarmakaḥ bhavati . nanu ca vṛttyā eva atra na bhavitavyam . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . na eṣaḥ doṣaḥ . na atra ubhau karotiyuktau muṇḍaḥ māṇavakaḥ ca . na hi māṇavakaḥ kriyate . yadā ca ubhau karotiyuktau bhavataḥ na bhavati tadā vṛttiḥ . tat yathā balīvardam karoti muṇḍam ca enam karoti iti . kāmam tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam icchati iti . na ubhau iṣiyuktau iti . na kartavyaḥ . ubhau atra iṣiyuktau muṇḍaḥ māṇavakaḥ ca . katham . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asau mauṇḍyam icchati . iha api tarhi na prāpnoti muṇḍayati māṇavakam iti . atra api hi ubhau karotiyukta muṇḍaḥ māṇavakaḥ ca . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asu mauṇḍyam nirvartayati . evam tarhi muṇḍādayaḥ guaṇavacanāḥ . guṇavacanāḥ ca sāpekṣāḥ . vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati . atha vā dhātavaḥ eva muṇḍādayaḥ . na na eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . atha vā na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca . yadā vākyam na tadā pratyayaḥ . yadā pratyayaḥ sāmānyena tadā vṛttiḥ . tatra avśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . muṇḍayati . kam . māṇavakam iti . muṇḍaviśiṣṭena vā karotina tam āptum icchati . atha vā uktam etat . na atra vyāpāraḥ anugantavyaḥ iti . gamaktvāt iha vṛttiḥ bhaviṣyati . muṇḍayati māṇavakam iti . atha iha kyacā bhavitavyam . iṣṭaḥ putraḥ . iṣyate putraḥ iti . ke cit tāvat āhuḥ na bhavitavyam it . kim kāraṇam . svaśabdena uktatvāt iti . apare āhuḥ : bhavitavyam iti . kim kāraṇam . dhātvarthe ayam kyac vidhīyate . saḥ ca dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti . ihabhavantaḥ tu āhuḥ na bhavitavyam iti . kim kāraṇam . iha samānārthena vākyena bhavitavyam pratyayāntena ca . yaḥ ca iha arthaḥ vākyena gamyate iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena gamyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.