Library·Patanjali: Vyakaranamahabhasya·3·3.1·3.1.8

Patanjali: Vyakaranamahabhasya 3.1.8

क्अ इइ,१६।२-१७।१२ रो इइइ,४५-४८ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाच् अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धम् । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः । अस्य च्वौ क्यचि च इति । क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत । न एतत् अस्ति । तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति । सामान्यग्रहणाविघातार्थः तर्हि । क्व च सामान्यग्रहणाविघातार्थेन अर्थः । नः क्ये इति । अथ आत्मन्ग्रहणम् किमर्थम् । आत्मेच्छायाम् यथा स्यात् । परेच्छायाम् मा भूत् इति । राज्ञः पुत्रम् इच्छति इति । क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति । किम् कारणम् । आत्मनः इति इयम् कर्तरि षष्ठी । इच्छा इति अकारः भावे । सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति । न आत्मग्रहणेन इच्छा अभिसम्बध्यते । किम् तर्हि । सुबन्तम् अभिसम्बध्यते । आत्मनः यत् सुबन्तम् इति । यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति । म त्वा वृकाः अघायवः विदन् । तस्मात् न अर्थः आत्मग्रहणेन । इह कस्मात् न भवति : राज्ञः पुत्रम् इच्छति इति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । छन्दसि अपि तर्हि न प्राप्नोति । म त्वा वृकाः अघायवः विदन् । अस्ति अत्र विशेषः । अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । ते च एव वृकाः एवमात्मकः हिंस्राः । कः च आत्मनः अघम् एषितुम् अर्हति । अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते । यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति । अघम् इच्छति इति । तस्मात् आत्मग्रहणम् कर्तव्यम् । छन्दसि कथम् । आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति । अथ सुब्ग्रहणम् किमर्थम् । सुबन्तात् उत्पत्तिः यथ स्यात् । प्रातिपदिकात् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः । सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति । प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति । ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा । कथम् । आरभ्यते नः क्ये इति । तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् । तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः यथ स्यात् । धातोः मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । धातोः सन् विधीयते । सः बाधकः भविष्यति । अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् । कः अवकाशः । परेच्छा । न परेच्छायाम् सना भवितव्यम् । किम् कारणम् । समानकर्तृकात् इति उच्यते । यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः यथ स्यात् । वाक्यात् मात् भूत् इति । महान्तम् पुत्रम् इच्छति इति । न वा भवति महापुत्रीयति इति । भवति यदा एतत् वाक्यम् भवति । महान् पुत्रः महापुत्रः । महापुत्रम् इच्छति महापुत्रीयति इति । यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति । तदा मा भूत् इति ।

KA II,16.2-17.12 Ro III,45-48 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . viśeṣaṇārthaḥ tarhi . kva viśeṣaṇārthena arthaḥ . asya cvau kyaci ca iti . kye ca iti ucyamāne api kākaḥ śyenāyate atra api prasayjeta . na etat asti . tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati . sāmānyagrahaṇāvighātārthaḥ tarhi . kva ca sāmānyagrahaṇāvighātārthena arthaḥ . naḥ kye iti . atha ātmangrahaṇam kimartham . ātmecchāyām yathā syāt . parecchāyām mā bhūt iti . rājñaḥ putram icchati iti . kriyamāṇe api ātmagrahaṇe parecchāyām prāpnoti . kim kāraṇam . ātmanaḥ iti iyam kartari ṣaṣṭhī . icchā iti akāraḥ bhāve . saḥ yadi eva ātmanaḥ icchā atha api parasya ātmecchā eva asau bhavati . na ātmagrahaṇena icchā abhisambadhyate . kim tarhi . subantam abhisambadhyate . ātmanaḥ yat subantam iti . yadi ātmagrahaṇam kriyate chandasi parecchāyām na prāpnoti . ma tvā vṛkāḥ aghāyavaḥ vidan . tasmāt na arthaḥ ātmagrahaṇena . iha kasmāt na bhavati : rājñaḥ putram icchati iti . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . chandasi api tarhi na prāpnoti . ma tvā vṛkāḥ aghāyavaḥ vidan . asti atra viśeṣaḥ . antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . katham punaḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . te ca eva vṛkāḥ evamātmakaḥ hiṃsrāḥ . kaḥ ca ātmanaḥ agham eṣitum arhati . ataḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate . yathā eva tarhi chandasi aghaśabdāt parecchāyām khyac bhavati evam bhāṣāyām api prāpnoti . agham icchati iti . tasmāt ātmagrahaṇam kartavyam . chandasi katham . ācāryapravṛttiḥ jñāpayati bhavati chandasi aghaśabdāt parecchāyām kyac iti yat ayam aśvāghasyāt iti kyaci pratkṛte ītvabādhanārtham ākāram śāsti . atha subgrahaṇam kimartham . subantāt utpattiḥ yatha syāt . prātipadikāt mā bhūt iti . na etat asti prayojanam . na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā ayam asti viśeṣaḥ . subantāt utpattau satyām padasañjñā siddhā bhavati . prātipadikāt utpattau satyām padasañjñā na prāpnoti . nanu ca prātipadikāt utpattau satyām padasañjñā siddhā . katham . ārabhyate naḥ kye iti . tat ca avaśyam kartavyam subantāt utpattau satyām niyamārtham . tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . idam tarhi prayojanam . subantāt utpattiḥ yatha syāt . dhātoḥ mā bhūt iti . etat api na asti prayojanam . dhātoḥ san vidhīyate . saḥ bādhakaḥ bhaviṣyati . anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca san . kaḥ avakāśaḥ . parecchā . na parecchāyām sanā bhavitavyam . kim kāraṇam . samānakartṛkāt iti ucyate . yāvat ca iha ātmagrahaṇam tāvat tatra samānakartṛkagrahaṇam . idam tarhi prayojanam . subantāt utpattiḥ yatha syāt . vākyāt māt bhūt iti . mahāntam putram icchati iti . na vā bhavati mahāputrīyati iti . bhavati yadā etat vākyam bhavati . mahān putraḥ mahāputraḥ . mahāputram icchati mahāputrīyati iti . yadā tu etat vākyam bhavati mahāntam putram icchati iti tadā na bhavitavyam tadā ca prāpnoti . tadā mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१७।१२-१८।१५ रो इइइ,४८-५० अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति । सुबन्तम् हि एतत् वाक्यम् । न एतत् सुबन्तम् । कथम् । प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति । अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति । समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन । समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति । क्व सर्वत्र । समासविधौ प्रत्ययविधौ । समासविधौ तावत् । ऋद्धस्य राज्ञः पुरुषः । महत् कष्टम् श्रितः इति । प्रत्ययविधौ । ऋद्धस्य उपगोः अपत्यम् । महान्तम् पुत्रम् इच्छति । इति । किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति । अयोगात् एकेन । न हि एकेन पदेन योगः भवति । इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते । यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् । यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् । वाक्यम् तत् । ऋद्धस्य उपगोः अपत्यम् इति च । षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते । यत् च अत्र षष्ट्ःईसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् । वाक्यम् तत् । समानाधिकरणानाम् इति उच्यते । अथ व्यधिकरणानाम् कथम् । राज्ञः पुत्रम् इच्छति इति । एवम् तर्हि इदम् पठितव्यम् । सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन । द्वितीयानुपपत्तिः तु । द्वितीया तु न उपपद्यते । महान्तम् पुत्रम् इच्छति इति । किम् कारणम् । न पुत्रः इषिकर्म । यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव । किम् तर्हि । सर्वाः द्वितीयादयः विभक्तयः । महता पुत्रेण कृतम् । महते पुत्राय देहि । महः पुत्रात् आनय । महतः पुत्रस्य स्वम् । महति पुत्रे निधेहि । तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति । पुत्र एव इषिकर्म । तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति । वृत्तिः तर्हि कस्मात् न भवति । सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् । यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति । अमुण्डादीनाम् इति वक्तव्यम् । तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति । न वक्तव्यम् । वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति । अगमकत्वात् । इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति । एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति । न ब्रूमः अपशब्दः स्यात् इति । यत्र च गमकत्वम् भवति तत्र वृत्तिः । तत् यथा मुण्डयति माणवकम् इति ।

KA II,17.12-18.15 Ro III,48-50 atha kriyamāṇe api subgrahaṇe kasmāt eva atra na bhavati . subantam hi etat vākyam . na etat subantam . katham . pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati iti . atha yat atra subantam tasmāt utpattiḥ kasmāt na bhavati . samānādhikaraṇānām sarvatra avṛttiḥ ayogāt ekena . samānādhikaraṇānām sarvatra eva vṛttiḥ na bhavati . kva sarvatra . samāsavidhau pratyayavidhau . samāsavidhau tāvat . ṛddhasya rājñaḥ puruṣaḥ . mahat kaṣṭam śritaḥ iti . pratyayavidhau . ṛddhasya upagoḥ apatyam . mahāntam putram icchati . iti . kim punaḥ kāraṇam samānādhikaraṇānām sarvatra vṛttiḥ na bhavati . ayogāt ekena . na hi ekena padena yogaḥ bhavati . iha tāvat ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye sati samāsaḥ vidhīyate . yat ca atra ṣaṣthyantam na tasya subantena sāmarthyam . yasya ca sāmarthyam na tat ṣaṣṭhyantam . vākyam tat . ṛddhasya upagoḥ apatyam iti ca . ṣaṣṭhīsamarthāt apatyena yoge pratyayaḥ vidhīyate . yat ca atra ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat ṣaṣṭhyantam . vākyam tat . samānādhikaraṇānām iti ucyate . atha vyadhikaraṇānām katham . rājñaḥ putram icchati iti . evam tarhi idam paṭhitavyam . saviśeṣaṇānām sarvatra avṛttiḥ ayogāt ekena . dvitīyānupapattiḥ tu . dvitīyā tu na upapadyate . mahāntam putram icchati iti . kim kāraṇam . na putraḥ iṣikarma . yadi putraḥ na iṣikarma na ca avaśyam dvitīyā eva . kim tarhi . sarvāḥ dvitīyādayaḥ vibhaktayaḥ . mahatā putreṇa kṛtam . mahate putrāya dehi . mahaḥ putrāt ānaya . mahataḥ putrasya svam . mahati putre nidhehi . tasmāt na evam śakyam vaktum na putraḥ iṣikarma iti . putra eva iṣikarma . tatsāmānādhikaraṇyāt dvitīyādayaḥ bhaviṣyanti . vṛttiḥ tarhi kasmāt na bhavati . saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti vaktavyam . yadi saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate iti ucyate muṇḍayati māṇavakam iti atra vṛttiḥ na prāpnoti . amuṇḍādīnām iti vaktavyam . tat tarhi vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya vā viśeṣaṇam na prayujyate amuṇḍādīnām iti . na vaktavyam . vṛttiḥ kasmāt na bhavati mahāntam putram icchati iti . agamakatvāt . iha samānārthena vākyena bhavitavyam pratyayāntena ca . yaḥ ca iha arthaḥ vākyena gamyate mahāntam putram icchati iti na asau jātu cit pratyayāntena gamyate mahāntam putrīyati iti . etasmāt hetoḥ brūmaḥ agamakatvāt iti . na brūmaḥ apaśabdaḥ syāt iti . yatra ca gamakatvam bhavati tatra vṛttiḥ . tat yathā muṇḍayati māṇavakam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१८।१६-१९।१७ रो इइइ,५०-५५ अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति । भावः कर्ता च । अथ कर्म । न अस्ति कर्म । ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते । अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः । न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् । कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति । अस्ति अत्र विशेषः । द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतम् । उपमेयेन कर्मणा सकर्मकः भवति । तत् यथा । अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च। उपमानकर्ता अन्तर्भूतः । उपेमेयकर्त्रा सक्र्तृकः भवति । अयम् तर्हि कथम् सकर्मकः भवति । मुण्डयति माणवकम् इति । अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च । सामान्यकर्म अन्तर्भूतम् । विशेषकर्मणा सकर्मकः भवति । ननु च वृत्त्या एव अत्र न भवितव्यम् । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । न एषः दोषः । न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च । न हि माणवकः क्रियते । यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः । तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति । कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति । न उभौ इषियुक्तौ इति । न कर्तव्यः । उभौ अत्र इषियुक्तौ मुण्डः माणवकः च । कथम् । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असौ मौण्ड्यम् इच्छति । इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति । अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च । न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति । माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति । एवम् तर्हि मुण्डादयः गुअणवचनाः । गुणवचनाः च सापेक्षाः । वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति । अथ वा धातवः एव मुण्डादयः । न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते । अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च । यदा वाक्यम् न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिः । तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । मुण्डयति । कम् । माणवकम् इति । मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति । अथ वा उक्तम् एतत् । न अत्र व्यापारः अनुगन्तव्यः इति । गमक्त्वात् इह वृत्तिः भविष्यति । मुण्डयति माणवकम् इति । अथ इह क्यचा भवितव्यम् । इष्टः पुत्रः । इष्यते पुत्रः इति । के चित् तावत् आहुः न भवितव्यम् इत् । किम् कारणम् । स्वशब्देन उक्तत्वात् इति । अपरे आहुः : भवितव्यम् इति । किम् कारणम् । धात्वर्थे अयम् क्यच् विधीयते । सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति । इहभवन्तः तु आहुः न भवितव्यम् इति । किम् कारणम् । इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च । यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।

KA II,18.16-19.17 Ro III,50-55 atha asya kyajantasya kāni sādhanāni bhavanti . bhāvaḥ kartā ca . atha karma . na asti karma . nanu ca ayam iṣiḥ sakarmakaḥ yasya ayam arthe kyac vidhīyate . abhihitam tat karma antarbhūtam dhātvarthaḥ sampannaḥ . na ca idānīm anyat karma asti yena sakarmakaḥ syāt . katham tarhi ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati māṇavakam iti . asti atra viśeṣaḥ . dve hi atra karmaṇī upamānakarma upameyakarma ca . upamānakarma antarbhūtam . upameyena karmaṇā sakarmakaḥ bhavati . tat yathā . api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā ca upameyakartā ca. upamānakartā antarbhūtaḥ . upemeyakartrā sakrtṛkaḥ bhavati . ayam tarhi katham sakarmakaḥ bhavati . muṇḍayati māṇavakam iti . atra api dve karmaṇī sāmānyakarma viśeṣakarma ca . sāmānyakarma antarbhūtam . viśeṣakarmaṇā sakarmakaḥ bhavati . nanu ca vṛttyā eva atra na bhavitavyam . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . na eṣaḥ doṣaḥ . na atra ubhau karotiyuktau muṇḍaḥ māṇavakaḥ ca . na hi māṇavakaḥ kriyate . yadā ca ubhau karotiyuktau bhavataḥ na bhavati tadā vṛttiḥ . tat yathā balīvardam karoti muṇḍam ca enam karoti iti . kāmam tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam icchati iti . na ubhau iṣiyuktau iti . na kartavyaḥ . ubhau atra iṣiyuktau muṇḍaḥ māṇavakaḥ ca . katham . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asau mauṇḍyam icchati . iha api tarhi na prāpnoti muṇḍayati māṇavakam iti . atra api hi ubhau karotiyukta muṇḍaḥ māṇavakaḥ ca . na hi asau mauṇḍyamātreṇa santoṣam karoti . māṇavakastham asu mauṇḍyam nirvartayati . evam tarhi muṇḍādayaḥ guaṇavacanāḥ . guṇavacanāḥ ca sāpekṣāḥ . vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati . atha vā dhātavaḥ eva muṇḍādayaḥ . na na eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate . atha vā na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca . yadā vākyam na tadā pratyayaḥ . yadā pratyayaḥ sāmānyena tadā vṛttiḥ . tatra avśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . muṇḍayati . kam . māṇavakam iti . muṇḍaviśiṣṭena vā karotina tam āptum icchati . atha vā uktam etat . na atra vyāpāraḥ anugantavyaḥ iti . gamaktvāt iha vṛttiḥ bhaviṣyati . muṇḍayati māṇavakam iti . atha iha kyacā bhavitavyam . iṣṭaḥ putraḥ . iṣyate putraḥ iti . ke cit tāvat āhuḥ na bhavitavyam it . kim kāraṇam . svaśabdena uktatvāt iti . apare āhuḥ : bhavitavyam iti . kim kāraṇam . dhātvarthe ayam kyac vidhīyate . saḥ ca dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti . ihabhavantaḥ tu āhuḥ na bhavitavyam iti . kim kāraṇam . iha samānārthena vākyena bhavitavyam pratyayāntena ca . yaḥ ca iha arthaḥ vākyena gamyate iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena gamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९।१८-२३ रो इइइ,५५-५६ क्यचि मान्ताव्ययप्रतिषेधः । क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः । इह मात् भूत् । इदम् इच्छति । किम् इच्छति । उच्चैः इच्छति । नीचैः इच्छति । गोसमानाक्षरनान्तात् इति एके । गाम् इच्छति गव्यति । समानाक्षरात् । दधीयति मधति कर्त्रीयति हर्त्रीयति । नान्तात् । राजीयति तक्षीयति ।

KA II,19.18-23 Ro III,55-56 kyaci māntāvyayapratiṣedhaḥ . kyaci māntāvyayānām pratiṣedhaḥ vaktavyaḥ . iha māt bhūt . idam icchati . kim icchati . uccaiḥ icchati . nīcaiḥ icchati . gosamānākṣaranāntāt iti eke . gām icchati gavyati . samānākṣarāt . dadhīyati madhati kartrīyati hartrīyati . nāntāt . rājīyati takṣīyati .

Sanskrit only: no published translation is held for this verse.