क्अ इइइ।९७।७-२५ रो इव्।४८५-४८६ किमर्थम् पुनः इदम् उच्यते । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः । आगमस्य । चतुरनडुहोः आम् उदात्तः । चत्वारः , अनड्वाहः । विकारस्य । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः । अस्थ्ना , दध्ना । प्रकृतेः । गोपायति , धूपायति । प्रत्ययस्य च । कर्तव्यम् , तैत्तिरीयः । एतेषाम् पदे युगपत् स्वरः प्राप्नोति । इष्यते च एकस्य स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् । एवमर्थम् इदम् उच्यते । न एतत् अस्ति प्रयोजनम् । यौगपद्यम् तवै सिद्धम् । यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति । पर्यायः तर्हि प्राप्नोति । पर्यायः रिक्तशासनात् । यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति । उदात्ते ज्ञापकम् तु एतत् । एतत् उदात्ते ज्ञापकम् स्यात् । स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । तस्मात् न अर्थः अनेन योगेन ।
KA III.97.7-25 Ro IV.485-486 kimartham punaḥ idam ucyate . āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham ekavarjam padasvaraḥ . āgamasya . caturanaḍuhoḥ ām udāttaḥ . catvāraḥ , anaḍvāhaḥ . vikārasya . asthidadhisakthyakṣṇām anaṅ udāttaḥ . asthnā , dadhnā . prakṛteḥ . gopāyati , dhūpāyati . pratyayasya ca . kartavyam , taittirīyaḥ . eteṣām pade yugapat svaraḥ prāpnoti . iṣyate ca ekasya syāt iti . tat ca antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam . evamartham idam ucyate . na etat asti prayojanam . yaugapadyam tavai siddham . yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti . paryāyaḥ tarhi prāpnoti . paryāyaḥ riktaśāsanāt . yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . udātte jñāpakam tu etat . etat udātte jñāpakam syāt . svaritena samāviśet . svaritena samāveśaḥ prāpnoti . svarite api udāttaḥ asti . tasmāt na arthaḥ anena yogena .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.