क्अ इइइ।९७।२-६ रो इव्।४८४-४८५ किम् अनुदात्तानि पदानि भवन्ति एकम् पदम् वर्जयित्वा । न इति आह । पदे येषाम् उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकम् अचम् वर्जयित्वा । सः तर्हि तथा निर्देशः कर्तव्यः : अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा । न कर्तव्यः । अनुदात्तम् पदम् एकवर्जम् इति एव सिद्धम् । कथम् । मतुब्लोपः अत्र द्रष्टव्यः । तत् यथा पुष्यकाः एषाम् पुष्यकाः , कालकाः एषाम् कालकाः इति । अथ वा अकारः मत्वर्थीयः । तत् यथा तुन्दः , घाटः इति ।
KA III.97.2-6 Ro IV.484-485 kim anudāttāni padāni bhavanti ekam padam varjayitvā . na iti āha . pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā . saḥ tarhi tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti vā . na kartavyaḥ . anudāttam padam ekavarjam iti eva siddham . katham . matublopaḥ atra draṣṭavyaḥ . tat yathā puṣyakāḥ eṣām puṣyakāḥ , kālakāḥ eṣām kālakāḥ iti . atha vā akāraḥ matvarthīyaḥ . tat yathā tundaḥ , ghāṭaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।९७।७-२५ रो इव्।४८५-४८६ किमर्थम् पुनः इदम् उच्यते । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः । आगमस्य । चतुरनडुहोः आम् उदात्तः । चत्वारः , अनड्वाहः । विकारस्य । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः । अस्थ्ना , दध्ना । प्रकृतेः । गोपायति , धूपायति । प्रत्ययस्य च । कर्तव्यम् , तैत्तिरीयः । एतेषाम् पदे युगपत् स्वरः प्राप्नोति । इष्यते च एकस्य स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् । एवमर्थम् इदम् उच्यते । न एतत् अस्ति प्रयोजनम् । यौगपद्यम् तवै सिद्धम् । यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति । पर्यायः तर्हि प्राप्नोति । पर्यायः रिक्तशासनात् । यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति । उदात्ते ज्ञापकम् तु एतत् । एतत् उदात्ते ज्ञापकम् स्यात् । स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । तस्मात् न अर्थः अनेन योगेन ।
KA III.97.7-25 Ro IV.485-486 kimartham punaḥ idam ucyate . āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham ekavarjam padasvaraḥ . āgamasya . caturanaḍuhoḥ ām udāttaḥ . catvāraḥ , anaḍvāhaḥ . vikārasya . asthidadhisakthyakṣṇām anaṅ udāttaḥ . asthnā , dadhnā . prakṛteḥ . gopāyati , dhūpāyati . pratyayasya ca . kartavyam , taittirīyaḥ . eteṣām pade yugapat svaraḥ prāpnoti . iṣyate ca ekasya syāt iti . tat ca antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam . evamartham idam ucyate . na etat asti prayojanam . yaugapadyam tavai siddham . yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti . paryāyaḥ tarhi prāpnoti . paryāyaḥ riktaśāsanāt . yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . udātte jñāpakam tu etat . etat udātte jñāpakam syāt . svaritena samāviśet . svaritena samāveśaḥ prāpnoti . svarite api udāttaḥ asti . tasmāt na arthaḥ anena yogena .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।९८।१-९९।२१ रो इव्।४८७-४९१ आरभ्यमाणे अपि एतस्मिन् योगे अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् । अनुदात्ते विप्रतिषेधः न उपपद्यते । पठिष्यति हि आचार्यः विप्रतिषेधम् जे दीर्घात् बह्वचः इति । सः विप्रतिषेधः न उपपद्यते । किम् कारणम् । एकस्मिन् युगपत् सम्भवात् । असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यत् उभयम् स्यात् । कथम् सम्भवः यदा अनुदात्तम् पदम् एकवर्जम् इति उच्यते । तत् इह न अस्ति । किम् कारणम् । न अनेन उदात्तत्वम् प्रतिषिध्यते । किम् तर्हि अनुदात्तत्वम् अनेन क्रियते अस्ति च सम्भवः यत् उभयोः च उदात्तत्वम् स्यात् अन्येषाम् च अनुदात्तत्वम् । यदि पुनः अयम् अधिकारः विज्ञायेत । किम् कृतम् भवति । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । अन्त्यात् पूर्वम् बह्वचः । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् । न एवम् शक्यम् । षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात् । ये अन्ये सप्ताध्याय्याम् स्वराः ते न सङ्गृहीताः स्युः । समानोदरे शयिते ओ च उदात्तः । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति । सिद्धम् तु एकाननुदात्तत्वात् । सिद्धम् एतत् । कथम् । एकाननुदात्तत्वात् । एकाननुदात्तम् पदम् भवति इति वक्तव्यम् । किम् इदम् अननुदात्तत्वात् इति । न उदात्तः अनुदात्तः । न अनुदात्तः । अननुदात्तः । एकः अननुदात्तः अस्मिन् तत् इदम् एकाननुदात्तम् । एकाननुदात्तत्वात् इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् इति । न एषः दोषः । परिभाषा इयम् । किम् कृतम् भवति । कार्यकालम् हि सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र उपस्थितम् इदम् द्रष्टव्यम् । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । अन्त्यात् पूर्वम् बह्वचः । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् । अथ वा न इदम् पारिभाषिकानुदात्तस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् । अविद्यमानोदात्तम् अनुदात्तम् इति । एकवर्जम् इति च अप्रसिद्धिः सन्देहात् । एकवर्जम् इति च अप्रसिद्धिः । कुतः सन्देहात् । न ज्ञायते कः एकः वर्जयितव्यः इति । सिद्धम् तु यस्मिन् अनुदात्ते उदात्तवचनानर्थक्यम् तद्वर्जम् । सिद्धम् एतत् । कथम् । यस्मिन् अनुदात्ते उदात्तवचनम् अनर्थकम् स्यात् सः एकः वर्जयितव्यः । प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः । प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः स्यात् । प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः । पचति , पठति । प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः । समत्वम् , सिमत्वम् । इह उभयम् प्राप्नोति । कर्तव्यम्, तैत्तिरीयः । विप्रतिषेधात् प्रत्ययस्वरः । विप्रतिषेधात् प्रत्ययस्वरः भविष्यति । न एवम् । विप्रतिषेधे परम् कार्यम् इति उच्यते । न परः प्रत्ययस्वरः । न एषः दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति । विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादिषु चित्करणम् । विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । न एषः दोषः । प्रकृतिस्वरः अत्र बाधकः भविष्यति । प्रकृतिस्वरे प्रत्ययस्वराभावः । प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः । कर्तव्यम्, तैत्तिरीयः । सिद्धम् तु प्रकृतिस्वरबलीयस्त्वात् प्रत्ययस्वरभावः । सिद्धम् एतत् । कथम् । प्रकृतिस्वरात् बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः । कथम् । प्रकृतिस्वरात् प्रत्ययस्वरः बलीयान् भवति ।
KA III.98.1-99.21 Ro IV.487-491 ārabhyamāṇe api etasmin yoge anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt . anudātte vipratiṣedhaḥ na upapadyate . paṭhiṣyati hi ācāryaḥ vipratiṣedham je dīrghāt bahvacaḥ iti . saḥ vipratiṣedhaḥ na upapadyate . kim kāraṇam . ekasmin yugapat sambhavāt . asati khalu sambhave vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam syāt . katham sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate . tat iha na asti . kim kāraṇam . na anena udāttatvam pratiṣidhyate . kim tarhi anudāttatvam anena kriyate asti ca sambhavaḥ yat ubhayoḥ ca udāttatvam syāt anyeṣām ca anudāttatvam . yadi punaḥ ayam adhikāraḥ vijñāyeta . kim kṛtam bhavati . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . je dīrghāntasya ādiḥ udāttaḥ bhavati . upasthitam idam bhavati anudāttam padam ekavarjam iti . antyāt pūrvam bahvacaḥ . upasthitam idam bhavati anudāttam padam ekavarjam iti . tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . na evam śakyam . ṣāṣthikaḥ ekaḥ svaraḥ saṅgṛhītaḥ syāt . ye anye saptādhyāyyām svarāḥ te na saṅgṛhītāḥ syuḥ . samānodare śayite o ca udāttaḥ . asthidadhisakthyakṣṇām anaṅ udāttaḥ iti . siddham tu ekānanudāttatvāt . siddham etat . katham . ekānanudāttatvāt . ekānanudāttam padam bhavati iti vaktavyam . kim idam ananudāttatvāt iti . na udāttaḥ anudāttaḥ . na anudāttaḥ . ananudāttaḥ . ekaḥ ananudāttaḥ asmin tat idam ekānanudāttam . ekānanudāttatvāt iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti . na eṣaḥ doṣaḥ . paribhāṣā iyam . kim kṛtam bhavati . kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra upasthitam idam draṣṭavyam . je dīrghāntasya ādiḥ udāttaḥ bhavati . upasthitam idam bhavati anudāttam padam ekavarjam iti . antyāt pūrvam bahvacaḥ . upasthitam idam bhavati anudāttam padam ekavarjam iti . tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . atha vā na idam pāribhāṣikānudāttasya grahaṇam . kim tarhi . anvarthagrahaṇam . avidyamānodāttam anudāttam iti . ekavarjam iti ca aprasiddhiḥ sandehāt . ekavarjam iti ca aprasiddhiḥ . kutaḥ sandehāt . na jñāyate kaḥ ekaḥ varjayitavyaḥ iti . siddham tu yasmin anudātte udāttavacanānarthakyam tadvarjam . siddham etat . katham . yasmin anudātte udāttavacanam anarthakam syāt saḥ ekaḥ varjayitavyaḥ . prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ . prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ syāt . prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ . pacati , paṭhati . pratyayayasvarasya avakāśaḥ yatra anudāttā prakṛtiḥ . samatvam , simatvam . iha ubhayam prāpnoti . kartavyam, taittirīyaḥ . vipratiṣedhāt pratyayasvaraḥ . vipratiṣedhāt pratyayasvaraḥ bhaviṣyati . na evam . vipratiṣedhe param kāryam iti ucyate . na paraḥ pratyayasvaraḥ . na eṣaḥ doṣaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati . vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam . vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ kartavyāḥ . putrakāmyati , gopāyati , ṛtīyate . na eṣaḥ doṣaḥ . prakṛtisvaraḥ atra bādhakaḥ bhaviṣyati . prakṛtisvare pratyayasvarābhāvaḥ . prakṛtisvare pratyayasvarasya abhāvaḥ . kartavyam, taittirīyaḥ . siddham tu prakṛtisvarabalīyastvāt pratyayasvarabhāvaḥ . siddham etat . katham . prakṛtisvarāt balīyastvāt pratyayasvarasya bhāvaḥ siddhaḥ . katham . prakṛtisvarāt pratyayasvaraḥ balīyān bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।९९।२२-१०१।४ रो इव्।४९१-४९३ सतिशिष्टस्वरबलीयस्त्वम् च । सतिशिष्टस्वरः बलीयान् भवति इति वक्तव्यम् । तत् च अनेकप्रत्ययसमासार्थम् । तत् च अवश्यम् सतिशिष्टस्वरबलीयस्त्वम् वक्तव्यम् । किम् प्रयोजनम् । अनेकप्रत्ययार्थम् अनेकसमासार्थम् च । अनेकप्रत्ययार्थम् तावत् । औपगवः । प्रकृतिस्वरम् अण्स्वरः बाधते । औपगवत्वम् । त्वस्वरः अण्स्वरम् बाधते । औपगवत्वकम् । त्वस्वरम् कस्वरः बाधते । अनेकसमासार्थम् । राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः । यदि सतिशिष्टस्वरबलीयस्त्वम् उच्यते स्यादिस्वरः सार्वधातुकस्वरम् बाधेत । सुनुतः , चिनुतः । स्यादिस्वराप्रसङ्गः च तासेः परस्य अनुदात्तवचनात् । स्यादिस्वरस्य च अप्रसङ्गः । कुतः । तासेः परस्य अनुदात्तवचनात् । यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरम् न बाधते । शास्त्रपरविप्रतिषेधानियमात् वा शब्दविप्रतिषेधात् सिद्धम् । अथ वा शास्त्रपरविप्रतिषेधे न सर्वम् इष्टम् सङ्गृहीतम् भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते । यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः । विभक्तिस्वरात् नञ्स्वरः बलीयान् । विभक्तिस्वरात् नञ्स्वरः बलीयान् इति वक्तव्यम् । विभक्तिस्वरस्य अवकाशः । तिस्रः तिष्ठन्ति । नञ्स्वरस्य अवकाशः । अब्राह्मणः , अवृषलः । इह उभयम् प्राप्नोति । अतिस्रः । नञ्स्वरः भवति । विभक्तिनिमित्तस्वरात् च । विभक्तिनिमित्तस्वरात् च नञ्स्वरः बलीयान् इति वक्तव्यम् । विभक्तिनिमित्तस्वरस्य अवकाशः । चत्वारः , अनड्वाहः । नञ्स्वरस्य सः एव । इह उभयम् प्राप्नोति । अचत्वारः । अननड्वाहः । यत् च उपपदम् कृति नञ् । यत् च उपपदम् कृति नञ् तस्य स्वरः बलीयान् इति वक्तव्यम् । अकरणिः हि ते वृषल । सहनिर्दिष्टस्य च । सहनिर्दिष्टस्य च नञः स्वरः बलीयान् इति वक्तव्यम् । अव्यथी ।
KA III.99.22-101.4 Ro IV.491-493 satiśiṣṭasvarabalīyastvam ca . satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam . tat ca anekapratyayasamāsārtham . tat ca avaśyam satiśiṣṭasvarabalīyastvam vaktavyam . kim prayojanam . anekapratyayārtham anekasamāsārtham ca . anekapratyayārtham tāvat . aupagavaḥ . prakṛtisvaram aṇsvaraḥ bādhate . aupagavatvam . tvasvaraḥ aṇsvaram bādhate . aupagavatvakam . tvasvaram kasvaraḥ bādhate . anekasamāsārtham . rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ . yadi satiśiṣṭasvarabalīyastvam ucyate syādisvaraḥ sārvadhātukasvaram bādheta . sunutaḥ , cinutaḥ . syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt . syādisvarasya ca aprasaṅgaḥ . kutaḥ . tāseḥ parasya anudāttavacanāt . yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti tat jñāpayati ācāryaḥ satiśiṣṭaḥ api vikaraṇasvaraḥ lasārvadhātukasvaram na bādhate . śāstraparavipratiṣedhāniyamāt vā śabdavipratiṣedhāt siddham . atha vā śāstraparavipratiṣedhe na sarvam iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ vijñāsyate . yadi śabdavipratiṣedhaḥ bhavati kāmyādayaḥ citaḥ kartavyāḥ . putrakāmyati , gopāyati , ṛtīyate . śabdavipratiṣedhaḥ nāma bhavati yatra ubhayoḥ yugapatprasaṅgaḥ na ca kāmyādiṣu yugapatprasaṅgaḥ . vibhaktisvarāt nañsvaraḥ balīyān . vibhaktisvarāt nañsvaraḥ balīyān iti vaktavyam . vibhaktisvarasya avakāśaḥ . tisraḥ tiṣṭhanti . nañsvarasya avakāśaḥ . abrāhmaṇaḥ , avṛṣalaḥ . iha ubhayam prāpnoti . atisraḥ . nañsvaraḥ bhavati . vibhaktinimittasvarāt ca . vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam . vibhaktinimittasvarasya avakāśaḥ . catvāraḥ , anaḍvāhaḥ . nañsvarasya saḥ eva . iha ubhayam prāpnoti . acatvāraḥ . ananaḍvāhaḥ . yat ca upapadam kṛti nañ . yat ca upapadam kṛti nañ tasya svaraḥ balīyān iti vaktavyam . akaraṇiḥ hi te vṛṣala . sahanirdiṣṭasya ca . sahanirdiṣṭasya ca nañaḥ svaraḥ balīyān iti vaktavyam . avyathī .
Sanskrit only: no published translation is held for this verse.