क्अ इइइ।६०।७-६३।७ रो इव्।४०६-४११ अथ अन्तवत्त्वे कानि प्रयोजनानि । अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने । अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् । द्वादशान्यिकः । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति । क्व तर्हि स्यात् । यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति । तरयोदशान्यिकः । प्रत्ययैकादेशः पूर्वविधौ । प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् । मधु पिबन्ति । शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । पिबति । वैभक्तस्य णत्वे । वैभक्तस्य णत्वे प्रयोजनम् । क्षीरपेण , सुरापेण । उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । क्षीरपाणाम् , सुरापाणम् । अदसः ईत्त्वोत्त्वे । अदसः ईत्त्वोत्त्वे प्रयोजनम् । अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते । अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । अमीभिः , अमूभ्याम् । स्वरितत्वे प्रयोजनम् । कार्या , हार्या । तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । कार्यः , हार्यः । स्वरितत्वम् विप्रतिषेधात् । स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । नित्यः एकादेशः । कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि । अनित्यः एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् । स्वरितत्वम् अपि अन्तरङ्गम् । कथम् । उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति । उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् । स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति । लिङ्गविशिष्तग्रहणात् वा । अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति । पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् । गुडोदकम् , मथितोदकम् । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति । क्व तर्हि स्यात् । यत्र अकादेशः न भवति । उदश्विदुदकम् । पूर्वपदान्तोदात्तत्वम् च । पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् । पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् पूर्वपदान्तोदात्तत्वम् । पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् । इह उभयम् प्राप्नोति । मथितोदकम् , गुडोदकम् । पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन । सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः । एकादेशे हि स्वरिताप्रसिद्धिः । एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् । यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति । मथितोदकम् , गुडोदकम् । कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् । प्राटिता , प्राशिता । कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति । क्व तर्हि स्यात् । यत्र न अकादेशः । प्रकारकः , प्रकरणम् । कृदन्तप्रकृतिस्वरत्वम् च । कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् । कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन । कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् । इह उभयम् प्राप्नोति । प्राटिता , प्राशिता । कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन । सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः । एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् । यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति । किम् कारणम् । उत्तरपदस्य अपरत्वात् । न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति । ननु च अन्तादिवद्भावेन परम् । उभयतः
KA III.60.7-63.7 Ro IV.406-411 atha antavattve kāni prayojanāni . antavattve prayojanam bahvacpūrvapadāt ṭhajvidhāne . antavattve bahvacpūrvapadāt ṭhajvidhāne prayojanam . dvādaśānyikaḥ . pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum bahucpūrvapadāt ṭhac bhavati iti . kva tarhi syāt . yatra kṛte api ekādeśe bahvacpūrvapadam bhavati . tarayodaśānyikaḥ . pratyayaikādeśaḥ pūrvavidhau . pratyayaikādeśaḥ pūrvavidhau prayojanam . madhu pibanti . śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum śiti iti pibādeśaḥ . kva tarhi syāt . yatra ekādeśaḥ na bhavati . pibati . vaibhaktasya ṇatve . vaibhaktasya ṇatve prayojanam . kṣīrapeṇa , surāpeṇa . uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum ekājuttarapade ṇaḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kṣīrapāṇām , surāpāṇam . adasaḥ īttvottve . adasaḥ īttvottve prayojanam . amī atra , amī āsate , amū atra , amū āsāte . adasvibhaktyoḥ ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum adasaḥ aseḥ dāt u daḥ maḥ etaḥ īt bahuvacane iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . amībhiḥ , amūbhyām . svaritatve prayojanam . kāryā , hāryā . tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum tit svaritam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kāryaḥ , hāryaḥ . svaritatvam vipratiṣedhāt . svaritatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt svaritatvam bhaviṣyati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . nityaḥ ekādeśaḥ . kṛte api svaritatve prāpnoti akṛte api . anityaḥ ekādeśaḥ . anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte svaritatve prāpnoti . svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya svaritatvam . svaritatvam api antaraṅgam . katham . uktam etat padagrahaṇam parimāṇārtham iti . ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam . svaritatve kṛte āntaryataḥ svaritānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . liṅgaviśiṣtagrahaṇāt vā . atha vā prātipadikagrahaṇe liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam bhaviṣyati . pūrvapadāntodāttatvam ca prayojanam . guḍodakam , mathitodakam . pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum udake akevale pūrvapadasya antaḥ udāttaḥ bhavati iti . kva tarhi syāt . yatra akādeśaḥ na bhavati . udaśvidudakam . pūrvapadāntodāttatvam ca . pūrvapadāntodāttatvam ca vipratiṣedhāt . pūrvapadāntodāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt pūrvapadāntodāttatvam . pūrvapadāntodāttatvasya avakāśaḥ udaśvidudakam . ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . iha ubhayam prāpnoti . mathitodakam , guḍodakam . pūrvapadāntodāttatvam bhavati vipratiṣedhena . saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . ekādeśe hi svaritāprasiddhiḥ . ekādeśe hi svaritasya aprasiddhiḥ syāt . yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte pūrvapadāntodāttatvam bhaviṣyati iti svaritatvam tasya na sidhyati svaritaḥ vā anudātte padādau iti . mathitodakam , guḍodakam . kṛdantaprakṛtisvaratvam ca prayojanam . prāṭitā , prāśitā . kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti . kva tarhi syāt . yatra na akādeśaḥ . prakārakaḥ , prakaraṇam . kṛdantaprakṛtisvaratvam ca . kṛdantaprakṛtisvaratvam ca vipratiṣedhāt . kṛdantaprakṛtisvaratvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . kṛdantaprakṛtisvaratvasya avakāśaḥ prakārakaḥ , prakaraṇam . ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . iha ubhayam prāpnoti . prāṭitā , prāśitā . kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . ekādeśe hi a prasiddhiḥ uttarapadasya aparatvāt . yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte kṛdantaprakṛtisvaratvam bhaviṣyati iti kṛdantaprakṛtisvaratvam tasya na sidhyati . kim kāraṇam . uttarapadasya aparatvāt . na hi idānīm ekādeśe kṛte uttarapadam param bhavati . nanu ca antādivadbhāvena param . ubhayataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.