क्अ इइइ।१५७।१५-२४ रो इव्।६१७-६१८ कुक्कुट्यादीनाम् अण्डादिषु पुंवद्वचनम् । कुक्कुट्यादीनाम् अण्डादिषु पुंवद्भावः वक्तव्यः । कुक्कुट्याः अण्डम् कुक्कुटाण्डम् , मृग्याः पदम् मृगपदम् , काक्याः शावः काकशावः । न वा अस्त्रीपूर्वपदविवक्षितत्वात् । न वा वक्तव्यम् । किम् कारणम् अस्त्रीपूर्वपदविवक्षितत्वात् । न अत्र स्त्रीपूर्वपदम् विवक्षितम् । किम् तर्हि । अस्त्रीपूर्वपदम् । उभयोः अण्डम् उभयोः पदम् उभयोः शावः । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् इह तु कथम् । मृग्याः क्षीरम् मृघक्षीरम् इति । अत्र अपि न वा अस्त्रीपूर्वपदविवक्षितत्वात् इति एव । कथम् पुनः सतः नाम अवाविवक्षा स्यात् । सतः अपि अविवक्षा भवति । तत् यथा । अलोमिका एडका । अनुदरा कन्या इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकम् इति ।
KA III.157.15-24 Ro IV.617-618 kukkuṭyādīnām aṇḍādiṣu puṃvadvacanam . kukkuṭyādīnām aṇḍādiṣu puṃvadbhāvaḥ vaktavyaḥ . kukkuṭyāḥ aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ kākaśāvaḥ . na vā astrīpūrvapadavivakṣitatvāt . na vā vaktavyam . kim kāraṇam astrīpūrvapadavivakṣitatvāt . na atra strīpūrvapadam vivakṣitam . kim tarhi . astrīpūrvapadam . ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ . yadi api tāvat atra etat śakyate vaktum iha tu katham . mṛgyāḥ kṣīram mṛghakṣīram iti . atra api na vā astrīpūrvapadavivakṣitatvāt iti eva . katham punaḥ sataḥ nāma avāvivakṣā syāt . sataḥ api avivakṣā bhavati . tat yathā . alomikā eḍakā . anudarā kanyā iti . asataḥ ca vivakṣā bhavati . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.