क्अ इइइ,२५१।१९-२५२।६ रो व्,३२।२-३३।८ प्रथमयोः इति उच्यते कयोः इदम् प्रथमयोः ग्रहणम् किम् विभक्त्योः आहोस्वित् प्रत्यययोः । विभक्त्योः इति आह । कथम् ज्ञायते । अन्यत्र अपि हि प्रथमयोः ग्रहणे विभक्त्योः ग्रहणम् विज्ञायते न प्रत्यययोः । क्व अन्यत्र । प्रथमयोः पूर्वसवर्णः इति । अस्ति कारणम् येन तत्र विभक्त्योः ग्रहणम् विज्ञायते । किम् कारणम् । अचि इति तत्र वर्तते न च अजादी प्रथमौ स्तः । ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति । यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तज्ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति । इह अपि आचार्यप्रवृत्तिः ज्ञापयति विभक्त्योः ग्रहणम् इति यत् अयम् शसः न इति प्रतिषेधम् शास्ति । न एषः प्रतिषेधः । नत्वम् एतत् विधीयते । सिद्धम् अत्र नत्वम् तस्मात् शसः नः पुंसि इति । यत्र तेन न सिध्यति तदर्थम् । क्व च तेन न सिध्यति । स्त्रियाम् नपुंसके च । युष्मान् ब्राह्मणी पश्य , अस्मान् ब्राह्मणी पश्य , युष्मान् ब्राह्मणकुलानि पश्य , अस्मान् ब्राह्मणकुलानि पश्य इति । यत् तर्हि युष्मदस्मदोः अनादेशे द्वितीयायाम् च इति आह तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।
KA III,251.19-252.6 Ro V,32.2-33.8 prathamayoḥ iti ucyate kayoḥ idam prathamayoḥ grahaṇam kim vibhaktyoḥ āhosvit pratyayayoḥ . vibhaktyoḥ iti āha . katham jñāyate . anyatra api hi prathamayoḥ grahaṇe vibhaktyoḥ grahaṇam vijñāyate na pratyayayoḥ . kva anyatra . prathamayoḥ pūrvasavarṇaḥ iti . asti kāraṇam yena tatra vibhaktyoḥ grahaṇam vijñāyate . kim kāraṇam . aci iti tatra vartate na ca ajādī prathamau staḥ . nanu ca evam vijñāyate ajādī yau prathamau ajādīnām vā yau prathamau iti . yat tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam pratinirdiśati tajjñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . iha api ācāryapravṛttiḥ jñāpayati vibhaktyoḥ grahaṇam iti yat ayam śasaḥ na iti pratiṣedham śāsti . na eṣaḥ pratiṣedhaḥ . natvam etat vidhīyate . siddham atra natvam tasmāt śasaḥ naḥ puṃsi iti . yatra tena na sidhyati tadartham . kva ca tena na sidhyati . striyām napuṃsake ca . yuṣmān brāhmaṇī paśya , asmān brāhmaṇī paśya , yuṣmān brāhmaṇakulāni paśya , asmān brāhmaṇakulāni paśya iti . yat tarhi yuṣmadasmadoḥ anādeśe dvitīyāyām ca iti āha tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.