क्अ इइइ,२५४।६-१३ रो व्,४०।२-४१।१ विदेः वसोः कित्त्वम् । विदेः वसोः कित्त्वम् वक्तव्यम् । किम् प्रयोजनम् । वसुग्रहणेषु लिडादेशस्य अपि ग्रहणम् यथा स्यात् । किम् च कारणम् न स्यात् । अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् लिडादेशस्य न प्राप्नोति । सानुबन्धकः हि सः क्रियते । किम् पुनः कारणम् सः सानुबन्धकः क्रियते । अयम् ॠकारान्तानाम् लिटि गुङः प्रतिषेधविषयः आरभ्यते सः पुनः कित्करणात् बाध्यते । आतिस्तीर्वान् , निपुपूर्वान् इति । सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विसकारकः निर्देशः : विदेः शतुर्वसुस्समासे अनञ्पूर्वे क्त्वः ल्यप् ।
KA III,254.6-13 Ro V,40.2-41.1 videḥ vasoḥ kittvam . videḥ vasoḥ kittvam vaktavyam . kim prayojanam . vasugrahaṇeṣu liḍādeśasya api grahaṇam yathā syāt . kim ca kāraṇam na syāt . ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam liḍādeśasya na prāpnoti . sānubandhakaḥ hi saḥ kriyate . kim punaḥ kāraṇam saḥ sānubandhakaḥ kriyate . ayam ṝkārāntānām liṭi guṅaḥ pratiṣedhaviṣayaḥ ārabhyate saḥ punaḥ kitkaraṇāt bādhyate . ātistīrvān , nipupūrvān iti . saḥ tarhi asya evamarthaḥ anubandhaḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . dvisakārakaḥ nirdeśaḥ : videḥ śaturvasussamāse anañpūrve ktvaḥ lyap .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.