क्अ इइइ,२५४।१५-२५६।११ रो व्,४१-४७ ल्यबादेशे उपदेशिवद्वचनम् । ल्यबादेशे उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायाम् ल्यप् भवति इति वक्तव्यम् । किम् प्रयोजनम् । अनादिष्टार्थम् । अकृतेषु आदेशेषु ल्यप् यथा स्यात् । के पुनः आदेशाः उपदेशिवद्वचनम् प्रयोजयन्ति । हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडितः । हित्वम् । हित्वा , प्रधाय । हित्वम् । दत्त्वम् । दत्त्वा , प्रदाय । दत्त्वम् । आत्त्वम् । खात्वा , प्रखन्य । आत्त्वम् । इत्वम् । स्थित्वा , प्रस्थाय । इत्वम् । ईत्त्वम् । पीत्वा , प्रपाय । ईत्त्वम् । दीर्घत्वम् । शान्त्वा , प्रशम्य । दीर्घत्वम् । शत्वम् । पृष्ट्वा , आपृच्छ्य । शत्वम् । ऊठ् । द्यूत्वा , प्रदीव्य । ऊठ् । इट् । देवित्वा , प्रदीव्य । किम् पुनः कारणम् आदेशाः तावत् भवन्ति न पुनः ल्यप् । न परत्वात् ल्यपा भवितव्यम् । सन्ति च एव अत्र के चित् परे आदेशाः अपि च बहिरङ्गलक्षणत्वात् । बहिरङ्गः ल्यप् । अन्तरङ्गाः आदेशाः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति यत् अयम् अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति । स्नात्वाकालकादिषु च प्रतिषेधः स्नात्वाकालकादिषु च प्रतिषेधः वक्तव्यः । स्नात्वाकालकः , पीत्वास्थिरकः , भुक्त्वासुहितकः इति । तदन्तनिर्देशात् सिद्धम् । तदन्तनिर्देशात् सिद्धम् एतत् । कथम् । क्त्वान्तस्य ल्यपा भवितव्यम् न च एतत् क्त्वान्तम् । समासनिपातनात् वा । अथ वा अवश्यम् अत्र समासार्थम् निपातनम् कर्तव्यम् तेन एव यत्नेन ल्यप् अपि न भविष्यति । अनञः वा परस्य । अथ वा अनञः परस्य ल्यपा भवितव्यम् न च अत्र अनञम् पश्यामः । ननु च धातुः एव अनञ् । न धातोः परस्य भवितव्यम् । किम् कारणम् । नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः । नञ्युक्तम् इव युक्तम् वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञास्यते । कुतः एतत् । तथा हि अर्थः गम्यते । तत् यथा । अब्राह्मणम् आनय इति उक्ते ग्राह्मणसदृशम् पुरुषम् आनयति न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अनञ् इति नञ्प्रतिषेधात् अन्यस्मात् अनञौ नञ्सदृशात् कार्यम् विज्ञास्यते । किम् च अन्यत् अनञ् नञ्सदृशम् । पदम् इति आह । अथ वा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति एवम् धातुः अपि क्त्वाग्रहणेन ग्राहिष्यते । ननु च इयम् अपि परिभाषा अस्ति : कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सा अपि इह उपतिष्ठते । तत्र कः दोषः । इह न स्यात् : प्रकृत्य प्रहृत्य । क्व तर्हि स्यात् । परमकृत्वा , उत्तमकृत्वा । न वै अत्र इष्यते । अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति । गतिकारकपूर्वस्य एव इष्यते । कुतः न खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति कृद्ग्रहणे गतिकारकपूर्वस्य इति च इयम् इह परिभाषा भवति प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इयम् न भवति कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति यत् अयम् अनञ् इति प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । अयम् हि नञ् न गतिः न च कारकम् तत्र कः प्रसङ्गः यत् नञ्पूर्वस्य स्यात् । पश्यति तु आचार्यः इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति ततः अनञ् इति प्रतिषेधम् शास्ति । किम् नञः प्रतिषेधेन न गतिः न च कारकम् यावता नञि पूर्वे तु ल्यब्भावः न भविष्यति । प्रतिषेधात् तु जानीमः तत्पूर्वम् न इह गृह्यते प्रत्यय्ग्रहणे यावत् तावत् भवितुम् अर्हति ।
KA III,254.15-256.11 Ro V,41-47 lyabādeśe upadeśivadvacanam . lyabādeśe upadeśivadbhāvaḥ vaktavyaḥ . upadeśāvasthāyām lyap bhavati iti vaktavyam . kim prayojanam . anādiṣṭārtham . akṛteṣu ādeśeṣu lyap yathā syāt . ke punaḥ ādeśāḥ upadeśivadvacanam prayojayanti . hitvadattvāttvetvettvadīrghatvaśūḍitaḥ . hitvam . hitvā , pradhāya . hitvam . dattvam . dattvā , pradāya . dattvam . āttvam . khātvā , prakhanya . āttvam . itvam . sthitvā , prasthāya . itvam . īttvam . pītvā , prapāya . īttvam . dīrghatvam . śāntvā , praśamya . dīrghatvam . śatvam . pṛṣṭvā , āpṛcchya . śatvam . ūṭh . dyūtvā , pradīvya . ūṭh . iṭ . devitvā , pradīvya . kim punaḥ kāraṇam ādeśāḥ tāvat bhavanti na punaḥ lyap . na paratvāt lyapā bhavitavyam . santi ca eva atra ke cit pare ādeśāḥ api ca bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ lyap . antaraṅgāḥ ādeśāḥ . asiddham bahiraṅgam antaraṅge . saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate iti yat ayam adaḥ jagdhiḥ lyapti kiti iti ti kiti iti eva siddhe lyabgrahaṇam karoti . snātvākālakādiṣu ca pratiṣedhaḥ snātvākālakādiṣu ca pratiṣedhaḥ vaktavyaḥ . snātvākālakaḥ , pītvāsthirakaḥ , bhuktvāsuhitakaḥ iti . tadantanirdeśāt siddham . tadantanirdeśāt siddham etat . katham . ktvāntasya lyapā bhavitavyam na ca etat ktvāntam . samāsanipātanāt vā . atha vā avaśyam atra samāsārtham nipātanam kartavyam tena eva yatnena lyap api na bhaviṣyati . anañaḥ vā parasya . atha vā anañaḥ parasya lyapā bhavitavyam na ca atra anañam paśyāmaḥ . nanu ca dhātuḥ eva anañ . na dhātoḥ parasya bhavitavyam . kim kāraṇam . nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ . nañyuktam iva yuktam vā anyasmin tatsadṛśe kāryam vijñāsyate . kutaḥ etat . tathā hi arthaḥ gamyate . tat yathā . abrāhmaṇam ānaya iti ukte grāhmaṇasadṛśam puruṣam ānayati na asau loṣṭam ānīya kṛtī bhavati . evam iha api anañ iti nañpratiṣedhāt anyasmāt anañau nañsadṛśāt kāryam vijñāsyate . kim ca anyat anañ nañsadṛśam . padam iti āha . atha vā pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti evam dhātuḥ api ktvāgrahaṇena grāhiṣyate . nanu ca iyam api paribhāṣā asti : kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti sā api iha upatiṣṭhate . tatra kaḥ doṣaḥ . iha na syāt : prakṛtya prahṛtya . kva tarhi syāt . paramakṛtvā , uttamakṛtvā . na vai atra iṣyate . aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . gatikārakapūrvasya eva iṣyate . kutaḥ na khalu etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati kṛdgrahaṇe gatikārakapūrvasya iti ca iyam iha paribhāṣā bhavati pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti iyam na bhavati kṛdgrahaṇe gatikārakapūrvasya api iti . ācāryapravṛttiḥ jñāpayati iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti yat ayam anañ iti pratiṣedham śāsti . katham kṛtvā jñāpakam . ayam hi nañ na gatiḥ na ca kārakam tatra kaḥ prasaṅgaḥ yat nañpūrvasya syāt . paśyati tu ācāryaḥ iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti tataḥ anañ iti pratiṣedham śāsti . kim nañaḥ pratiṣedhena na gatiḥ na ca kārakam yāvatā nañi pūrve tu lyabbhāvaḥ na bhaviṣyati . pratiṣedhāt tu jānīmaḥ tatpūrvam na iha gṛhyate pratyaygrahaṇe yāvat tāvat bhavitum arhati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.