क्अ इइइ,२६८।१६-२४ रो व्,७२।९-७३।८ किम् उदाहरणम् । अक्षी ते इन्द्र पिङ्गले । न एतत् अस्ति । पूर्वसवर्णेन अपि एतत् सिद्धम् । इदम् तर्हि । अक्षीभ्याम् ते नासिकाभ्याम् । इदम् च अपि उदाहरणम् । अक्षी ते इन्द्र पिङ्गले । ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति । न सिध्यति । नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति । छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृभ्णामि , मधोः तृप्ताः इव असतः इति एवमर्थम् । पुंवद्भावेन नुमः निवृत्तिः नुमि निवृत्ते पूर्वसवर्णेन एव सिद्धम् । स्वरार्थः तर्हि ईकारः वक्तव्यः । उदात्तस्वरः यथा स्यात् नपुंसकस्वरः मा भूत् इति । ननु च पुंवद्भावातिदेशात् एव स्वरः भविष्यति । अशक्यः पुंवद्भावातिदेशः स्वरे तन्त्रम् आश्रयितुम् । इह हि दोषः स्यात् : मधु अस्मिन् अस्ति मधुः मासः इति । सः तर्हि पुंवद्भावः वक्तव्यः । न वक्तव्यः । प्रकृतम् पुंवत् इति वर्तते ।
KA III,268.16-24 Ro V,72.9-73.8 kim udāharaṇam . akṣī te indra piṅgale . na etat asti . pūrvasavarṇena api etat siddham . idam tarhi . akṣībhyām te nāsikābhyām . idam ca api udāharaṇam . akṣī te indra piṅgale . nanu ca uktam pūrvasavarṇena api etat siddham iti . na sidhyati . numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti . chandasi napuṃsakasya puṃvadbhāvaḥ vaktavyaḥ madhoḥ gṛbhṇāmi , madhoḥ tṛptāḥ iva asataḥ iti evamartham . puṃvadbhāvena numaḥ nivṛttiḥ numi nivṛtte pūrvasavarṇena eva siddham . svarārthaḥ tarhi īkāraḥ vaktavyaḥ . udāttasvaraḥ yathā syāt napuṃsakasvaraḥ mā bhūt iti . nanu ca puṃvadbhāvātideśāt eva svaraḥ bhaviṣyati . aśakyaḥ puṃvadbhāvātideśaḥ svare tantram āśrayitum . iha hi doṣaḥ syāt : madhu asmin asti madhuḥ māsaḥ iti . saḥ tarhi puṃvadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . prakṛtam puṃvat iti vartate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.