Library·Patanjali: Vyakaranamahabhasya·7·7.2·7.2.107

Patanjali: Vyakaranamahabhasya 7.2.107

क्अ इइइ,३११।१४-३१२।१३ रो व्,१८०-१८२ अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते । अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते । ह्रस्वात् लुप्येत सम्बुद्धिः । इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत । न हलः । हलः लोपः सम्बुद्धिलोपः । तत् हल्ग्रहणम् कर्तव्यम् । प्रकृतम् हि तत् । प्रकृतम् हल्ग्रहणम् । क्व प्रकृतम् । हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । आपः एत्त्वम् भवेत् तस्मिन् । इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत । न झलि इति अनुवर्तनात् । झलि इति तत्र अनुवर्तते । क्व प्रकृतम् । सुपि च बहुवचने झलि एत् इति । प्रत्ययस्थात् च कात् इत्त्वम् । इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत । न एषः दोषः । प्रश्लिष्टनिर्देशः अयम् । आ , आप् , आप् इति । इह अपि तर्हि न प्राप्नोति । कारिके , हारिके , इति । शीभावः च प्रसज्यते । इह च शीभावः च प्राप्नोति । असौ ब्राह्मणी । आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति । तस्मात् सोः लोपः वक्तव्यः ।

KA III,311.14-312.13 Ro V,180-182 adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate . adasaḥ eva soḥ bhavet autvam kimartham sulopaḥ vidhīyate . hrasvāt lupyeta sambuddhiḥ . iha he asau iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta . na halaḥ . halaḥ lopaḥ sambuddhilopaḥ . tat halgrahaṇam kartavyam . prakṛtam hi tat . prakṛtam halgrahaṇam . kva prakṛtam . halṅyābbhyaḥ dīrghāt sutisyapṛktam hal iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . āpaḥ ettvam bhavet tasmin . iha he asau brāhmaṇi āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta . na jhali iti anuvartanāt . jhali iti tatra anuvartate . kva prakṛtam . supi ca bahuvacane jhali et iti . pratyayasthāt ca kāt ittvam . iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya iti īttvam prasajyeta . na eṣaḥ doṣaḥ . praśliṣṭanirdeśaḥ ayam . ā , āp , āp iti . iha api tarhi na prāpnoti . kārike , hārike , iti . śībhāvaḥ ca prasajyate . iha ca śībhāvaḥ ca prāpnoti . asau brāhmaṇī . āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti . tasmāt soḥ lopaḥ vaktavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१२।१४-३१३।४ रो व्,१८२ सौ औत्वप्रतिषेधः साकच्कात् वा सात् उत्वम् च । सौ औत्वप्रतिषेधः साकच्कात् वा वक्तव्यः । सात् च परस्य उत्वम् वक्तव्यम् । असकौ , असुकः । उत्तरपदभूतानाम् आदेशे उपदेशवद्वचनम् । उत्तरपदभूतानाम् त्यदादीनाम् आदेशे उपदेशिवद्भावः वक्तव्यः । परमाहम् , परमायम् , परमानेन । किम् प्रयोजनम् । अनादिष्टार्थम् । अकृते एकादेशे आदेशाः यथा स्युः इति । किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः आदेशाः । न परत्वात् आदेशैः भवितव्यम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गाः आदेशाः । अन्तरङ्गः एकादेशः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इन्द्रे द्वौ अचौ । तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन । अनच्कः इन्द्रः संवृत्तः । तत्र कः वृद्धेः प्रसङ्गः । पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

KA III,312.14-313.4 Ro V,182 sau autvapratiṣedhaḥ sākackāt vā sāt utvam ca . sau autvapratiṣedhaḥ sākackāt vā vaktavyaḥ . sāt ca parasya utvam vaktavyam . asakau , asukaḥ . uttarapadabhūtānām ādeśe upadeśavadvacanam . uttarapadabhūtānām tyadādīnām ādeśe upadeśivadbhāvaḥ vaktavyaḥ . paramāham , paramāyam , paramānena . kim prayojanam . anādiṣṭārtham . akṛte ekādeśe ādeśāḥ yathā syuḥ iti . kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ . na paratvāt ādeśaiḥ bhavitavyam . bahiraṅgalakṣaṇatvāt . bahiraṅgāḥ ādeśāḥ . antaraṅgaḥ ekādeśaḥ . asiddham bahiraṅgam antaraṅge . saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . katham kṛtvā jñāpakam . indre dvau acau . tatra ekaḥ yasya iti lopena apahriyate aparaḥ ekādeśena . anackaḥ indraḥ saṃvṛttaḥ . tatra kaḥ vṛddheḥ prasaṅgaḥ . paśyati tu ācāryaḥ pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१३।५-८ रो व्,१८२-१८३ अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते , ह्रस्वात् लुप्येत सम्बुद्धिः न हलः प्रकृतम् हि तत् । आपः एत्त्वम् भवेत् तस्मिन् न झलि इति अनुवर्तनात् , प्रत्ययस्थात् च कात् इत्त्वम् शीभावः च प्रसज्यते ।

KA III,313.5-8 Ro V,182-183 adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ na halaḥ prakṛtam hi tat . āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt ca kāt ittvam śībhāvaḥ ca prasajyate .

Sanskrit only: no published translation is held for this verse.