क्अ इइइ,३११।१४-३१२।१३ रो व्,१८०-१८२ अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते । अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते । ह्रस्वात् लुप्येत सम्बुद्धिः । इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत । न हलः । हलः लोपः सम्बुद्धिलोपः । तत् हल्ग्रहणम् कर्तव्यम् । प्रकृतम् हि तत् । प्रकृतम् हल्ग्रहणम् । क्व प्रकृतम् । हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । आपः एत्त्वम् भवेत् तस्मिन् । इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत । न झलि इति अनुवर्तनात् । झलि इति तत्र अनुवर्तते । क्व प्रकृतम् । सुपि च बहुवचने झलि एत् इति । प्रत्ययस्थात् च कात् इत्त्वम् । इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत । न एषः दोषः । प्रश्लिष्टनिर्देशः अयम् । आ , आप् , आप् इति । इह अपि तर्हि न प्राप्नोति । कारिके , हारिके , इति । शीभावः च प्रसज्यते । इह च शीभावः च प्राप्नोति । असौ ब्राह्मणी । आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति । तस्मात् सोः लोपः वक्तव्यः ।
KA III,311.14-312.13 Ro V,180-182 adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate . adasaḥ eva soḥ bhavet autvam kimartham sulopaḥ vidhīyate . hrasvāt lupyeta sambuddhiḥ . iha he asau iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta . na halaḥ . halaḥ lopaḥ sambuddhilopaḥ . tat halgrahaṇam kartavyam . prakṛtam hi tat . prakṛtam halgrahaṇam . kva prakṛtam . halṅyābbhyaḥ dīrghāt sutisyapṛktam hal iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . āpaḥ ettvam bhavet tasmin . iha he asau brāhmaṇi āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta . na jhali iti anuvartanāt . jhali iti tatra anuvartate . kva prakṛtam . supi ca bahuvacane jhali et iti . pratyayasthāt ca kāt ittvam . iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya iti īttvam prasajyeta . na eṣaḥ doṣaḥ . praśliṣṭanirdeśaḥ ayam . ā , āp , āp iti . iha api tarhi na prāpnoti . kārike , hārike , iti . śībhāvaḥ ca prasajyate . iha ca śībhāvaḥ ca prāpnoti . asau brāhmaṇī . āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti . tasmāt soḥ lopaḥ vaktavyaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.