क्अ इइइ,२८९।१९-२९०।५ रो व्,१२४।२-१२ दान्तशान्तयोः किम् निपात्यते । दान्तशान्तयोः उपधादीर्घत्वम् च । किम् च । णिलोपेट्प्रतिषेधौ च । उपधादीर्घत्वम् अनिपात्यम् । वृद्ध्या सिद्धम् । न सिध्यति । मिताम् ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् । एवम् तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवम् अत्र दीर्घत्वम् भविष्यति । न सिध्यति । किम् कारणम् । णिचा व्यवहितत्वात् । णिलोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति । अथ स्पष्टच्छन्नयोः किम् निपात्यते । स्पष्टच्छन्नयोः उपधाह्रस्वत्वम् च । किम् च । णिलोपेट्प्रतिषेधौ
KA III,289.19-290.5 Ro V,124.2-12 dāntaśāntayoḥ kim nipātyate . dāntaśāntayoḥ upadhādīrghatvam ca . kim ca . ṇilopeṭpratiṣedhau ca . upadhādīrghatvam anipātyam . vṛddhyā siddham . na sidhyati . mitām hrasvaḥ iti hrasvatvena bhavitavyam . evam tarhi anunāsikasya kvijhaloḥ kṅiti iti evam atra dīrghatvam bhaviṣyati . na sidhyati . kim kāraṇam . ṇicā vyavahitatvāt . ṇilope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . atha spaṣṭacchannayoḥ kim nipātyate . spaṣṭacchannayoḥ upadhāhrasvatvam ca . kim ca . ṇilopeṭpratiṣedhau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.