क्अ इइइ,२९७।१४-२९८।१२ रो व्,१४१।३-१४२।९ वृतादिप्रतिषेधे च । किम् । कृति उपसङ्ख्यानम् कर्तव्यम् : विवृत्सिता विवृत्सितुम् , विवृत्सितव्यम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । अविशेषेण वृतादिभ्यः इट्प्रतिषेधम् उक्त्वा आत्मनेपदपरः इट् भवति इति वक्ष्यामि । आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम् । आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट् वक्तव्यः । तपरपरे तावत् । विवर्तिषिष्यते । सीयुटि । वर्तिषीष्ट । एकादेशे । वर्तिष्यन्ते , वर्धिष्यन्ते । सिद्धम् तु वृतादीनाम् आत्मनेपदेन समानपदस्थस्य इड्वचनात् । सिद्धम् एतत् । कथम् । वृतादीनाम् आत्मनेपदेन समानप्दस्थस्य इट् भवति इति वक्तव्यम् । चतुस्तासिकॢपिग्रहणानर्थक्यम् च । चतुर्ग्रहणम् च अनर्थकम् । सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते । तासिग्रहणम् च अनर्थकम् । किम् कारणम् । निवृत्तत्वात् सकारस्य । निवृत्तम् सकारादौ इति । तास्ग्रहणे च इदानीम् अक्रियमाणे कॢपिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः । भवेत् कॢपिग्रहणम् न कर्तव्यम् तास्ग्रहणम् तु कर्तव्यम् । यत् हि तत् सकारादौ इति न तत् शक्यम् निवर्तयितुम् तृचि अपि हि प्रसज्येत । वर्तिता , वर्धिता । तास्ग्रहणे च इदानीम् क्रियमाणे कॢपिग्रहणम् अपि कर्तव्यम् अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूत् इति । भवेत् तास्ग्रहणम् कर्तव्यम् कॢपिग्रहणम् तु न एव कर्तव्यम् । अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात् न भवति । परस्मैपदेषु इति वर्तते कॢपेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः । यदि एवम् तास्ग्रहणेन अपि न अर्थः । तृचि कस्मात् न भवति । परस्मैपदेषु इति वर्तते ।
KA III,297.14-298.12 Ro V,141.3-142.9 vṛtādipratiṣedhe ca . kim . kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , vivṛtsitavyam . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . aviśeṣeṇa vṛtādibhyaḥ iṭpratiṣedham uktvā ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi . ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iḍvacanam . ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iṭ vaktavyaḥ . taparapare tāvat . vivartiṣiṣyate . sīyuṭi . vartiṣīṣṭa . ekādeśe . vartiṣyante , vardhiṣyante . siddham tu vṛtādīnām ātmanepadena samānapadasthasya iḍvacanāt . siddham etat . katham . vṛtādīnām ātmanepadena samānapdasthasya iṭ bhavati iti vaktavyam . catustāsikḷpigrahaṇānarthakyam ca . caturgrahaṇam ca anarthakam . sarvebhyaḥ hi vṛtādibhyaḥ pratiṣedhaḥ iṣyate . tāsigrahaṇam ca anarthakam . kim kāraṇam . nivṛttatvāt sakārasya . nivṛttam sakārādau iti . tāsgrahaṇe ca idānīm akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ pañcamaḥ . bhavet kḷpigrahaṇam na kartavyam tāsgrahaṇam tu kartavyam . yat hi tat sakārādau iti na tat śakyam nivartayitum tṛci api hi prasajyeta . vartitā , vardhitā . tāsgrahaṇe ca idānīm kriyamāṇe kḷpigrahaṇam api kartavyam anyebhyaḥ api vṛtādibhyaḥ tāsau mā bhūt iti . bhavet tāsgrahaṇam kartavyam kḷpigrahaṇam tu na eva kartavyam . anyebhyaḥ api vṛtādibhyaḥ tāsau kasmāt na bhavati . parasmaipadeṣu iti vartate kḷpeḥ eva ca tāsparasmaipadaparaḥ na anyebhyaḥ vṛtādibhyaḥ . yadi evam tāsgrahaṇena api na arthaḥ . tṛci kasmāt na bhavati . parasmaipadeṣu iti vartate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.