क्अ इइइ,२९८।१४-२९९।४ रो व्,१४३।२-१४४।५ तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गः अकारवत्त्वात् । तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति । जघसिथ । किम् कारणम् । अकारवत्त्वात् । सः अपि हि अकारवान् । सिद्धम् तु हलादिग्रहणात् । सिद्धम् एतत् । कथम् । हलादिग्रहणम् कर्तव्यम् । तत् च अवश्यम् कर्तव्यम् । अठ्यशी प्रयोजयतः । आथ्यशी तावत् न प्रयोजयतः । किम् कारणम् । तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ । अञ्ज्वशू तर्हि प्रयोजयतः । अञ्ज्वशू च अपि न प्रयोजयतः । किम् कारणम् । तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ । अदिः तर्हि प्रयोजयति । आदिथ । क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति । जघसिथ । एषः अपि हलादिः । तस्य च अभावात् तासौ । तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति । ननु च यः तासौ न अस्ति अनिट् अपि असौ तासौ भवति । न एवम् विज्ञायते यः तासौ अनिट् इति । कथम् तर्हि । यः तासौ अस्ति अनिट् च इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । सप्तम्यर्थे अपि वै वतिः भवति । तत् यथा । मथुरायाम् इव मथुरावत् । पाटलिपुत्रे इव पाटलिपुत्रवत् । एवम् तासौ इव तास्वत् ।
KA III,298.14-299.4 Ro V,143.2-144.5 tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaprasaṅgaḥ akāravattvāt . tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaḥ prāpnoti . jaghasitha . kim kāraṇam . akāravattvāt . saḥ api hi akāravān . siddham tu halādigrahaṇāt . siddham etat . katham . halādigrahaṇam kartavyam . tat ca avaśyam kartavyam . aṭhyaśī prayojayataḥ . āthyaśī tāvat na prayojayataḥ . kim kāraṇam . tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau . añjvaśū tarhi prayojayataḥ . añjvaśū ca api na prayojayataḥ . kim kāraṇam . tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau . adiḥ tarhi prayojayati . āditha . kriyamāṇe api vai halādigrahaṇe atra prāpnoti . jaghasitha . eṣaḥ api halādiḥ . tasya ca abhāvāt tāsau . tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti . nanu ca yaḥ tāsau na asti aniṭ api asau tāsau bhavati . na evam vijñāyate yaḥ tāsau aniṭ iti . katham tarhi . yaḥ tāsau asti aniṭ ca iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . saptamyarthe api vai vatiḥ bhavati . tat yathā . mathurāyām iva mathurāvat . pāṭaliputre iva pāṭaliputravat . evam tāsau iva tāsvat .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.