क्अ इइइ,३०१।१-११ रो व्, १५०-१५१ अथ घसिग्रहणम् किमर्थ न एकाच् इति एव सिद्धम् । घसिग्रहणम् अनच्कत्वात् । घसिग्रहणम् क्रियते लोपे कृते अनच्कत्वात् इट् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । इट् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् इडागमः । नित्यः लोपः । कृते अपि इटि प्राप्नोति अकृते अपि । इट् अपि नित्यः । कृते अपि लोपे प्राप्नोति अकृते अपि । अनित्यः इट् न हि कृते लोपे प्राप्नोति । किम् कारणम् । अनच्कत्वात् । एवम् तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट् भविष्यति । न सिध्यति । किम् कारणम् । द्वित्वात् लोपस्य परत्वात् । द्विर्वचनम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । लोपे कृते अनच्कत्वात् द्विर्वचनम् न प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषः भवति । कथम् । वचनात् इट् भविष्यति । इटि कृते द्विर्वचनम् क्रियताम् लोपः इति यदि अपि परत्वात् लोपः स्थानिवद्भावात् द्विर्वचनम् भविष्यति ।
KA III,301.1-11 Ro V, 150-151 atha ghasigrahaṇam kimartha na ekāc iti eva siddham . ghasigrahaṇam anackatvāt . ghasigrahaṇam kriyate lope kṛte anackatvāt iṭ na prāpnoti . idam iha sampradhāryam . iṭ kriyatām lopaḥ iti kim atra kartavyam . paratvāt iḍāgamaḥ . nityaḥ lopaḥ . kṛte api iṭi prāpnoti akṛte api . iṭ api nityaḥ . kṛte api lope prāpnoti akṛte api . anityaḥ iṭ na hi kṛte lope prāpnoti . kim kāraṇam . anackatvāt . evam tarhi dvirvacane kṛte abhyāse yaḥ akāraḥ tadāśrayaḥ iṭ bhaviṣyati . na sidhyati . kim kāraṇam . dvitvāt lopasya paratvāt . dvirvacanam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . lope kṛte anackatvāt dvirvacanam na prāpnoti . ghasigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . katham . vacanāt iṭ bhaviṣyati . iṭi kṛte dvirvacanam kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt dvirvacanam bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.