क्अ इइइ,३०१।२१-३०२।१० रो व्,१५१।१४-१५२।१० किम् उदाहरणम् । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् । न एतत् अस्ति । न अस्ति अत्र विशेषः सति वा इटि असति वा । इदम् तर्हि । अयंसिष्टाम् , अयंसिषुः , व्यरंसिष्टाम् , व्यरंसिषुः , अनंसिष्टाम् , अनंसिषुः , अयासिष्टाम् , अयासिषुः , अवासिष्टाम् , अवासिषुः । इदम् च अपि उदाहरणम् । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् । ननु च उक्तम् न अस्ति अत्र विशेषः सति वा इटि असति वा इति । अयम् अस्ति विशेषः । यदि अत्र इट् न स्यात् वृद्धिः प्रसज्येत । इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति । मा भूत् एवम् ह्म्यन्तानाम् इति एवम् भविष्यति । अत्र अपि न इटि इति अनुवर्तते । तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् । आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणम् । मा हि यासीत् । यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत । इटि पुनः सति उक्तम् एतत् अर्थवत् तु सिचः चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वम् सिद्धम् भवति ।
KA III,301.21-302.10 Ro V,151.14-152.10 kim udāharaṇam . ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . na etat asti . na asti atra viśeṣaḥ sati vā iṭi asati vā . idam tarhi . ayaṃsiṣṭām , ayaṃsiṣuḥ , vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , avāsiṣṭām , avāsiṣuḥ . idam ca api udāharaṇam . ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . nanu ca uktam na asti atra viśeṣaḥ sati vā iṭi asati vā iti . ayam asti viśeṣaḥ . yadi atra iṭ na syāt vṛddhiḥ prasajyeta . iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati . mā bhūt evam hmyantānām iti evam bhaviṣyati . atra api na iṭi iti anuvartate . tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham . ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam . mā hi yāsīt . yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta . iṭi punaḥ sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.